०४ स्कन्धपरीक्षा

स्कन्धपरीक्षा चतुर्थ प्रकरणम् ।

अत्राह- यद्येवं चक्षुरादीनीन्द्रियाणि न सन्ति, न स्कन्धाः, अप्रतिषेधात् तदन्तर्गतानि चेन्द्रियाणि, अतस्तान्यपि भविष्यन्तीति । उच्यते । स्युरेव, यदि स्कन्धाः स्युः तत्र रूपस्कन्धमधिकृत्याह-

विश्वास-प्रस्तुतिः

रूपकारणनिर्मुक्तं न रूपमुपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥

१ ॥

मूलम्

रूपकारणनिर्मुक्तं न रूपमुपलभ्यते ।
रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् ॥

१ ॥

तत्र रूपं भौतिकम् । तस्य कारणं चत्वारि महाभूतानि । तद्वयतिरिक्तं पृथग्भूतं रूपं रूपशब्दगन्धरसस्प्रष्टव्याख्यं नोपलभ्यते घटादिव पटः । रूपेणापि न निर्मुक्तं रूपात्पृथग्भूतं रूपकारणमुपलभ्यते ॥

१ ॥

तदेतत्प्रतिज्ञाद्वयं प्रसाधयितुकाम आह-

विश्वास-प्रस्तुतिः

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकम्, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥

२ ॥

मूलम्

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकम्, न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥

२ ॥

यथा घटादर्थान्तरभूतः पटो न घटहेतुकः, एवं रूपकारणचतुर्महाभूतव्यतिरिक्त भौतिकं रूपमिष्यमाणं न भूतहेतुकं स्यात् । न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् । तस्मादहेतुकत्वदोषप्रसङ्गान्न रूपकारणनिर्मुक्तं रूपमभ्युपेतव्यमिति ॥

२ ॥

इदानीं रूपेणापि विनिर्मुक्तं यथा रूपकारणं नास्ति, तथा प्रतिपादयन्नाह-
रूपेण तु विनिर्मुक्तं यदि स्याद्रूपकारणम् ।

यदि कार्यरूपविनिर्मुक्तं रूपकारणं स्यात्, तदा, यथा घटात्कुण्डं पृथक्सिद्धं घटहेतुकं न भवति, एवं कार्यात्पृथग्भूतं कारणमिष्यमाणम्-

अकार्यकं कारणं स्यात्

निर्हेतुकं स्यात् । कारणस्य हि कारणत्वे कार्यप्रवृत्तिर्हेतुः, कार्यनिरपेक्षाच्च कारणात् पृथक्सिद्धा नास्ति कार्यप्रवृत्तिः । यच्चाकार्यकं कारणं तन्निर्हेतुकत्वान्नरोरगतुरगविषाणवन्नास्त्येवेत्याह-

नास्त्यकार्यं च कारणम् ॥

३ ॥

इति ॥

३ ॥

अथ चेदं रूपस्य कारणमिष्यमाणं सति वा रूपे कारणत्वेनेष्यते ऽसति वा? उभयथा च नोपपद्यत इत्याह-

विश्वास-प्रस्तुतिः

रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते ॥

४ ॥

मूलम्

रूपे सत्येव रूपस्य कारणं नोपपद्यते ।
रूपे ऽसत्येव रूपस्य कारणं नोपपद्यते ॥

४ ॥

सति वा संविद्यमाने रूपे किं रूपकारणेन प्रयोजनम्? असति असंविद्यमाने रूपे किं किं रूपकारणेन प्रयोजनम्, कस्य वा तत्कारणं परिकल्प्यते? तस्मादसत्यपि रूपे रूपकारणं नोपपद्यते ॥

४ ॥

(प्प्_४९)
अथ स्यात्- यद्यपि एवं रूपकारणं न सम्भवति, तथापि कार्यं रूपं संविद्यते, सद्भावात् कारणमपि भविष्यतीति । स्यादेवम्, यदि कार्यं रूपं स्यात् । न त्वस्ति । य्स्मात्-

निष्कारणं पुना रूपं नैव नैवोपपद्यते ।

रूपकारणं यथा नास्ति तथोक्तम् । असति कारणे कुतो निर्हेतुकं कार्यं रूपं भवेत्? नैव नैवेत्यनेन सावधारणेन प्रतिषेधद्वयेन अहेतुकत्वादस्यात्यनिष्टतां दर्शयति । यतश्चैवं रूपं सर्वथा विचार्यमाणं न सम्भवति,

तस्मात्

तत्त्वदर्शी योगी

रूपगतान् कांश्चिन्न विकल्पान् विकल्पयेत् ॥

५ ॥

सप्रतिघाप्रतिघसनिदर्शनानिदर्शनातीतानागतनीलपीतादिविकल्पान् रूपालम्बनान्न कांश्चित्परिकल्पयितुमर्हतीत्यर्थः ॥

५ ॥

अपि च । इदं रूपकारणमिष्यमाणं सदृशं कार्यं निष्पादयेदसदृशं वा? उभयथा च नोपपद्यते इत्याह-

