०७ संस्कृतपरीक्षा

संस्कृतपरीक्षा सप्तमं प्रकरणम् ।

अत्राह- विद्यन्त एव संस्कृतस्वभावाः, स्कन्धायतनधातवः उत्पादादिसंस्कृतलक्षणसद्भावात् । उक्तं हि भगवता- त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि । संस्कृतस्य भिक्षवः उत्पादो ऽपि प्रज्ञायते, व्ययो ऽपि, स्थित्यन्यथात्वमपीति । न च अविद्यमानस्य खरविषाणस्येव जात्यादिलक्षणमस्ति । तस्मात्संस्कृतलक्षणोपदेशाद्विद्यन्त एव स्कन्धायतनधातवः इति । उच्यते । स्युः स्कन्धायतनधातवः संस्कृतस्वभावास्तावकेन मतेन, यदि जात्यादिलक्षणमेव भवेत् । इहायमुत्पादः संस्कृतलक्षणत्वेनेष्यमाणः संस्कृतो वा तल्लक्षणत्वेनेष्यते, असंस्कृतो वा? तत्र-

यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी ।

त्रयाणां लक्षणानां समाहारस्त्रिलक्षणी । इयं च उत्पादस्थितिभङ्गसमाहारस्वभावसर्वसंस्कृताव्यभिचारिणीति कृत्वा यदि उत्पादः संस्कृत इति परिकल्प्यते, तदा उत्पादे ऽपि त्रिलक्षणी प्रसज्यते । ततश्च रूपादिवल्लक्ष्यत्वमुत्पादस्य स्यात्, न संस्कृतलक्षणत्वम् । अथोत्पादे ऽपि त्रिलक्षणी नेष्यते, तदा त्रिलक्षणीरहितत्वादाकाशवत् संस्कृतलक्षणत्वमस्यावहीयते इत्याह-

अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् ॥

१ ॥

इति । नैतत्संस्कृतलक्षणमित्यभिप्रायः ॥

१ ॥

अपि च । इमे उत्पादादयः संस्कृतस्य लक्षणत्वेन परिकल्प्यमाना व्यस्ता वा पृथग्वा लक्षणत्वेन परिकल्प्येरन्, समस्ता वा सहभूता वा? उभयथा च न युज्यत इत्याह-

विश्वास-प्रस्तुतिः

उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥

२ ॥

मूलम्

उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि ।
संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा ॥

२ ॥

तत्र व्यस्ता लक्षणकर्मणि न युज्यन्ते । यदि उत्पादकाले स्थितिभङ्गौ न स्यातां तदा स्थितिभङ्गरहितस्य आकाशस्येव संस्कृतलक्षणत्वेनानुपपद्य एवोत्पादः । अथ स्थितिकाले उत्पादभङ्गौ न स्तः, तदा तद्रहितस्य स्थितिः स्यात् । उत्पादभङ्गरहितश्च पदार्थो नास्त्येवेति न अस्याविद्यमानस्य खपुष्पवत् स्थितिर्युज्यते । किं च । स्थितियुक्तस्य पश्चादनित्यतयापि योगो न स्यात्, तद्विरोधिधर्माक्रान्तत्वात् । अथ स्यात्- पूर्वं शाश्वतो भूत्वा पश्चादशाश्वत इति, न चैकपदार्थः शाश्वतश्चाशाश्वतश्च युक्त इति नोत्पादभङ्गरहितस्य स्थितिः । तथा यदि भङ्गकाले स्थित्युत्पादौ न स्याताम्, एवमप्यनुत्पन्नस्य स्थितिरहितस्य खपुष्पस्य विनाशो ऽपि नास्तीति । एवं तावदुत्पादादयो व्यस्ता नालं लक्षणकर्मणि नालं न पर्याप्ता इत्यर्थः ॥

इदानीं समस्ता अपि न युज्यन्त इत्याह-

समस्ताः स्युरेकत्र कथमेकदा ।

(प्प्_६०)
एकत्र पदार्थे, एकस्मिन् काले, परस्परविरुद्धत्वाद्रागवैराग्यवत्, आलोकान्धकारवद्वा न युज्यन्त इत्यभिप्रायः । यस्मिन्नेव क्षणे पदार्थो जायते, तस्मिन्नेव तिष्ठति विनश्यति चेति कः सचेताः प्रतिपद्येत? तस्मात्समस्तानामपि उत्पादादीनां संस्कृतस्य लक्षणकर्मणि नास्ति सामर्थ्यम् ॥

२ ॥

अथ यदुक्तं ऽयदि संस्कृत उत्पादःऽ; इत्यादि, तेन यदि उत्पादादीनां त्रिलक्षणी प्राप्ता प्रसक्ता, ततः को दोषः? अथासंस्कृतः, एवमप्यदोष इति । उच्यते-

उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम्
अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः ॥

३ ॥

ननु च पक्षद्वये ऽपि विहित एव दोषः, तत्र किं पुनरुक्ताभिधानेनेति । सत्यमुक्तो दोषः स खलु नाचार्येण, किं तर्हि वृत्तिकारेण । अथ पूर्वप्रतिज्ञातमेव दूषणान्तराभिधानेन स्पष्टीकरणार्थं पुनराचार्यो ऽभिहितवान् । यदि उत्पादस्थितिभङ्गानामन्यदुत्पादादिकं संस्कृतलक्षणमिष्यते, तदा तेषामप्यन्यत्, तेषामप्यन्यत्, इत्यपर्यवसानदोषः स्यात् । सति च अपर्यवसानदोषे, किं पूर्वं स्याद् यत उत्तरकालमपरं भवेदिति व्यवस्थाभावादसम्भव एवं उत्पादादीनामित्यभिप्रायः । अथवा, पूर्वं मुख्यत्वादुत्पादस्यैव दूषणमुक्तम्, अधुना तु सामान्येनेति । नास्ति चेत्ते न संस्कृता इति गतार्थमेतत् ॥

३ ॥

अत्राहुः साम्मितीयाः- सन्ति चोत्पादादीनामुत्पादादयः, न च अनवस्थाप्रसङ्गः, लक्षणानुलक्षणानां परस्परनिष्पादकत्वात् । यस्मादिह संस्कृतधर्मः कुशलः क्लिष्टो वा उत्पद्यमानः आत्मना पञ्चदशः उत्पद्यते । स धर्मस्तस्य चोत्पादः समन्वागमः स्थितिर्जरा अनित्यता । यद्यसौ धर्मः क्लिष्टो भवति, तस्य मिथ्याविमुक्तिः । अथ शुभः, तस्य सम्यग्विमुक्तिः । यदि नैर्याणिको भवति तस्य नैर्याणिकता । अथ अनैर्याणिकः, तस्य अनैर्याणिकता । इत्येष परिवारः । इदानीमुत्पाद स्यापर उत्पादः यावदनैर्याणिकतानैर्याणिकतेत्येष परिवारस्य परिवारः । तत्र यो ऽयं मौल उत्पाद स आत्मानं विहाय अन्यांश्चतुर्दश धर्मान् जनयति । उत्पादोत्पादसञ्ज्ञकस्तु अनुलक्षणभूत उत्पादो मौलमेवोत्पादं जनयति । एवं यावदनैर्याणिकता चतुर्दश धर्मान् न निर्याणयति, न तन्निर्वाणं प्रापयतीत्यर्थः । अनैर्याणिकतानैर्याणिकता तु न निर्याणयति । तदेवमुत्पादादीनामनवस्थां परिहरन्नाह-

