०२ गतागतपरीक्षा

गतागतपरीक्षा द्वितीयं प्रकरणम् ।

अत्राह- यद्यपि उत्पादप्रतिषेधात्प्रतीत्यसमुत्पादस्य अनिरोधादिविशेषणसिद्धिः, तथापि अनागमनिर्गमप्रतीत्यसमुत्पादसिद्धये लोकप्रसिद्धगमनागमनक्रियाप्रतिषेधार्थं किञ्चिदुपपत्त्यन्तरमुच्यतामिति । उच्यते । यदि गमनं नाम स्यान्नियतं तद्गते वा अध्वजाते परिकल्प्येत अगते गम्यमाने वा । सर्वथा च न युज्यते इत्याह-

विश्वास-प्रस्तुतिः

गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥

१ ॥

मूलम्

गतं न गम्यते तावदगतं नैव गम्यते ।
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥

१ ॥

तत्र उपरतगमिक्रियमध्वजातं गतमित्युच्यते । आविश्यमानं गमिक्रियया वर्तमानं गम्यत इत्युच्यते । यद्गतमुपरतगमिक्रियं तद्वर्तमानगमिक्रियायोगवाचिना गम्यते इत्यनेन शब्देनोच्यमानमसम्बद्धमिति कृत्वा गतं तावद् गम्यत इति न युज्यते । तावच्छब्देन च प्रतिषेधक्रमं दर्शयति ॥

अगतमपि न गम्यते । अगतं हि अनुपजातगमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम् । अतो ऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते । यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति ॥

गम्यमाने ऽपि नास्ति गमनम्, यस्मात्-

गतागतविनिर्मुक्तं गम्यमानं न गम्यते ।

इह हि गन्ता यं देशमतिक्रान्तः स तस्य देशो गतः, यं च नातिक्रान्तः सो ऽस्यानागतः । न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम । यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम् । अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमाने ऽपि गमनम् ॥

अथ स्यात्- गन्तुर्गच्छतो यश्चरणाक्रान्तो देशः, स गम्यमानः स्यादिति । नैवम्, चरणयोरपि परमाणुसाङ्घातत्वात् । अङ्गुल्यग्रावस्थितस्य परमाणोर्यः पूर्वो देशः, स तस्य गते ऽन्तर्गतः । पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देशः, स तस्य अगते ऽन्तर्गतः । न च परमाणुव्यतिरेकेण चरणमस्ति । तस्मान्नास्ति गतागतव्यतिरेकेण गम्यमानम् । यथा चैवं चरणे विचारः, एवं परमाणूनामपि पूर्वापरदिग्भागसम्बन्धेन विचारः कार्य इति । अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण । तस्माद्गम्यमानं न गम्यते इति सिद्धम् ॥

१ ॥

तत्राह- गम्यत एव गम्यमानम् । इह हि-

विश्वास-प्रस्तुतिः

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥

२ ॥

मूलम्

चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः ॥

२ ॥

(प्प्_३४)
तत्र चेष्टा चरणोत्क्षेपपरिक्षेपलक्षणा । यतो व्रजतो गन्तुर्यत्र देशे चेष्टा गतिः तत्रैव देशे । सा च चेष्टा न गते ऽध्वनि सम्भवति नाप्यगते, किं तु गम्यमान एव । ततश्च गम्यमाने गतिः । यत्र हि गतिरुपलभ्यते तद्गम्यमानम्, तच्च गमिक्रियया आविश्यते । तस्माद् गम्यमानमेव गम्यते इति । एको ऽत्र गमिर्ज्ञानार्थः, अपरश्च देशान्तरसम्प्राप्त्यर्थ इति ॥

२ ॥

एवमपि परिकल्प्यमाने गम्यमानं न गम्यत इत्याह-

विश्वास-प्रस्तुतिः

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥

३ ॥

मूलम्

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।
गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥

३ ॥

इह हि गमिक्रियायोगादेव गम्यमानव्यपदेशमिच्छति भवान्, तच्च इति गम्यत ब्रवीति । एका चात्र गमिक्रिया, तया गम्यमानव्यपदेशो भवतु काममध्वनः । गम्यत इति भूयः क्रियासम्बन्धो गम्यमानस्य न युज्यत इति

