१० अग्नीन्धनपरीक्षा

अग्नीन्धनपरीक्षा दशमं प्रकरणम् ।

अत्राह- यदिदमुक्तं तस्मात्कर्मकारकवदेव उपादानोपादात्रोरपि न स्वाभाविकी सिद्धिरिति, तदयुक्तम्, सापेक्षाणामपि पदार्थानां सस्वाभाव्यदर्शनात् । तथा हि अग्निरिन्धनमपेक्ष्य भवति । न च निःस्वभावो ऽग्निः, तस्य औष्ण्यदाहकत्वादिस्वभावकार्योपलम्भात् । एवमग्निमपेक्ष्य इन्धनं भवति । न च तन्निःस्वभावम्, बाह्यमहाभूतचतुष्टयस्वभावत्वात् । एवमुपादानसापेक्षो ऽप्युपादाता स्वभावतो भविष्यति, उपादातृसापेक्षं चोपादानमित्यग्नीन्धनवदेतौ भविष्यत उपादानोपादाताराविति । उच्यते । स्यादेतदेवम्, यदि अग्नीन्धने एव स्याताम्, न तु स्तः । कथम्? इह यदि अग्नीन्धने स्याताम्, नियतं ते एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा तु न युज्यत इत्याह-

विश्वास-प्रस्तुतिः

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥

१ ॥

मूलम्

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ॥

१ ॥

तत्र इध्यते यत् तदिन्धनम्, दाह्यं काष्ठादिकसम्भूतम् । तस्य दग्धा कर्ता अग्निः । तत्र यदि तावद् यदिन्धनं स एवाग्निरिति परिकल्प्यते, तदा कर्तृकर्मणोरेकत्वं स्यात् । न चैवं दृष्टम्, घटकुम्भकारयोश्छेत्तृच्छेत्तव्ययोश्चैकत्वप्रसङ्गात्, तस्य चानभ्युपगमात् । अथ अन्यत्वम्, एवमपि यदि इन्धनादन्यो ऽग्निः स्यात्, तदा इन्धननिरपेक्षस्याग्नेरुपलब्धिः स्यात् । न हि घटादन्यः पटस्तन्निरपेक्षो न दृष्टः । न चैवमिन्धननिरपेक्षो ऽग्निरिति न युक्तमेतत् ॥

१ ॥

अपि च । यदि इन्धनादन्यो ऽग्निः स्यात्, तदानीम्-

विश्वास-प्रस्तुतिः

नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥

२ ॥

मूलम्

नित्यप्रदीप्त एव स्यादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥

२ ॥

इन्धनात्पृथग्भूतो ऽग्निरिष्यमाणो नित्यप्रदीप्त एव स्यात्, अप्रदीपनहेतुकश्च स्यात् पुनरारम्भवैयर्थ्यं च स्यात्, एवं च सति अकर्मक एव स्यात् ॥

२ ॥

अमुमेवार्थं प्रतिपादयितुकाम आह-

विश्वास-प्रस्तुतिः

परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥

३ ॥

मूलम्

परत्र निरपेक्षत्वादप्रदीपनहेतुकः ।
पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते ॥

३ ॥

इति । तत्र प्रदीप्यते तदिति प्रदीपनमिन्धनम् । प्रदीपनं हेतुरस्येति प्रदीपनहेतुक, न प्रदीपनहेतुकः अप्रदीपनहेतुकः । यदि प्रदीपनादन्यो ऽग्निः स्यात्, तदा इन्धननिरपेक्षः स्यात् । यो हि यस्मादन्यः, स तन्निरपेक्षो दृष्टः, घटादिव पटः । ततश्च परत्र निरपेक्षत्वादप्रदीपनहेतुकः स्यात्, प्रदीपनसापेक्षस्य हि अग्नेः तदभावे स्यान्निर्वाणम् । यदा तु प्रदीपननिरपेक्ष, तदा निर्वाणप्रत्ययवैकल्यान्नित्यप्रदीप्त एव भवेत् । नित्यप्रदीप्ते चाग्नौ सति अग्नेरपरिनिर्वाणार्थं (प्प्_८७) चास्य उपादानसन्धुक्षणादिकं व्यर्थमेव स्यात् । एवं च सति अकर्मको ऽग्निः कर्ता स्यात् । न च अविद्यमानकर्मकस्य कर्तृत्वं वन्ध्यासुतस्येव । तस्मादिन्धनादग्नेरन्यत्वमिति न युज्यते ॥

