०९ पूर्वपरीक्षा

पूर्वपरीक्षा नवमं प्रकरणम् ।

अत्राह- यदुक्तम्- ऽएवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः । कर्तुश्चऽ; इति, तदयुक्तम् । यस्मात्-

विश्वास-प्रस्तुतिः

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सो ऽस्तीत्येके वदन्त्युत ॥

१ ॥

मूलम्

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति यस्य प्रागेभ्यः सो ऽस्तीत्येके वदन्त्युत ॥

१ ॥

यस्य उपादातुः दर्शनश्रवणघ्राणरसनादीनि वेदनास्पर्शमनस्कारादीनि च भवन्ति, स उपादाता पूर्वमेभ्य उपादानेभ्यो ऽस्तीति साम्मितीया वदन्ति ॥

१ ॥

किं कारणम्? यस्मात्-

विश्वास-प्रस्तुतिः

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सो ऽस्ति भावो व्यवस्थितः ॥

२ ॥

मूलम्

कथं ह्यविद्यमानस्य दर्शनादि भविष्यति ।
भावस्य तस्मात्प्रागेभ्यः सो ऽस्ति भावो व्यवस्थितः ॥

२ ॥

इह विद्यमान एव देवदत्तो धनोपादानं कुरुते नाविद्यमानो वन्ध्यातनयः । एवं यदि तावत्पुद्गलो दर्शनादिभ्यः पूर्वं व्यवस्थितो न स्यात्, नासौ दर्शनादिकस्योपादानमकरिष्यत् । तस्मादस्ति असौ धनात्प्रागेव स्थितदेवदत्तवत् दर्शनादिभ्यः पूर्वं पुद्गलो यो ऽस्य उपादानं करिष्यतीति ॥

२ ॥

उच्यते-

विश्वास-प्रस्तुतिः

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः ॥

३ ॥

मूलम्

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च ।
यः प्राग्व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः ॥

३ ॥

यौ ऽसौ पुद्गलो दर्शनादिभ्यः पूर्वमस्तीति व्यवस्थाप्यते, स केन प्रज्ञप्यताम्? पुद्गलप्रज्ञप्तेर्हि दर्शनादिकं कारणम् । स यदि तेभ्यः प्राग्व्यवस्थितो ऽस्तीति कल्प्यते, तदा दर्शननिरपेक्षः स्याद् घटादिव पटः । यश्च स्वकारणनिरपेक्षः स निर्हेतुको धनादिनिरपेक्षः धनिकवन्नास्तीत्यभिप्रायः ॥

३ ॥

किं चान्यत्-

विश्वास-प्रस्तुतिः

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥

४ ॥

मूलम्

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः ।
अमून्यपि भविष्यन्ति विना तेन न संशयः ॥

४ ॥

यदि मन्यसे- दर्शनादिभ्यः पूर्वं पुद्गलो नामास्ति, स दर्शनादिकमुपादानमुपादत्ते इति । नन्वेवं सति निरस्तसंशयममून्यपि दर्शनादीनि विना पुद्गलेन भविष्यन्ति । तथाहि देवदत्तो धनसम्बन्धात्पूर्वं धनव्यतिरिक्तो व्यवस्थितः सन् अर्थान्तरभूतमेव पृथक्सिद्धं धनमुपादत्ते । एवमुपादातुरपि स्वात्मव्यतिरेकेणार्थान्तरभूतं दर्शनादिकमुपादानं स्यात् ॥

४ ॥

न तु सम्भवतीत्याह-

विश्वास-प्रस्तुतिः

अज्यते केनचित्कश्चित् किञ्चित्केनचिदज्यते ।
कुतः किञ्चिद्विना कश्चित् किञ्चित्कञ्चिद्विना कुतः ॥

५ ॥

मूलम्

अज्यते केनचित्कश्चित् किञ्चित्केनचिदज्यते ।
कुतः किञ्चिद्विना कश्चित् किञ्चित्कञ्चिद्विना कुतः ॥