गम्यमानस्य गमनं कथं नामोपपत्स्यते ।

कारणमाह-

गम्यमाने द्विगमनं यदा नैवोपपद्यते ॥

इति ॥

गम्यमानमिति गम्यत इत्यर्थः । द्विगतं गमनं द्विगमनम् । एकस्या गमिक्रियाया गम्यमानमित्यत्रोपयुक्तत्वाद् द्वितीयाया अभावाच्च, गम्यत इत्ययं व्यपदेशो विना गमनेन यदा नैवोपपद्यते, तदा गम्यमानं गम्यत इति परिपूर्णो वाक्यार्थो नास्तीत्यभिप्रायः । गम्यमानमित्येतावन्मात्रमेव सम्भवति द्वितीयक्रियाभावात्, न तु गम्यत इति ॥

३ ॥

अथ गम्यते इत्यत्रैव गमिक्रियासम्बन्ध इष्यते, एवं सति गम्यमानव्यपदेशे नास्ति क्रियासम्बन्ध इति न परिपूर्णता वाक्यार्थस्येत्याह-

विश्वास-प्रस्तुतिः

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥

४ ॥

मूलम्

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते ।
ऋते गतेर्गम्यमानं गम्यमानं हि गम्यते ॥

४ ॥

यस्य वादिनो गम्यमानस्य गमनमिति पक्षः, गम्यमाने सञ्ज्ञाभूते गमिक्रियाशून्ये यो गमिक्रियामाधेयभूतामिच्छति, तस्य पक्षे ऋते गतेर्गम्यमानमिति प्रसज्यते, गतिरहितं गमनं स्यात्, यस्मादस्य गम्यमानं हि गम्यते । हि शब्दो यस्मादर्थे । यस्माद् गतिरहितमेव गम्यमानं सत् तस्य वादिनो गम्यते, गम्यत इत्यत्र क्रियोपयोगात्, तस्माद् गतिरहितं गमनं प्रसज्यते ॥

४ ॥

अथ उभयत्रापि क्रियासम्बन्ध इष्यते गम्यमाने गम्यते इत्यत्र च, एवमपि-

विश्वास-प्रस्तुतिः

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥

५ ॥

मूलम्

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् ।
येन तद्गम्यमानं च यच्चात्र गमनं पुनः ॥

५ ॥

येन गमनेन योगाद्गम्यमानव्यपदेशं प्रतिलभते ऽध्वा, तदेकं गमनम् ॥

तत्र गम्यमाने ऽधिकरणभुते द्वितीयं गमनं येन सो ऽध्वा गम्यते । एतद्गमनद्वयं गम्यमानस्य गमने सति प्रसक्तम् ॥

५ ॥

(प्प्_३५)
भवतु गमनद्वयम्, को दोष इति चेत्, अयं दोषः । यस्मात्-

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये ।

किं पुनः कारणं गन्तृद्वयप्रसङ्गे इत्याह-

गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते ॥

६ ॥

यस्मादवश्यं क्रिया स्वसाधनमपेक्षते कर्म कर्तारं वा । गमिक्रिया चैवं कर्तर्यवस्थिता, अतो गन्तारमपेक्षते । नास्ति च एकस्मिन्नेव गच्छति देवदत्ते द्वितीयः कर्तेति । अतः कर्तृद्वयाभावान्नास्ति गमनद्वयम् । ततश्च गम्यमानं गम्यत इति नोपपद्यते ॥

अथ स्यात्- यदायं देवदत्तः स्थितः, स न भाषते? पश्यति न? तदैको ऽनेकक्रियो दृष्टः, एवमेकस्मिन् गन्तरि क्रियाद्वयं भविष्यति इति । नैवम् । शक्तिर्हि कारको न द्रव्यम् । क्रियाभेदाच्च तत्साधनस्यापि शक्तेः सिद्ध एव भेदः । न हि स्थितिक्रियया वक्ता स्यात् । द्रव्यमेकमिति चेत्, भवतु एवम्, न तु द्रव्यं कारकः, किं तर्हि शक्तिः, सा च भिद्यत एव । अपि च । सदृशक्रियाद्वय कारकत्वं नैकदेशिकस्य दृष्टम्, अतो नैकस्य गन्तुर्गमनद्वयम् ॥