३ ॥

अत्राह- यदेतदुक्तम्-

अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ।

इति, तदयुक्तम् । इहान्यत्वे ऽपि सति अग्नीन्धनयोर्न विनैव इन्धनेन अग्नेरस्तित्वम् । यस्माज्ज्वालापरिगतो ऽर्थो दाह्यत्वलक्षणः इन्धनम् । तदाश्रयेण च अग्निरुपलभ्यते न पृथक् । यदा चैतदेवम्, अग्निसम्बन्धादेवेन्धनव्यपदेशो भवति, इन्धनाश्रयेण चाग्निरुपलभ्यते न पृथक्, तदा अन्यश्चेदिन्धनादग्निरित्यादिदोषप्रसङ्गस्य नास्त्येवावसर इति । अस्य पक्षस्याष्ययुक्ततामुद्भावयन्नाह-

विश्वास-प्रस्तुतिः

तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् ।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥

४ ॥

मूलम्

तत्रैतस्मादिध्यमानमिन्धनं भवतीति चेत् ।
केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ॥

४ ॥

यदि मन्यसे ज्वालापरिगतो ऽर्थो दाह्यलक्षणः इन्धनम्, तदाश्रयश्चाग्निरिति, एवमपि परिकल्प्यमाने इन्धनमग्निर्दहतीति नोपपद्यते । यस्मात्

केनेध्यतामिन्धनं तत्तावन्मात्रमिदं यदा ।

इहेन्धनमग्निर्दहतीति परिकल्प्यमाने ज्वालापरिगतं दाह्यमिन्धनमिति, न चैतद्वयतिरेकेणापरमग्निं पश्यामो येनेन्धनं दह्येत । यस्मादेतावन्मात्रमिदमुपलभ्यते यदुत ज्वालापरिगतं दाह्यमात्रम् । यदा चैतद्वयतिरिक्तो नास्त्यग्निः, तदा केन तदिन्धनं दाह्यताम्? तावन्मात्रमिदं यदा, इध्यमानमात्रमिदं यदेत्यर्थः । तस्मान्नाग्निरिन्धनं दहति तद्वयतिरिक्ताग्न्यभावात् । यदा चैवम्, तदा कुतः कस्यचिज्ज्वालापरिगतिरिति स एव दोषो न वेपते ॥

४ ॥

अपि च । अन्यत्वाभ्युपगमे ऽग्नीन्धनयोरिध्यमानव्यपदेशाभावात्कुत इध्यमानमिन्धनम्, कुतो वा इन्धनमग्निर्धक्ष्यतीति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अन्यो न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनः ।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥

५ ॥

मूलम्

अन्यो न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनः ।
न निर्वास्यत्यनिर्वाणः स्थास्यते वा स्वलिङ्गवान् ॥

५ ॥

यदि इन्धनादन्यो ऽग्निः स्यात्, सो ऽन्यत्वादन्धकारमिवेन्धनं न प्राप्नुयात् । न च धक्ष्यति अप्राप्तत्वाद्विप्रकृष्टदेशावस्थितमिवेत्यभिप्रायः । एवं च इध्यमानमिन्धनं भवतीति नोपपन्नमेव । ततश्च अग्नेर्निर्वाणं न स्यात् । अनिर्वाणश्च स्वलिङ्गवानेव स्थास्यति, प्रदीप्त इत्यर्थः । वाशब्दो ऽवधारणे द्रष्टव्यो विकल्पार्थो वा । स्वलिङ्गवानेव अग्निः स्थास्यति, यदि वा नास्त्यन्यत्वमग्नेरिन्धनादिति । समुच्चये वा । अन्यो न प्राप्स्यति न धक्ष्यति न च निर्वास्यति स्वलिङ्गवांश्च स्थास्यति । तस्मादयुक्तमिन्धनादन्यत्वमग्नेः ॥