५ ॥

(प्प्_८२)
इह बीजाख्येन कारणेन किञ्चित्कार्यमभिव्यज्यते ऽङ्कुराख्यम्, तेन च कार्येण किञ्चित् कारणमभिव्यज्यते बीजाख्यम्- अस्येदं कारणमिदमस्य कार्यमिति । एवं यदि केनचिद्दर्शनादिकेनोपादानेन कश्चिदात्मस्वभावो ऽभिव्यज्यते अस्यायमुपादातेति, केनचिच्चात्मना किञ्चिदुपादानं दर्शनादिकमभिव्यज्यते इदमस्योपादानमिति, तदानीं स्यात्परस्परापेक्षयोरुपादानोपादात्रोः सिद्धिः यदा तु उपादातारं विना पृथक् सिद्धं दर्शनादिकमभ्युपगम्यते, तदा तन्निराश्रयमसदेव तस्मान्नास्त्युभयोरपि सिद्धिः, इति न युक्तमेतत्- दर्शनादिभ्यः पृथगवस्थित उपादातेति ॥

५ ॥

अत्राह- यदुक्तं दर्शनश्रवणादिभ्य इत्यादि, अत्रोच्यते । यदि सर्वेभ्यो दर्शनादिभ्य प्रागवस्थित इत्यभ्युपगतं स्यात्, स्यादेष दोषः । यदा तु-

सर्वेभ्यो दर्शनादिभ्यः कश्चित्पूर्वो न विद्यते ।

किं तर्हि एकैकस्मात्पूर्वो विद्यते । यदा चैवम्, तदा-

अज्यते दर्शनादीनामन्येन पुनरन्यदा ॥

६ ॥

यदा दर्शनेन द्रष्टेत्यभिव्यज्यते, न तदा श्रवणादीन्युपादाय प्रज्ञप्यते, ततश्च पूर्वोक्तदोषानवसर इति ॥

६ ॥

उच्यते । एतदपि न युक्तं दर्शनादिरहितस्य निरुपादानस्य निर्हेतुकस्य निरञ्जनस्यास्तित्वासम्भवात् ।

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते ।

इति परिकल्प्यते, एवमपि-

एकैकस्मात्कथं पूर्वो दर्शनादेः स विद्यते ॥

७ ॥

यो हि सर्वेभ्यः पूर्वो न भवति, स एकैकस्मादपि न भवति । तद्यथा सर्वेभ्यो वृक्षेभ्य प्राग् वनं नास्ति, तदा एकैकस्मादपि नास्ति । सर्वासां च सिकतानां तैलजननाभावे सति एकैकस्या अपि सिकतायास्तैलं नास्ति । अपि च । यो ह्येकैकस्मात्पूर्वो भवति, ननु स सर्वेभ्यो ऽपि पूर्वं एवेत्यभ्युपगतं भवति । एकैकव्यतिरेकेण सर्वस्याभावात् । तस्मान्न युक्तमेकैकस्मात्पूर्वो विद्यत इति ॥

७ ॥

इतश्च न युक्तम्- यस्मात्-

द्रष्टा स एव स श्रोता स एव यदि वेदकः ।

तदा-

एकैकस्माद्भवेत्पूर्वं

न च युक्तं वक्तुं स एव द्रष्टा स एव श्रोतेति । यदि स्यात्, तदा दर्शनक्रियारहितस्यापि श्रोतुर्द्रष्ट्टत्वं स्यात्, श्रवणक्रियारहितस्यापि द्रष्टुः श्रोतृत्वं स्यात् । न चैवं दृष्टं यद्दर्शनक्रियारहितो ऽपि द्रष्टा स्यात्, श्रवणक्रियारहितश्च श्रोतेति । अत एवाह-

(प्प्_८३)
एवं चैतन्न युज्यते ॥

८ ॥

इति । प्रतिक्रियं च कारकभेदात्कुत एतदेवं भविष्यतीति प्रतिपादयन्नाह- एवं चैतन्न युज्यत इति ॥

