प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ।
आर्यमञ्जुश्रिये कुमारभूताय नमः ।
विश्वास-प्रस्तुतिः
यो ऽन्तद्वयावासविधूतवासः सम्बुद्धधीसागरलब्धजन्मा ।
सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं कृपया जगाद ॥
१ ॥
मूलम्
यो ऽन्तद्वयावासविधूतवासः सम्बुद्धधीसागरलब्धजन्मा ।
सद्धर्मतोयस्य गभीरभावं यथानुबुद्धं कृपया जगाद ॥
१ ॥
विश्वास-प्रस्तुतिः
यस्य दर्शनतेजांसि परवादिमतेन्धनम् ।
दहन्त्यद्यापि लोकस्य मानसानि तमांसि च ॥
२ ॥
मूलम्
यस्य दर्शनतेजांसि परवादिमतेन्धनम् ।
दहन्त्यद्यापि लोकस्य मानसानि तमांसि च ॥
२ ॥
विश्वास-प्रस्तुतिः
यस्यासमज्ञानवचःशरौघा निघ्नन्ति निःशेषभवारिसेनाम् ।
त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य ॥
३ ॥
मूलम्
यस्यासमज्ञानवचःशरौघा निघ्नन्ति निःशेषभवारिसेनाम् ।
त्रिधातुराज्यश्रियमादधाना विनेयलोकस्य सदेवकस्य ॥
३ ॥
विश्वास-प्रस्तुतिः
नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये ।
उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम् ॥
४ ॥
मूलम्
नागार्जुनाय प्रणिपत्य तस्मै तत्कारिकाणां विवृतिं करिष्ये ।
उत्तानसत्प्रक्रियवाक्यनद्धां तर्कानिलाव्याकुलितां प्रसन्नाम् ॥
४ ॥
तत्र ऽन स्वतो नापि परतो न द्वाभ्याम्ऽ; इत्यादि वक्ष्यमाणं शास्त्रम् । तस्य कानि सम्बन्धाभिधानप्रयोजनानि इति प्रश्ने, मध्यमकावतारविहितविधिना अद्वयज्ञानालङ्कृतं महाकरुणोपायपुरःसरं प्रथमचित्तोत्पादं तथागतज्ञानोत्पत्तिहेतुमादिं कृत्वा यावदाचार्यनागार्जुनस्य विदिताविपरीतप्रज्ञापारमितानीतेः करुणया परावबोधार्थं शास्त्रप्रणयनम्, इत्येष तावच्छास्त्रस्य सम्बन्धः-
यच्छास्ति वः क्लेशरिपूनशेषान्सन्त्रायते दुर्गतितो भवाच्च ।
तच्छासनात्त्राणगुणाच्च शास्त्रमेतद्वयं चान्यमतेषु नास्ति ॥
इति । स्वयमेव चाचार्यो वक्ष्यमाणसकलशास्त्राभिधेयार्थ सप्रयोजनमुपदर्शयन्, तदविपरीतसम्प्रकाशत्वेन माहात्म्यमुद्भाव्य तत्स्वभावाव्यतिरेकवर्तिने परमगुरवे तथागताय शास्त्रप्रणयननिमित्तकं प्रणामं कर्तुकाम आह-
(प्प्_२)
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
यः प्रतीत्यसमुत्पादम्
इत्यादि । तदत्रानिरोधाद्यष्टविशेषणविशिष्टः प्रतीत्यसमुत्पादः शास्त्राभिधेयार्थः । सर्वप्रपञ्चोपशमशिवलक्षणं निर्वाणं शास्त्रस्य प्रयोजनं निर्दिष्टम् ।
तं वन्दे वदतां वरम् ।
इत्यनेन प्रणामः । इत्येष तावच्छोकद्वयस्य समुदायार्थः ॥
अवयवार्थस्तु विभज्यते । तत्र निरुद्धिर्निरोधः । क्षणभङ्गो निरोध इत्युच्यते । उत्पादनमुत्पादः । आत्मभावोन्मज्जनमित्यर्थः । उच्छित्तिरुच्छेदः । प्रबन्धविच्छित्तिरित्यर्थः । शाश्वतो नित्यः । सर्वकाले स्थाणुरित्यर्थः । एकश्चासावर्थश्चेत्येकार्थो ऽभिन्नार्थः । न पृथगित्यर्थः । नानार्थो भिन्नार्थः । पृथगित्यर्थः । आगतिरागमः, विप्रकृष्टदेशावस्थितानां सन्निकृष्टदेशागमनम् । निर्गतिर्निर्गमः, सन्निकृष्टदेशावस्थितानां विप्रकृष्टदेशगमनम् । एतिर्गत्यर्थः, प्रतिः प्राप्त्यर्थः । उपसर्गवशेन धात्वर्थविपरिणामात्-
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
गङ्गासलिलमाधुर्यं सागरेण यथाम्भसा ॥
प्रतीत्यशब्दो ऽत्र ल्यबन्तः प्राप्तावपेक्षायां वर्तते । समुत्पूर्वः पदिः प्रादुर्भावार्थ इति समुत्पादशब्दः प्रादुर्भावे वर्तते । ततश्च हेतुप्रत्ययापेक्षो भावानामुत्पादः प्रतीत्यसमुत्पादार्थः ॥
