चक्षुरादीन्द्रियपरीक्षा तृतीयं प्रकरणम् ।
अत्राह- यद्यपि गतिश्च गन्ता च गन्तव्यं च न विद्यते, तथापि प्रवचनसिद्धयपेक्षया द्रष्ट्टद्रष्टव्यदर्शनादीनामस्तित्वमास्थेयम् । तथा चाभिधर्मे उच्यते ।
विश्वास-प्रस्तुतिः
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥
१ ॥
मूलम्
दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
इन्द्रियाणि षडेतेषां द्रष्टव्यादीनि गोचरः ॥
१ ॥
तस्मात्सन्ति दर्शनादीनि स्वभावत इति । उच्यते । न सन्ति । इह हि पश्यतीति दर्शनं चक्षुः, तस्य च रूपं विषयत्वेनोपदिश्यते ॥
१ ॥
यथा दर्शनं रूपं न पश्यति तथा प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥
२ ॥
मूलम्
स्वमात्मानं दर्शनं हि तत्तमेव न पश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥
२ ॥
तत्र तदेव दर्शनं स्वात्मानं न पश्यति स्वात्मनि क्रियाविरोधात् । ततश्च स्वात्मादर्शनाच्छ्रोत्रादिवन्नीलादिकं न पश्यति । तस्मान्नास्ति दर्शनम् ॥
२ ॥
यद्यपि स्वात्मानं दर्शनं न पश्यति, तथाष्यग्निवत् परान् द्रक्ष्यति । तथा हि अग्निःपरात्मानमेव दहति न स्वात्मानम्, एवं दर्शनं परानेव द्रक्ष्यति न स्वात्मानमिति । एतदत्ययुक्तम् । यस्मात्-
न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये ।
यो ऽयमग्निदृष्टान्तो दर्शनस्य प्रसिद्धये भवतोपन्यस्तः, स न पर्याप्तो नालं न समर्थो न युज्यत इत्यर्थः । यस्मात्-
सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः ॥
३ ॥
सह दर्शनेन वर्तत इति सदर्शनः । यो ऽयमग्निदृष्टान्तो दर्शनप्रसिद्धये भवतोपन्यस्तः, सो ऽपि सह दर्शनेन दार्ष्टान्तिकार्थेन प्रत्युक्तो दूषितः । केन पुनरित्याह- गम्यमानगतागतैः । यथा गतं न गम्यते नागतं न गम्यमानम्, एवमग्निनापि दग्धं न दह्यते नादग्धं दह्यत इत्यादिना समं वाच्यम् । यथा च न गतं नागतं न गम्यमानं गम्यते, एवम्-
न दृष्टं दृश्यते तावददृष्टं नैव दृश्यते ।
दृष्टादृष्टविनिर्मुक्तं दृश्यमानं न दृश्यते ॥
इत्यादि वाच्यम् ॥
३ ॥
यथा च गन्ता न गच्छति तावदित्याद्युक्तम्, एवं न दग्धा दहति तावदित्यादि वाच्यम् । एवं न द्रष्टा पश्यति तावदित्यादिना अग्निदृष्टान्तेन सह गम्यमानगतागतैर्यस्मात्समं दूषणम्, अतो ऽग्निवद् (प्प्_४४) दर्शनसिद्धिरिति न युज्यते । ततश्च सिद्धमेतत्- स्वात्मवद् दर्शनं परानपि न पश्यतीति ॥
३ ॥
यदैवं तदा-
विश्वास-प्रस्तुतिः
नापश्यमानं भवति यदा किञ्चन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥
४ ॥
मूलम्
नापश्यमानं भवति यदा किञ्चन दर्शनम् ।
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥
४ ॥
यदा चैवमपश्यन्न किञ्चिद्दर्शनं भवति, तदानीमपश्यतो दर्शनात्वायोगात् स्तम्भादिवत्, पश्यतीति दर्शनमिति व्यपदेशो न युज्यते । यद्यपि दर्शनशब्दादनन्तरं श्लोकबन्धानुरोधेन दर्शन पश्यतीति पाठः, तथापि व्याख्यानकाले पश्यतीति दर्शनमित्येवं कथमेतत्तु युज्यते इति पठितव्यम् ॥
४ ॥
किं चान्यत्- इह पश्यतीति दर्शनमित्युच्यमाने दर्शनक्रियया दर्शनस्वभावस्य वा चक्षुषः सम्बन्धः परिकल्प्येत, अदर्शनस्वभावस्य वा? उभयथा च न युज्यते इत्याह-
