पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम् ।
अत्राह- विद्यत एव आत्मा, संसारसद्भावात् । यदि हि आत्मा न स्यात्, कस्य पञ्चगतिके आजवञ्जवीभावेन जन्ममरणपरम्परया संसरणं स्यात्? उक्तं हि भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसारः इति । अविद्यानीवरणानां सत्त्वानां तृष्णासंयोजनानां तृष्णागण्डुरबद्धानां संसरतां सन्धावतां पूर्वा कोटिर्न प्रज्ञायत इति । यदा च भगवदुपदेशात्संसारो ऽस्ति, तदा संसर्ताप्यस्ति । स च आत्मा उच्यत इति । उच्यते । स्यादात्मा, यदा संसार एव स्यात् । कथम्? यस्मादस्य-
विश्वास-प्रस्तुतिः
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥
१ ॥
मूलम्
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्यादिर्नापि पश्चिमम् ॥
१ ॥
कोटिर्भागो देश इति पर्यायाः । पूर्वा कोटिः पूर्वो देश इत्यर्थः । यदि हि संसारो नाम कश्चित् स्यात्, नियतं तस्य पूर्वमपि स्यात्, पश्चिममपि, घटादीनामिव । उक्तं च भगवता- अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति । यदेव अवराग्रे न स्तः, संसारस्य अनवराग्रवचनात्, संसार एव नास्तीति ननु स्पष्टमादेशयामास भगवान् । तस्मान्नास्ति संसारः, पूर्वापरकोटयनुपलम्भात्, अलातचक्रवत्, इति स्थितम् ॥
अत्रेदं विचार्यते- यदि पूर्वं चापरं च संसारस्य निषिद्धं भगवता, कथं पुनरिदमाह- तस्मात्तर्हि संसारक्षयाय प्रतिपत्स्यामह इत्येवं वो भिक्षवः शिक्षितव्यम्, इति? उच्यते । अविद्यानीवरणानां सत्त्वानामित्यादिविशेषणोपादानात्तेषामेवायमनवराग्रः संसार इति प्रतीयते, न पुनस्तत्त्वज्ञानानिलबलात् समुन्मूलिताविद्यानीवरणतरूणाम् । तेषां तु लोकोत्तरमार्गज्ञानाग्निना दग्धाशेषक्लेशवासनामूलनिःशेषपादपानां भवत्येव अन्तः इति विज्ञेयम् ॥
कथं पुनरादिरहितानामन्तोपदेश इति यावत् । दृष्टमेतद् बाह्येषु व्रीह्यादिषु आद्यभावे ऽपि दहनादिसम्पर्कादन्तसद्भावः । यथोक्तमार्यदेवपादैः-
यथा बीजस्य दृष्टो ऽन्तो न चादिस्तस्य विद्यते ।
तथा कारणवैकल्याज्जन्मनो ऽपि न सम्भवः ॥
इति ।
स च अन्तोपदेशो लौकिक एव व्यवहारे स्थित्वा संसारचारकावबद्धानामुत्साहनार्थं सत्त्वानां देशितो लौकिकज्ञानापेक्षया । वस्तुकचिन्तायां तु संसार एव नास्ति, तत्कुतो ऽस्य परिक्षयः? प्रदीपावस्थायां रज्जूरगपरिक्षयवत् ॥
(प्प्_९६)
अत्राह- यद्येवं लौकिकज्ञानापेक्षया अन्तवद् आदिरपि किं नोच्यते? उच्यते । अहेतुकदोषप्रसङ्गात् लौकिकज्ञानापेक्षयापि संसारस्यादेरभाव इत्युभयथाप्यादेरभाव एवेति विज्ञेयम् ॥
१ ॥
अत्राह- यद्यापि अवराग्रे न स्तः संसारस्य, तथापि मध्यमस्ति, अप्रतिषेधात् । ततश्च अस्ति संसारो मध्यसद्भावात् । इह यन्नास्ति, न तस्य मध्यमस्ति तद्यथा कूर्मरोमप्रावरणस्येति । हास्यः खल्वसि । ननु च भोः,
नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् ।