अपरे तु ब्रुवते- इतिर्गमनं विनाशः । इतौ साधव इत्याः । प्रतिर्वीप्सार्थः । इत्येवं तद्धितान्तमित्यशब्दं व्युत्पाद्य प्रति प्रति इत्यानां विनाशिनां समुत्पाद इति वर्णयन्ति । तेषां “प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि”, “यः प्रतीत्यसमुत्पादं पश्यति स धर्म पश्यति” इत्येवमादौ विषये वीप्सार्थस्य सम्भवात् समाससद्भावाच्च स्याज्ज्यायसी व्युत्पत्तिः । इह तु “चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्” इत्येवमादौ विषये साक्षादङ्गीकृतार्थविशेषे चक्षुः प्रतीत्येति प्रतीत्यशब्द एकचक्षुरिन्द्रियहेतुकायामप्येकविज्ञानोत्पत्तावभीष्टायां कुतो वीप्सार्थता? प्राप्त्यर्थस्त्वनङ्गीकृतार्थविशेषे ऽपि प्रतीत्यशब्दे सम्भवति- प्राप्य सम्भवः, प्रतीत्य समुत्पाद इति । अङ्गीकृतार्थविशेषे ऽपि सम्भवति- चक्षुः प्रतीत्य, चक्षुः प्राप्य, चक्षू रूपं चापेक्ष्येति व्याख्यानात् । तद्धितान्ते चेत्यशब्दे “चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्” इत्यत्र प्रतीत्यशब्दस्याव्ययत्वाभावात् समासासद्भावाच्च विभक्तिश्रुतौ सत्यां चक्षुः प्रतीत्य विज्ञानं रूपाणि च इति निपातः स्यात् । न चैतदेवम् । इत्यव्ययस्यैव ल्यबन्तस्य व्युत्पत्तिरभ्युपेया ।
(प्प्_३)
यस्तु- “वीप्सार्थत्वात्प्रत्युपसर्गस्य, एतेः प्राप्त्यर्थत्वात्, समुत्पादशब्दस्य च सम्भवार्थ त्वात्, तांस्तान् प्रत्ययान् प्रतीत्य समुत्पादः प्राप्य सम्भव इत्येके । प्रति प्रति विनाशिनामुत्पादः प्रतीत्यसमुत्पाद इत्यन्ये”- इति परव्याख्यानमनूद्य दूषणमभिधत्ते, तस्य परपक्षानुवादाकौशलत्वमेव तावत्सम्भाव्यते । किं कारणम्? यो हि प्राप्त्यर्थं प्रतीत्यशब्दं व्याचष्टे, नासौ प्रतिं वीप्सार्थं व्याचष्टे, नाप्येतिं प्राप्त्यर्थम्, किं तर्हि प्रतिं प्राप्त्यर्थम्, समुदितं च प्रतीत्यशब्दं प्राप्तावेव वर्णयति ॥
तेन इदानीं प्राप्य सम्भवः प्रतीत्यसमुत्पाद इत्येवं व्युत्पादितेन प्रतीत्यसमुत्पादशब्देन यदि निरवशेषसम्भविपदार्थपरामर्शो विवक्षितः, तदा तां तां हेतुप्रत्ययसामग्रीं प्राप्य सम्भव प्रतीत्य समुत्पाद इति वीप्सासम्बन्धः क्रियते । अथ विशेषपरामर्शः, तदा चक्षुः प्राप्य रूपाणि चेति न वीप्सायाः सम्बन्ध इति ॥
एवं तावदनुवादाकौशलमाचार्यस्य ॥
एतद्वा अयुक्तम् । किं च । अयुक्तमेतत् “चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानम्” इति, अत्रार्थद्वयासम्भवात् इति यदुक्तं दूषणम्, तदपि नोपपद्यते । किं कारणम्? कथमनेनैव तत्प्राप्तेः सम्भव इति युक्त्यनुपादानेन प्रतिज्ञामात्रत्वात् । अथायमभिप्रायः स्यात् अरूपित्वाद्विज्ञानस्य चक्षुषा प्राप्तिर्नास्ति, रूपिणामेव तत्प्राप्तिदर्शनादिति, एतदपि न युक्तम्, ऽप्राप्तफलो ऽयं भिक्षुःऽ; इत्यत्रापि प्राप्त्यभ्युपगमात् । प्राप्यशब्दस्य च अपेक्ष्यशब्दपर्यायत्वात् ।
प्राप्त्यर्थस्यैव आचार्यार्यनागार्जुनेन प्रतीत्यशब्दस्य
तत्तत्प्राप्य यदुत्पन्नं नोत्पन्नं तत्स्वभावतः ।
इत्यभ्युपगमात् । ततो दूषणमपि नोपपद्यते इत्यपरे ॥
यच्चापि स्वमतं व्यवस्थापितम्- “किं तर्हि, अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, इति इदम्प्रत्ययतार्थः प्रतीत्यसमुत्पादार्थ इति”, तदपि नोपपद्यते, प्रतीत्यसमुत्पादशब्दयोः प्रत्येकमर्थविशेषानभिधानात्, तद्व्युत्पादस्य च विवक्षितत्वात् ॥
अथापि रूढिशब्दं प्रतीत्यसमुत्पादशब्दमभ्युपेत्य अरण्येतिलकादिवदेवमुच्यते, तदपि नोपपन्नम्, अवयवार्थानुगतस्यैव प्रतीत्यसमुत्पादस्य आचार्येण
तत्तत्प्राप्य यदुत्पन्नं नोत्पन्नं तत्स्वभावतः ।
इत्यभ्युपगमात् । अथ
अस्मिन्सतीदं भवति ह्रस्वे दीर्घं यथा सति ।
इति व्याख्यायमानेन ननु तदेवाभ्युपगतं भवति, ह्रस्वं प्रतीत्य, ह्रस्वं प्राप्य, ह्रस्वमपेक्ष्य दीर्घं भवतीति । ततश्च यदेव दूष्यते तदेवाभ्युपगम्यते इति न युज्यते । इत्यलं प्रसङ्गेन ॥
(प्प्_४)
तदेवं हेतुप्रत्ययापेक्षं भावानामुत्पादं परिदीपयता भगवता अहेत्वेकहेतुविषमहेतुसम्भूतत्वं स्वपरोभयकृतत्वं च भावानां निषिद्धं भवति, तन्निषेधाच्च सांवृतानां पदार्थानां यथावस्थितं सांवृतं स्वरूपमुद्भावितं भवति । स एवेदानीं सांवृतः प्रतीत्यसमुत्पादः स्वभावेनानुत्पन्नत्वाद् आर्यज्ञानापेक्षया नास्मिन्निरोधो विद्यते यावन्नास्मिन्निर्गमो विद्यते इत्यनिरोधादिभिरष्टाभिर्विशे षणैर्विशिष्यते । यथा च निरोधादयो न सन्ति प्रतीत्यसमुत्पादस्य तथा सकलशास्त्रेण प्रतिपादयिष्यति ॥