५ ॥

(प्प्_८८)
अत्राह- अयुक्तमग्नीन्धनयोरन्यत्वम्, यस्मान्न प्राप्स्यते ऽप्राप्तो न धक्ष्यत्यदहन् पुनरित्यादि, तदयुक्तम् । दृष्टा हि अन्यत्वे स्त्रीपुरुषयोः प्राप्तिः, एवमग्नीन्धनयोरपि भविष्यतीति । उच्यते-

विश्वास-प्रस्तुतिः

अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि ।
स्त्री सम्प्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥

६ ॥

मूलम्

अन्य एवेन्धनादग्निरिन्धनं प्राप्नुयाद्यदि ।
स्त्री सम्प्राप्नोति पुरुषं पुरुषश्च स्त्रियं यथा ॥

६ ॥

स्यादेतदेवम्, यदि स्त्रीपुरुषवत्परस्परानपेक्षा अग्नीन्धनयोः सिद्धिः स्यात् ॥

६ ॥

न त्वस्तीत्याह-

विश्वास-प्रस्तुतिः

अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् ।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥

७ ॥

मूलम्

अन्य एवेन्धनादग्निरिन्धनं काममाप्नुयात् ।
अग्नीन्धने यदि स्यातामन्योन्येन तिरस्कृते ॥

७ ॥

न त्वेवं सम्भवति यदिन्धननिरपेक्षो ऽग्निः स्यात्, अग्निनिरपेक्षं चेन्धनमिति । तस्माद् दृष्टान्तवैयर्थ्यम् । अन्योन्यापेक्षाधीनजन्मनां सत्यन्यत्वे येषां प्राप्तिः सिद्धा, तेषामेव दृष्टान्तत्वेनोपादानं न्याय्यं स्यात् । ते च न सम्भवन्तीति न युक्तमेतदन्यत्वे सति प्राप्तिरस्तीति ॥

७ ॥

अत्राह- यद्यपि अग्नीन्धनयोः स्त्रीपुरुषवत्परस्परनिरपेक्षा सिद्धिर्नास्ति, तथापि परस्परापेक्षा तावदस्ति । ततश्च अस्त्येवाग्नीन्धनयोः स्वरूपसिद्धिः परस्परसापेक्षत्वात् । न हि अविद्यमानयोर्वन्ध्यापुत्रदुहित्रोः परस्परापेक्षता दृष्टेति । उच्यते । एवमपि-

विश्वास-प्रस्तुतिः

यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् ।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥

८ ॥

मूलम्

यदीन्धनमपेक्ष्याग्निरपेक्ष्याग्निं यदीन्धनम् ।
कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ॥

८ ॥

अस्येन्धनस्य अयमग्निर्दाहकः कर्ता, इत्येवं यदि इन्धनमपेक्ष्याग्निर्व्यवस्थाप्यते, अस्याग्नेरिदमिन्धनं कर्मेत्येवमग्निमपेक्ष्य यदीन्धनम्, तत् कतरदनयोः पूर्वनिष्पन्नम्? किमिन्धनं यदपेक्ष्याग्नि स्यात्, उत अग्निर्यमपेक्ष्येन्धनं स्यात्? तत्र यदि इन्धनं पूर्वनिष्पन्नमिति कल्प्यते, तदयुक्तम्, अग्निनिरपेक्षस्य अनिध्यमानस्येन्धनत्वाभावात्, तृणादेः सर्वस्य चैव इन्धनत्वप्रसङ्गात् । अथ पूर्वमग्निः पश्चादिन्धनमिति, तदप्ययुक्तम्, इन्धनात्पूर्वसिद्धस्याग्नेरसम्भवात्, निर्हेतुकत्वप्रसङ्गात् । पश्चाच्चापेक्षया निष्प्रयोजनत्वात् । तस्मान्नास्ति अत्र किञ्चित्पूर्वसिद्धं यदपेक्ष्य इतरस्य सिद्धि स्यात् ॥

