रागरक्तपरीक्षा षष्ठं प्रकरणम् ।
अत्राह- विद्यन्त एव स्कन्धायतनधातवः । कुतः? तदाश्रयसङ्क्लेशोपलब्धेः । इह यन्नास्ति, न तदाश्रयसङ्क्लेशोपलब्धिरस्ति बन्ध्यादुहितुरिव वन्ध्यासूनोः । सन्ति च रागादयः क्लेशाः सङ्क्लेशनिबन्धनम् । यथोक्तं भगवता- बालो भिक्षवे अश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते । सो ऽभिनिविष्टः सन् रागमुत्पादयति । रक्तः सन् रागजं द्वेषजं मोहजं कर्माभिसंस्करोति कायेन वाचा मनसेति विस्तरः । उच्यते । स्युः स्कन्धायतनधातवो यदि रागादय एव क्लेशाः स्युः । इहायं रागः परिकल्प्यमानो बालपृथग्जनैः सति रक्ते नरे परिकल्प्येत असति वा? उभयथा च न युज्यत इत्याह-
विश्वास-प्रस्तुतिः
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥
१ ॥
मूलम्
रागाद्यदि भवेत्पूर्वं रक्तो रागतिरस्कृतः ।
तं प्रतीत्य भवेद्रागो रक्ते रागो भवेत्सति ॥
१ ॥
तत्र रागः सक्तिरध्यवसानं सङ्गो ऽभिनिवेश इति पर्यायाः । रक्तो रागाश्रयः । स यदि रक्तो रागात्पूर्वं रागतिरस्कृतो रागरहितो भवेत्, तदा तं रागतिरस्कृतं रक्तं प्रतीत्य रागो भवेत् । एवं सक्ति रक्ते रागो भवेदिति युक्तम् । न त्वेवं सम्भवति, यद्रागरहितो रक्तः स्यात् । अर्हतामपि रागप्रसङ्गात् ॥
१ ॥
यद्येवं सति रक्ते न रागः, असति तर्हि रक्ते रागो ऽस्तु । एतदप्ययुक्तमित्याह-
रक्ते ऽसति पुना रागः कुत एव भविष्यति ।
यदा सति रक्ते रागो नास्ति, तदा कथमसति रक्ते निराश्रयो रागः सेत्स्यति? न हि असति फले तत्पक्वता सम्भवतीति ॥
अत्राह- यद्यपि त्वया रागो निषिद्धः, तथापि रक्तो ऽस्ति, अप्रतिषेधात् । न च रागमन्तरेण रक्तो युक्तः, तस्मादयमप्यस्तीति । उच्यते । स्याद्रागो यदि रक्तः स्यात् । यस्मादयं रक्त इष्यमाणः सति वा रागे परिकल्प्येत, असति वा? उभयथा च नोपपद्यते इत्याह-
सति वासति वा रागे रक्ते ऽप्येष समः क्रमः ॥
२ ॥
तत्र यदि सति रागे रक्तः परिकल्प्येत, तत्रापि एष एव रागानुपपत्तिक्रमो ऽनन्तरोक्तो रक्ते ऽपि तुल्यः ।
रक्ताद्यदि भवेत्पूर्वं रागो रक्ततिरस्कृतः ।
इत्यादि । अथासति रागे रक्त इष्यते, एतदप्ययुक्तम् । यस्मात्-
रागे ऽसति पुना रक्तः कुत एव भविष्यति ।
इति । तस्माद्रक्तो ऽपि नास्ति । रागरक्ताभावाच्च स्कन्धादयो ऽपि न सन्तीति ॥
२ ॥
(प्प्_५६)
अत्राह- नैव हि रागरक्तयोः पौर्वापर्येण सम्भवो यत इदं दूषणं स्यात्, किं तर्हि रागरक्तयोः सहैवोद्भवः । चित्तसहभूतेन रागेण हि चित्तं रज्यते, तच्च रक्तमिति । अतो विद्येते एव रागरक्ताविति । उच्यते । एवमपि-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः ।
सहोत्पादो ऽपि न युक्तो रागरक्तयोः । यस्मात्-
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥
३ ॥
सहभावात् सव्येतरगोविषाणवदित्यभिप्रायः ॥
३ ॥
अपि च । अनयो रागरक्तयोः सहभावः एकत्वे परिकल्प्येत पृथक्त्वे वा? तत्र यदि एकत्वे, तन्न युज्यते । यस्मात्
नैकत्वे सहभावो ऽस्ति
कस्मात्पुनर्नास्तीत्याह-
न तेनैव हि तत्सह ।
न हि रागस्वात्मा रागादव्यतिरिक्तो रागेण सहेति व्यपदिश्यते ॥
इदानीं पृथक्त्वे ऽपि सहभावाभावमाह-
पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति ॥
४ ॥
न हि पृथग्भूतयोरालोकान्धकारयोः संसारनिर्वाणयोर्वा सहभावो दृष्ट इति ॥
४ ॥
किं चान्यत्-
विश्वास-प्रस्तुतिः
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥
५ ॥
मूलम्
एकत्वे सहभावश्चेत्स्यात्सहायं विनापि सः ।