अनन्तविशेषणसम्भवे ऽपि प्रतीत्यसमुत्पादस्य अष्टानामेवोपादानमेषां प्राधान्येन विवादाङ्गभूतत्वात् । यथावस्थितप्रतीत्यसमुत्पाददर्शने सति आर्याणामभिधेयादिलक्षणस्य प्रपञ्चस्य सर्वथोपरमात्, प्रपञ्चानामुपशमो ऽस्मिन्निति स एव प्रतीत्यसमुत्पादः प्रपःचोपशम इत्युच्यते । चित्तचैत्तानां च तस्मिन्नप्रवृत्तौ ज्ःआनज्ःएयव्यवहारनिवृत्तौ जातिजरामरणादिनिरवशेषोपद्रवरहितत्वात् शिवः । यथाभिहितविशेषणस्य प्रतीत्यसमुत्पादस्य देशनाक्रियया ईप्सिततमत्वात् कर्मणा निर्देशः ॥
विश्वास-प्रस्तुतिः
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
१ ॥
मूलम्
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् ।
अनेकार्थमनानार्थमनागममनिर्गमम् ॥
१ ॥
विश्वास-प्रस्तुतिः
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
देशयामास सम्बुद्धस्तं वन्दे वदतां वरम् ॥
२ ॥
मूलम्
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
देशयामास सम्बुद्धस्तं वन्दे वदतां वरम् ॥
२ ॥
यथोपवर्णितप्रतीत्यसमुत्पादावगमाच्च तथागतस्यैवैकस्याविपरीतार्थवादित्वं पश्यन् सर्वपरप्रवादांश्च बालप्रलापानिवावेत्य अतीव प्रसादानुगत आचार्यो भूयो भगवन्तं विशेषयति- वदतां वरमिति ॥
अत्र च निरोधस्य पूर्वं प्रतिवेधः उत्पादनिरोधयोः पौर्वापर्यावस्थायाः सिद्धयभावं द्योतयितुम् । वक्ष्यति हि-
पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम् ।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः ॥
इति । तस्मान्नायं नियमो यत् पूर्वमुत्पादेन भवितव्यं पश्चान्निरोधेनेति ॥
इदानीमनिरोधादिविशिष्टप्रतीत्यसमुत्पादप्रतिपिपादयिषया उत्पादप्रतिषेधेन निरोधादि प्रतिषेधसौकर्य मन्यमान आचार्यः प्रथममेवोत्पादप्रतिवेधमारभते । उत्पादो हि परैः परिकल्प्यमानः स्वतो वा परिकल्प्येत, परतः, उभयतः, अहेतुतो वा परिकल्प्येत । सर्वथा च नोपपद्यत इति निश्चित्याह-
विश्वास-प्रस्तुतिः
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥
३ ॥
मूलम्
न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः ।
उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥
३ ॥
(प्प्_५)
तत्र जात्विति कदाचिदित्यर्थः । क्वचनशब्द आधारवचनः क्वचिच्छब्दपर्यायः केचनशब्द आधेयवचनः केचिच्छब्दपर्यायः । ततश्चैवं सम्बन्धः- नैव स्वत उत्पन्ना जातु विद्यन्ते भावाः, क्वचन, केचन । एवं प्रतिज्ञात्रयमपि योज्यम् ॥
ननु च- नैव स्वत उत्पन्ना इत्यवधार्यमाणे परत उत्पन्ना इत्यनिष्टं प्राप्नोति । न प्राप्नोति प्रसज्यप्रतिषेधस्य विवक्षितत्वात्, परतो ऽप्युत्पादस्य प्रतिषेत्स्यमानत्वात् । यया चोपपत्त्या स्वत उत्पादो न सम्भवति, सा-
तस्माद्धि तस्य भवने न गुणो ऽस्ति कश्चिज्-
जातस्य जन्म पुनरेव च नैव युक्तम् ।
इत्यादिना मध्यमकावतारादिद्वारेणावसेया ॥
आचार्यबुद्धपालितस्त्वाह- न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैयर्थ्यात्, अतिप्रसङ्गदोषाच्च । न हि स्वात्मना विद्यमानानां पदार्थानां पुनरुत्पादे प्रयोजनमस्ति । अथ सन्नपि जायेत, न कदाचिन्न जायेत इति ॥
अत्रैके दूषणमाहुः- तदयुक्तम्, हेतुदृष्टान्तानभिधानात्परोक्तदोषापरिहाराच्च । प्रसङ्ग वाक्यत्वाच्च प्रकृतार्थविपर्ययेण विपरीतार्थसाध्यतद्धर्मव्यक्तौ परस्मादुत्पन्नाभावाजन्मसाफल्यात् जन्मनिरो(बो?)धाच्चेति कृतान्तविरोधः स्यात् ॥
सर्वमेतद्दूषणमयुज्यमानं वयं पश्यामः । कथं कृत्वा? तत्र यत्तावदुक्तं हेतुदृष्टान्तानभिधानादिति, तदयुक्तम् । किं कारणम्? यस्मात्परः स्वत उत्पत्तिमभ्युपगच्छन्, पृच्छयते- स्वत इति हेतुत्वेन तदेव चोत्पद्यते इति? न च विद्यमानस्य पुनरुत्पत्तौ प्रयोजनं पश्यामः, अनवस्थां च पश्यामः । न च त्वया उत्पन्नस्य पुनरुत्पाद इष्यते ऽनवस्था चाप्यनिष्टेति । तस्मान्निरुपपत्तिक एव त्वद्वादः स्वाभ्युपगमविरोधश्चेति । किमिति चोदिते परोनाभ्युपैति यतो हेतुदृष्टान्तोपादानसाफल्यं स्यात्? अथ स्वाभ्युपगमविरोधचोदनयापि परो न निवर्तते, तदा निर्लज्जतया हेतुदृष्टान्ताभ्यामपि नैव निवर्तेत । न चोन्मत्तकेन सहास्माकं विवाद इति । तस्मात्सर्वथा प्रियानुमानतामेवात्मनः आचार्यः प्रकटयति अस्थाने ऽप्यनुमानं प्रवेशयन् । न च माध्यमिकस्य सतः स्वतन्त्रमनुमानं कर्तुं युक्तं पक्षान्तराभ्युपगमाभावात् । तथोक्तमार्यदेवेन-
