०८ कर्मकारकपरीक्षा

कर्मकारकपरीक्षा अष्टमं प्रकरणम् ।

अत्राह- विद्यन्त एव संस्कृतस्वभावतो विज्ञानादयः संस्कृता धर्माः, तद्धेतुककर्मकारकसद्भावात् । उक्तं हि भगवता-

अविद्यानुगतो ऽयं भिक्षवः पुरुषपुद्गलः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि, आनिञ्जयानपि संस्कारानभिसंस्करोति ।

इत्यादिना कर्मणां कारको व्यपदिष्टः, तत्कर्मफलं च विज्ञानादिकमुपदिष्टम् । यस्य च कारको ऽस्ति, तदस्ति, तद्यथा घटः । यन्नास्ति, न तस्य कारकः, तद्यथा कूर्मरोमप्रावारस्येति । उच्यते । स्याद्विज्ञानादिकं संस्कृतं यदि तस्य निष्पादककर्मकारकौ स्याताम् । न तु स्तः । यस्मात्-

विश्वास-प्रस्तुतिः

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥

१ ॥

मूलम्

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् ।
कारको नाप्यसद्भूतः कर्मासद्भूतमीहते ॥

१ ॥

तत्र करोतीति कारकः कर्ता । कुर्वाणस्यैव किञ्चित् कारकव्यपदेशो नाकुर्वाणस्य । तच्च करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा? क्रियते इति कर्म कर्तुरीप्सिततमम् । तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतो ऽपि क्रियाकारकरहितो ऽसद्भुतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा ॥

१ ॥

तत्राद्यां प्रसाधयितुमाह-

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म कुर्यात् । क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् । न चाकर्तृकं कर्म सम्भवति बन्ध्यासूनोरिव घटकरणमिति । एवं तावत्

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति ।

इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह-

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ॥

२ ॥

सद्भूतं नाम कर्म क्रियायुक्तम् । तस्येदानीं क्रियानिबन्धनलब्धकर्मव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म क्रियेतेति । एवं तावत्सद्भूतस्य कर्मणः क्रिया नास्ति । यदा नास्ति परा क्रिया, तदा कारकस्तत्सद्भूतं कर्म नैव करोति । यदा च न करोति कर्मणो द्वितीयक्रियाभावात्, तदा (प्प्_७६) अकर्मक एव अविद्यमानकर्मक एव तस्य कर्मणः कारकः स्यात् । न चैतद्यक्तम् । न हि अकृतानन्तर्यकर्मणः आनन्तर्यकर्मकारकत्वं दृष्टमिति ॥

२ ॥

एवं सद्भूतः कारकः सद्भूतं कर्म न करोति इति संसाध्य इदानीं यथा असद्भूतमपि कर्म असद्भूतः कारको न करोति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

करोति यद्यसद्भूतो ऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥

३ ॥

मूलम्

करोति यद्यसद्भूतो ऽसद्भूतं कर्म कारकः ।
अहेतुकं भवेत्कर्म कर्ता चाहेतुको भवेत् ॥

३ ॥

असद्भूतः कारको यः क्रियारहितः । क्रिया च कारकव्यपदेशे हेतुरिति क्रियारहित कारको ऽपि निर्हेतुकः स्यात् । कर्माप्यसद्भूतं निर्हेतुकं स्यात् ॥

३ ॥

सति च अहेतुकवादाभ्युपगमे कार्यं च कारणं च सर्वमपोदितं स्यादित्याह-

हेतावसति कार्यं च कारणं च न विद्यते ।

सत्येव हि हेतोरभ्युपगमे हेतुना यन्निष्पाद्यते तत् कार्यम्, तस्य च यो निष्पादकः तत्कारणमिति युज्यते । तद्यथा घटस्य मृद् हेतुः, घटः कार्यम्, तस्य च चक्रादयः सहकारिकारणम् । अहेतुकवादाभ्युपगमे तु हेत्वनपेक्षत्वान्मण्डूकजटाशिरोमणिमयघटवन्न स्यादयं घटः । असति घटे कुतस्तत्कारणमिति । एवम्-

हेतावसति कार्यं च कारणं च न विद्यते ।

ततश्च-

तदभावे क्रिया कर्ता करणं च न विद्यते ॥

४ ॥

तदभावे कार्यकारणभावे, किं कुर्वाणस्य क्रिया सम्भवेत्, कस्यां वा क्रियायां कुम्भकारस्य स्वातन्त्र्यात्कर्तृत्वं स्यात्? न चापि मृदां तादात्म्यप्रवृत्त्या साधकतमत्वेन करणत्वं युज्यत इति एवं तावत्-