विश्वास-प्रस्तुतिः

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादसुत्पादो मौलो जनयते पुनः ॥

४ ॥

मूलम्

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् ।
उत्पादोत्पादसुत्पादो मौलो जनयते पुनः ॥

४ ॥

द्विविधो ह्युत्पादः । एको मौल उत्पादः, अपरश्च उत्पादोत्पादसञ्ज्ञकः, उत्पादस्योत्पाद इति कृत्वा । तत्र यो ऽयमुत्पादोत्पादसञ्ज्ञक उत्पादः, स मूलोत्पादस्य केवलमुत्पादकः । तं चेदानीमुत्पादोपादाख्यमुत्पादं (प्प्_६१) मौल उत्पादो जनयति । तदेवं परस्परनिर्वर्तनादस्ति च त्रिलक्षणी उत्पादादीनाम्, न चानवस्थाप्रसङ्ग इति ॥

४ ॥

अत्रोच्यते-

विश्वास-प्रस्तुतिः

उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥

५ ॥

मूलम्

उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि ।
मौलेनाजनितस्तं ते स कथं जनयिष्यति ॥

५ ॥

यदि तव उत्पादस्योत्पादो मूलोत्पादस्य जनक इति मतम्, स कथमिदानीं मौलेनोत्पादेनानुत्पादितः सन् उत्पादोत्पादो मौलं जनयिष्यति? ॥

५ ॥

अथ मन्यसे- उत्पादित एव मौलेनोत्पादेन उत्पादोत्पादो मौलं जनयिष्यति, एतदप्यसदित्याह-

विश्वास-प्रस्तुतिः

स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥

६ ॥

मूलम्

स ते मौलेन जनितो मौलं जनयते यदि ।
मौलः स तेनाजनितस्तमुत्पादयते कथम् ॥

६ ॥

स उत्पादोत्पादसञ्ज्ञक उत्पादो मौलेन जनितो यदि मौलं जनयति, स मौल उत्पादोत्पादेनाजनितो ऽविद्यमानः कथमुत्पादोत्पादं जनयिष्यति? तस्मान्मौलेन जनितः सन् उत्पादोत्पादो मौलं जनयतीते न युज्यते । ततश्च परस्परनिर्वर्त्यनिर्वर्तकत्वाभावात्स एव अनवस्थाप्रसङ्ग इति नास्त्युत्पादः ॥

६ ॥

अत्राह- उत्पद्यमान एव मूलोत्पाद उत्पादोत्पादमुत्पादयति, स एवोत्पादोत्पादो मूलोत्पादं जनयिष्यतीति । उच्यते-

विश्वास-प्रस्तुतिः

अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम् ॥

७ ॥

मूलम्

अयमुत्पद्यमानस्ते काममुत्पादयेदिमम् ।
यदीममुत्पादयितुमजातः शक्नुयादयम् ॥

७ ॥

काममयं मूलोत्पाद उत्पद्यमान उत्पादयेदुत्पादम्, यद्ययमेव अजातः शक्नुयादपरमजातमुत्पादयितुम् । उत्पद्यमानो हि नाम अनागतः । स च अजातः कथमुत्पादयिष्यतीति न युक्तमेवैतदित्यभिप्रायः एवमुत्पादोत्पादे ऽपि वाच्यम् ॥

७ ॥

अत्राह- नैव हि उत्पादस्यापर उत्पादो ऽस्ति यतो ऽनवस्थाप्रसङ्गः स्यात् । किं तर्हि-

विश्वास-प्रस्तुतिः

प्रदीपः स्वपरात्मानौ सम्प्रकाशयिता यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥

८ ॥

मूलम्

प्रदीपः स्वपरात्मानौ सम्प्रकाशयिता यथा ।
उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा ॥

८ ॥

यथा प्रदीपः प्रकाशस्वभावत्वादात्मानं प्रकाशयति घटादींश्च, एवमुत्पादो ऽप्युत्पादस्वभावत्वादात्मानमुत्पादयिष्यति परं चेति ॥

८ ॥

उच्यते । स्यादेतदेवं यदि प्रदीपः स्वपरात्मानौ सम्प्रकाशयेत् । न चैवम् । यस्मात्-

(प्प्_६२)

विश्वास-प्रस्तुतिः

प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥

९ ॥

मूलम्

प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः ।
किं प्रकाशयति दीपः प्रकाशो हि तमोवधः ॥

९ ॥

इह प्रकाशो नाम तमस्य (सो?) वधः । तमश्च प्रदीपस्वात्मनि तावन्न सम्भवति विरोधात्, यत्तमो निघ्नतः स्वात्मप्रकाशत्वं स्यात् । न चापि प्रदीपो यत्र देशे तिष्ठति तत्र तमो ऽस्ति, यत्तमो निघ्नतः प्रदीपस्य परप्रकाशकत्वं स्यात् । अतो ऽपि नास्ति प्रदीपस्य स्वपरात्मप्रकाशकत्वम् । यदा चैवम्, तदा प्रदीपवदुत्पादस्य स्वपरात्मोत्पादकत्वं न सम्भविष्यति, इति अयुक्तमेतत् ॥

९ ॥

अत्राह- यदेतदुक्तं प्रदीपे नान्धकारो ऽस्तीति, एतदसत्यन्धकारधाते युक्तमेव वक्तुम् । यस्मात्तु उत्पद्यमानेनैव प्रदीपेन तमो निहतम्, तत्र प्रदीपे नान्धकारो ऽस्ति, यत्र च प्रदीपो ऽस्ति, तत्राप्यन्धकारो नास्तीति युज्यते । यदि प्रदीपेन नान्धकारधातः कृतः, तदा अनुत्पन्ने इव प्रदीपे उत्पन्ने ऽपि घटादयो नोपलभ्येरन्, अन्धकारघाताभावात्प्रागवस्थामिव । तस्मादस्त्येव अन्धकारघातलक्षणं प्रकाशनं प्रदीपस्य । तच्चानेन उत्पद्यमानेन प्रदीपेन कृतमिति । उच्यते-

विश्वास-प्रस्तुतिः

कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥

१० ॥

मूलम्

कथमुत्पद्यमानेन प्रदीपेन तमो हतम् ।
नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा ॥