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
दर्शनस्वभावस्य तावद् दृशिक्रियायुक्तस्य भूयः पश्यतीत्यादिना सम्बन्धो नोपपद्यते दृशिक्रियाद्वयप्रसङ्गात् दर्शनद्वयप्रसङ्गाच्च । अदर्शनमपि न पश्यति दर्शनक्रियारहितत्वादङ्गूल्यग्रवदित्याभिप्रायः । यदा
पश्यति दर्शनं नैव नैव पश्यत्यदर्शनम् ।
तदा
दर्शनं पश्यतीत्येवं कथमेतत्तु युज्यते ॥
इत्यनेनैव सम्बन्धः ॥
ये तु मन्यन्ते- निर्व्यापारं हीदं धर्ममात्रमुत्पद्यमानमुत्पद्यते इति, नैव किञ्चित्, कश्चिद्विषयं पश्यति क्रियाया अभावात्, तस्माद्दर्शनं न पश्यतीति सिद्धमेतत्प्रसाध्यत इति । अत्रोच्यते । यदि क्रिया व्यवहाराङ्गभूता न स्यात्, तदा धर्ममात्रमपि न स्यात्, क्रियाविरहितत्वात्, खपुष्पवदिति कुतः क्रियारहितं धर्ममात्रं भविष्यति? तस्माद्यदि व्यवहारसत्यं धर्ममात्रवत् क्रियाप्यभ्युपगम्यताम् । अथ तत्त्वचिन्ता, तदा क्रियावद् धर्ममात्रमपि नास्तीति भवताभ्युपगम्यताम् । यथोक्तं शतके-
क्रियावान् शाश्वतो नास्ति नास्ति सर्वगते क्रिया ।
निष्क्रियो नास्तिना तुल्यो नैरात्म्यं किं न ते प्रियम् ॥
इति ।
तस्मान्नायं विधिर्बाधकः परस्य, नाप्यस्माकं सिद्धसाधनदोषः ॥
अत्राह- नैव हि पश्यतीति दर्शनमिति कर्तृसाधनमभ्युपगम्यते, किं तर्हि पश्यत्यनेनेती दर्शनमिति करणसाधनम्, ततश्च उक्तदोषाप्रसङ्गः । यश्चानेन दर्शनेन करणभूतेन पश्यति, स द्रष्टा, एष च विद्यते विज्ञानमात्मा वा, कर्तृसद्भावाच्च दर्शनमपि सिद्धमिति । उच्यते-
व्याख्यातो दर्शनेनैव द्रष्टा चाप्युपगम्यताम् ॥
५ ॥
(प्प्_४५)
यथा स्वमात्मानं दर्शनं हीत्यादिना दूषणमुक्तम्, एवं द्रष्टुरपि दर्शनवद्दूषणं वेदितव्यम् । तद्यथा-
स्वमात्मानं नैव द्रष्टा दर्शनेन विपश्यति ।
न पश्यति यदात्मानं कथं द्रक्ष्यति तत्परान् ॥
इत्यादि वाच्यम् । तस्माद्दर्शनवद् द्रष्टापि नास्तीति सिद्धम् ॥
५ ॥
अत्राह- विद्यत एव द्रष्टा तत्कर्मकरणसद्भावात् । इह यन्नास्ति इति, न तस्य कर्मकरणे विद्येते तद्यथा वन्ध्यासूनोः । अस्ति च द्रष्टुः करणं दर्शनं द्रष्टव्यं च कर्म । तस्माच्छेत्तृवद्विद्यमानकर्मकरणो विद्यत एव द्रष्टेति । उच्यते । नैव हि द्रष्टव्यदर्शने विद्येते, तत्कुतो द्रष्टा स्यात्? द्रष्टुसापेक्षे हि द्रष्टव्यदर्शने । स च निरूत्त्यमाणः-
तिरस्कृत्य द्रष्टा नास्त्यतिरस्कृत्य च दर्शनम् ।
इह द्रष्टा नाम यदि कश्चित्स्यात्, स दर्शनसापेक्षो वा स्यान्निरपेक्षो वा । तत्र यदि दर्शनसापेक्षो ऽतिरस्कृत्य दर्शनमिष्यते, तदा सिद्धस्य वा दर्शनापेक्षा स्यादसिद्धस्य वा । तत्र सिद्धो द्रष्टा न हि दर्शनमपेक्षते । किं सिद्धस्य सतो द्रष्टुः पुनर्दर्शनापेक् षा कुर्यात्? न हि सिद्धं पुनरपि साध्यत इति । अथासिद्धो ऽपेक्षेत, असिद्धत्वाद्वन्ध्यासुतवद्दर्शनं नापेक्षते । एवं तावदतिरस्कृत्य दर्शनमपेक्ष्य द्रष्टा नास्ति । तिरस्कृत्यापि, दर्शननिरपेक्षत्वात् इत्युक्तं प्राक् । तदेवं तिरस्कृत्यातिरस्कृत्य वा दर्शनं यदा द्रष्टा नास्ति, तदा-
द्रष्टव्यं दर्शनं चैव द्रष्टर्यसति ते कुतः ॥
६ ॥
द्रष्टर्यसति निर्हेतुके द्रष्टव्यदर्शने न सम्भवतः इति कुतस्तत्सद्भावाद् द्रष्टा प्रसेत्स्यति?