अग्रमिति आदिः, पूर्वम्, प्रथमम् उच्यते । अवरमिति अवसानम्, अन्तः, व्यवच्छेद उच्यते । यस्य संसारस्य आदिरन्तश्च प्रतिषिद्धः, तस्य कुतो मध्यं भविष्यति? ततश्च सञ्ज्ञामात्रकमेव विपर्यासपरवशमानसानां संसारः आदिमध्यावसानविरहितत्वादाकाशवदलातचक्रादिवदिति भावः । संसाराभावाच्च नास्ति आत्मेति । यत एवं संसारस्यादिमध्यावसानानि न सन्ति, अत एव संसाराभावाज्जातिजरामरणादीनां पूर्वापरसहक्रमा अपि नैव सन्तीत्याह-
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः ॥
२ ॥
यथा च नोपपद्यन्ते तथा प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥
३ ॥
मूलम्
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥
३ ॥
यदि पूर्वं जातिर्भवेत्, तदा मरणसहिता स्यात् । न च जरादिरहिता जातिर्युज्यते, असंस्कृतत्वप्रसङ्गात् । जरामरणरहितस्य भावस्य जातौ परिकल्प्यमानायामन्यत्र अमृतस्यैव देवदत्तस्य प्रथममिह जातिः परिकल्प्यमाना स्यात् । ततश्च आदिमान् संसारः स्यादहेतुकदोषश्च । अभूवमतीतमध्वानम्, इत्येवं पूर्वान्तकल्पना च न स्यात् । अभूत्वा च पूर्वं पश्चादिहोत्पादः स्यात् ॥
अथ स्यात्- आम्रादीनां यथा पूर्वं विनापि जरामरणसम्बन्धात् प्रथममेव उत्पादो दृष्टः, एवमात्मानो ऽपीति । नैवम् । साध्यसमत्वात् । आम्रादीनामपि हि स्वबीजनिरोधे समुत्पद्यमानत्वात् नान्यत्राविनष्टानामुत्पाद इति सममेतत् पूर्वेण ॥
अथ स्यात्- अन्यदेव वृक्षाद्बीजम्, अतो ऽन्यत्राविनाशपूर्वक एव वृक्षस्योत्पाद इति नैवम् । कार्यकारणयोरन्यत्वस्यासिद्धत्वात् । तथा च वक्ष्यति-
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
न च बीजाद्वृक्षस्यान्यत्वम् । अतः साध्यसममेतत् । यतश्च अन्यत्रामृतस्य इहोत्पादो नास्ति, न पूर्वं जातिरभ्युपेया ॥
३ ॥
(प्प्_९७)
अथ पूर्वं जरामरणम्, पश्चाज्जातिः, एवमपि-
विश्वास-प्रस्तुतिः
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥
४ ॥
मूलम्
पश्चाज्जातिर्यदि भवेज्जरामरणमादितः ।
अहेतुकमजातस्य स्याज्जरामरणं कथम् ॥
४ ॥
जातिप्रत्ययं जरामरणमिति वचनाज्जातिहेतुकं जरामरणमुक्तं भगवता । यदि एतत्पूर्वं स्यात्तदा निर्हेतुकं स्यात् । तस्मान्न युक्तमेतत् । यतो ऽप्युक्तम्-
यथ उक्खित्ते लोढम्मि उक्खेवे अत्थि कारणं ।
षडने कारणं णत्थि अण्णं उक्खेवकारणा ॥
इति ।
यथाष्यत्रोत्क्षेपः पतनकारणं नान्यत्, एवमिहापि जातिमेवकारणत्वेन विनाशस्य वर्णयामो नान्यत्, इति नास्त्यहेतुकता विनाशस्य । जातिहेतुकत्वाच्चास्योद्गमनमेव विनाशस्य हेतुरिति कृत्वा एषापि गाथा सुनीता भवति-
एविमे सङ्खता धम्मा सम्भवन्ति सकारणा ।
स भाव एव धम्माणं यं विभोन्ति समुग्गता ॥
इति ॥
४ ॥
इदानीं सहभावेनापि जातिजरामरणानामसद्भावं प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
न जरामरणेनैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥
५ ॥
मूलम्
न जरामरणेनैव जातिश्च सह युज्यते ।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः ॥
५ ॥