सदसत्सदसच्चेति यस्य पक्षो न विद्यते ।
उपालम्भश्चिरेणापि तस्य वक्तुं न शक्यते ॥
(प्प्_६)
विग्रहव्यावर्तन्यां चोक्तम्-
यदि काचन प्रतिज्ञा स्यान्मे तत एव मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥
यदि किञ्चिदुपलमेयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः ॥
इति । यदा चैवं स्वतन्त्रानुमानानभिधायित्वं माध्यमिकस्य, तदा कुतः “नाध्यात्मिकान्यायतनानि स्वत उत्पन्नानि” इति स्वतन्त्रा प्रतिज्ञा यस्यां साङ्ख्याः प्रत्यवस्थाप्यन्ते । को ऽर्य प्रतिज्ञार्थः किं कार्यात्मकत्वात्स्वत उत कारणात्मकत्वादिति । किं चातः? कार्यात्मकाच्चेत् सिद्ध साधनम्, कारणात्मकाच्चेत् विरुद्धार्थता, कारणात्मना विद्यमानस्यैव सर्वस्योत्पत्तिमत उत्पादादिति । कुतो ऽस्माकं विद्यमानत्वादिति हेतुर्यस्य सिद्धसाधनं विरुद्धार्थता वा स्यात्, यस्य सिद्धसाधनस्य यस्याश्च विरुद्धार्थतायाः परिहारार्थं यत्नं करिष्यामः । तस्मात्परोक्तदोषाप्रसङ्गादेव तत्परिहारः आचार्यबुद्धपालितेन न वर्णनीयः ॥
अथापि स्यात्- माध्यमिकानां पक्षहेतुदृष्टान्तानामसिद्धेः स्वतन्त्रानुमानानभिधायित्वात् स्वत उत्पत्तिप्रतिषेधप्रतिज्ञातार्थसाधनं मा भूदुभयसिद्धेन वानुमानेन परप्रतिज्ञानिराकरणम् । परप्रतिज्ञायास्तु स्वत एवानुमानविरोधचोदनया स्वत एव पक्षहेतुदृष्टान्तदोषरहितैः पक्षादिभिर्भवितव्यम् । ततश्च तदनभिधानात् तद्दोषापरिहाराच्च स एव दोष इति । उच्यते । नैतदेवम् । किं कारणम्? यस्माद् यो हि यमर्थं प्रतिजानीते, तेन स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया यया उपपत्त्या असावर्थो ऽधिगतः सैवोपपत्तिः परस्मै उपदेष्टव्या । तस्मादेष तावन्न्यायः- यत्परेणैव स्वाभ्युपगतप्रतिज्ञातार्थसाधनमुपादेयम् । न चायं (चानेन?) परं प्रति । हेतुदृष्टान्तासम्भवात् प्रतिज्ञानुसारतयैव केवलं स्वप्रतिज्ञातार्थसाधनमुपादत्त इति निरुपपत्तिकपक्षाभ्युपगमात् स्वात्मानमेवायं केवलं विसंवादयन् न शक्नोति परेषां निश्चयमाधातुमिति । इदमेवास्य स्पष्टतरं दूषणं यदुत स्वप्रतिज्ञातार्थसाधनासामर्थ्यमिति किमत्रानुमानबाधोद्भावनया प्रयोजनम्? अथाप्यवश्यं स्वतो ऽनुमानविरोधदोष उद्भावनीयः, सो ऽप्युद्भावित एवाचार्यबुद्धपालितेन । कथमिति चेत्, न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैयर्थ्यादिति वचनात्, अत्र हि तदित्यनेन स्वात्मना विद्यमानस्य परामर्शः । कस्मादिति चेत्, तथा हि तस्य सङ्ग्रहेणोक्तवाक्यस्यैतद्विवरणवाक्यम्, न हि स्वात्मना विद्यमानानां पुनरुत्पादे प्रयोजनमिति । अनेन च वाक्येन साध्यसाधनधर्मानुगतस्य परप्रसिद्धस्य साधर्म्यदृष्टान्तस्योपादानम् । तत्र स्वात्मना विद्यमानस्येत्यनेन हेतुपरामर्शः । उत्पादवयर्थ्यादित्यनेन साध्यधर्मपरामर्शः ॥
तत्र यथा- अनित्यः शब्दः कृतकत्वात् । कृतकत्वमनित्यं (प्प्_७) दृष्टं यथा घटः । तथा च कृतकः शब्दः । तस्मात्कृतकत्वादनित्य इति कृतकत्वमत्र उपनयाभिव्यक्तो हेतुः । एवमिहापि- न स्वत उत्पद्यन्ते भावाः, स्वात्मना विद्यमानानां पुनरुत्पादवैयर्थ्यात् । इह हि स्वात्मना विद्यमानं पुरो ऽवस्थितं घटादिकं पुनरुत्पादानपेक्षं दृष्टम्, तथा च मृत्पिण्डाद्यवस्थायामपि यदि स्वात्मना विद्यमानं घटादिकमिति मन्यसे, तदापि तस्य स्वात्मना विद्यमानस्य नास्त्युत्पाद इति । एवं स्वात्मना विद्यमानत्वेन उपनयाभिव्यक्तेन पुनरुत्पादप्रतिषेधाव्यभिचारिणा हेतुना स्वत एव साङ्ख्यस्यानुमानविरोधोद्भावनमनुष्ठितमेवेति । तत्किमुच्यते तदयुक्तं हेतुदृष्टान्तानभिधानादिति?