६ ॥

अत्राह- यद्यप्येवं तथापि गन्तरि देवदत्ते गमनमुपलभ्यते देवदत्तो गच्छतीति व्यपदेशात् । ततश्च विद्यत एव गमनं गमनाश्रयगन्तृसद्भावात् । उच्यते । स्यादेवं यदि गमनाश्रयो गन्ता स्यात्, न त्वस्ति । कथमित्याह-

विश्वास-प्रस्तुतिः

गन्तारं चेतिरस्कृत्य गमनं नोपपद्यते ।
गमने ऽसति गन्ताथ कुत एव भविष्यति ॥

७ ॥

मूलम्

गन्तारं चेतिरस्कृत्य गमनं नोपपद्यते ।
गमने ऽसति गन्ताथ कुत एव भविष्यति ॥

७ ॥

गन्तारमन्तरेण निराश्रयं गमनमसदित्युक्तम्, ततश्च गन्तारं चेतिरस्कृत्य प्रत्याख्याय गमनं नास्ति, असति गमने कुतो निर्हेतुको गन्ता? अतो नास्ति गमनम् ॥

७ ॥

अत्राह- विद्यत एव गमनम्, तद्वतस्तेन व्यपदेशात् । इह गन्ता गमनेन युक्तः, तद्योगाच्च गच्छति । यदि गमनं न स्यात्, गमनवतो देवदत्तस्य गच्छतीति व्यपदेशो न स्यात्, दण्डाभावे दण्डिव्यपदेशाभाववत् । उच्यते । स्याद्गमनम्, यदि गच्छतीत्येवं व्यपदेशः स्यात् । यस्मात्-

विश्वास-प्रस्तुतिः

गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥

८ ॥

मूलम्

गन्ता न गच्छति तावदगन्ता नैव गच्छति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो हि गच्छति ॥

८ ॥

इह गच्छतीति गन्ता, स तावन्न गच्छति, यथा च न गच्छति तथोत्तरेण श्लोकत्रयेण प्रतिपादयिष्यति । अगन्तापि न गच्छति । अगन्ता हि नाम यो गमिक्रियारहितः । गच्छतीति च गमिक्रियायोगप्रवृत्तः शब्दः । यद्यसावगन्ता, कथं गच्छति? अथ गच्छति, नासौ अगन्ता इति । तदुभयव्यतिरिक्तो गच्छतीति चेन्नैवम् । को हि गन्तुरगन्तुर्विनिर्मुक्तस्तृतीयो ऽस्ति यो गच्छतीति कल्प्येत? तस्मान्नास्ति गमनम् ॥

८ ॥

(प्प्_३६)
अत्राह- नागन्ता गच्छति नाप्युभयरहितः, किं तर्हि गन्तैव गच्छतीति । एतदप्यसत् किं कारणम्? यस्मात्-

विश्वास-प्रस्तुतिः

गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥

९ ॥

मूलम्

गन्ता तावद्गच्छतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥

९ ॥

गन्ता गच्छतीत्यत्र वाक्ये एकैव गमिक्रिया, तया च गच्छतीति व्यपदिश्यते । गन्तेति तु व्यपदेशे नास्ति द्वितीया गमिक्रिया इति । गमनेन विना गन्ता, अगच्छन् गन्तेति यदा न सम्भवति, तदा गन्ता गच्छतीति न युज्यते । कामं गच्छतीत्यस्तु, गन्तेति तु न सम्भवतीति तदयुक्तम् ॥

९ ॥

अथ गतियोगात्सगतिक एव गन्ता, तथापि द्वितीयगमिक्रियाभावद्गच्छतीति व्यपदेशो न स्यादित्याह-

विश्वास-प्रस्तुतिः

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥

१० ॥

मूलम्

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते ।
गमनेन विना गन्ता गन्तुर्गमनमिच्छतः ॥