१० ॥

इह आलोकान्धकारयोर्यौगपद्याभावात् प्राप्तेरभावः । यदा चैवं प्राप्तेरभावः, तदा कथं केन प्रकारेणेदानीमुत्पद्यमानेन प्रदीपेन तमो हतमिति युक्तं परिकल्पयितुम्? यस्माच्च एवमुत्पद्यमान प्रदीपः तमो न प्राप्नोति, तस्मान्नैव अप्राप्तत्वात्प्रदीपः किञ्चिदपि प्रकाशयतीत्यवसीयताम् ॥

१० ॥

अथ मन्यसे- यथा अप्राप्तामेव अविद्यां ज्ञानं निहन्ति, अप्राप्तमेव रूपं चक्षुः पश्यति अप्राप्तमेव अयः अयस्कान्तो मणिराकर्षति, एवमेव अप्राप्तमेवान्धकारं प्रदीपो निहनिष्यतीति एतदप्यसारमित्याह-

विश्वास-प्रस्तुतिः

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥

११ ॥

मूलम्

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः ।
इहस्थः सर्वलोकस्थं स तमो निहनिष्यति ॥

११ ॥

यदि अप्राप्यैव प्रदीपेन तमो निहतम्, एवं सति, इहस्थ एव प्रदीपः सर्वलोकस्थं तमो निहनिष्यति, अप्राप्तत्वात्समीपस्थमिवेत्यभिप्रायः । एतेन न्यायेन ज्ञानेन अविद्याघातः, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणमिव इत्येवमादिकं साध्यसमं ज्ञेयम् ॥

अथ अप्राप्तावपि सत्यामयस्कान्तमणिप्रभृतीनां योग्यदेशावस्थानामेव स्वकार्यकृत्वं देभविष्यतीति चेत्, तदपि न युक्तम् । अप्राप्तौ हि सत्यां विप्रकृष्टदेशान्तरावस्थितवदव्यवहितशान्तरावस्थित वच्च अप्राप्तत्वाद् योग्यदेशावस्थितानामपि योग्यदेशावस्थितत्वं न युक्तमिति कुतो योग्यदेशावस्थितानां स्वकार्यकृत्त्वं प्रसेत्स्यति?

(प्प्_६३)
दृष्टमेतल्लोकत इति चेन्नैतदेवम् । यथा हि भवान् परिकल्पयति न तथा लोके दृष्टम् । यस्मात् न लोकः प्राप्त्यप्राप्तिचिन्तामेवमादौ विषये ऽवतार्य प्रदीपादीनां प्रकाशकत्वादिकं कल्पयति । यथोदितं तु विचारमनवतार्य प्रदीपेन तमो हतम्, चक्षुषा रूपदर्शनम्, अयस्कान्तमणिना अयआकर्षणम् इत्यादि इच्छति । पश्यतु वा लोक एवम् । तत्त्वविचारकाले तु लोकस्याप्रामाण्यान्न तेन बाधा शक्यते कर्तुम् । एवं तावदप्राप्य प्रकाशनमयुक्तम् । प्राप्तावपि विषयादिग्रहणमयुक्तमेव । प्राप्तिर्हि एकत्वे सति भवति । यदा चैकत्वं तदा स्वरूपवद्दर्शनाकर्षणादिकं नास्ति ॥

यद्यपि चेयं प्राप्त्यप्राप्त्यादिचिन्ता लौकिकव्यवहारे नावतरतीति निरुपपत्तिकत्वेन मृषार्थत्वादस्य, तथापि तत्त्वविचारे ऽवतार्या, मा भूत्परमार्थतो ऽपि निरुपपत्तिकपक्षाभ्युपगम इत्यलं प्रसङ्गेन ॥

११ ॥

यदि च स्वपरात्मानौ प्रदीपः प्रकाशयतीति परिकल्प्यते त्वया, तमसो ऽपि तर्हि प्रतिपक्ष भूतस्य स्वपरात्मनोः प्रच्छादनं प्रकल्प्यतमित्याह-

विश्वास-प्रस्तुतिः

प्रदीपः स्वपरात्मानौ सम्प्रकाशयते यदि ।
तमो ऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥

१२ ॥

मूलम्

प्रदीपः स्वपरात्मानौ सम्प्रकाशयते यदि ।
तमो ऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम् ॥

१२ ॥

प्रतिद्वन्द्वित्वात्प्रदीपवत् तमो ऽपि स्वपरात्मगतं व्यापारं करिष्यति, ततश्च परवदात्मानमपि छादयिष्यति । यदि च आत्मानं छादयेत्तमः, तस्यैवानुपलब्धिः स्यात्, घटादिवत्तमसा प्रच्छादितत्वात् । अत एवोक्तमार्योपालिपृच्छायाम्-

इह सासनि सूरमणीये प्रव्रजथा गृहिलिङ्ग जहित्वा ।
फलवन्तु भविष्यथ श्रेष्ठो एषु निदेशितु कारुणिकेन ॥

प्रव्रजित्वा गृहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्तिः ।
पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्तिः ॥

अलभन्त फलं तथ प्राप्तिं आश्चरियं पुन जायति तेषाम् ।
अहो ऽतिकारुणिको नरसिंहो सुष्ठुपदेशित युक्ति जिनेन ॥

इति ॥

(प्प्_६४)
तथार्यरत्नकूटसूत्रे-

यथा हि दीपो लयने चिरस्य कृतो हि गेहे पुरुषेण केनचित् ।
तत्रान्धकारस्य न भोति एवं चिरस्थितो नाहमितो गमिष्ये ॥

तमोन्धकारस्य न शक्तिरस्ति कृते प्रदीपे न विगच्छनाय ।
प्रतीत्य दीपं च विनश्यते तम उभयं पि शून्यं न च किं च मन्यति ॥

ज्ञानं तथा आर्य प्रतीत्य नास्रवं अज्ञान क्लेशोपचितं विगच्छति ।
सम्पर्क तेषां न कदाचि विद्यते ज्ञानस्य क्लेशस्य च नित्यकालम् ॥

विश्वास-प्रस्तुतिः

ज्ञानं न कल्पेति अञानु नो भवेत् ज्ञानं प्रतीत्यैव विनश्यते तमो ।
भयं पि अग्राह्य खपुष्पसन्निभं ज्ञानं तथाज्ञानु भयं पि शून्यम् ॥

इति ॥

१२ ॥

मूलम्

ज्ञानं न कल्पेति अञानु नो भवेत् ज्ञानं प्रतीत्यैव विनश्यते तमो ।
भयं पि अग्राह्य खपुष्पसन्निभं ज्ञानं तथाज्ञानु भयं पि शून्यम् ॥