न च केवलं हेतुदृष्टान्तानभिधानं न सम्भवति, परोक्तदोषापरिहारदोषो न सम्भवति । कथं कृत्वा? साङ्ख्या हि नैव अभिव्यक्तरूपस्य पुरो ऽवस्थितस्य घटस्य पुनरभिव्यक्तिमिच्छन्ति । तस्यैव च इह दृष्टान्तत्वेनोपादानम्, सिद्धरूपत्वात् । अनभिव्यक्तरूपस्य च शक्तिरूपापन्नस्य उत्पत्तिप्रतिषेधविशिष्टसाध्यत्वात् कुतः सिद्धसाधनपक्षदोषाशङ्का, कुतो वा हेतोर्विरुद्धार्थताशङ्केति । तस्मात्स्वतो ऽनुमानविरोधचोदनायामपि यथोपवर्णितदोषाभावात्परोक्तदोषापरिहारासम्भव एव । इत्यसम्बद्धमेवैतद्दूषणमिति विज्ञेयम् ॥
घटादिकमित्यादिशब्देन निरवशेषोत्पित्सुपदार्थसङ्ग्रहस्य विवक्षितत्वादनैकान्तिकतापि पैटादिभिर्नैव सम्भवति ॥
अथवा । अयमन्यः प्रयोगमार्गः- पुरुषव्यतिरिक्ताः पदार्थाः स्वत उत्पत्तिवादिनः । तत एव न स्वत उत्पद्यन्ते । स्वात्मना विद्यमानत्वात् । पुरुषवत् । इतीदमुदाहरणमुदाहार्यम् ॥
यद्यपि च अभिव्यक्तिवादिन उत्पादप्रतिषेधो न बाधकः, तथापि अभिव्यक्तावुत्पादशब्दं निपात्य पूर्वं पश्चाच्च अनुपलब्ध्युपलब्धिसाधर्म्येण उत्पादशब्देनाभिव्यक्तेरेवाभिधानादयं प्रतिषेधो न अबाधकः ॥
कथं पुनरयं यथोक्तार्थाभिधानं विना व्यस्तविचारो लभ्यत इति चेत्, तदुच्यते । अथ वाक्यानि कृतानि, तानि महार्थत्वाद्यथोदितमर्थं सङ्गृह्य प्रवृत्तानि । तानि च व्याख्यायमानानि यथोक्तमर्थात्मानं प्रसूयन्त इति नात्र किञ्चिदनुपात्तं सम्भाव्यते ॥
प्रसङ्गविपरीतेन चार्थेन परस्यैव सम्बन्धो नास्माकम् । स्वप्रतिज्ञाया अभावात् । ततश्च सिद्धान्तविरोधासम्भवः । परस्य च यावद्बहवो दोषाः प्रसङ्गविपरीतापत्त्या आपद्यन्ते, तावदस्माभिरभीष्यत एवेति । कुतो नु खलु अविपरीताचार्यनागार्जुनमतानुसारिणः आचार्यबुद्धपालितस्य सावकाशवचनाभिधायित्वम्, यतो ऽस्य परो ऽवकाशं लभेत? निःस्वभावभाववादिना सस्वभावभाववादिनः प्रसङ्गे आप(पा?)द्यमाने कुतः प्रसङ्गविपरीतार्थप्रसङ्गिता? न हि शब्दाः दाण्डपाशिका इव वक्तारमस्वतन्त्रयन्ति, किं तर्हि सत्यां शक्तौ वक्तुर्विवक्षामनुविधीयन्ते । ततश्च (प्प्_८) परप्रतिज्ञाप्रतिषेधमात्रफलत्वात्प्रसङ्गापादनस्य नास्ति प्रसङ्गविपरीतार्थापत्तिः । तथा च आचार्यो भूयसा प्रसङ्गापत्तिमुखेनैव परपक्षं निराकरोति स्म । तद्यथा-
नाकाशं विद्यते किञ्चित्पूर्वमाकाशलक्षणात् ।
अलक्षणं प्रसज्येत स्यात्पूर्वं यदि लक्षणात् ॥
रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते ।
आहेतुकं न चास्त्यर्थः कश्चिदाहेतुकः क्वचित् ॥
भावस्तावन्न निर्वाणं जरामरणलक्षणम् ।
प्रसज्येतास्ति भावो हि न जरामरणं विना ॥
इत्यादिना । अथ अर्थवाक्यत्वादाचार्यवाक्यानां महार्थत्वे सति अनेकप्रयोनिष्पत्तिहेतुत्वं परिकल्प्यते, आचार्यबुद्धपालितव्याख्यानान्यपि किमिति न तथैव परिकल्प्यन्ते?
अथ स्यात्- वृत्तिकाराणामेष न्यायः, यत्प्रयोगवाक्यविस्तराभिधानं कर्तव्यमिति, एतदपि नास्ति, विग्रहव्यावर्तन्या वृत्तिं कुर्वताप्याचार्येण प्रयोगवाक्यानभिधानात् ॥
अपि च । आत्मनस्तर्कशास्त्रातिकौशलमात्रमाविश्चिकीर्षया अङ्गीकृतमध्यमकदर्शनस्यापि यत्स्वतन्त्रप्रयोगवाक्याभिधानं तदतितरामनेकदोषसमुदायास्पदमस्य तार्किकस्योपलक्ष्यते । कथं कृत्वा? तत्र यत्तावदेवमुक्तम्- अत्र प्रयोगवाक्यं भवति- न परमार्थतः आध्यात्मिकान्यायतनानि स्वत उत्पन्नानि, विद्यमानत्वात्, चैतन्यवदिति । किमर्थ पुनरत्र परमार्थत इति विशेषणमुपादीयते? लोकसंवृत्याभ्युपगतस्य उत्पादस्य अप्रतिषिध्यमानत्वात्, प्रतिषेधे च अभ्युपेतबाधाप्रसङ्गादिति चेत्, नैतद्युक्तम् । संवृत्यापि स्वत उत्पत्त्यनभ्युपगमात् । यथोक्तं सूत्रे-
“स चायं बीजहेतुको ऽङ्कुर उत्पद्यमानो न स्वयङ्कृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो निश्वरकालाणुप्रकृतिस्वभावसम्भूतः” इति ।
तथा-
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो ।
न च अन्यु ततो न चैव तदेवमनुच्छेदअशाश्वतधर्मता ॥
इहापि वक्ष्यति-
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् ।
न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् ॥
इति ॥
(प्प्_९)