तदभावे क्रिया कर्ता करणं च न विद्यते ॥

ततश्च-

धर्माधर्मौ न विद्येते क्रियादीनामसम्भवे ।

इह यदा देवदत्तः प्राणातिपातविरतिक्रियास्वातन्त्र्यात्कर्ता सन् स्वतन्त्रकार्येण करणभूतेन प्राणातिपातविरतिक्रियां करोति, तदास्य धर्म उपजायते । एवं दशस्वपि कुशलेषु कर्मपथेषु कुशलक्रियानिष्पाद्येषु रत्नत्रयमातापितृतदन्यपूज्यपूजादिलक्षणेषु च कुशलधर्मप्रारम्भेषु योज्यम् । एवमधर्मे ऽपि प्राणातिपातादिलक्षणे कुशलविपर्ययेण क्रियाकर्तृकरणानामभावे सति कर्मणामभावप्रसङ्ग उद्भावनीयः ॥

यदा चैवं धर्माधर्मौ न सम्भवतः, तदा तत्फलमपि नास्त्येवेति प्रतिपादयन्नाह-

(प्प्_७७)
धर्मे चासत्यधर्मे च फलं तज्जं न विद्यते ॥

५ ॥

धर्माधर्मजनितमिष्टानिष्टफलं सुगतिदुर्गत्योर्धर्माधर्मयोरभावे सति न स्यात् ॥

५ ॥

ततश्च-

फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः

यदि हि फलमिष्टानिष्टं स्यात, स्याल्लौकिकस्य मार्गस्य ध्यानारूप्यसमाधिसमापत्तिलक्षणं स्वर्गः, तदानीं तदर्थं लौकिकमार्गभावना ज्यायसी स्यात्, कुगतिगमनकर्मपथविरतिसाफल्यं च स्यात् । यदि च मोक्षलक्षणं निर्वाणं फलं स्यात्, तदर्थ लोकोत्तरार्याष्टाङ्गमार्गभावनासाफल्यं स्यात् । यदा तु फलं नास्ति, तदा-

फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते ।
मार्गः ।

किं च । एवं फलाभावे सति-

सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते ॥

६ ॥

या अपि ह्येताः कृषिवाणिज्यबल (भृति?) गतादिकाः क्रियाः फलार्थ प्रारभ्यन्ते, ता अपि सर्वाः फलाभावे सति नोपपद्यन्त इति । एवं सर्वक्रियाणां नैरर्थक्यं प्रसज्यते भवताम् । न चासां नैरर्थक्यम् । तस्मान्निरवशेषदोषविषवृक्षाकरभूतो ऽयं स्वर्गापवर्गापवादी नरकादिमहापायप्रपातवर्तनहेतुः दृष्टादृष्टहेतुपदार्थविरोधीति कृत्वा, सद्धिः असद्भूतः कारको ऽसद्भूतं कर्म करोतीति पक्षो निकृष्ट एवेति त्याज्यः ॥

६ ॥

तदेवं प्रतिज्ञाद्वयं संसाध्य इदानीमुभयरूपः कारकः, उभयरूपमपि कर्म न करोतीत्याह-

कारकः सदसद्भूतः सदसत्कुरुते न तत् ।

तत्र यदेतदसद्भूतं कर्म क्रियायुक्तमक्रियायुक्तं च, तत् सदसद्भूतः कारको न करोतीति । यस्मात्-

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ॥

७ ॥

एकः पदार्थः एकस्मिन् काले क्रियायुक्तश्चाक्रियायुक्तश्चेति न युज्यत एवैतत् । ततश्च सदसद्भूतो ऽपि कारकः सदसद्भूतं कर्म न करोति, अविद्यमानत्वादित्यभिप्रायः ॥

७ ॥

एवं समे पक्षे दूषणमुद्भाव्य विषमपक्षस्यापि निराचिकीर्षया आह-

(प्प्_७८)
सता च क्रियते नासन्नासता क्रियते च सत् ।
कर्त्रा

सता सद्भूतेन तावत्कर्त्रा क्रियायुक्तेन असद्भूतमसदक्रियायुक्तं कर्म न क्रियते । यस्मात्-

सर्वे प्रसज्यन्ते दोषास्तत्र त एव हि ॥

८ ॥

सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।

इत्येवं तावत् सद्भूतः कारकः कर्म न करोति, नाप्यसद्भूतं कर्म क्रियते । असद्भूतं हि कर्म अहेतुकं भवेत् । ततश्च-

हेतावसति कार्यं च कारणं च न विद्यते ॥

इत्यादिना सर्वं दूषणमापद्यते । तस्मात्पूर्वोक्तैरेव हेतुभिर्दूषितत्वादस्य विषमपक्षस्य न पुनर्हेतोरुपादानमनुष्ठीयते । यथा चैतत् सता कर्त्रा असत्कर्म न क्रियते इति प्रतिपादितम्, एवमसता कर्त्रा अक्रियायुक्तेन सत्कर्म न क्रियते इति व्याख्येयमुक्तपथानुसारेण ॥