१० ॥

यस्य वादिनो गमिक्रियायोगादेव गन्तेति पक्षः, तस्य गन्तुर्गमनमिच्छतः सगमनगन्तृव्यपदेशाद्गमनेन विना गन्ता गच्छतीति स्यात्, द्वितीयगमिक्रियाभावात् । अतो गन्ता गच्छतीति न युज्यते । गच्छतीत्येतस्यार्थे गन्तेति शब्दो गमनेन विना गन्तेत्यत्र वाक्ये ॥

१० ॥

अथ उभयत्रापि गतियोग इष्यते गन्ता गच्छतीति, एवमपि-

विश्वास-प्रस्तुतिः

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥

११ ॥

मूलम्

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति ।
गन्तेति चोच्यते येन गन्ता सन् यच्च गच्छति ॥

११ ॥

येन गमनेन योगाद् गन्तेत्युच्यते व्यपदिश्यते तदेकं गमनम् । गन्ता भवन् यच्च गच्छति, यां च गतिक्रियां करोति, तदेतद्गमनद्वयं प्रसक्तम् । अतो गन्तृद्वयप्रसङ्ग इति पूर्ववद् दूषणं वक्तव्यम् । तस्मान्नास्ति गच्छतीति व्यपदेशः ॥

अत्राह- यद्यप्येवम्, तथापि देवदत्तो गच्छतीति व्यपदेशसद्भावाद्गमनस्तीति । नैवम् । यस्माद्देवदत्ताश्रयैवैषा चिन्ता किमसौ गन्ता सन् गच्छति, उत अगन्ता गच्छति, तद्वयतिरिक्तो वेति । सर्वथा च नोपपद्यत इति यत्किञ्चिदेतत् ॥

अत्राह- विद्यत एव गमनम्, तदारम्भसद्भावात् । इह देवदत्तः स्थित्युपमर्देन गमनमारभते । न च अविद्यमानकूर्मरोमप्रावारादिकमारभते । उच्यते । स्याद्गमनं यदि तदारम्मे एव स्यात् । यस्मात्-

विश्वास-प्रस्तुतिः

गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते ।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥

१२ ॥

मूलम्

गते नारभ्यते गन्तुं गतं नारभ्यते ऽगते ।
नारभ्यते गम्यमाने गन्तुमारभ्यते कुह ॥

१२ ॥

(प्प्_३७)
यदि गमनारम्भो भवेत्, तद् गते वाध्वन्यारम्येत, अगते वा गम्यमाने वा । तत्र गते गमनं नारभ्यते, तद्धि नाम उपरतगमिक्रियम् । यदि तत्र गमनमारभ्येत, तद् गतमित्येवं न स्याद् अतीतवर्तमानयोर्विरोधात् । अगते ऽपि गमनं नारभ्यते, अनागतवर्तमानयोर्विरोधात् । नापि गम्यमाने, तदभावात् क्रियाद्वयप्रसङ्गात् कर्तृद्वयप्रसङ्गाच्च । तदेवं सर्वत्र गमनारम्भमपश्यन्नाह- गन्तुमारभ्यते कुहेति ॥

१२ ॥

यथा च गमनं न सम्भवति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनमगते गमनं कुतः ॥

१३ ॥

मूलम्

न पूर्वं गमनारम्भाद्गम्यमानं न वा गतम् ।
यत्रारभ्येत गमनमगते गमनं कुतः ॥

१३ ॥

इह देवदत्तो यदावस्थित आस्ते, स तदा गमनं नारभते । तस्य गमनारम्भात्पूर्वं न गम्यमानमध्वजातमस्ति, न च गतं यत्र गमनमारभ्येत । तस्माद् गतगम्यमानाभावादेनयोर्न गमनारम्भः ॥

अथ स्यात्- यद्यपि गमनारम्भात्पूर्वं न गतं न गम्यमानं तथाप्यगतमस्ति, तत्र गमनारम्भः स्यादिति । उच्यते । अगते गमनं कुतः । अनुपजातगमिक्रियमनारब्धगमिक्रियमगतम् । तत्र गमनारम्भ इत्यसम्बद्धमेतदित्याह- अगते गमनं कुतः इति ॥

