१२ दुःखपरीक्षा

दुःखपरीक्षा द्वादशमं प्रकरणम् ।

अत्राह- विद्यत एव आत्मा, तत्सम्बन्धिदुःखसद्भावात् । इह हि पञ्चोपादानस्कन्धा दुःखमित्युच्यते, तच्च अस्ति, तेन च दुःखेन कस्यचिद्भवितव्यं न निराश्रयेणेति, अतो विद्यत एव दुःखस्याश्रयः, स चात्मेति । उच्यते । स्यादात्मा यदि दुःखमेव स्यात् । तद्धि भवेत् स्वयं कृतं वा परकृतं वा उभयकृतं वा हेतुरहितं वा । सर्वथा च इष्यमाणं तत्कार्यमेव नास्तीति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥

१ ॥

मूलम्

स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
दुःखमित्येक इच्छन्ति तच्च कार्यं न युज्यते ॥

१ ॥

तत्रैके वादिनः स्वयं कृतं दुःखमिति प्रतिपन्नाः । अपरे पुनः परकृतम्, अन्ये च उभयकृतम्। केचिदहेतुसमुत्पन्नमेव दुःखमिति प्रतिपन्नाः । सर्वथा च तद्दुःखमिष्यमाणं कार्यं कर्तव्यं न युज्यते, तदेतत्प्रतिज्ञामात्रकमिति ॥

१ ॥

तत्प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः सम्भवन्ति प्रतीत्य हि ॥

२ ॥

मूलम्

स्वयं कृतं यदि भवेत्प्रतीत्य न ततो भवेत् ।
स्कन्धानिमानमी स्कन्धाः सम्भवन्ति प्रतीत्य हि ॥

२ ॥

यस्मादिमान् मरणान्तिकान् स्कन्धान् प्रतीत्य इमे औपपत्त्यांशिकाः स्कन्धा उत्पद्यन्ते तस्मात्स्वयं कृतं दुःखमिति नोपपद्यते ॥

२ ॥

इदानीं परकृतमपि दुःखं यथा न सम्भवति, तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

यद्यमीभ्य इमे ऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥

३ ॥

मूलम्

यद्यमीभ्य इमे ऽन्ये स्युरेभ्यो वामी परे यदि ।
भवेत्परकृतं दुःखं परैरेभिरमी कृताः ॥

३ ॥

यदा अमीभ्यो मरणान्तिकेभ्यः स्कन्धेभ्यः इमे औपपत्त्यांशिकाः स्कन्धा अन्ये स्युः, एभ्यो वा औपपत्त्यांशिकेभ्यः अमी मरणान्तिका स्कन्धाः परे स्युः, स्यात्तदानीं परकृतं दुःखम् । न चैषामन्यत्वं दृष्टं हेतुफलसम्बन्धावस्थानात् । वक्ष्यति हि-

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥

इति ।

(प्प्_१०१)
अतः परकृतमपि दुःखं न सम्भवति । यदि हि अन्यत्वं स्यात्, तदा सति अन्यत्वे एतैः परभूतैः स्कन्धैरमी परभूताः कृता इति युक्तं वक्तुं स्यात् । न चैतदेवम्। इति परकृतमपि दुःखं न सम्भवति ॥

३ ॥

अथ स्यात्- न ब्रूमो यस्माद्दुःखेनैव दुःखं कृतम्, अतः स्वयं कृतमिति । किं तर्हि स्वपुद्गलेन यस्मात्स्वयमेव कृतम्, नापरेण कृत्वा दत्तम्, इत्यतः स्वयं कृतं दुःखमिति ब्रूमः । उच्यते-

विश्वास-प्रस्तुतिः

स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥

४ ॥

मूलम्

स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर्विना ।
स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् ॥