८ ॥

अथापि मन्यसे- पूर्वमिन्धनं पश्चादग्निरिति, एवमपि

यदीन्धनमपेक्ष्याग्निरग्नेः सिद्धस्य साधनम् ।

भविष्यति । यदि इन्धनमपेक्ष्याग्निर्भविष्यतीति परिकल्प्यते, एवं तर्हि सिद्धस्य सतो ऽग्नेः पुनरपि साधनं स्यात् । विद्यमानस्यैव पदार्थस्य सिद्धरूपस्यापेक्षा युज्यते । न हि अविद्यमानो देवदत्तो गृहे कञ्चिदपेक्षते । एवं यदि अग्निर्विद्यमानो न स्यात्, नासाविन्धनमपेक्षते । तस्मादस्तित्वमग्ने रम्भुपेयम् । तदा च किमस्य इन्धनस्यापेक्षया पुनः कर्तव्यम्? न हि सिद्धो ऽग्निः पुनरिन्धनेन (प्प्_८९) कर्तव्यो यदर्थमिन्धनापेक्षासाफल्यं स्यात् । तस्मादिन्धनमपेक्ष्याग्निर्भवतीति न युक्तम् ।

अपि च । यदि इन्धनमपेक्ष्याग्निर्भवतीति परिकल्प्यते-

एवं सतीन्धनं चापि भविष्यति निरग्निकम् ॥

९ ॥

यदि इन्धनमसिद्धं स्यात्, नैव तदग्निना अपेक्ष्येत, असिद्धस्यापेक्षायोगात् । तस्मान्निरग्निकस्येन्धनस्य सिद्धिरभ्युपेया, न चैवमेतदिति न युक्तमेतदिति ॥

९ ॥

अथ मतम्- यौगपद्येनैव इन्धनसिद्धया अग्निसिद्धिः, अग्निसिद्धया च इन्धनसिद्दिः । ततश्च एकस्यापि पूर्वसिद्धयनभ्युपगमात्, तत्र यदुक्तम्-

कतरत्पूर्वनिष्पन्नं यदपेक्ष्याग्निरिन्धनम् ।

इति, तदयुक्तमिति । उच्यते । एवमपीष्यमाणे उभयस्यापि नास्ति सिद्धिः । यस्मात्-

विश्वास-प्रस्तुतिः

यो ऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति ।
यदि यो ऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥

१० ॥

मूलम्

यो ऽपेक्ष्य सिध्यते भावस्तमेवापेक्ष्य सिध्यति ।
यदि यो ऽपेक्षितव्यः स सिध्यतां कमपेक्ष्य कः ॥

१० ॥

तत्र यदि यः अग्न्याख्यो भावः यमिन्धनाख्यं भावमपेक्ष्य सिध्यति, इन्धनाख्यश्च भावः यो ऽग्निना आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेव अग्न्याख्यं पदार्थमपेक्ष्य सिध्यति, कथ्यतामिदानीं सिध्यतां कमपेक्ष्य कः इति । यदा च अग्न्यभावे सति इन्धनस्य सिद्धिरेव नास्ति, तदा अकारणस्येन्धनस्याभावात् कुतस्तद्धेतुको ऽग्निः प्रसेत्स्यति? एवं य इन्धनाख्यो भावः यमग्न्याख्यं भावमपेक्ष्य सिध्यति, अग्न्याख्यश्च भावो यः इन्धनाख्येन आत्मसिद्धयर्थमपेक्षितव्यः, स यदि तमेवेन्धनाख्यं भावमपेक्ष्य सिध्यति, कथ्यतां किमिदानीं सिध्यतां कमपेक्ष्य कः इति । यदा हि इन्धनाभावे सति अग्नेः सिद्धिर्नास्ति, तदा निष्कारणस्याग्नेरभावात् कुतस्तद्धेतुकमिन्धनम्? ॥