८ ॥

एवं तावद्विषमपक्षे एकैकपदपरामर्शेन दूषणमभिधाय इदानीमेकैकस्य पदस्य पदद्वय परामर्शेन दूषणाभिधानमाह-

विश्वास-प्रस्तुतिः

नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥

९ ॥

मूलम्

नासद्भूतं न सद्भूतः सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥

९ ॥

स कारकः सद्भूतः असद्भूतं कर्म सदसद्भूतमेव वा न करोतीति । कथमित्याह- पूर्वोक्तैरेव हेतुभिरिति । तत्र ऽसद्भूतस्य क्रिया नास्तिऽ; इत्यादिना सद्भूतः कारको न करोति । असद्भूतमपि कर्म न क्रियते ऽअहेतुकं भवेत्कर्मऽ; ऽहेतावसति कार्यं चऽ; इत्यादिना विहितदोषात् । सदसद्भूतमपि कर्म न क्रियते-

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः

इति वचनात् । एवं तावत्सद्भूतः कारको ऽसद्भूतं सदसद्भुतं च कर्म न करोति ॥

९ ॥

इदानीमसद्भूतो ऽपि कारकः सद्भूतं कर्म सदसद्भूतं च कर्म न करोतीत्याह-

विश्वास-प्रस्तुतिः

नासद्भूतो ऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥

१० ॥

मूलम्

नासद्भूतो ऽपि सद्भूतं सदसद्भूतमेव वा ।
करोति कारकः कर्म पूर्वोक्तैरेव हेतुभिः ॥

१० ॥

असद्भूतः कारको निर्हेतुको भवेत् । ऽहेतावसति कार्यं चऽ; इत्यादिना उक्तदोषादसद्भूतः कारको न करोति ।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ।

इति प्रसङ्गात् सद्भूतं कर्म न क्रियते । सदसद्भूतमपि कर्म न क्रियते,

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ।

इति वचनात् ॥

१० ॥

(प्प्_७९)
इदानीं सदसद्भूतो ऽपि कारकः एकैक एवोभयरूपः सन् यथा सद्भूतमसद्भूतं च भिन्नसङ्केतं कर्म न करोति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

करोति सदसद्भूतो न सन्नासच्च कारकः ।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥

११ ॥

मूलम्

करोति सदसद्भूतो न सन्नासच्च कारकः ।
कर्म तत्तु विजानीयात्पूर्वोक्तैरेव हेतुभिः ॥

११ ॥

परस्परविरुद्धं हि सच्चासच्चैकतः कुतः ।

इति वचनात्सदसद्भूतः कारको न करोति ।

सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः ।

इति प्रसङ्गात्सद्भूतं कर्म न क्रियते । असद्भूतमपि कर्म अहेतुकं ऽहेतावसति कार्य चऽ; इत्यादिनोक्तदोषान्न क्रियते । यतश्चैवं समपक्षेषु विषमपक्षेषु च कर्तुः कर्मणश्च सर्वथा सिद्धिरयुक्ता, तस्माद्यदुक्तं विद्यन्त एव विज्ञानादयः संस्कृता धर्माः संस्कृतस्वभावाः तद्धेतुककर्मकारकसद्भावादिति, तदयुक्तम् ॥

अत्राह- किमवधारितमेतद्भवता न सन्ति भावा इति? न हि । भवतस्तु सस्वभाववादिनः स्वभावस्य भावानां वैधुर्यात्सर्वभावापवादः सम्भाव्यते । वयं तु प्रतीत्योत्पन्नत्वात्सर्वभावानां स्वभावमेवनोपलभामहे, तत्कस्यापवादं करिष्यामः? यथोक्तमार्यरत्नावल्याम्-

मरीचि तोयमित्येतदिति मत्वागतो ऽत्र सन् ।
यदि नास्तीति तत्तोयं गृह्णीयान्मूढ एव सः ॥

मरीचिप्रतिमं लोकमेवमस्तीति गृह्णतः ।
नास्तीति चापि मोहो ऽयं सति मोहे न मुच्यते ॥

विश्वास-प्रस्तुतिः

अज्ञानकल्पितं पूर्वं पश्चात्तत्वार्थनिर्णये ।
यदा न लभते भावमेवाभावस्तदा कुह ॥

इति ॥

११ ॥

मूलम्

अज्ञानकल्पितं पूर्वं पश्चात्तत्वार्थनिर्णये ।
यदा न लभते भावमेवाभावस्तदा कुह ॥

इति ॥

११ ॥

तदेवं निःस्वभावानां सर्वभावानां कुतो यथोक्तप्रकारसिद्धिः? तस्माल्लौकिकं विपर्यासमभ्युपेत्य सांवृतानां पदार्थानां मरीचिकाजलकल्पानामिदम्प्रत्ययतामात्राभ्युपगमेनैव प्रसिद्धिर्नान्येनेत्याह-