इति ॥

१२ ॥

किं चान्यत्- इहायमुत्पादो यद्यात्मानमुत्पादयेत्, स उत्पन्नो वा स्वात्मानमुत्पादयेत्, अनुत्पन्नो वा? उभयथा च नोपपद्यते इत्याह-

विश्वास-प्रस्तुतिः

अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥

१३ ॥

मूलम्

अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।
अथोत्पन्नो जनयते जाते किं जन्यते पुनः ॥

१३ ॥

यदि अनुत्पन्न उत्पादः स्वात्मानमुत्पादयेत्, मण्डूकजटाशिरोमणिरप्यात्मानमुत्पादयेत् । अथ उत्पन्न उत्पादयेत्, किमुत्पन्नस्यापरेणोत्पादेन प्रयोजनमिति । एवं तावदुत्पाद आत्मानं नोत्पादयति ॥

१३ ॥

इदानीं परमपि यथा नोत्पादयति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथञ्चन ।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः ॥

१४ ॥

मूलम्

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथञ्चन ।
उत्पद्यते तथाख्यातं गम्यमानगतागतैः ॥

१४ ॥

(प्प्_६५)
यदि हि किञ्चिदुत्पद्येत तदुत्पाद उत्पादयेत् । न तु किञ्चिदुत्पद्यते ऽध्वत्रये ऽप्युत्पादासम्भवात् । एतच्च गम्यमानगतागतैः प्रागेवोक्तम् । तत्र यथा गतं न गम्यते, अतीतवर्तमानयोर्विरोधात् । नाप्यगतं गम्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमानं गम्यते, गतागतव्यतिरिक्तगम्यमानानुपलम्भादित्युक्तम् । एवमुत्पद्यमानो भावो नोत्पद्यते, उत्पन्नानुत्पन्नव्यतिरेकेणोत्पद्यमानाभावात् । उत्पन्नो ऽपि नोत्पद्यते, अतीतवर्तमानयोर्विरोधात् । उत्पन्न इत्युपरतोत्पत्तिक्रिय उच्यते, उत्पद्यत इति वर्तमानक्रियाविष्टः । ततश्च उत्पन्न उत्पद्यते इत्युच्यमाने अतीतवर्तमानयोरेककालता स्यात् । अनुत्पन्नो ऽपि नोत्पद्यते, अनागतवर्तमानयोर्विरोधात् । तस्मादुत्पादः परमुत्पादयतीति न युक्तम् ॥

१४ ॥

अत्राह- उत्पद्यमानमेवोत्पद्यते नोत्पन्नं नाप्यनुत्पन्नमिति । अथ मन्यसे- उत्पन्नानुत्पन्नव्यतिरेकेण उत्पद्यमानासम्भवान्नोत्पद्यमानमुत्पद्यत इति, एतच्च नास्ति, यस्मादिह उत्पत्तिक्रियायुक्तमुत्पद्यमानमिति व्यपदिश्यते । तस्मादुत्पत्तौ सत्यामुत्पत्तिं प्रतीत्य उत्पद्यमानसिद्धेः उत्पद्यमानमेवोत्पद्यते, तच्चोत्पद्यमानमुत्पाद उत्पादयतीति । उच्यते-

विश्वास-प्रस्तुतिः

उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥

१५ ॥

मूलम्

उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥

१५ ॥

यदुक्तम्- उत्पत्तिं प्रतीत्य उत्पद्यमानं भवति, तच्चोत्पद्यत इति । ननु । विशेषत एतद्वक्तव्यं स्यात्- अस्योत्पत्तिं प्रतीत्य इदं नामोत्पद्यमानं भवतीति । न चैवमुच्यते । न हि तदुत्पद्यमानं विशेषतो निर्धारयितुं शक्यते इदं तदुत्पद्यमानमिति, अनुत्पन्नत्वात्तन्निमित्तग्रहणतः । ततश्च उत्पद्यमानासम्भवादुत्पत्तिक्रियापि नास्तीति । कथमसत्यामुत्पत्तौ तां प्रतीत्य उत्पद्यमानं स्यात्? तस्मादुत्पद्यमानमुत्पद्यते, तच्च उत्पाद उत्पादयतीत्ययुक्तम् ॥

१५ ॥

अत्राह- अहो बत अहमतीव भवतो दृष्टादृष्टपदार्थनिरपेक्षादत्यन्तनास्तिकाद्विभेमि, यो हि नाम भवांस्तथागतप्रवचनव्याख्यानव्याजेन दूषणमात्रकौशलमेवात्मनः प्रकटयन् परमर्षिगदितमिदं प्रत्ययताप्रतीत्यसमुत्पादलक्षणं परमार्थसत्यं तथागतानां निहन्ति । इह भगवता तथागतेन प्रकृतीश्वरस्वभावकालाणुनारायणजैमिनिकणादकपिलादितीर्थकरकर्तृवादनिरासेन सर्वभावानां तत्त्वमादर्शितम्, यदुत अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्याप्रत्ययाः संस्काराः इत्याद्यविपरीतं प्रतीत्यसमुत्पादं प्रकटयता । तस्य च त्वया नोत्पद्यमानं नोत्पन्नं नानुत्पन्नमित्यादिना दूषणं विदधता तथागतजनन्याः प्रतीत्यसमुत्पत्तिमातुर्वध एवाचरित इत्यलं भवता सर्वनास्तिकेन त्वयेति । उच्यते । नाहं सकलदशबलजननीं प्रतीत्यसमुत्पत्तिमातरं निहन्मि । भवानेव तु परमगम्भीरप्रतीत्यसमुत्पादाधिमुक्तिविरहाद्विपरीतं तदर्थमवधार्य अस्माकमेव अधिलयं करोति । ननु च इदं प्रतीत्येदं भवतीत्येवमभिधानेन भगवता तथागतेन निःस्वभावत्वमेव सर्वधर्माणां स्पष्टमावेदितम् । यस्मात्-

(प्प्_६६)
प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः ।

यो हि पदार्थो विद्यमानः स सस्वभावः स्वेनात्मना स्वं स्वभावमनपायिनं बिमर्ति । स संविद्यमानत्वान्नैवान्यत्किञ्चिदपेक्षते, नाप्युत्पद्यते, इति कृत्वा सस्वभावभावाभ्युपगमे सति कुतः प्रतीत्यसमुत्पाद इति भवतेव सस्वभावतां भावानामभ्युपगच्छता सर्वथा प्रतीत्यसमुत्पाद एव बाधितो भवति । ततश्च परमधर्मबुद्धदर्शनमपि बाधितं भवति- यः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यति, यो धर्मं पश्यति स बुद्धं पश्यतीत्यागमात् । मया तु यत्प्रतीत्य बीजाख्यं कारणं यद्भवत्यङ्कुराख्यं कार्यम्, तच्च उभयमपि शान्तं स्वभावविरहितं प्रतीत्यसमुत्पन्नं प्रतिपादयता सर्वथा भगवतां तथागतानां प्रतीत्यसमुत्पत्तिमाता द्योतिता भवति । यत एवम्-

तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च ॥

१६ ॥

इति स्फुटमवसीयताम् ॥

१६ ॥

अत्राह- यदुक्तम्-

उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा ।
कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते ॥

इति, तदयुक्तम् । यस्मादिदमुत्पद्यमानमित्येव सम्भवति । तथा हि घटोत्पत्तिं प्रतीत्य घट उत्पद्यमानो भवति, तं च उत्पद्यमानमुत्पाद उत्पादयतीत्युच्यते । एतदप्ययुक्तम् । यस्मात्-

विश्वास-प्रस्तुतिः

यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति ॥

१७ ॥

मूलम्

यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित् ।
उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति ॥

१७ ॥

यदि कश्चिदनुत्पन्नः उत्पादात्पूर्वं घटो नाम क्वचित्संविद्येत, स उत्पत्तिक्रियां प्रतीत्योत्पद्येत न चैवं कश्चिदुत्पादात्पूर्वं क्वचिदस्ति । तस्मिन्नसति घटे किमुत्पद्यते?

अथ स्यात्- यद्युत्पादात्पूर्वं घटो नास्ति, तथापि उत्पन्नः सन् घटसञ्ज्ञां प्रतिलप्स्यते, तद्भाविन्या सञ्ज्ञया न दोष इति । एतदप्ययुक्तम् । यदि हि उत्पत्तिक्रिया प्रवर्तेत, तदा वर्तमानीभूतो भावो घटाख्यां प्रतिलभेत । यदा तु अनागतभावासम्बन्धेन क्रियाया अप्रवृत्तिः, तदा कुतो वर्तमानता? अथ अघटाश्रयेण क्रिया प्रारभ्येत, तद्वक्तव्यम्- यो ऽसौ अघटः, स किं भवितुर्महति पटः, उत नैव किञ्चित्? यदि पट उत्पद्यमानः स कथमुत्पन्नः सन् घटो भविष्यतीति अथ नैवं किञ्चित्, कथं तदाश्रया क्रिया क्रिया प्रवर्तते? कथं वा स उत्पन्नः सन् घटो भवेत्? इति सर्वथा भावितत्वकल्पनाप्ययुक्ता । तस्मादुत्पद्यमानमप्युत्पादो नोत्पादयतिति सिद्धम् ॥

१७ ॥

अपि च । एवं न युज्यमानायामप्युत्पद्यमानस्योत्पत्तौ भवतो मतमभ्युपेत्योच्यते-

विश्वास-प्रस्तुतिः

उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥

१८ ॥

मूलम्

उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम् ।
उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः ॥

१८ ॥

(प्प्_६७)
यद्यपि उत्पद्यमानं पदार्थमुत्पाद उत्पादयेद्भवन्मतेन, इदं तु वक्तव्यम्- तमिदानीमुत्पादः कतमो ऽपरः उत्पादमुत्पादयिष्यतीति ॥

१८ ॥

अथ स्यात्- उत्पादस्यापर उत्पादः उत्पादकः परिकल्प्येत, तदा अनवस्थादोषप्रसङ्ग इत्याह-
अन्य उत्पादत्येनं यद्युत्पादो ऽनवस्थितिः ।

एतच्चोक्तम् । अथ नास्यापर उत्पाद इष्यते, नन्वेवं सति विना उत्पादेन उत्पाद उत्पद्यते इत्येवं प्राप्नोति । ततश्च उत्पादोत्पाद्यानामपि पदार्थानां विनैवोत्पादेन उत्पत्तिरस्तु भावत्वादुत्पादवदिति प्रतिपादयन्नाह-

अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा ॥

१९ ॥

इति ॥

१९ ॥

अपि च । उत्पाद आत्मानं परांश्चोत्पादयतीत्यत्र पक्षे दूषणमेव न वक्तव्यमधुनास्माभिः । यस्मादत्र पक्षे दूषणम्-

विश्वास-प्रस्तुतिः

सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥

२० ॥

मूलम्

सतश्च तावदुत्पत्तिरसतश्च न युज्यते ।
न सतश्चासतश्चेति पूर्वमेवोपपादितम् ॥

२० ॥

नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते ।

इति

न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।

इत्यादिना उत्पादो निषिद्ध एव पूर्वम् । ततश्चैवमुत्पादे निषिद्धे उत्पद्यमानमुत्पाद उत्पादयति, स्वपरात्मानौ वा उत्पादयतीत्यस्याः कल्पनाया नास्त्येवावतार इति कुत एतत्प्रसेत्स्यति- उत्पाद उत्पद्यते, उत्पद्यमानमुत्पद्यते, स्वपरात्मानौ चोत्पादयतीति ॥

२० ॥

किं चान्यत्- इहायमुत्पादः परिकल्प्यमानः निरुध्यमानस्य अनित्यतानुगतस्य वर्तमानस्य वा भावस्य परिकल्प्यते, अनिरुध्यमानस्य वा अतीतानागतस्यानित्यताविरहितस्य? उभयथा च नोपपद्यते इत्याह-

विश्वास-प्रस्तुतिः

निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥

२१ ॥

मूलम्

निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥

२१ ॥

तत्र निरुध्यमानस्य वर्तमानस्य विद्यमानत्वादुत्पादो नोपपद्यते । अनिरुध्यमानस्यापि विनाशरहितस्य अतीतानागतस्य भावलक्षणविलक्षणस्य खपुष्पस्येव नास्त्युत्पाद इति ॥

२१ ॥

एवं भावानामुत्पादाभावं प्रतिपाद्य अतः परं स्थितिर्विचार्यते ॥

(प्प्_६८)
अत्राह- विद्यत एव भावानामुत्पादः, तद्भावभाविधर्मसद्भावात् । नानुत्पन्नस्य स्थिति सम्भवतीत्युत्पादभावेन स्थितेर्भावात् । स्थितिरुत्पादभावभाविनी भवति । तस्मादुत्पादो ऽप्यस्ति, तद्भावभाविधर्मसद्भावात् । इह यन्नास्ति, न तद्भावभाविधर्मसद्भावः, तद्यथा गगनकुसुमसौरभ्यस्येति उच्यते । स्यादुत्पादः, यदि तद्भावभाविनी स्थितिरेव स्यात् । न त्वस्ति । तदेवम्-

विश्वास-प्रस्तुतिः

न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति ।
न तिष्ठति तिष्ठमानः को ऽनुत्पन्नश्च तिष्ठति ॥

२२ ॥

मूलम्

न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति ।
न तिष्ठति तिष्ठमानः को ऽनुत्पन्नश्च तिष्ठति ॥