आचार्यबुद्धपालितस्तु व्याचष्टे- एकत्वे हि आत्मनः इन्द्रियान्तरगमनप्रसङ्गः पुरुषस्य स्यात्, वातायनान्तरोपगमनवदिति । अस्य आचार्यभावविवेको दूषणमाह- सर्वगतस्यात्मनो नेन्द्रियान्तरगमनमस्तीत्ययुक्तः प्रसङ्गदोष इति । तदेतदयुक्तं स्वयूथ्यपरिकल्पितपुद्गलवादनिरासस्य प्रस्तुतत्वात्, तस्य च सर्वगतत्वाप्रतिज्ञानात् । तस्माद् युक्त एव प्रसङ्गदोष ॥

८ ॥

अथापि यथोक्तदोषपरिजिहीर्षया-

द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर्यदि ।

परिकल्प्यते, तदपि न युक्तम् । एवं हीष्यमाणे-

सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् ॥

९ ॥

तद्यथा गोरन्यो ऽश्वः न हि गवि सति न भवति यौगपद्येन, एवं यदि द्रष्टुरन्यः श्रोता स्यात्, सद्रष्टर्यपि सति स्याद्यौगपद्येन । न चैवमिष्यते इति नास्त्यन्यत्वम् । अपि च । एवं सति बहव एवात्मानः प्राप्नुवन्ति द्रष्ट्टश्रोतृवेदकादीनां पृथक् पृथक् सिद्धयुपगमात् । तस्मादेकैकस्मादपि दर्शनादेः पूर्वं नास्ति पुद्गलो नाम कश्चित् ॥

९ ॥

अत्राह- विद्यत एव पूर्वं स सर्वेभ्यो दर्शनादिभ्य आत्मा । अथ मतम्- यद्यस्ति, केन प्रज्ञप्यते स इति यदुच्यते, इह दर्शनादिभ्यः पूर्वं नामरूपावस्थायां चत्वारि महाभूतानि सन्ति यतः क्रमान्नामरूपप्रत्ययं षडायतनमिति दर्शनश्रवणादीन्युत्पद्यन्ते । तस्माद्दर्शनादिभ्यः पूर्वं चतुर्महाभूतोपादानमेवास्तीति । एवमपि-

विश्वास-प्रस्तुतिः

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥

१० ॥

मूलम्

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
भवन्ति येभ्यस्तेष्वेष भूतेष्वपि न विद्यते ॥

१० ॥

येभ्यो महाभूतेभ्यो दर्शनादिकमुत्पद्यते, तेष्वपि महाभूतोपादाननिमित्तको ऽप्येष न युज्यते पूर्वेणैव हेतुनेत्यभिप्रायः । तत्र यथा पूर्वमुक्तम्-

कुतः किञ्चिद्विना कश्चित्किञ्चित्कञ्चिद्विना कुतः ।

इति, इहापि तथैव वक्तव्यम् । महाभूतोपादानाद्यश्चात्मा पूर्वं सिद्धः स्यात्, स महाभूतान्युपादाय स्यात् । न चैवम्, निर्हेतुकत्वात् । यश्च नास्ति, स कथं महाभूतान्युपादास्यति? इति दर्शनोपादानवद्भूतोपादाने ऽपि दूषणमुक्तमेवेति न पुनरुच्यते ॥

१० ॥

अत्राह- यद्यप्येवमात्मा प्रतिषिद्धः, तथापि दर्शनादिकमस्ति, अप्रतिषेधात् । न च अनात्मस्वभावानां घटादीनां दर्शनादिसम्बन्धो ऽस्ति । तस्मात्सम्बन्धी विद्यत एवात्मेति । उच्यते । स्यादात्मा यदि दर्शनादीन्येव स्युः । न तु सन्ति । यस्य दर्शनादीन्युपादानं स यदा नास्तीति (प्प्_८४) प्रतिपादितम्, तदा तस्मिन्नात्मनि उपादातरि असति, कुतो दर्शनादीनामुपादानभूतानामस्तित्वमित्याह-