विश्वास-प्रस्तुतिः

न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते ॥

६ ॥

मूलम्

न कारणस्य सदृशं कार्यमित्युपपद्यते ।
न कारणस्यासदृशं कार्यमित्युपपद्यते ॥

६ ॥

तत्र रूपकारणं कठिनद्रवोष्णतरलस्वभावम् । भौतिकं तु चक्षुराध्यात्मिकं पञ्चचक्षुर्विज्ञानाद्याश्रयकरूपप्रसादात्मकम् । बाह्यं तु रूपाद्यायतनादिकं चक्षुर्विज्ञानादिग्राह्यलक्षणं न महाभूतस्वभावमिति । अतो भिन्नलक्षणत्वान्निर्वाणवत्कार्यकारणयोः सादृश्यमेव नास्तीति

न कारणस्य सदृशं कार्यमित्युपपद्यते ।

न चापि सदृशानां शालिबीजादीनां परस्परकार्यकारणभावो दृष्टः, इत्यतः
न कारणस्य सदृशं कार्यमित्युपपद्यते ।

तथापि

न कारणस्यासदृशं कार्यमित्युपपद्यते ।

भिन्नलक्षणत्वान्निर्वाणवदेवेत्यभिप्रायः ॥

६ ॥

यथा चेदं रूपं विचार्यमाणं सर्वथा नोपपद्यते, एवं वेदनादयो ऽपि, इत्यतिदिशन्नाह-

विश्वास-प्रस्तुतिः

वेदनाचित्तसञ्ज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥

७ ॥

मूलम्

वेदनाचित्तसञ्ज्ञानां संस्काराणां च सर्वशः ।
सर्वेषामेव भावानां रूपेणैव समः क्रमः ॥

७ ॥

वेदनादिकमपि सर्वं रूपविचारेणैव समं योज्यम् । यथैव ह्येकस्य धर्मस्य शून्यता प्रतिपादयितुमिष्टा माध्यमिकेन, तथैव सर्वधर्माणामपीति ॥

७ ॥

अतः-

विश्वास-प्रस्तुतिः

विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते ॥

८ ॥

मूलम्

विग्रहे यः परीहारं कृते शून्यतया वदेत् ।
सर्वं तस्यापरिहृतं समं साध्येन जायते ॥

८ ॥

(प्प्_५०)
तत्र परपक्षदूषणं विग्रहः । शून्यतया कारणभूतया रूपं निःस्वभावमित्येवं सस्वभाववादे प्रतिषिद्धे, यदि परः परिहारं ब्रूयात्- वेदनादयस्तावत्सन्ति, तद्वद्रूपमप्यस्तीति, तदेतत्सर्वं तस्यापरिहृतं भवति । यस्माद्वेदनादीनामपि सद्भावः साध्येन रूपसद्भावेन समो वेदितव्यः । यथा रूपं स्वकारणात्तत्त्वान्यत्वेन विचार्यमाणमसत्, एवं स्पर्शप्रत्यया वेदना, विज्ञानसहजा सञ्ज्ञा, अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं च विज्ञानं स्वकारणात्स्पर्शादेः तत्त्वान्यत्वादिना विचार्यमाणं नास्तीति सर्वमेतत्साध्यसमं भवति । यथा वेदनादयः साध्यसमाः, एवं लक्ष्यलक्षणकार्यकारणावयव्यवयवादयो ऽपि सर्व एव पदार्थाः रूपेण साध्येन समा इति कुतः परस्य परीहार सम्भवेत्? सर्वं वचनमस्य साध्यसमं भवतीति सर्वत्र शास्त्रे परीहारेण साध्यसमत्वं माध्यमिकेना ग्राहणीयमित्याचार्यः शिक्षयति ॥

८ ॥

यथा च परपक्षदूषणे विहि ऽतोयं विधिः, एवं व्याख्यानकाले ऽपीत्याह-

विश्वास-प्रस्तुतिः

व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥

९ ॥

मूलम्

व्याख्याने य उपालम्भं कृते शून्यतया वदेत् ।
सर्वं तस्यानुपालब्धं समं साध्येन जायते ॥

९ ॥

व्याख्यानकाले ऽपि यः शिष्यदेशीयश्चोद्यमुपालम्भं कुर्यात्, तस्यापि तच्चोद्यमुपालम्भाख्यं पूर्ववत्साध्यसमं वेदितव्यम् । यथोक्तम्-

भावस्यैकस्य यो द्रष्टा द्रष्टा सर्वस्य स स्मृतः ।
एकस्य शून्यता यैव सैव सर्वस्य शून्यता ॥

इति ।

आर्यगगनगञ्जसमाधिसूत्रे ऽपि-

एकेन धर्मेण तु सर्वधर्मान् अनुगच्छते मायमरीचिसादृशान् ।
अग्राह्यतुच्छानलिकानशाश्वतान् सो बोधिमण्डं नचिरेण गच्छति ॥

इति ॥

समाधिराजसूत्रे ऽपि-

यथ ञात तयात्मसञ्ज्ञ तथैव सर्वत्र पेषिता बुद्धिः ।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः ॥

एकेन सर्वं जानाति सर्वमेकेन पश्यति ।
कियद्बहु पि भावेत्वा न तस्योत्पद्यते मदः ॥

इति ।

इत्याचार्यचन्द्रकीर्तिपादोपरचित्तायां प्रसन्नपदायां मध्यमकवृत्तौ स्कन्धपरीक्षा नाम चतुर्थ प्रकरणम् ॥

(प्प्_५१)