धातुपरीक्षा पञ्चमं प्रकरणम् ॥
अत्राह- धातवः सन्ति प्रतिषेधाभावात् । उक्तं च भगवता- षड्धातुरयं महाराज पुरुषपुद्गल इत्यादि । ततश्च प्रवचनपाठाद्धातुवत्स्कन्धायतनान्येव सन्तीति । उच्यते । स्युः स्कन्धायतनानि यदि धातव एव स्युः । कथमित्याह-
विश्वास-प्रस्तुतिः
नाकाशं विद्यते किञ्चित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
१ ॥
मूलम्
नाकाशं विद्यते किञ्चित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
१ ॥
तत्र षड् धातव उक्ताः पृथिव्यप्तेजोवाय्वाकाशविज्ञानाख्याः । तत्राकाशमधिकृत्योच्यते दूषणं स्वरूपनिरूपणात् । इहाकाशस्यानावरणं लक्षणमुच्यते । यद् यस्मात्पूर्वमाकाशमनावरण लक्षणाल्लक्ष्यं स्यात्, तत्र लक्षणप्रवर्तनादनावरणलक्षणात्पूर्वं नाकाशं लक्ष्यरूपमिति । यदा चैवम्-
नाकाशं विद्यते किञ्चित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
तथाहि अलक्षणं प्रवर्तताम् । तदभावे खपुष्पवन्नास्त्याकाशमित्याह-
अलक्षणो न कश्चिच्च भावः संविद्यते क्वचित् ।
इति । अत्राह- लक्षणप्रवृत्तिर्लक्ष्ये भवेत्, तत्सद्भावाल्लक्ष्यमप्यस्तीति । एतदपि नास्ति । यस्मात्-
असत्यलक्षणे भावे क्रमतां कुह लक्षणम् ॥
२ ॥
लक्षणात्पूर्वमलक्षणो भावो नास्तीत्युक्तम् । ततश्च असति असंविद्यमाने अलक्षणे लक्षणरहिते भावे कुह इदानीं लक्षणम्प्रवर्ततामिति नास्ति लक्षणप्रवृत्तिः ॥
२ ॥
अपि च । इदं लक्षणं प्रवर्तमानं सलक्षणे वा प्रवर्तेत अलक्षणे वा? उभयथा च नोपपद्यत इत्याह-
विश्वास-प्रस्तुतिः
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥
३ ॥
मूलम्
नालक्षणे लक्षणस्य प्रवृत्तिर्न सलक्षणे ।
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ॥
३ ॥
तत्र अलक्षणे खरविषाणवन्न लक्षणप्रवृत्तिः । सलक्षणे ऽपि भावे न लक्षणप्रवृत्तिरूपपद्यते प्रयोजनाभावात् । किं हि लक्षणवतः प्रसिद्धस्य भावस्य पुनर्लक्षणकृत्यं स्यात्? इत्यनवस्था अतिप्रसङ्गश्चैवं स्यात् । न ह्यसौ कदाचिन्न सलक्षणः स्यादिति सदैव लक्षणप्रवृत्तिः प्रसज्येत । न चैतदिष्टम् । तस्मात्सलक्षणे ऽपि भावे न लक्षणप्रवृत्तिपरुपद्यते प्रयोजनाभावात् । तत्रैवं स्यात्- सलक्षणालक्षणाभ्यामन्यत्र प्रवर्तिष्यत इति । उच्यते-
सलक्षणालक्षणाभ्यां नाप्यन्यत्र प्रवर्तते ।
किं कारणम्? असद्भावात् । यदि सलक्षणो नालक्षणः, अथालक्षणो न सलक्षणः । अतः सलक्षणश्च अलक्षणश्चेति विप्रतिषिद्धमेतत् । न च विप्रतिषिद्धं सम्भवति । तस्मादसम्भवादेव सलक्षणे चालक्षणे च लक्षणप्रवृत्तिर्नोपपद्यते इति ॥
३ ॥
(प्प्_५२)
अथापि स्यात्- यद्यपि न लक्षणप्रवृत्तिः, तथापि लक्ष्यमस्तीति एतदपि नास्ति । यस्मात्-
लक्षणासम्प्रवृत्तौ च न लक्ष्यमुपपद्यते ।
यदा लक्षणप्रवृत्तिरेव नास्ति तदा कथं लक्ष्यं स्यात्? नैव सम्भवतीत्यभिप्रायः ।
अत्राह- लक्षणप्रवृत्तिस्त्वया निषिद्धा न तु लक्षणम्, ततश्च विद्यते लक्ष्यम्, लक्षण सद्भावात् । उच्यते-
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसम्भवः ॥
४ ॥
लक्षणासम्प्रवृत्तौ च न लक्ष्यमुपपद्यते इति प्रतिपादितम् । तदा
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसम्भवः ।
निराश्रयत्वात् ॥
४ ॥
यदा चैवं लक्षणं नास्ति, तदा लक्षणसद्भावाद्विद्यते लक्ष्यमिति यदुक्तं तन्न यतश्चैतदेवम्-
तस्मान्न विद्यते लक्ष्यं लक्षणं नैव विद्यते ।
इति निगमनम् ॥
अत्राह- यद्यापि लक्ष्यलक्षणे न स्तः, तथा (प्या)काशमस्ति, भावरूपं च भवदाकाश लक्ष्यं लक्षणं वा स्यात् । तस्माल्लक्ष्यलक्षणे अपि ष्ट इति । एतदप्ययुक्तमित्याह-
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ॥
५ ॥
लक्ष्यलक्षणे यथा न स्तः, तथोक्तं प्राक् । यदा अनयोरभावः, तदा लक्ष्यलक्षणरहितत्वादाकाशकुसुमवन्नास्त्याकाशम् ॥
५ ॥
यद्याकाशं भावो न भवति, अभावस्तर्हि अस्तु? एतदपि नास्ति । यस्मात्-
अविद्यमाने भावे च कस्याभावो भविष्यति ।
यदा आकाशं भावो न भवति, तदा भावस्यासत्त्वे कस्याभावः कल्प्यताम्? वक्ष्यति हि-
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति ।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः ॥
इति ।
तस्माद् भावाभावादभावो ऽप्याकाशं न सम्भवति । रूपाभावश्चाकाशमिति व्यवस्थाप्यते । यद्यपि रूपं स्यात्तदा रूपाभाव आकाशमिति स्यात् । यदा च यथोक्तेन न्यायेन रूपमेव नास्ति, तदा कस्याभाव आकाशं स्यात्?