१० ॥

इतश्च अग्नीन्धनयोः परस्परापेक्षयापि सिद्धिरसती, सिद्धासिद्धयोरपेक्षाभावादिति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् ।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥

११ ॥

मूलम्

यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् ।
अथाप्यपेक्षते सिद्धस्त्वपेक्षास्य न युज्यते ॥

११ ॥

यो हि अग्न्याख्यो भावः इन्धनाख्यं भावमपेक्ष्य सिध्यति, सः असिद्धो वा इन्धनमपेक्षते सिद्धो वा? यदि असिद्धः, तदा असिद्धत्वात् खरविषाणवन्नेन्धनमपेक्षेत । अथ सिद्धः, सिद्धत्वात् किमस्येन्धनापेक्षया? न हि सिद्धं पुनरपि साध्यते वैयर्थ्यात् । एवमिन्धने ऽपि वाच्यम् । तस्मान्नाग्नीन्धनयोः परस्परापेक्षया यौगपद्येन वा सिद्धिरिति ॥

११ ॥

यतश्चैवम्, तस्मात्-

अपेक्ष्येन्धनमग्निर्न

अथ स्यात्- अनपेक्ष्याग्निस्तर्हि भविष्यतीति । एतदपि न युक्तमित्याह-

(प्प्_९०)
नानपेक्ष्याग्निरिन्धनम् ।

अन्यत्वप्रतिषेधादहेतुकत्वप्रसङ्गाच्च । यथा च अग्निरपेक्ष्य वा अनपेक्ष्य वा इन्धनं सम्भवति, एवमिन्धनमपीत्याह-

अपेक्ष्येन्धनमग्निं न नानपेक्ष्याग्निमिन्धनम् ॥

१२ ॥

एतच्च अनन्तरमेव गतार्थत्वान्न पुनरुच्यते ॥

१२ ॥

अत्राह- किमनया अस्माकमतिसूक्ष्मेक्षिकया प्रयोजनम्, ये वयं ब्रूमः- यस्मादग्निना इध्यमानमिन्धनं प्रत्यक्षत उपलभ्यते, तस्मात्ते एव अग्नीन्धने इति । उच्यते । स्यादेतदेवम्, यदि अग्निरिन्धनं दहेत् । यदि इन्धने ऽग्निः सम्भवेत्, स इन्धनं दहेत् । न तु सम्भवतीत्याह-

आगच्छत्यन्यतो नाग्निरिन्धने ऽग्निर्न विद्यते ।

इन्धनव्यतिरिक्तात्तावत्कुतश्चिदन्यतो ऽग्नेरागमनं नास्ति, तस्य अदृष्टत्वात् । निरिन्धनस्य चाहेतुकस्याग्नेरागमनाभावात्, सेन्धनस्य चागमने प्रयोजनाभावात्, तत्रापि चेन्धने तुल्यपर्यनुयोगात्, अनवस्थाप्रसङ्गाच्च आगच्छत्यन्यतो नाग्निः । तथा इन्धने ऽप्यग्निर्न सम्भवति तत्रानुपलभ्यमानत्वात् ।