परमतापेक्षं विशेषणमिति चेत्, तदयुक्तम् । संवृत्यापि तदीयव्यवस्थानभ्युपगमात् । सत्यद्वयाविपरीतदर्शनपरिभ्रष्टा एव हि तीर्थिका यावदुभयथापि निषिध्यन्ते तावद् गुण एव सम्भाव्यत इति । एवं परमतापेक्षमपि विशेषणाभिधानं न युज्यते ॥
न चापि लोकः स्वतौत्पत्तिं प्रतिपन्नः, यतस्तदपेक्षयापि विशेषणसाफल्यं स्यात् । लोको हि स्वतः परत इत्येवमादिकं विचारमनवतार्य कारणात्कार्यमुत्पद्यते इत्येतावन्मात्रं प्रतिपन्नः । एवमाचार्यो ऽपि व्यवस्थापयामास । इति सर्वथा विशेषणवैफल्यमेव निश्चीयते ॥
अपि च । यदि संवृत्या उत्पत्तिप्रतिषेधनिराचिकीर्षुणा विशेषणमेतदुपादीयते, तदा स्वतो ऽसिद्धाधारे पक्षदोषः, आश्रयासिद्धौ वा हेतुदोषः स्यात् । परमार्थतः स्वतश्चक्षुराद्यायतनानामनभ्युपगमात् । संवृत्या चक्षुरादिसद्भावाददोष इति चेत्, परमार्थत इत्येतत्तर्हि कस्य विशेषणम्? सांवृतानां चक्षुरादीनां परमार्थत उत्पत्तिप्रतिषेधाद् उत्पत्तिप्रतिषेधविशेषणे परमार्थग्रहणमिति चेत्, एवं तर्हि एवमेव वक्तव्यं स्यात्- सांवृतानां चक्षुरादीनां परमार्थतो नास्त्युत्पत्तिरिति । न चैवमुच्यते । उच्यमाने ऽपि परैर्वस्तुसतामेव चक्षुरादीनामभ्युपगमात्, प्रज्ञप्तिसतामनभ्युपगमात् परतो ऽसिद्धाधारः पक्षदोषः स्यादिति न युक्तमेतत् ॥
अथ स्यात्- यथा अनित्यः शब्द इति धर्मधर्मिसामान्यमेव गृह्यते न विशेषः, विशेषग्रहणे हि सति अनुमानानुमेयव्यवहाराभावः स्यात् । तथा हि- यदि चातुर्महाभौतिकः शब्दो गृह्यते, स परस्यासिद्धः । अथाकाशगुणो गृह्यते, स बौद्धस्य स्वतो ऽसिद्धः । तथा वैशेषिकस्य शब्दानित्यतां प्रतिजानानस्य यदि कार्यः शब्दो गृह्यते, स परतो ऽसिद्धः । अथ व्यङ्गयः, स स्वतो ऽसिद्धः । एवं यथासम्भवं विनाशो ऽपि यदि सहेतुकः, स बौद्धस्य स्वतो ऽसिद्धः । अथ निर्हेतुकः, स परस्यासिद्ध इति । तस्माद् यथात्र धर्मधर्मिसामान्यमात्रमेव गृह्यते, एवमिहापि धर्मिमात्रमुत्सृष्टविशेषणं ग्रहीष्यत इति चेत्, नैतदेवम् । यस्माद् यदैवोत्पादप्रतिषेधो ऽत्र साध्यधर्मो ऽभिप्रेतः, तदैव धर्मिणस्तदाधारस्य विपर्यासमात्रासादितात्मभावस्य प्रच्युतिः स्वयमेवानेनाङ्गीकृता । भिन्नौ हि विपर्यासाविपर्यासौ । तद्यदा विपर्यासेन असत्सत्त्वेन गृह्यते, तैमिरिकेणेव केशादि, तदा कुतः सद्भूतपदार्थलेशस्याप्युपलब्धिः? यदा च अविपर्यासादभूतं नाध्यारोपितं वितैमिरिकेणेव केशादि, तदा कुतो ऽसद्भूतपदार्थलेशस्याप्युपलब्धिः, येन तदानीं संवृतिः स्यात्? अत एवोक्तमाचार्यपादैः-
यदि किञ्चिदुपलमेयं प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः ॥
इति ॥
यतश्चैवं भिन्नौ विपर्यासाविपर्यासौ, अतो विदुषामविपरीतावस्थायां विपरीतस्यासम्भवात्कुतः सांवृतं चक्षुः यस्य धर्मित्वं स्यात्? इति न व्यावर्तते ऽसिद्धाधारे पक्षदोषः, आश्रयासिद्धो वा हेतुदोषः । इत्यपरिहार एवायम् ॥
(प्प्_१०)
निदर्शनस्यापि नास्ति साम्यम् । तत्र हि शब्दसामान्यमनित्यतासामान्यं च अविवक्षितविशेषं द्वयोरपि संविद्यते । न त्वेवं चक्षुः सामान्यं शून्यताशून्यतावादिभ्यां संवृत्या अङ्गीकृतं नापि परमार्थतः । इति नास्ति निदर्शनस्य साम्यम् ॥
यश्चायमसिद्धाधारपक्षदोषोद्भावने विधिः, एष एव सत्त्वादित्यस्य हेतोरसिद्धार्थतोद्भावने ऽपि योज्यः ॥
इत्थं चैतदेवम्, यत्स्वयमष्यनेनायं यथोक्तो ऽर्थो ऽभ्युपगतस्तार्किकेण । सन्त्येवाध्यात्मिकायतनोत्पादका हेत्वादयः, तथा तथागतेन निर्देशात् । यद्धि यथा तथागतेनास्ति निर्दिष्टं तत्तथा, तद्यथा शान्तं निर्वाणमिति ॥
अस्य परोपक्षिप्तस्य साधनस्येदं दूषणमभिहितमनेन- को हि भवतामभिप्रेतो ऽत्र हेत्वर्थः? संवृत्या तथा तथागतेन निर्देशात्, उत परमार्थत इति? संवृत्या चेत्, स्वतो हेतोरसिद्धार्थता । परमार्थतश्चेत्,
न सन्नासन्न सदसद्धर्मो निर्वर्तते यदा ।
सदसदुभयात्मककार्यप्रत्ययत्वनिराकरणात्, तदा-
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥
नैवासौ निर्वर्तको हेतुरिति वाक्यार्थः । ततश्च परमार्थतो निर्वर्त्यनिर्वर्तकत्वासिद्धेः असिद्धार्थता विरुद्धार्थता वा हेतोरिति ॥