विश्वास-प्रस्तुतिः

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥

१२ ॥

मूलम्

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते, नान्यत्पश्यामः सिद्धिकारणम् ॥

१२ ॥

इह अकुर्वाणस्य कर्मनिरपेक्षस्य कारकत्वाभावात् कर्मापेक्ष्य कारकस्य कारकत्वं भवति । कारकेण चाक्रियमाणस्य कस्यचित्कर्मत्वाभावात् क्रियमाणस्यैव कर्मव्यपदेशात्, तं कारकं प्रतीत्य कर्म प्रवर्तते इत्येवं कर्मकारकयोः परस्परापेक्षिकीं सिद्धिं मुक्त्वा नान्यत्सिद्धिकारणं पश्यामः ॥

१२ ॥

यथा च कर्मकारकयोः परस्परापेक्षिकी सिद्धिः, एवमन्येषामपि भावानामित्यतिदिशन्नाह-

(प्प्_८०)
एवं विद्यादुपादानं व्युत्सर्गादिति कर्मणः ।
कर्तुश्च

एवमित्यनेन अनन्तरां कर्मकारकप्रज्ञप्तिं दर्शयति । उपात्तिरुपादानम् । अनेन चोपात्तिक्रियामाह । सा च स्वसाधनं कर्तारमुपादातारं कर्म चोपादानं सन्निधापयति । तयोश्च उपादेयोपादात्रोः परस्परापेक्षयोः कर्मकारकवदेव सिद्धिर्न स्वाभाविकी । कस्मात्पुनः स्वाभाविकी न भवति इत्याह- व्युत्सर्गादिति कर्मणः, कर्तुश्चेति । इतिशब्दो हेतुपरामर्शी । व्युत्सर्गो व्युदासः । ततश्च अयमर्थ उपपद्यते- यैरेव हेतुभिः कर्मणश्च व्युत्सर्गो ऽस्माभिरुक्तः, तैरेव हेतुभिः उपादाता उपादेयं च प्रतिषिद्धं वेदितव्यम् । न च केवलमनयोरन्योन्यापेक्षिकी सिद्धिः कतुर्श्च कर्मणश्च प्रतिषेधेनावसेया, अपि च

कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् ॥

१३ ॥

प्राज्ञ इति वाक्यशेषः । कर्मकारकोपादेयोपादातृव्यतिरिक्ता ये ऽन्ये भावा जन्यजनकगन्तृगमनद्रष्टव्यदर्शनलक्ष्यलक्षणोत्पाद्योत्पादकाः, तथा अवयवावयविगुणगुणिप्रमाणप्रमेयादयो निरवशेषा भावाः, तेषां कर्तृकर्मविचारेण स्वभावतो ऽस्तित्वं प्रतिषिध्य परस्परापेक्षिकीमेव सिद्धि प्राज्ञो निर्मुमुक्षुर्जातिजरामरणादिबन्धनेभ्यो मोक्षाय विभावयेत् ॥

एषां च विस्तरेण विचारो मध्यमकावतारादिभ्यो ऽवसेयः ॥

ननु च शेषान् भावान् विभावयेदित्यनेनैव उपादानोपादान्नोरधिगतत्वादुपादानोपादानं पुनरयुक्तम् । सत्यमेतत् । तथापि तत्त्वविचारे प्राधान्यज्ञापनार्थमुपादानोपादात्रोभेदेनोपादानम्, तथा हि उत्तरेषु प्रकरणेषु भूयसा अनयोरेव विचारो भविष्यतीति । अत एवोक्तं भगवता आर्योपालिपरिपृच्छायाम्-

भय दर्शित नैरयिकं मे सत्त्वसहस्र सवेजित नैके ।
न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥

न च कारकु कारणं सन्ति येहि कृता असितोमरशस्त्राः ।
कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शस्त्राः ॥

चित्रमनोरम सज्जितपुष्पाः स्वर्णविमान जलन्ति मनोज्ञाः ।
तेष्वपि कारकु नास्तिह कश्चि ते ऽपि च स्थापित कल्पवशेन ॥

विश्वास-प्रस्तुतिः

कल्पवशेन विकल्पितु लोकः सञ्ज्ञगहेण विकल्पितु बालः ।
सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः ॥

इति ॥

१३ ॥

मूलम्

कल्पवशेन विकल्पितु लोकः सञ्ज्ञगहेण विकल्पितु बालः ।
सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः ॥

इति ॥

१३ ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ कर्मकारकपरीक्षा नाम अष्टमं प्रकरणम् ॥

(प्प्_८१)