४ ॥

यदेतन्मनुष्यदुःखं पञ्चोपादानस्कन्धलक्षणं स्वयं पुद्गलेन कृतमिति परिकल्प्यते, कल्प्यतामसौ पुद्गलो येन तद्दुःखं स्वयं कृतम् । यदि तावद्येन दुःखेन स्वपुद्गलः प्रज्ञप्यते, तदेव दुःखं तेन कृतमिति, स भेदेन कथ्यतामिदं तद्दुःखमयमस्य कर्तेति । अथापि मनुष्यदुःखोपादानेन पुद्गलेन तदेव दुःखं कृतं स्यात्, न तर्हि स्वपुद्गलकृतं तत्, परपुद्गलकृतमेव स्यात् । अथोपादानभेदे ऽपि पुद्गलाभेद इष्यते, एतच्च नास्ति, उपादानव्यतिरिक्तस्य भिन्नस्य पुद्गलस्य दर्शयितुमशक्यत्वात् । एवं तावत् स्वपुद्गलकृतं दुःखं न भवति ॥

४ ॥

अत्राह- क एवमाह स्वपुद्गलकृतं दुःखमिति? किं तर्हि परपुद्गलजं दुःखम् । अन्य एव देवदुःखान्मनुष्यपुद्गलः, मनुष्यपुद्गलश्च देवदुःखं कृत्वा यस्माद्देवपुद्गलाय ददाति, तेन च देवदुःखेन देवपुद्गलः प्रज्ञप्यते, तस्मात्तस्य पुद्गलस्य तद्दुःखं परपुद्गलजमेव भवति । उच्यते-

विश्वास-प्रस्तुतिः

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥

५ ॥

मूलम्

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते ।
परेण कृत्वा तद्दुःखं स दुःखेन विना कुतः ॥

५ ॥

यदि देवदुःखं मनुष्यपुद्गलकृतम्, तेन च मनुष्यपुद्गलेन तद्दुःखं कृत्वा परस्मै देवपुद्गलाय प्रदीयत इति स देवपुद्गलो देवदुःखविनिर्मुक्तः कुतो यस्मै प्रदीयेतेति । एवं तावदपरपुद्गलजस्य दुःखस्य प्रतिग्राहक एव नास्ति ॥

५ ॥

इदानीं यश्च ददाति, असावपि नास्तीत्याह-

विश्वास-प्रस्तुतिः

परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥

६ ॥

मूलम्

परपुद्गलजं दुःखं यदि कः परपुद्गलः ।
विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् ॥

६ ॥

येनोपादानेन स मनुष्यपुद्गलः प्रज्ञप्यते, स मनुष्योपादानव्यतिरिक्तः कतमो यो देवपुद्गलाय देवदुःखं कृत्वा प्रहेष्यति? तस्मात्परपुद्गलजमपि दुःखं न सम्भवति ॥

६ ॥

ततश्च-

विश्वास-प्रस्तुतिः

स्वयङ्कृतस्याप्रसिद्धेर्दुःखं परकृतं कृतः ।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥

७ ॥

मूलम्

स्वयङ्कृतस्याप्रसिद्धेर्दुःखं परकृतं कृतः ।
परो हि दुःखं यत्कुर्यात्तत्तस्य स्यात्स्वयं कृतम् ॥

७ ॥

(प्प्_१०२)
यदि देवपुद्गलदुःखं मनुष्यपुद्गलेन कृतत्वात्परकृतं भवति, ननु, मनुष्यपुद्गलस्य स्वयङ्कृतमेव तद्भवति । एतच्च नास्तीत्युक्तम् । ततः स्वयङ्कृतस्याप्रसिद्धेर्यदा मनुष्यपुद्गलेन स्वयं तद्दुःखं न कृतम्, तदा कुतः परपुद्गलस्य देवाख्यस्य तद्दुःखं परकृतं भविष्यतीति । अतो ऽपि परकृतं दुःखं न सम्भवति ॥

७ ॥

इदानीं प्रकरणान्तरेणापि पक्षद्वयासम्भवं प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥

८ ॥

मूलम्

न तावत्स्वकृतं दुःखं न हि तेनैव तत्कृतम् ।
परो नात्मकृतश्चेत्स्याद्दुःखं परकृतं कथम् ॥