यतश्चैवं स्वयमेवामुना न्यायेन हेतोरसिद्धिरङ्गीकृतानेन, तस्मात्सर्वेष्वेवानुमानेषु वस्तु धर्मोपन्यस्तहेतुकेषु स्वत एवं हेत्वादीनामसिद्धत्वात् सर्वाण्येव साधनानि व्याहन्यन्ते । तद्यथा- न परमार्थतः परेभ्यस्तत्प्रत्ययेभ्यः आध्यात्मिकायतनजन्म, परत्वात्, तद्यथा पटस्य । अथवा- न परे परमार्थेन विवक्षिताः चक्षुराद्याध्यात्मिकायतननिर्वर्तकाः प्रत्यया इति प्रतीयन्ते, परत्वात्, तद्यथा तन्त्वादय इति । परत्वादिकमत्र स्वत एवासिद्धम् ॥
यथा चानेन- उत्पन्ना एव आध्यात्मिका भावाः, तद्विषयिविशिष्टव्यवहारकरणात्- इत्यस्य पराभिहितस्य हेतोरसिद्धार्थतामुद्भावयिषुणा इदमुक्तम्, अथ समाहितस्य योगिनः प्रज्ञाचक्षुषा भावयाथात्म्यं पश्यतः उत्पादगत्यादयः सन्ति परमार्थत इति साध्यते, तदा तद्विषयिविशिष्टव्यवहारकरणादिति हेतोरसिद्धार्थता, गतेरप्युत्पादनिषेधादेव निषेधादिति । एवं स्वकृतसाधने ऽपि परमार्थतो ऽगतं नैव गम्यते, अध्वत्वात्, गताध्ववदिति अध्वत्वहेतोः स्वत एवासिद्धार्थता योज्या ॥
न परमार्थतः सभागं चक्षू रूपं पश्यति, चक्षुरिन्द्रियत्वात्, तद्यथा तत्सभागम् । तथा- न चक्षुः प्रेक्षते रूपम्, भौतिकत्वात्, रूपवत् । खरस्वभावा न मही, भूतत्वात्, तद्यथानिर्लः, इत्यादिषु हेत्वाद्यसिद्धिः स्वत एव योज्या ॥
(प्प्_११)
सत्त्वादिति चायं हेतुः परतो ऽनैकान्तिकः । किं सत्त्वात् चैतन्यवन्नाध्यात्मिकान्यायतनानि स्वत उत्पद्यन्ताम्, उताहो घटादिवत् स्वत उत्पद्यन्तामिति घटादीनां साध्यसमत्वान्नानैकान्तिकतेति चेत्, नैतदेवम्, तथानभिधानात् ॥
ननु च यथा परकीयेष्वनुमानेषु दूषणमुक्तम्, एवं स्वानुमानेष्वपि यथोक्तदूषणप्रसङ्गे सति स एव असिद्धाधारासिद्धहेत्वादिदोषः प्राप्नोति, ततश्च यः उभयोर्दोषः, न तेनैकश्चोद्यो भवतीति सर्वमेतद्दूषणमयुक्तं जायत इति । उच्यते । स्वतन्त्रमनुमानं ब्रुवतामयं दोषो जायते । न वयं स्वतन्त्रमनुमानं प्रयुञ्ज्ममहे परप्रतिज्ञानिषेधफलत्वादस्मदनुमानानाम् । तथा हि- परः चक्षुः पश्यतीति प्रतिपन्नः । स तत्प्रसिद्धेनैवानुमानेन निराक्रियते- चक्षुषः स्वात्मादर्शनधर्ममिच्छसि, परदर्शनधर्माविनाभावित्वं चाङ्गीकृतम्, तस्माद् यत्र यत्र स्वात्मादर्शनं तत्र तत्र परदर्शनमपि नास्ति, तद्यथा घटे, अस्ति च चक्षुषः स्वात्मादर्शनम्, तस्मात् परदर्शनमप्यस्य नैवास्ति । ततश्च स्वात्मादर्शनविरुद्धं नीलादिपरदर्शनं स्वप्रसिद्धेनैवानुमानेन विरुध्यत इति एतावन्मात्रमस्मदनूमानैरुद्भाव्यत इति कुतो ऽस्मत्पक्षे यथोक्तदोषावतारः, यतः समानदोषता स्यात्?
किं पुनः- अन्यतरप्रसिद्धेनाप्यनुमानेनास्त्यनुमानबाधा । अस्ति, सा च स्वप्रसिद्धेनैव हेतुना, न परप्रसिद्धेन, लोकत एवं दृष्टत्वात् । कदाचिद्धि लोके अर्थिप्रत्यर्थिभ्यां प्रमाणीकृतस्य साक्षिणो वचनेन जयो भवति पराजयो वा, कदाचित् स्ववचनेन । परवचनेन तु न जयो नापि पराजयः । यथा च लोके, तथा न्याये ऽपि । लौकिकस्यैव व्यवहारस्य न्यायशास्त्रे प्रस्तुतत्वात् । अत एव कैश्चिदुक्तम्- न परतः प्रसिद्धिबलादनुमानबाधा, परप्रसिद्धेरेव निराचिकीर्षितत्वादिति । यस्तु मन्यते- य एव उभयनिश्चितवादी, स प्रमाणं दूषणं वा, नान्यतरप्रसिद्धसन्दिग्धवाची इति, तेनापि लौकिकीं व्यवस्थामनुरुध्यमानेन अनुमाने यथोक्त एव न्यायो ऽभ्युपेयः ॥
तथा हि नोभयप्रसिद्धेन वा आगमेन बाधा, किं तर्हि स्वप्रसिद्धेनापि ॥
स्वार्थानुमाने तु सर्वत्र स्वप्रसिद्धिरेव गरीयसी, नोभयप्रसिद्धिः । अत एव तर्कलक्षणाभिधानं निष्प्रयोजनम्, यथास्वप्रसिद्धया उपपत्त्या बुद्धैस्तदनभिज्ञविनेयजनानुग्रहात् । इत्यलं प्रसङ्गेन । प्रकृतमेव व्याख्यास्यामः ॥
परतो ऽपि नोत्पद्यन्ते भावाः । पराभावादेव एतच्च-
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
इत्यत्र प्रतिपादयिष्यति । ततश्च पराभावादेव नापि परत उत्पद्यन्ते । अपि च-
अन्यत्प्रतीत्य यदि नाम परो ऽभविष्य-
ज्जायेत तर्हि बहुलः शिखिनो ऽन्धकारः ।
(प्प्_१२)
सर्वस्य जन्म च भवेत्खलु सर्वतश्च
तुल्यं परत्वमखिले ऽजनके ऽपि यस्मात् ॥
इत्यादिना [मध्यमकावतारात्] परत उत्पत्तिप्रतिषेधो ऽवसेयः ॥