अथ स्यात्- विद्यमानस्यापि मूलोदकादिवदभिव्यञ्जकप्रत्ययवैकल्यात्पूर्वमनुपलभ्यमानत्वम्, अरणिनिघर्षणादभिव्यञ्जकप्रत्ययसम्भवात्तु पश्चादुपलब्धिरिति । इदमेव तावत्सम्प्रधार्यते- किं पुनर्मूलोदकादीनामभिव्यञ्जकैः प्रत्ययैः क्रियत इति । तत्र स्वरूपं तावन्न क्रियते विद्यमानत्वात् अभिव्यक्तिः क्रियत इति चेत्, केयमभिव्यक्तिर्नाम? प्रकाशतेति चेत्, एवं तर्हि सैव क्रियते पूर्वमविद्यमानत्वादस्याः । सत्कार्यवादत्यागश्चैवं जायते अभिव्यक्तेः पूर्वमविद्यमानत्वात्पश्चाच्च भावात् । स्वरूपस्य चोत्पत्तिप्रत्ययनिरपेक्षत्वात्खपुष्पवदभिव्यक्तिप्रत्ययसापेक्षतापि न स्यात् । अपि च इयमभिव्यक्तिरभिव्यक्तस्य वा भावस्य परिकल्प्येत अनभिव्यक्तस्य वा? तत्र तावद् यदभिव्यक्तं तन्नाभिव्यज्यते, तस्याभिव्यक्तिवैयर्थ्यात् अनिष्टदोषप्रसङ्गाच्च । अनभिव्यक्तमपि नाभिव्यज्यते खपुष्पवदनभिव्यक्तत्वात् । इत्येवमभिव्यक्तिर्न सम्भवति ॥

अथापि स्यात्- विद्यमानस्यैव प्रत्ययैः स्थौल्यं क्रियते इति, एवमपि यदेव स्थौल्यं पूर्वं नास्तीति तदेव क्रियत इति कुतः स्थौल्यापादनमभिव्यक्तिः? सौक्ष्म्यस्य च निर्हेतुकस्यासम्भवात् कस्य स्थूलतापादनादभिव्यक्तिः स्यादिति । तदेवं सर्वथा इन्धने अग्नेर्न सम्भव इति इन्धने ऽग्निर्न विद्यते । न चाविद्यमानाग्निना इन्धनस्य दहनमुपजायते इत्यसत्यमेवैतदुपलभते भवान् ।

अपि च । यथा पूर्वं गतागतगम्यमानानां दूषणमुक्तम्-

अत्रेन्धने शेषमुक्तं गम्यमानगतागतैः ॥

१३ ॥

अग्निना इन्धनं दह्यमानमुपलभ्यते इत्यत्र इन्धनप्रस्तावे शेषं दूषणं गम्यमानगतागतदूषणेन वेदितव्यम्, उक्तपाठविपर्ययेण-

(प्प्_९१)
दग्धं न दह्यते तावददग्धं नैव दह्यते ।
दग्धादग्धविनिर्मुक्तं दह्यमानं न दह्यते ॥

इत्यादिना । यत एवम्, अतो नास्त्यग्निना इन्धनस्य दहनमिति वेदितव्यम् ॥

१३ ॥

इदानीं यथोपपादितमर्थं निगमयन्नाह-

विश्वास-प्रस्तुतिः

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥

१४ ॥

मूलम्

इन्धनं पुनरग्निर्न नाग्निरन्यत्र चेन्धनात् ।
नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ॥

१४ ॥

तत्र

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।

भवेत्, इत्यनेन अग्नीन्धनयोरकत्वप्रतिषेधात्

इन्धनं पुनरग्निर्न,
अन्यश्चेदिन्धनादग्निरिन्धनादप्यृते भवेत् ।

इत्यादिना अन्यत्वस्य प्रतिषेधात्

नाग्निरन्यत्र चेन्धनात् ।

तत्त्वान्यत्वोभयपक्षप्रतिषेधादेव तद्वत्पक्षाधाराधेयपक्षाणामप्यर्थतः प्रतिषिद्धत्वात्तानपि निगमयन्नाह-

नाग्निरिन्धनवान्नाग्नाविन्धनानि न तेषु सः ।

इति । तत्राग्निरिन्धनवान्न भवति । इन्धनमस्यास्मिन् वा विद्यत इति व्यतिरेकेण वा व्युत्पादेन अव्यतिरेकेण वा । तत्र व्यतिरेकेण- तद्यथा गोमान् देवदत्तः । अव्यतिरेकेण- बुद्धिमान् देवदत्तो रूपवानित्यादि । अग्नीन्धनयोश्च पक्षद्वयस्यापि प्रतिषिद्धत्वादिन्धनवानग्निरिति प्रतिषेधो विहितः । अन्यच्च । कुण्डं दध्न आधारतां प्रतिपद्यते । न चेन्धनादन्यत्वमग्नेरस्तीति नाग्नाविन्धनानीति युज्यते । नापि इन्धने ऽस्त्यग्निः, अन्यत्वप्रतिषेधादिति । एवमाधाराधेयताप्रतिषेधो ऽप्यर्थत उपपादित एव ॥