८ ॥

इतश्च स्वपराभ्यां दुःखस्य करणं न युज्यते, यस्मान्न तावत्स्वकृतं दुःखम् । किं कारणम्? यस्मान्न तेनैव हि तत् कृतम्, स्वात्मनि वृत्तिविरोधात्, अतः स्वकृतं नास्ति । न परकृतमपि, यस्माद्यो ऽसौ परः करोतीति परिकल्प्यते, स एव तावन्नात्मना कृतो नात्मना निष्पन्नः तस्यापि हेत्वन्तरापेक्षणात् । यश्च स्वात्मना न निष्पन्नः, स कथमविद्यमानस्वभावः सन् परं करिष्यतीति न युक्तमेतत् ॥

८ ॥

इदानीमुभयकृतमपि दुःखमसदित्याह-

स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि ।

यदि हि एकैकेन दुःखस्य करणं स्यात् स्यात्तदानीमुभाभ्यां कृतं दुःखम् । न चैकैककृतं तत्, उक्तदोषात् । न चैकैकेन प्राणातिपाते कृते द्वाभ्यां कृत इति व्यपदेशो दृष्टः ॥

इदानीं निर्हेतुकमपि दुःखं यथा नास्ति, तथा प्रतिपदयन्नाह-

पराकारास्वयङ्कारं दुःखमहेतुकं कुतः ॥

९ ॥

परेण अकारो अकरणं यस्येति पराकारम् । न स्वयङ्कारो ऽस्येत्यस्वयङ्कारम् । यदि दुःखं स्वयङ्कृतं नास्ति, परकृतमपि नास्ति यथोक्तेन न्यायेन, तदिदानीं कुत एव निर्हेतुकं भविष्यति खपुष्पसौगन्ध्यवत्? दुःखाभावात्कुतस्तस्याश्रयभूत आत्मा ॥

९ ॥

यथा च चतुर्धा विचार्यमाणं दुःखमसत्, एवं बाह्या अपि बीजाङ्कुरघटपटादयो भावा वेदितव्याः, इति प्रतिपादयन्नाह-

न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते ।

सर्वेषां

बाह्यानामपि भावानां चातुर्विध्यं न विद्यते ॥

१० ॥

पूर्ववत्सर्व समं योज्यम् । यदि खल्वेषां दुःखादीनां चातुर्विध्यासम्भवः, तत्कतमेन तर्हि इदानीं प्रकारेण एषां सिद्धिरिति । उच्यते । स्वभावतो यदि एतानि दुःखादीनि स्युः, नियतमेषां चतुर्णां प्रकाराणामन्यतमेन प्रकारेण सिद्धिः स्यात् । न त्वस्ति । तस्मात्स्वभावतो न सन्ति दुःखादीनीत्यवसीयते । अथ विपर्यासमात्रलब्धात्मसत्ताकाया दुःखादिसंवृतेः प्रतीत्यसमुत्पादव्यवस्था (प्प्_१०३) मृग्यते, तदा कर्मकारकपरीक्षाप्रकरणविहितविधिना यथोदितपक्षचतुष्टयतिरस्कारेण इदम्प्रत्ययतामात्रार्थप्रतीत्यसमुत्पादसिद्धया सिद्धिरभ्युपेया । यथोक्तम्-

स्वयङ्कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥

इति ॥

उक्तं च भगवता आर्योपालिपृच्छायाम्-

तथा

संवृति भाषितु धर्म जिनेन संस्कृत ऽसंस्कृत पश्यथ एव ।
नास्तिह भूततु आत्म नरो वा एत्तकु लक्षण सर्वजगस्य ॥

कृष्णशुभं च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् ।
नो ऽपि तु सङ्क्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोति ॥

सर्वि भवा अलिका वसिकाश्च रिक्तक तुच्छक फेनसमाश्च ।
मायमरीचिसमा सद शून्या देशितुः संवृतु ते च विविक्ताः ॥

शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुक जायि प्रतीत्य ।
एविमु संस्कृत सर्वि विजान मायमरीचिसमं जगु सर्वम् ॥

इत्यादि ॥

१० ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ दुःखपरीक्षा नाम द्वादशमं प्रकरणम् ॥

(प्प्_१०४)