१३ ॥

यद्यपि गतागतगम्यमानेषु गमनारम्भो नास्ति, गतागतगम्यमानानि तु सन्ति । न चासति गमने एतानि युज्यन्त इति । उच्यते । स्याद् गमनं यद्येतान्येव स्युः । सति हि गमिक्रियाप्रारम्भे यत्रोपरता गमिक्रिया तद् गतमिति परिकल्प्येत, यत्र वर्तमाना तद् गम्यमानम्, यत्राजाता तदगतमिति । यदा तु गमिक्रियाप्रारम्भ एव नास्ति, तदा-

विश्वास-प्रस्तुतिः

गतं किं गम्यमनं किमगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥

१४ ॥

मूलम्

गतं किं गम्यमनं किमगतं किं विकल्प्यते ।
अदृश्यमान आरम्भे गमनस्यैव सर्वथा ॥

१४ ॥

प्रारम्भे ऽनुपलभ्यमाने किं मिथ्याध्वत्रयं परिकल्प्यते, कुतो वा तद्वयपदेशकारणं गमनमित्ययुक्तमेतत् ॥

१४ ॥

अत्राह- विद्यत एव गमनं तत्प्रतिपक्षसद्भावात् । यस्य च प्रतिपक्षो ऽस्ति, तदस्ति, आलोकान्धकारवत् पारावारवत् संशयनिश्चयवच्च । अस्ति च गमनस्य प्रतिपक्षः स्थानमिति । उच्यते । स्याद् गमनं यदि तत्प्रतिपक्षः स्थानं स्यात् । कथमिहेदं स्थानं गन्तुरगन्तुस्तदन्यस्य वा परिकल्प्येत? सर्वथा च न युज्यत इत्याह-

विश्वास-प्रस्तुतिः

गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो ऽथ तिष्ठति ॥

१५ ॥

मूलम्

गन्ता न तिष्ठति तावदगन्ता नैव तिष्ठति ।
अन्यो गन्तुरगन्तुश्च कस्तृतीयो ऽथ तिष्ठति ॥

१५ ॥

यथा गन्ता न तिष्ठति तथोत्तरेण श्लोकेनाख्यास्यति । अगन्तापि न तिष्ठति, स हि तिष्ठत्येव, तस्य किमपरया स्थित्या प्रयोजनम्? अगन्तापि न तिष्ठति? स हि तिष्ठत्येव, तस्य (प्प्_३८) किमपरया स्थित्या प्रयोजनम्? एकया स्थित्या अगन्ता अपरया तिष्ठतीति स्थितिद्वयप्रसङ्गात् स्थातृद्वयप्रसङ्ग इति पूर्ववद्दोषः । गन्त्रगन्तृरहितश्चान्यो नास्ति ॥

१५ ॥

अत्राह- नागन्ता तिष्ठति, नापि गन्तुरगन्तुश्चान्यः, किं तर्हि गन्तैव तिष्ठतीति नैवम् । यस्मात्-

विश्वास-प्रस्तुतिः

गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥

१६ ॥

मूलम्

गन्ता तावत्तिष्ठतीति कथमेवोपपत्स्यते ।
गमनेन विना गन्ता यदा नैवोपपद्यते ॥

१६ ॥

यदायं तिष्ठतीत्युच्यते, तदा स्थितिविरोधि गमनमस्य नास्ति, विना च गमनं गन्तृव्यपदेशो नास्ति । अतो गन्ता तिष्ठतीति नोपपद्यते ॥

१६ ॥

अत्राह- विद्यत एव गमनम्, तन्निवृत्तिसद्भावात् । इह गतेर्निवर्तमानः स्थितिमारभते गमनाभावे तु न ततो निवर्तेत । उच्यते । स्याद् गमनं यदि तन्निवृत्तिरेव स्यात् । [न त्वस्ति] यस्मात्-

न तिष्ठति गम्यमानान्न गतान्नागतादपि ।

तत्र गन्ता गतादध्वनो न निवर्तते गत्यभावात् । अगतादपि, गत्यभावादेव । गम्यमानादपि न निवर्तते तदनुपलब्धेः गमिक्रियाभावाच्च । तस्मान्न गतिनिवृत्तिः ॥