१४ ॥

यथा चाग्निः पञ्चधा विचार्यमाणो न सम्भवति, एवमात्मापि, इत्यतिदिशन्नाह-

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः ।
सर्वो निरवशेषेण

तत्र उपादीयते इत्युपादानं पञ्चोपादानस्कन्धाः । यस्तानुपादाय प्रज्ञप्यते, स उपादाता ग्रहीता निष्पादक आत्मेत्युच्यते । अहङ्कारविषयत्वादाहित उत्पादितो ऽहम्मानो ऽस्मिन्निति । तदस्यात्मन उपादानस्य च यः क्रमः सिद्धिः, स सर्वो ऽग्नीन्धनाभ्यां व्याख्यातो ऽवगन्तव्यो निरवशेषेण ॥

(प्प्_९२)
कः पुनः सर्वस्य निरवशेषस्य च भेदः? सर्वग्रहणेनैव पञ्च पक्षाः समनन्तरप्रक्रान्त अभिसम्बध्यन्ते । सर्वे एते पञ्चापि पक्षाः अग्नीन्धनवदात्मोपादानयोरप्यविकला ढौकनीयाः । यश्चैया प्रतिपादने उपपत्तिक्रमः प्रागुपवर्णितः, तेन निरवशेषेण आत्मोपादानयोः प्रतिषेधो वेदितव्यः इत्यनेन सर्वात्मना प्रतिषेधसाम्यमग्नीन्धनाभ्यामात्मोपादानयोर्वेदितव्यमित्युपदर्शनार्थं सर्वो निरव शेषेणेत्याह । तत्र यदेवोपादानं स एव आत्मा, इत्येवं कर्तृकर्मणोरेकत्वप्रसङ्गान्न युज्यते नाप्यन्यदुपादानमन्य उपादाता, स्कन्धव्यतिरेकेणाप्यात्मोपलब्धिप्रसङ्गात्, परत्र निरपेक्षत्वादित्यादिप्रसङ्गाच्च । एकत्वान्यत्वप्रतिषेधाच्च स्कन्धवानष्यात्मा न भवति । अन्यत्वाभावाच्च नात्मनि स्कन्धा न स्कन्धेष्वात्मा । यत एवं पञ्चसु प्रकारेषु आत्मनो न सत्त्वम्, तस्मात्कर्मकारकवदेव आत्मोपादानयोः परस्परापेक्षिकी सिद्धिरिति स्थितम् ॥

यश्चायमात्मोपादानयोः क्रमः, स नानयोरेव, किं तर्हि-

सार्धं घटपटादिभिः ॥

१५ ॥

निरवशेषैः पदार्थैः सर्वथा व्याख्यातो वेदितव्यः । घटादयो हि कार्यकारणभूत अवयवावयविभूता लक्षणलक्ष्यभूता गुण्नगुणिभूता वा स्युः । तत्र मृद्दण्डचक्रसूत्रसलिलकुलालकरव्यायामादयो घटस्य कारणभूताः, घटः कार्यभूतः । कपालादयो नीलादयो वा अवयवभूताः घटो ऽवयवी । पृथुबुध्नलम्बौष्ठदीर्घग्रीवत्वादीनि लक्षणानि घटो लक्ष्यः। श्यामत्वादयो गुणाः, घटो गुणी । इत्येवं व्यवस्थाप्य अग्नीन्धनवत् क्रमो योज्यः । एषां च घटादीनामात्मोपादानयोश्च मध्यमकावतारप्रकरणाद् व्याख्यानमवसेयम् ॥