२२ ॥

तत्र स्थितं न तिष्ठति तत्र स्थितिक्रियानिरोधात् । अस्थितभावो ऽपि न तिष्ठति स्थितिरहितत्वात् । तिष्ठमानमपि न तिष्ठति स्थितिद्वयप्रसङ्गात्, स्थितास्थितव्यतिरिक्तसन्तिष्ठमानाभावाच्च अपि च ।

को ऽनुत्पन्नश्च तिष्ठति ।

इहोत्पादप्रतिषेधात्को ऽसावनुत्पन्नः पदार्थो यस्तिष्ठेदिति सर्वथा नास्ति स्थितिः ॥

२२ ॥

अपि च । इयं स्थितिर्निरुध्यमानस्य भावस्य स्यादनिरुध्यमानस्य वा? उभयथा च न युज्यते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥

२३ ॥

मूलम्

स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते ।
यश्चानिरुध्यमानस्तु स भावो नोपपद्यते ॥

२३ ॥

निरुध्यमानस्य निरोधाभिमुखस्य तावद्भावस्य विरोधिनी स्थितिर्न सम्भवति । यश्चाप्यनिरुध्यमानः स भाव एव न भवति, कुतस्तस्य स्थितिर्भविष्यति ॥

२३ ॥

अपि च । जरसा मरणेन च सर्व एव भावाः क्षणमपि न त्यज्यन्ते । यदा चैतदेवम् तदा जरामरणविरोधिन्याः स्थितेर्भावेषु प्रवृत्त्यवकाश एव नास्तीति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥

२४ ॥

मूलम्

जरामरणधर्मेषु सर्वभावेषु सर्वदा ।
तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥

२४ ॥

के हि नाम जरामरणरहिता भावा येषां स्थितिः स्यात्? तस्मान्नास्त्येव स्थितिरित्यभिप्रायः ॥

२४ ॥

यदि च, अस्याः स्थितेरन्या वा स्थितिः स्थित्यर्थं परिकल्प्येत, स्वयं वा स्वात्मानं स्थापयेत् । उभयथा च न युज्यते इत्याह-

विश्वास-प्रस्तुतिः

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥

२५ ॥

मूलम्

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते ।
उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥

२५ ॥

ऽअनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् । ऽ; इत्यादिना यथा उत्पाद आत्मानं न जनयति इत्युक्तम्, एवं स्थितिरपि नात्मानं स्थापयतीति वक्तव्यम् ।

(प्प्_६९)
अस्थिता स्थितिरेषा चेत्स्वात्मानं स्थापयेत्कथम् ।
स्थिता चेत्स्थापयत्येषा स्थितायां स्थाप्यते ऽथ किम् ॥

इति योज्यम् । यथा च-

अन्य उत्पादयत्येनं यद्युत्पादो ऽनवस्थितिः ।

इत्युत्पादे व्याख्यातम्, एवं स्थितावपि व्याख्येयम्-

अथान्या स्थापयत्येनां स्थितिर्यद्यनवस्थितिः ।

इति । एवं स्थितिरपि न युक्ता । अत एवोक्तं भगवता-

अस्थिता हि इमे धर्माः स्थितिश्चैषां न विद्यते ।
अस्थितिः स्थितिशब्देन स्वभावेन न विद्यते ॥

न स्थितिर्नापि चो जातिर्लोकनाथेन देशिता
लोकनाथं विदित्वैवं समाधिं तेन जानथा ॥

इति ॥

उक्तं च आर्यसचर्यगाथासु-

आकाशनिश्रित समारुत आपखन्धो तन्निश्रिता इय मही पृथिवी जगच्च ।
सत्त्वान कर्मौपभोगनिदानमेवं आकाशथानु कृत चित्तम एतमर्थम् ॥

यावत्-

स्थानम्मयानु अयु थानु जिनेन उक्तो ॥

इति विस्तरः ॥

२५ ॥

अत्राह- विद्येते एव स्थित्युत्पादौ तत्सहचारिधर्मसद्भावात् । इह उत्पादस्थितिलक्षणसहचारिणी संस्कृतानामनित्यतास्ति । तस्मात्स्थित्युत्पादावपि स्तः इति । उच्यते । स्यात स्थित्युत्पादौ, यदि अनित्यतैव स्यात् । न त्वस्ति । कथमिति? यस्मात्-

विश्वास-प्रस्तुतिः

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथापि निरुध्यमानं किमजातं निरुध्यते ॥

२६ ॥

मूलम्

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते ।
तथापि निरुध्यमानं किमजातं निरुध्यते ॥

२६ ॥

यदि अनित्यतेति काचित्स्यात्, सा निरुद्धस्य भावस्य अनिरुद्धस्य वा निरुध्यमानस्य वा स्यात् । तत्र निरुद्धं निरुध्यते इति न युक्तम्, अतीतवर्तमानयोर्विरोधात् । अनिरुद्धमपि न युक्तम्, निरोधविरहितत्वात्, यदनिरुद्धमेव तत्कथं निरुध्यत इति परस्परविरोधाच्च । तथापि निरुध्यमानं न निरुध्यते इत्यनेन सम्बन्धः । निरुध्यमानमपि न निरुध्यते निरुध्यमानाभावात्, (प्प्_७०) निरोधद्वयप्रसङ्गाच्च । यतश्चैवं त्रिष्वपि कालेषु निरोधासम्भवः, तस्मान्नास्त्येव निरोध इति कुतस्तत्सहचारिस्थित्युत्पादसम्भवः स्यात्? अपि च । प्रागुत्पादप्रतिषेधादसम्भव एव निरोधस्येत्याह-

किमजातं निरुध्यते ।

इति ॥

२६ ॥

अपि च । अयं निरोधः स्थितस्य वा भावस्य स्यादस्थितस्य वा? उभयथा च न युज्यते इत्याह-

स्थितस्य तावद्भावस्य निरोधो नोपपद्यते ।

स्थितस्य निरोधविरुद्धस्य नास्ति निरोधः ।

नास्थितस्यापि भावस्य निरोध उपपद्यते ॥

२७ ॥

अस्थितस्य अभावस्य अविद्यमानस्य निरोधो नास्ति, इति सर्वथा नास्ति निरोधः ॥

२७ ॥

किं चान्यत् । यदि इह निरोधः स्यात्, स तयैवावस्थया तस्या एवावस्थायाः स्यादन्यया वा अन्यस्या अवस्थायाः स्यात् । सर्वथा च नोपपद्यते इति प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥

२८ ॥

मूलम्

तयैवावस्थयावस्था न हि सैव निरुध्यते ।
अन्ययावस्थयावस्था न चान्यैव निरुध्यते ॥

२८ ॥

तयैव तावत्क्षीरावस्थया सैव क्षीरावस्था न निरुध्यते, स्वात्मनि क्रियाविरोधात् । नाप्यन्यया दध्यवस्थया क्षीरावस्था निरुध्यते । यदि हि क्षीरदध्यवस्थयोर्यौगपद्यं स्यात्, स्यात्तयोर्विनाश्यविनाशकभावः । न तु दध्यवस्थायां क्षीरावस्था अस्ति । यदा च नास्ति, तदा कामसती विनाशयेत्? यदि विनाशयेत्, खरविषाणतीक्ष्णतामपि विनाशयेत् । तस्मादन्ययाप्यवस्थया नैवान्यावस्था निरुध्यते ॥