विश्वास-प्रस्तुतिः

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥

११ ॥

मूलम्

दर्शनश्रवणादीनि वेदनादीनि चाप्यथ ।
न विद्यते चेद्यस्य स न विद्यन्त इमान्यपि ॥

११ ॥

यस्य दर्शनादीनि परिकल्प्यन्ते स यदा नास्तीत्युक्तम्, ननु तदैव दर्शनादिकमपि नास्तीति स्पष्टमादर्शितं भवति । ततश्च दर्शनाद्यभावान्नास्त्येवात्मेति ॥

११ ॥

अत्राह- किं खलु भवतो निश्चितमेतन्नास्त्येवात्मेति? केन एतदुक्तम्? ननु च अनन्तरमेवोक्तं दर्शनाद्यभावादात्मापि नास्तीति । उक्तमेतदेस्माभिः । न तु अस्यार्थो भवता सम्यग्निश्चितः । यतो भावरूप आत्मेति परिकल्पितः, स स्वभावतो न विद्यते, तस्य च मया स्वभावाभिनिवेशनिवर्तकमेव वचनमुक्तमसद्विपर्यासप्रतिपक्षेण, न तु अस्य अभावः परिकल्पितः । द्वयं ह्येतत् परित्याज्यं यश्च भावेष्वभिनिवेशः, यश्च अभावेषु अभिनिवेश इति । यथोक्तमार्यदेवेन-

यस्तवात्मा ममानात्मा तेनात्मानियमान्न सः ।
नन्वनित्येषु भावेषु कल्पना नाम जायते ॥

इति ॥

११ ॥

एतदेव प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

प्राक् च यो दर्शनादिभ्यः साम्प्रतं चोर्ध्वमेव च ।
न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥

१२ ॥

मूलम्

प्राक् च यो दर्शनादिभ्यः साम्प्रतं चोर्ध्वमेव च ।
न विद्यते ऽस्ति नास्तीति निवृत्तास्तत्र कल्पनाः ॥

१२ ॥

प्राक् तावद्दर्शनादिभ्य आत्मा नास्ति, तत्र हि तस्यास्तित्वाभावात् । दर्शनादिसहभूतो ऽपि नास्ति, पृथक्पृथगसिद्धयोः सहभावादर्शनात् शशशृङ्गयोरिव । आत्मोपादानयोश्च परस्परनिरपेक्षयो पृथक्पृथगसिद्धत्वात् साम्प्रतमपि नास्ति । उर्ध्वमपि । यदि हि पूर्वं दर्शनादीनि स्युः, उत्तरकालमात्मा स्यात्, तदानीमूर्ध्वं सम्भवेत् । न चैवम्, अकर्तृकस्य कर्मणो ऽसिद्धत्वात् । यश्चैवमात्मा दर्शनादिभ्यः प्राक् पश्चाद् युगपच्च परीक्ष्यमाणो नास्ति, तस्य इदानीमनुपलब्धस्वभावस्य अस्तित्वं नास्तित्वं वा कः परिकल्पयेत्प्राज्ञः? तस्मात्कर्मकारकवदेव उपादानोपादात्रोः परस्परापेक्षा सिद्धिर्न स्वाभाविकीति स्थितम् ॥

अत एवोक्तं भगवता आर्यसमाधिराजभट्टारके-

तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् ।
सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥

(प्प्_८५)
न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः ।
मायोपमा गगनविद्युसमा दकचन्द्रसन्निभ मरीचिसमाः ॥

न च अस्मि लोकि मृतु कश्चि नरो परलोक सङ्क्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥

न च शाश्वतं न च उच्छेद पुनो न च कर्मसञ्चयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥

न च सङ्क्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः ।
न च दृष्टिस्थानगतिशुद्धिरिह न च सत्त्वचारसुपशान्तगति ॥

अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं बुद्धानियं वृषमिता परमा ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ पूर्वपरीक्षा नाम नवमं प्रकरणम् ॥

(प्प्_८६)