पृथक्त्वे सहभावश्चेत्स्यात्सहायं विनापि सः ॥
५ ॥
यदि एकत्वे सहभावः स्यात्, तदा यत्र यत्रैकत्वं तत्र तत्र सहभाव इत्येकस्यापि सहभावः स्यात् । पृथक्त्वे ऽपि सहभावे इष्यमाणे यत्र यत्र पृथक्त्वं तत्र तत्र सहभाव इति अश्वादिव्यतिरिक्तस्य पृथगवस्थितस्य गोः असहायस्य सहभावः स्यात् ॥
५ ॥
किं च-
विश्वास-प्रस्तुतिः
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥
६ ॥
मूलम्
पृथक्त्वे सहभावश्च यदि किं रागरक्तयोः ।
सिद्धः पृथक्पृथग्भावः सहभावो यतस्तयोः ॥
६ ॥
पृथक्त्वे सहभावश्च रागरक्तयोः परिकल्प्यते । किमनयोः सिद्धः पृथक्पृथग्भावः? किं रागनिरपेक्षो रक्तः सिद्धो यतस्तयोः सहभावः स्यात्? पृथक्पृथक्सिद्धयोरेव हि गवाश्वयोः सहभावो दृष्टः । न त्वेवं रागरक्तौ पृथक्पृथक्सिद्धाविति नास्त्यनयोः सहभावः ॥
६ ॥
अथवा । पृथक्पृथगसिद्धयोर्न सहभाव इति कृत्वा-
सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः ।
परिकल्प्यते भवता, किमिदानीं सहभावेनाकिञ्चित्करेण परिकल्पितेनेत्याह-
सहभावं किमर्थं तु परिकल्पयसे तयोः ॥
७ ॥
(प्प्_५७)
रागरक्तयोः सिद्धयर्थं सहभावः परिकल्प्यते । सच पृथक्पृथगसिद्धयोर्नास्तीति पृथक्पृथक् सिद्धिरभ्युपगम्यते त्वया । नन्वेवं सति सिद्धत्वात्किमनयोः सहभावेन कृत्यम्?
अथ-
पृथङ् न सिध्यतीत्येवं सहभावं विकाङ्क्षसि ।
पृथक्पृथग् रागरक्तयोः सिद्धिर्नास्तीति कृत्वा यद्यनयोः सहभावमिच्छसि, स च पृथक्पृथगसिद्धयोर्नास्तीति-
सहभावप्रसिद्धयर्थ पृथक्त्वं भूय इच्छसि ॥
८ ॥
नन्वेवं सति इतरेतराश्रयायां सिद्धौ स्थितायां कस्येदानीं सिद्धौ सत्यां कस्य सिद्धिरस्तु? ॥
८ ॥
यावता-
विश्वास-प्रस्तुतिः
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥
९ ॥
मूलम्
पृथग्भावाप्रसिद्धेश्च सहभावो न सिध्यति ।
कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि ॥
९ ॥
नास्त्येव स पृथग्भावः सहभावानपेक्षो यस्मिन् पृथग्भावे सति सहभावसिद्धिः स्यादित्यसम्भावयन्नाह-
कतमस्मिन्पृथग्भावे सहभावं सतीच्छसि ॥
९ ॥
तदेवं यथोदितविचारपरामर्शेन रागरक्तयोरसिद्धिं निगमयन्नाह-
एवं रक्तेन रागस्य सिद्धिर्न सह नासह ।
इति । यथा च रागरक्तयोर्न पौर्वापर्येण सिद्धिः नापि सहभावेन, एवं सर्वभावानामपीत्यतिदिशन्नाह-
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥
१० ॥
इति द्वेषद्विष्टमोहमूढादीनां रागरक्तवदसिद्धिर्योज्यते ॥
१० ॥
अत एवोक्तं भगवता-
यो रज्येत यत्र वा रज्येत येन वा रज्येत, यो दुष्येत यत्र वा दुष्येत येन वा दुष्येत, यो मुह्येत यत्र वा मुह्येत येन वा मुह्येत, स तं धर्म न समनुपश्यति तं धर्म नोपलभते । स तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते । तीर्णः पारग इत्युच्यते । क्षेमप्राप्त इत्युच्यते । अभयप्राप्त इत्युच्यते । यावत् क्षीणास्रव इत्युच्यते । निःक्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञ आजानेयो महाभागः कृतकृत्यः कृतकरणीयः अपहतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशितापरमपारमिप्राप्तः श्रमण इत्युच्यते । इति विस्तरः ॥
(प्प्_५८)
तथा-
ये रागदोषमदमोहसभाव ज्ञात्वा सङ्कल्पहेतुजनितं वितथप्रवृत्तम् ।
न विकल्पयन्ति न विरागमपीह तेषाम् [आशु] सर्वभवभावविभावितानाम् ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ रागरक्तपरीक्षा नाम षष्ठं प्रकरणम् ॥
(प्प्_५९)