यदि सहभावो जातिजरामरणानां स्यात्, तदा जायमानस्य मरणं स्यात् । न चैतद्युक्तम् । न च परस्परविरुद्धत्वादालोकान्धकारवदेककालता युक्ता । न चैवं लोके दृष्टं यज्जायमान एव म्रियते इति । अपि च । अहेतुकत्वं जात्यादीनां सहभावकल्पनायां स्यात् । न हि सहभूतयोः सव्येतरगोविषाणयोरन्योन्यहेतुकता दृष्टेति न युक्तमेतत् ॥
५ ॥
तदेवम्-
विश्वास-प्रस्तुतिः
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥
६ ॥
मूलम्
यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः ।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम् ॥
६ ॥
यस्यां जातौ यत्र जरामरणे एते पूर्वापरसहक्रमाः न सन्ति, तां जातिमनुपलभमाना आर्याः किं प्रपञ्चयन्ति? किंशब्दो ऽसम्भवे । नैव प्रपञ्चयन्तीत्यर्थः । अथवा । एवमविद्यमानेषु जात्यादिषु तां जातिभविद्यमानां बालाः किं प्रपञ्चयन्ति तच्च जरामरणं यन्न संविद्यते? तस्मादवस्तुक एव बालानां प्रपञ्च इत्यभिप्रायः ॥
६ ॥
(प्प्_९८)
यथा च संसारस्य पूर्वा कोटिर्नास्ति, एवमन्येषामपि भावानामित्याह-
विश्वास-प्रस्तुतिः
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च ।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥
७ ॥
मूलम्
कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च ।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन ॥
७ ॥
विश्वास-प्रस्तुतिः
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥
८ ॥
मूलम्
पूर्वा न विद्यते कोटिः संसारस्य न केवलम् ।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते ॥
८ ॥
तत्र यदि पूर्वं कारणं पश्चात्कार्यं स्यात्, अकार्यकं कारणं निर्हेतुकं स्यात् । अथ पूर्वं कार्यं पश्चात्कारणम्, एवमपि कारणात्पूर्वं कार्यं निर्हेतुकमेव स्यात् । अथ युगपत्कार्यकारणे स्याताम्, एवमुभयमप्यहेतुकं स्यात् । एवं लक्ष्यलक्षणे वेदनावेदकौ च योज्यौ । न च केवलं संसारस्य व्याख्यानेन कार्यकारणादिकं व्याख्यातं वेदितव्यम्, अपि च ये ऽप्यन्ते पदार्था ज्ञानज्ञेयप्रमाणप्रमेयसाधनसाध्यावयवावयविगुणगुण्यादयः, तेषामपि पूर्वा कोटिर्न विद्यत इति योज्यम् ॥
अत एव आर्यरत्नमेघसूत्रे आर्यसर्वनीवरणविष्कम्भिणा महाबोधिसत्त्वेन भगवान् स्तुतः-
आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव च निर्वृताः ।
धर्मास्ते विवृता नाथ धर्मचक्रप्रवर्तने ॥
इति
तथा-
आदित शून्य अनागत धर्मा नो गत अस्थित स्थानविविक्ताः ।
नित्यमसारक मायसभावाः शुद्ध विशुद्ध नभोपम सर्वि ॥
यं च पभाषति धर्म जिनस्य तं च न पश्यति सो ऽक्षयताय ।
आदिनिरात्म निसत्त्विमि धर्मास्तांश्च च पभाषति नो च क्षपेति ।
कल्पित बुच्चति कल्पितमात्रं अन्तु न लभ्यति संसरमाणे ।
कोटि अलक्षण या पुरि आसीदेति अनागति प्रत्ययताये ॥
कर्म क्रिया च प्रवर्तति एवं हीनौत्कृष्टतया समुदेन्ति ।
(प्प्_९९)
जड्डक धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् ॥
इत्यादि ॥
।
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वापरकोटिपरीक्षा नामैकादशमं प्रकरणम् ॥
(प्प्_१००)