अत्राह- यदि गमनप्रतिद्वन्द्विस्थित्यभावाद्गतिरसती, एवं तर्हि गमनप्रसिद्धये स्थिति साधयामः, तत्सिद्धौ गमनसिद्धिः । तस्माद्विद्यत एव स्थानं प्रतिद्वन्द्विसद्भावात्, स्थितेर्हि प्रतिद्वन्द्वि गमनम्, तदस्ति, ततश्च स्थितिरपि, प्रतिद्वन्द्विसद्भावात् । एतदप्ययुक्तम् । यस्मात्-

गमनं सम्प्रवृत्तिश्च निवृत्तिश्च गतेः समा ॥

१७ ॥

अत्र हि यद्गमनं स्थितिसिद्धये वर्णितं तद्गत्या समं गतिदूषणेन तुल्यमित्यर्थः । यथा गन्ता न तिष्ठति तावदित्यादिना गतिप्रसिद्धये स्थितेर्हेतुत्वेनोपात्ताया दूषणमुक्तम्, एवमिहापि स्थितिप्रसिद्धये गमनस्य हेतुत्वेनोपात्तस्य स्थाता न गच्छति तावदित्यादिना श्लोकद्वयपाठपरिवर्तेन दूषणं वक्तव्यमिति नास्ति गमनम्, तदभावात्प्रतिद्वन्द्विनी स्थितिरपीति । एवं तावद् गमनं गत्या तुल्यं प्रत्याख्येयम् ॥

अथ स्यात्- विद्यत एव स्थानं तदारम्भसद्भावात् । इह गत्युपमर्देन स्थानमारभ्यते, कथं तन्न स्यात्? उच्यते । सम्प्रवृत्तिश्च गतेः समा वाच्या । तत्र यथा पूर्वं गते नारभ्यते गन्तुमित्यादिना गमनारम्भो निषिद्धः, एवमिहापि-

स्थिते नारभ्यते स्थातुं स्थातुं नारभ्यते ऽस्थिते ।
नारभ्यते स्थीयमाने स्थातुमारभ्यते कुह ॥

(प्प्_३९)
इत्यादिना श्लोकत्रयपरिवर्तेन स्थानसम्प्रवृत्तिरपि गतेः समा । स्थाननिवृत्तिरपि गतिनिवृत्त्या समा प्रत्याख्येया । यथा गतिनिषेधे-

न तिष्ठति गम्यमानान्न गतान्नागतादपि ।

इति गतेर्दूषणमुक्तम्, एवं स्थितिनिषेधे ऽपि

न गच्छति स्थीयमानान्न स्थितान्नास्थितादपि ।

इति गत्या तुल्यं दूषणमिति नास्ति स्थितिः । तदभावात्कुतो गतिप्रतिपक्षस्थितिसद्भाववादिनां गतेः सिद्धिरिति ॥

१७ ॥

अपि च । यदि गमनं स्यात्, गन्तृव्यतिरेकेण वा स्यादव्यतिरेकेण वा? सर्वथा च विचार्यमाणं न सम्भवतीत्याह-

विश्वास-प्रस्तुतिः

यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥

१८ ॥

मूलम्

यदेव गमनं गन्ता स एवेति न युज्यते ।
अन्य एव पुनर्गन्ता गतेरिति न युज्यते ॥

१८ ॥

कथं पुनर्न युज्यत इत्याह-

विश्वास-प्रस्तुतिः

यदेव गमनं गन्ता स एव हि भवेद्यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥

१९ ॥

मूलम्

यदेव गमनं गन्ता स एव हि भवेद्यदि ।
एकीभावः प्रसज्येत कर्तुः कर्मण एव च ॥

१९ ॥

येयं गमिक्रिया, सा यदि गन्तुरव्यतिरिक्ता नान्या स्यात्, तदा कर्तुः क्रियायाश्चैकत्वं स्यात् । ततश्च इयं क्रिया, अयं कर्ता, इति विशेषो न स्यात् । न च छिदिक्रियायाः छेत्तुश्च एकत्वम् । अतो यदेव गमनं स एव गन्तेति न युज्यते ॥