१५ ॥

तदेवं कर्मकारकवदात्मोपादानयोर्घटादीनां च परस्परापेक्षिक्यां सिद्धौ व्यवस्थितायां तथागतवचनाविपरीतार्थावबोधाभिमानितया तीर्थ्यमतोपकल्पितपदार्थव्यवस्थां सौगतप्रवचनार्थत्वेनोपनीय अतिमूढतया-

विश्वास-प्रस्तुतिः

आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् ।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥

१६ ॥

मूलम्

आत्मनश्च सतत्त्वं ये भावानां च पृथक्पृथक् ।
निर्दिशन्ति न तान्मन्ये शासनस्यार्थकोविदान् ॥

१६ ॥

तत्र सह तेन वर्तत इति सतत्, सततो भावः सतत्त्वम्, अपृथक्त्वम्, अनन्यत्वम् एकत्वमित्यर्थः । तदेतत् सतत्त्वं ये वर्णयन्ति, न तानाचार्यः शासनार्थपण्डितान् मन्यते । तद्यथा- आत्मा उपादानेन प्रज्ञप्यते येन, सहैव तेनोपादानेन सम्भवति । स न पृथक् । अव्यतिरेकेणैव भवतीत्यर्थः । एवं येन कारणेन मृदादिना घटः प्रज्ञप्यते, तदव्यतिरेकेणैव स भवति, न पृथक् । एवमात्मनो भावानां च सतत्त्वं ये वर्णयन्ति, न ते परमगम्भीरस्य प्रतीत्यसमुत्पादस्थ शाश्वतोच्छेदरहितस्य उपादायप्रज्ञप्त्यभिधानस्य तत्त्वं पश्यन्ति । पृथक् पृथक् च ये निर्दिशन्ति, पृथगित्यात्मानम्, पृथगुपादानम्, पृथक् कार्यम्, पृथक् कारणम्, इत्यादिना अन्यत्वं पश्यन्ति, अमूनपि न शासनस्यार्थकोविदानाचार्यो मन्यते । यथोक्तम्-

(प्प्_९३)
एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् ।
सङ्क्रान्तिमासाद्य गतं बुद्धवांस्त्वमनिन्दितः ॥

एवं च अग्नीन्धनपरीक्षया अधिगतधर्मतत्त्वपरमस्य योगिनः कल्पेनाकालालिप्सितैरपि नैव वपुर्दह्यते रागद्वेषमोहहुताशनैरपि वा इति । यथोक्तं भगवता-

यथ गगणु न जातु दग्धपूर्वं सुबहुभि कल्पशतैर्हि दह्यमानम् ।
गगनसम विजानमान धर्मान् सो ऽपि न दह्यति जातु साग्निमध्ये ॥

सर्वि हि ज्वलमाणि बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा ।
ज्वलत अयु प्रशाम्यतामशेष पृथिवि विनश्यिपि नैवस्यान्यथात्वम् ॥

तथा
अरणिं यथ चोत्तरारणिं हस्तव्यायामु त्रयेभि सङ्गतिः ।
इति प्रत्ययतो ऽग्नि जायते जातु कृतु कार्य लघू निरुध्यते ॥

अथ पण्डितु कश्चि मार्गते कुत अयमागतु कुत्र याति वा ।
विदिशो दिश सर्वि मार्गतो नागतिर्नास्य गतिश्च लभ्यति ॥

स्कन्धायतनानि धातवः शून्य आध्यात्मिक शून्य बाहिराः ।
सर्वात्मविविक्तनालया धर्म आकाशसभावलक्षणाः ॥

इमु ईदृश धर्मलक्षणा बुद्ध दीपङ्करदर्शने त्वया ॥

(प्प्_९४)
अनुबुद्ध यथ त्वयात्मना तथ बोधेहि सदेवमानुषान् ॥

विपरीतअभूतकल्पितै रागदोषैः परिदह्यते जगत् ।
कृपमेघशमाम्बुशीतलां मुञ्च धाराममृतस्य नायक ॥

इति विस्तरः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ अग्नीन्धनपरीक्षा नाम दशमं प्रकरणम् ॥

(प्प्_९५)