२८ ॥

अत्राह- यद्यपि तयैवावस्थया सैवावस्थ्या, अन्यया वा अवस्थया अन्यावस्था न निरुध्यते, तथापि क्षीरावस्थायास्तावन्निरोधो ऽस्ति, ततश्च उत्पादो ऽपि स्यादिति । उच्यते । अहो बत अतिजडतामात्मनो भवान् प्रकटयति । ननु च पूर्वोक्तेन न्यायेन

यदैवं सर्वधर्माणामुत्पादो नोपपद्यते ।

इत्युक्तम्,

तदैवं सर्वधर्माणां निरोधो नोपपद्यते ॥

२९ ॥

इति स्फुटतरमेव प्रतिपादितं भवति ॥

२९ ॥

अपि च । निरोधो नाम यदि कश्चित् स्यात्, स सतो वा भावस्य स्यादसतो वा । तत्र-

सतश्च तावद्भावस्य निरोधो नोपपद्यते ।

स्वभावादप्रच्युतस्य भावस्य निरोधो न युक्तः । यस्मात्-

एकत्वे न हि भावश्च नाभावश्चोपपद्यते ॥

३० ॥

(प्प्_७१)
निरोधो हि नाम अभावः । स यस्य भवति, स नैव भवति । ततश्च सतो भावस्य निरोध इति ब्रुवता भावाभावयोरेकाधिकरणता अभ्युपगता भवति । एकत्वे सति उभयं न युज्यते । यदि तदानीं भावः स्यात्, तदा निरोधेनाभावेनावेशाद्भावव्यपदेशो ऽयुक्तः । अथ अभावः, सो ऽप्यस्य न युज्यते, अभावविरोधिना भावरूपेणावियोगात् । तस्मादेकत्वे सति भावाभावयोः स पदार्थो नैव भावो नाप्यभाव इति युज्यते । अथवा, परस्परविरुद्धत्वादालोकान्धकारवदेकत्वे सति न हि भावश्च नाभावश्चोपपद्यते । एवं तावत्सतो भावस्य निरोधो न युक्तः ॥

३० ॥

इदानीम्-

असतो ऽपि न भावस्य निरोध उपपद्यते ।

अविद्यमानस्याभावस्य न विनाशो ऽस्ति वन्ध्यातनयस्येव, अविद्यमानत्वात् । अत एवाह-

न द्वितीयस्य शिरसच्छेदनं विद्यते यथा ॥

३१ ॥

प्रसिद्धासत्त्वस्यैव नराणां द्वितीयस्य शिरसो दृष्टान्तत्वेनोपादानान्निर्देशापूर्णत्वान्नास्तीति नोपात्तम् । तदेवमसतो भावस्य निरोधो न सम्भवति, सतो ऽपि न । यश्चोभयथापि न सम्भवति, स केनात्मना स्थितः? नास्त्येव निरोध इति प्रतीयताम् ॥

३१ ॥

किं चान्यत् । यदि निरोधो नाम भावानां निरोधक इति कल्प्यते, तस्येदानीं किमन्यो निरोध इष्यते, उत न? यदि इष्यते तन्न युज्यते ।

न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना ।

कथं पुनर्नास्तीति प्रतिपादयन्नाह-

उत्पादस्य यथोत्पादो नात्मना न परात्मना ॥

३२ ॥

तत्र यथा-

अनुत्पन्नो ऽयमुत्पादः स्वात्मानं जनयेत्कथम् ।

इत्यादिना उत्पादः स्वात्मानं नोत्पादयति, एवं निरोधो ऽपि स्वात्मानं न निरोधयति । कथमिति? उच्यते-

अनिरुद्धो निरोधो ऽयं स्वात्मानं नाशयेत्कथम् ।
अथ नष्टो नाशयति नष्टे किं नाश्यते पुनः ॥

इति सममुत्पादेन वक्तव्यम् । एवं च स्वात्मना न निरोधो ऽस्ति । निरोध इदानीं परात्मनापि नास्ति । कथम्? तत्र यथा उत्पादे गदितम्- ऽअन्य उत्पादयत्येनम्ऽ; इत्यादि, एवं निरोधे ऽपि वक्तव्यम्-

(प्प्_७२)
अन्यो विनाशयत्येनं नाशो यद्यनवस्थितिः ।
अथाविनाशो नष्टो ऽयं सर्वं नश्यतु ते तथा ॥

इति । तदेवं परात्मनापि निरोधो न सम्भवतीति नास्ति निरोधस्य निरोधः ॥

अथ मन्यसे- नास्त्येव निरोधस्य निरोध इति, तदयुक्तम् । यदि हि निरोधस्य निरोधो न स्यात, तदा निरोधरहितत्वात्संस्कृतलक्षणमवहीयते । तदेवं यदि विनाशस्य विनाशः परिकल्प्यते तथापि न युक्तो विनाशः । अथ न परिकल्प्यते, तथापि न युक्त इति । कथं त्विदानीं विनाशो योक्ष्यते परस्य? अथ स्यात्- तथापि एवमेव विचारे सति विनाशो भवतो ऽपि न युज्यते, ततः य उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति । उच्यते । नैवेदं चोद्यं ममापतति । किं कारणम्? ये स्वात्मना निःस्वभावा भावाः, ते च निःस्वभावा एव सन्तो बालानामिदंसत्याभिनिवेशिनां व्यवहारपथमुपयान्ति अविचारप्रसिद्धेनैव न्यायेनेति तेषु नास्ति यथोदितविचारावतारो ऽस्माकम् मायास्वप्नगन्धर्वनगरादिवत्तु लौकिकाः पदार्था निरुपपत्तिका एव सन्तः सर्वलोकस्याविद्यातिमिरोपहतमतिनयनस्य प्रसिद्धिमुपगता इति परस्परापेक्षयैव केवलं प्रसिद्धिमुपगता बालैरभ्युपगम्यन्ते । यथोक्तं शतके-

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥

तस्मात्सति उत्पादे उत्पाद्यम्, सति उत्पाद्ये उत्पादः । सति निरोधे निरोध्यम्, सति निरोध्ये निरोधः, इत्येवं लौकिकस्य व्यवहारस्याभ्युपगमात्कुतो ऽस्मत्पक्षे समप्रसङ्गिता भवितुमर्हति ।