१९ ॥

अन्यत्रमपि गन्तृगमनयोर्यथा नास्ति तथा प्रतिपादयन्नाह-

विश्वास-प्रस्तुतिः

अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥

२० ॥

मूलम्

अन्य एव पुनर्गन्ता गतेर्यदि विकल्प्यते ।
गमनं स्यादृते गन्तुर्गन्ता स्याद्गमनादृते ॥

२० ॥

यदि हि गन्तृगमनयोरन्यत्वं स्यात्, तदा गमननिरपेक्षो गन्ता स्यात्, गन्तृनिरपेक्षं च गमनं गृह्येत पृथक् सिद्धं घटादिव पटः । न च गन्तुः पृथक्सिद्धं गमनं गृह्यत इति । अन्य एव पुनर्गन्ता गतेरिति न युज्यते इति प्रसाधितमेतत् ॥

२० ॥

तदेवम्-

विश्वास-प्रस्तुतिः

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥

२१ ॥

मूलम्

एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥

२१ ॥

ययोर्गन्तृगमनयोर्यथोदितन्यायेन एकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तयोरिदानीं केनान्येन प्रकारेण सिद्धिरस्तु? अत आह- तयोः सिद्धिः कथं नु खलु विद्यत इति । नास्ति गन्तृगमनयोः सिद्धिरित्यभिप्रायः ॥

२१ ॥

(प्प्_४०)
अत्राह- इह देवदत्तो गन्ता गच्छतीति लोकप्रसिद्धम् । तत्र यथा वक्ता वाचं भाषते, कर्ता क्रियां करोति, इति प्रसिद्धम्, एवं यया गत्या गन्तेत्यभिव्यज्यते तां गच्छतीति न यथोक्तदोषः । तदप्यसत् । यस्मात्-

गत्या ययोच्यते गन्ता गतिं तां स न गच्छति ।

यया गत्या देवदत्तो गन्तेत्यभिव्यजते, स गन्ता सन् तां तावन्न गच्छति, न प्राप्नोति यदि वा न करोतीत्यर्थः ।

यस्मान्न गतिपूर्वो ऽस्ति

गतेः पूर्वो गतिपूर्वः । यदि गन्ता गतेः पूर्वं सिद्धः स्यात्, स तां गच्छेत् । कथम् यस्मात्-

कश्चित्किञ्चिद्धि गच्छति ॥

२२ ॥

कश्चिद्देवदत्तः किञ्चिदर्थान्तरभूतं ग्रामं नगरं वा गच्छतीति दृष्टम् । न चैवं यया गत्या गन्तेत्युच्यते, तस्याः पूर्वं सिद्धरूपो गतिनिरपेक्षो गन्ता नाम अस्ति यस्तां गच्छेत् ॥

२२ ॥

अथ मन्यसे- यया गत्या गन्तेत्यभिव्यज्यते, तामेव असौ न गच्छति, किं तहि ततो ऽन्यामिति । एतदप्यसत् । यस्मात्-

विश्वास-प्रस्तुतिः

गत्या ययोच्यते गन्ता ततो ऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥

२३ ॥

मूलम्

गत्या ययोच्यते गन्ता ततो ऽन्यां स न गच्छति ।
गती द्वे नोपपद्येते यस्मादेके प्रगच्छति ॥

२३ ॥

यया गत्या गन्ता अभिव्यज्यते, ततो ऽन्यामपि स गन्ता सन् न गच्छति, गतिद्वयप्रसङ्गात् । यया गत्या गन्ता अभिव्यज्यते, गन्ता सन् यां चापरां गच्छतीत्येतद् गतिद्वयं प्रसक्तम् । न च एकस्मिन् गन्तरि गतिद्वयम् । इत्युक्तमेतत् । एतेन वक्ता वाचं भाषते कर्ता क्रियां करोति, इति प्रत्युक्तम् ॥

२३ ॥

तदेवम्-

विश्वास-प्रस्तुतिः

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति ॥

२४ ॥

मूलम्

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति ।
नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति ॥