अत्राह- विद्येते एव भावाभावौ, तत्परीक्षकसद्भावात् । अस्ति च भवान् भावाभावयोः परीक्षकः, य एवाह-
अविद्यमाने भावे च कस्याभावो भविष्यति ।
(प्प्_५३)
इति । तस्माद् भवतो भावाभावपरीक्षकस्य सद्भावात् परीक्ष्यावपि भावाभावौ विद्येते इति । उच्यते । एतदप्ययुक्तम् । यस्मात्-
भावाभावविधर्मा च भावाभावमवैति कः ॥
६ ॥
स्यातां भावाभावौ यदि, तदा तयोः परीक्षको भावो व स्यादभावो वा । यदि भाव इष्यते, तस्य
लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते ।
इत्युक्तं दूषणम् । अथ अभावः,
अविद्यमाने भावे च कस्याभावो भविष्यति ।
इत्यत्रोक्तमेतद्दुषणम् । न च भावाभावविसदृशधर्मा कश्चित् तृतीयः पदार्थो ऽस्ति, यो ऽनयोरवगमक इति नास्ति भावाभावयोः परीक्षकः । अत एवोक्तं भगवता-
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते ।
यः सर्वभावेषु न जातु सज्जते स आनिमित्तं भजते समाधिम् ॥
इति ।
तथा-
यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बलः ।
अक्षर कीर्तित शून्यक धर्माः ते च अनक्षर अक्षर उक्ताः ॥
शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चिन्त न जातु न भूतः ।
चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥
इति विस्तरः ॥
६ ॥
इदानीं प्रतिपादितमर्थं निगमयन्नाह-
तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् ।
आकाशम्
इति । यथा चाकाशम्, एवम्-
आकाशसमा धातवः पञ्च ये परे ॥
७ ॥
(प्प्_५४)
पृथिव्यादिधातवो ये पञ्च परे ऽवशिष्यन्ते, ते ऽपि आकाशवद् भावाभावलक्ष्यलक्षणपरिकल्पस्वरूपरहिताः परिज्ञेया इत्यर्थः ॥
७ ॥
तदेवं पदार्थानां स्वभावे व्यवस्थिते अविद्यातिमिरोपहतमतिनयनतया अनादिसंसाराभ्यस्ततया भावाभावादिविपरीतदर्शना निर्वाणानुगाम्यविपरीतनैःस्वभाव्यदर्शनसन्मार्गपरिभ्रष्टाः
विश्वास-प्रस्तुतिः
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥
८ ॥
मूलम्
अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः ।
भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् ॥
८ ॥
द्रष्टव्योपशमं शिवलक्षणं सर्वकल्पनाजालरहितं ज्ञानज्ञेयनिवृत्तिस्वभावं शिवं परमार्थस्वभावम् । परमार्थमजरममरमप्रपञ्चं निर्वाणं शून्यतास्वभावं ते न पश्यन्ति मन्दबुद्धितया अस्तित्वं नास्तित्वं चाभिनिविष्टाः सन्त इति । यथोक्तमार्यरत्नावल्याम्-
नास्तिको दुर्गतिं याति सुगतिं यात्यनास्तिकः ।
यथाभूतपरिज्ञानान्मोक्षमद्वयनिश्रितः ॥
इति ॥
आर्यसमाधिराजे चोक्तं भगवता-
अस्तीति नास्तीति उमे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता ।
तस्मादुमे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥
अस्तीति नास्तीति विवाद एषः शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्त्या न दुखं प्रशाम्यते अविवादप्राप्त्या च दुःखं निरुध्यते ॥
इति ।
तस्मादसम्भव एव यत्सांसारिकेण मार्गेण निर्वाणमधिगम्यत इति ॥
८ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ धातुपरीक्षा नाम पञ्चमं प्रकरणम् ॥
(प्प्_५५)