यस्तु विनाशस्य अहेतुकत्वमभ्युपेत्य क्षणिकतां संस्काराणामाह, तस्य निर्हेतुकत्वात् । खपुष्पवद्विनाशाभावात् कुतः क्षणिकत्वं भावानां सेत्स्यति, कुतो विनाशरहितानां संस्कृतत्वमपीति सर्वमेव असमञ्जसं तस्य जायते । जातिप्रत्ययं जरामरणं संस्कृतलक्षणानां च संस्कारस्कन्धान्तर्भाव वर्णयता भगवता ननु सहेतुकत्वं स्पष्टमादर्शितं विनाशस्य । जातिमात्रापेक्षत्वाच्चास्य क्षणभङ्गो ऽपि सुखसाध्य इति सर्वं सुस्थं जायते ॥

अथ स्यात्- विनाशो हि नाम अभावः, यश्च अभावः, किं तस्य हेतुना कर्तव्यम् । अतो निर्हेतुको विनाश इति । ननु च भावे ऽपि हेत्वभावप्रसङ्गो भवति । भावो हि नाम विद्यमानः, यश्च विद्यमानः तस्य च किं हेतुना प्रयोजनम्? न हि जातं पुनरपि जन्यते । तस्मात्सर्वत्रैव हेत्वभावप्रसङ्गादयुक्तमेतत् ॥

अपि च । यथा उत्पादः सहेतुकः पूर्वमभावात्पश्चाच्च भावात्, एवं विनाशो ऽपीष्यताम् । विनाशो हि न सर्वदा भवति, उत्पादात्पूर्वमभावात्पश्चाच्च भावात् । यच्चोच्यते- यश्चाभावः तस्य (प्प्_७३) किं हेतुना कर्तव्यमिति, तदयुक्तम् । यस्मान्न वयं विनाशस्य हेतुना किञ्चित्क्रियमाणमिच्छामः, किं तर्हि विनाश एव क्रियते इति वर्णयामः । नन्वेवं सति क्रियमाणत्वाद्विनाशो ऽपि भावः प्राप्नोतीति चेत्, इष्यत एवैतत् । विनाशो हि स्वरूपापेक्षया भावः, रूपादिधर्मनिवृत्तिस्वभावत्वात्तु न भावः । अपि च । मरणमपि द्विविधकार्यप्रत्युपस्थापनं संस्कारविध्वंसनं च करोति । अपरिज्ञानानुपच्छेदं (?) चेत्यागमात् कथं न सहेतुको विनाशः? अपि च । कल्पिताभावलक्षणायाश्च शून्यतायाः परेण भावरूपतामभ्युपगच्छता कथमभावस्य भावत्वं नाभ्युपगतं भवति? भावत्वाच्च कथमसंस्कृतत्वं शून्यतायाः स्यात्? अतः सर्वमभ्युपेतं विहीयते भवता । अत एव वक्ष्यति-

भवेदभावो भावश्च निर्वाणमुभयं कथम् ।
न संस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ ॥

इत्यलं प्रसङ्गेन । प्रकृतमेव व्याख्यास्यामः ॥

३२ ॥

अत्राह- यदि उत्पादस्थितिभङ्गाः संस्कृतस्य निषिद्धाः, तथापि संस्कृतमस्ति विशेषलक्षणयुक्तम् । तथाहि काठिन्यादिकं सास्नादिकं च तस्य विशेषलक्षणमुपदिश्यते । तस्मात्संस्कृतस्य सद्भावात्तल्लक्षणमप्यस्तीति । उच्यते । स्यादेवं यदि संस्कृतमेव वस्तु स्यात् । कुतः? यस्मात्-

उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम् ।

यदा यथोक्तेन न्यायेन उत्पादस्थितिभङ्गा एव निषिद्धाः, तदा कुतः संस्कृतं वस्तु तद्विशेषलक्षणमप्यस्तीति ॥

अत्राह- विद्यत एव संस्कृतम्, तत्प्रतिपक्षासंस्कृतसद्भावात् । उच्यते । स्यादेतदेवम्, यदि असंस्कृतमेव स्यात् । यस्मात्-

संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम् ॥

३३ ॥

अत्रैके आकाशाप्रतिसङ्ख्यानिरोधनिर्वाणान्यसंस्कृतानीति कल्पयन्ति । अपरे शून्यतां तथतालक्षणामसंस्कृतां परिकल्पयन्ति । तदेतत्सर्वं संस्कृतस्याप्रसिद्धौ सत्यां नास्त्येवेति स्पष्टमादर्शितम् ॥

३३ ॥

अत्राह- यदि उत्पादस्थितिभङ्गा न सन्तीत्यवधारितम्, यत्तर्हि इदमनावरणज्ञानिना मुनिना-

“संस्कृतस्य भिक्षवः उत्पादो ऽपि प्रज्ञायते, व्ययो ऽपि, स्थित्यन्यथात्वमपि”

इत्युदाहृतम्, तत्कथं वेदितव्यमिति? उच्यते-

विश्वास-प्रस्तुतिः

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥

३४ ॥

मूलम्

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा ।
तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम् ॥

३४ ॥

(प्प्_७४)
यथा मायादयः स्वभावेनानुत्पन्ना अविद्यमाना मायादिशब्दवाच्या मायादिविज्ञानगम्याश्च लोकस्य, एवमेते ऽपि लोकप्रसिद्धिमात्रेण उत्पादादयः स्वभावेन अविद्यमाना अपि भगवता तथाविधविनेयजनानुग्रहचिकीर्षुणा निर्दिष्टा इति । अत एवोक्तम्-

त्वक्स्नायुमांसास्थिसमुच्छ्रये च उत्पाद्य सञ्ज्ञां मम पत्निरेषा ।
मूढा हि बला जनयन्ति रागं स्त्रियो न जानन्ति यथैव मायाम् ॥

यथा कुमारी सुपिनान्तरस्मिं सा पुत्र जातं च मृतं च पश्यति ।
जाते ऽतितुष्टा मृति दौर्मनस्थिता तथोपमान् जानथ सर्वधर्मान् ॥

यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव ।
स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् ॥

संस्कृतासंस्कृतधर्मविविक्ता नास्ति विकल्पन तेषमृषीणाम् ।
सर्वगतीषु असंस्कृतप्राप्ता दृष्टिगतेहि सदैव विविक्ता ॥

विश्वास-प्रस्तुतिः

नित्यमरक्त अदुष्ट अमूढाः तस्य सभावसमाहितचित्ता ।
एष समाधिबली बलवन्तो यो इमु जानति शून्यकधर्मान् ॥

इति ॥

३४ ॥

मूलम्

नित्यमरक्त अदुष्ट अमूढाः तस्य सभावसमाहितचित्ता ।
एष समाधिबली बलवन्तो यो इमु जानति शून्यकधर्मान् ॥

इति ॥

३४ ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ संस्कृतपरीक्षा नाम सप्तमं प्रकरणम् ॥

(प्प्_७५)