२४ ॥

गमनं सदसद्भूतस्त्रिप्रकारं न गच्छति ।

तत्र गम्यत इति गमनमिहोच्यते । तत्र सद्भूतो गन्ता यो गमिक्रियायुक्तः । असद्भूतो गन्ता यो गमिक्रियारहितः । सदसद्भूतो य उभयपक्षीयरूपः । एवं गमनमपि त्रिप्रकारं गमिक्रियासम्बन्धेन वेदितव्यम् । तत्र सद्भूतो गन्ता सद्भूतमसद्भूतं सदसद्भूतं त्रिप्रकारं गमनं न गच्छति । एतच्च कर्मकारकपरीक्षायामाख्यास्यते । एवमसद्भूतो ऽपि गन्ता त्रिप्रकारं गमनं न गच्छति । सदसद्भूतो ऽपीति तत्रैव प्रतिपादयिष्यति । यतश्चैवं गन्तृगन्तव्यगमनानि विचार्यमाणानि न सन्ति,

तस्माद्गतिश्च गन्ता च गन्तव्यं च न विद्यते ॥

२५ ॥

(प्प्_४१)
यथोक्तमार्याक्षयमतिनिर्देशसूत्रे-

अगतिरिति भदन्त शारद्वतीपुत्र सङ्कर्षणपदमेतत् । गतिरिति भदन्त शारद्वतीपुत्र निष्कर्षणपदमेतत् । यत्र न सङ्कर्षणपदं न निष्कर्षणपदं तदार्याणां पदम् । अपदयोगेन अनागतिरगतिश्चार्याणां गतिरिति ॥

यदि बीजमेवाङ्कुरे सङ्क्रमति, बीजमेव तत्स्यान्न यदङ्कुरः शाश्वतदोषप्रसङ्गश्च । अथाङ्कुरो ऽन्यत आगच्छति, अहेतुकदोषप्रसङ्गः स्यात् । न चाहेतुकस्योत्पत्तिः खरविषाणस्येव ॥

अत एवाह भगवान्-

बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥

इति ॥

मुद्रात्प्रतिमुद्र दृश्यते मुद्रसङ्क्रान्ति न चोपलभ्यते ।
न च तत्र न चैव सान्यतो एवं संस्कारनुच्छेदशाश्वताः ॥

इति च ॥

तथा-

आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारिमुखं अलङ्कृतम् ।
सो तत्र रागं जनयित्व बालो प्रधावितो कामि गवेषमाणो ॥

मुखस्य सङ्क्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते ।
मूढो यथा सो जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥

तथा [आर्यसमाधिराजसूत्रे ऽपि]-

तहि कालि सो दशबलो अनघो जिनु भाषते इमु समाधिवरम् ।
सुपिनोपमा भगवती सकला न हि कश्चि जायति न चो म्रियते ॥

न च सत्त्वु लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः ।
मायोपमा गगनविद्युसमा दकचन्द्रसन्निभ मरीचिसमाः ॥

न च अस्मि लोकि मृतु कश्चि नरो परलोक सङ्क्रमति गच्छति वा ।
न च कर्म नश्यति कदाचि कृतं फलु देति कृष्ण शुभ संसरतो ॥

(प्प्_४२)
न च शाश्वतं न च उच्छेद पुनो न च कर्मसञ्चयु न चापि स्थितिः ।
न च सो ऽपि कृत्व पुनरास्पृशति न च अन्यु कृत्व पुन वेदयते ॥

न च सङ्क्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः ।
न च दृष्ट स्थानगतिशुद्धिरिहो न च सत्वचार सुपशान्तगति ॥

सुपिनोपमं हि त्रिभवं वशिकं लघु भग्नमनित्येन मायसमम् ।
न च आगतं न च इहोपगतं शून्यानिमित्त सद सन्ततियो ॥

अनुत्पाद शान्त अनिमित्तपदं सुगतान गोचर जिनान गुणा ।
बल धारणी दशबलान बलं बुद्धान इयं वृषभिता परमा ॥

वरशुक्लधर्मगुणसन्निचयो गुणज्ञानधारणिबलं परमम् ।
ऋद्धीविकुर्वणविधिः परमो वरपञ्चभिज्ञप्रतिलाभनयः ॥

इति विस्तरः ॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ गतागतपरीक्षा नाम द्वितीयं प्रकरणम् ॥

(प्प्_४३)