अत्राह- विद्येते एव द्रष्टव्यदर्शने, तत्कार्यसद्भावात् । तत्र-
विश्वास-प्रस्तुतिः
प्रतीत्य मातापितरौ यथोक्तः पुत्रसम्भवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसम्भवः ॥
७ ॥
मूलम्
प्रतीत्य मातापितरौ यथोक्तः पुत्रसम्भवः ।
चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसम्भवः ॥
७ ॥
इति द्रष्टव्यं दर्शनं च प्रतीत्य विज्ञानमुत्पद्यते । त्रयाणां सन्निपातात्सास्रवस्पर्शः, स्पर्शसहजा वेदना, तत्प्रत्यया तृष्णेति । एवं चत्वार्यपि भवाङ्गानि द्रष्टव्यदर्शनहेतुकानि विद्यन्ते । तस्मात्कार्यसद्भावाद् द्रष्टव्यदर्शने विद्येते इति । ७ ॥
उच्यते- स्यातामेते, यदि विज्ञानादिचतुष्टयमेव स्यात् । यस्मात्-
द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयम् ।
नास्तीति
इह द्रष्टुरभावाद् द्रष्टव्यदर्शने अपि न स्त इत्युक्तम् । अतः कुतो विज्ञानादिचतुष्टयं विज्ञानस्पर्शवेदनातृष्णाख्यम्? तस्मान्न सन्ति विज्ञानादीनि ॥
अत्राह- सन्त्येवतानि तत्कार्यसद्भावात् । इह तृष्णाप्रत्ययमुपादानमित्यादिना उपादानभवजातिजरामरणादिकं विज्ञानादिचतुष्टयादुत्पद्यते, तस्मात्सन्ति विज्ञानादीनि तत्कार्यसद्भावात् । (प्प्_४६) उच्यते । स्युरुपादानादीनि यदि विज्ञानादिचतुष्टयमेव स्यात् । यदा तु द्रष्टव्यदर्शनाभावाद्विज्ञानादिचतुष्टयं नैवास्ति, तदा-
उपादानादीनि भविष्यन्ति पुनः कथम् ॥
८ ॥
न सन्त्युपादानादीनीत्यर्थः ॥
८ ॥
इदानीं दर्शनवच्छेषायतनव्याख्यानातिदेशार्थमाह-
विश्वास-प्रस्तुतिः
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥
९ ॥
मूलम्
व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः ।
दर्शनेनैव जानीयाच्छ्रोतृश्रोतव्यकादि च ॥
९ ॥
इति ॥
उक्तं हि भगवता-
न चक्षुः प्रेक्षते रूपं मनो धर्मान्न वेत्ति च ।
एतत्त परमं सत्यं यत्र लोको न गाहते ॥
सामग्र्या दर्शनं यत्र प्रकाशयति नायकः ।
प्राहोपचारभूमिं तां परमार्थस्य बुद्धिमान् ॥
इति ॥
तथा-
चक्षुश्च प्रतीत्य रूपतः चक्षुविज्ञानमिहोपजायते ।
नो चक्षुषि रूप निश्रितं रूपसङ्क्रान्ति न चैव चक्षुषि ॥
नैरात्म्य ऽशुभाश्च धर्मिमे तेष्वात्मेति शुभाश्च कल्पिताः ।
विपरीतमसद्विकल्पितं चक्षुविज्ञान ततो ऽपि जायते ॥
विज्ञाननिरोधसम्भवं विज्ञानौपादवयं विपश्यति ।
न कहिञ्चि गतं न चागतं शून्य मायोपम योगि पश्यति ॥
तथाचार्योपालिपृच्छायाम्-
सर्व सयोगि तु पश्यति चक्षुस्तत्र न पश्यति प्रत्ययहीनम् ।
नैव च चक्षु प्रपश्यति रूपं तेन सयोगवियोगविकल्पः ॥
आलोकसमाश्रित पश्यति चक्षू रूप मनोरमचित्रविशिष्टम् ।
येन च योगसमाश्रितचक्षुस्तेन न पश्यति चक्षु कदाचि ॥
यो ऽपि च श्रूयति शब्दु मनोज्ञः सो ऽपि च नान्तरि जातु प्रविष्टः ।
सङ्क्रमणं न च लभ्यति तस्य कल्पवशात्तु समुच्छ्रितु शब्दः ॥
इति ॥
(प्प्_४७)
तथा-
गीतं न नृत्यमपि वाद्यरुतं न ग्राह्यं स्वप्नोपमा हि रतयो ऽबुधमोहनाश्च ।
सङ्कल्पलालस गता अबुधा ऽत्र नाशं किं क्लेशदास इव बालजनो भवामि ॥
इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ चक्षुरादीन्द्रियपरीक्षा नाम तृतीयं प्रकरणम् ॥
(प्प्_४८)