आचार्यबुद्धपालितस्तु व्याचष्टे- न परत उत्पद्यन्ते भावाः, सर्वतः सर्वसम्भवप्रसङ्गात् आचार्यभावविवेको दूषणमाह- तदत्र प्रसङ्गवाक्यत्वात् साध्यसाधनविपर्ययं कृत्वा, स्वतः उभयतः अहेतुतो वा उत्पद्यन्ते भावाः, कुतश्चित्कस्यचिदुत्पत्तेः, इति प्राक्पक्षविरोधः । अन्यथा सर्वतः सर्वसम्भवप्रसङ्गात् इत्यस्य साधनदूषणानन्तःपातित्वादसङ्गतार्थमेतत् [इति] । एतदप्यसङ्गतार्थम् । पूर्वमेव प्रतिपादितत्वाद् दूषणान्तःपातित्वाच्च परप्रतिज्ञातार्थदूषणेनेति यत्किञ्चिदेतदिति न पुनर्यत्न आस्थीयते ॥
द्वाभ्यामपि नोपजायन्ते भावाः, उभयपक्षाभिहितदोषप्रसङ्गात् प्रत्येकमुत्पादासामर्थ्याच्च । वक्ष्यति हि-
स्यादुभाभ्यां कृतं दुःखं स्यादेकैककृतं यदि । इति ॥
अहेतुतो ऽपि नोत्पद्यन्ते-
हेतावसति कार्यं च कारणं च न विद्यते ।
इति वक्ष्यमाणदोषप्रसङ्गात्,
गृह्येत नैव च जगद्यदि हेतुशून्यं
स्याद्यद्वदेव गगनोत्पलवर्णगन्धौ ॥
इत्यादिदोषप्रसङ्गाच्च ॥
आचार्यबुद्धपालितस्त्वाह- अहेतुतो नोत्पद्यन्ते भावाः, सदा च सर्वतश्च सर्वसम्भवप्रसङ्गात् । अत्राचार्यभावविवेको दूषणमाह- अत्रापि प्रसङ्गवाक्यत्वात् यदि विपरीतसाध्यसाधनव्यक्तिवाक्यार्थ इष्यते, तदा एतदुक्तं भवति- हेतुत उत्पद्यन्ते भावाः, कदाचित् कुतश्चित् कस्यचिदुत्पत्तेः, आरम्भसाफल्याच्च । सेयं व्याख्या न युक्ता प्रागुक्तदोषादिति । तदेतदयुक्तम्, पूर्वोदितपरिहारादित्यपरे ॥
यच्चापि ईश्वरादीनामुपसङ्ग्रहार्थम्, तदापि न युक्तम् । ईश्वरादीनां स्वपरोभयपक्षेषु यथाभ्युपगममन्तर्भावादिति ॥
तस्मात् प्रसाधितमेतन्नास्त्युत्पाद इति । उत्पादासम्भवाच्च सिद्धो ऽनुत्पादादिविशिष्ट प्रतीत्यसमुत्पाद इति ॥
(प्प्_१३)
अत्राह- यद्येवमनुत्पादादिविशिष्टः प्रतीत्यसमुत्पादो व्यवस्थितो भवद्भिः, यत्तर्हि भगवतोक्तम्- अविद्याप्रत्ययाः संस्कारा अविद्यानिरोधात्संस्कारनिरोध इति, तथा-
अनित्याश्च ते (बत?) संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखः ॥
तथा- उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता, एको धर्मः सत्त्वस्थितये यदुत चत्वार आहाराः, द्वौ धर्मौ लोकं पालयतो ह्रीश्चापत्राप्यं चेत्यादि, तथा- परलोकादिहागमनमिहलोकाच्च परलोकगमनमिति, एवं निरोधादिविशिष्टः प्रतीत्यसमुत्पादो देशितो भगवता, स कथं न नि (वि?) रुध्यत इति? यत एवं निरोधादयः प्रतीत्यसमुत्पादस्योपलभ्यन्ते, अत एवेदं मध्यमकशास्त्रं प्रणीतमाचार्येण नेयनीतार्थसूत्रान्तविभागोपदर्शनार्थम् । तत्र य एते प्रतीत्यसमुत्पादस्योत्पादादय उक्ताः, न ते विगताविद्यातिमिरानास्रवविषयस्वभावापेक्षया, किं तर्हि अविद्यातिमिरोपहतमतिनयनज्ञानविषयापेक्षया ॥
तत्त्वदर्शनापेक्षया तूक्तं भगवता- एतद्धि भिक्षवः परमं सत्यं यदुत अमोषधर्म निर्वाणम्, सर्वसंस्काराश्च मृषा मोषधर्माणः इति । तथा- नास्त्यत्र तथता वा अवितथता वा । मोषधर्मक मप्येतत्, प्रलोपधर्मकमप्येतत्, मृषाप्येतत्, मायेयं बाललापिनी इति । तथा-
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा ।
मरीचिसदृशी सञ्ज्ञा संस्काराः कदलीनिभाः ।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥
इति ॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् ।
दिवा वा यदि वा रात्रौ सम्प्रजानन् प्रतिस्मृतः ।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥
इति ॥
निरात्मकत्वाच्च धर्माणामित्यादि ॥
यस्यैवं देशनाभिप्रायानभिज्ञतया सन्देहः स्यात्- का ह्यत्र देशना तत्त्वार्था, का नु खलु आभिप्रायिकीति, यश्चापि मन्दबुद्धितया नेयार्थां देशनां नीतार्थामवगच्छति, तयोरुभयोरपि विनेयजनयोः आचार्यो युक्त्यागमाभ्यां संशयमिथ्याज्ञानापाकरणार्थं शास्त्रमिदमारब्धवान् ॥
तत्र ऽन स्वतःऽ; इत्यादिना युक्तिरुपवर्णिता ॥
तन्मृषा मोषधर्म यद्भगवानित्यभाषत ।
सर्वे च मोषधर्माणः संस्कारास्तेन ते मृषा ॥
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः ।
संसारो ऽनवराग्रो हि नास्त्यादिर्नापि पश्चिमम् ॥
(प्प्_१४)
कात्यायनाववादे च अस्ति नास्तीति चोभयम् ।
प्रतिषिद्धं भगवता भावाभावविभाविना ॥
इत्यादिना आगमो वर्णितः ॥
उक्तं च आर्याक्षयमतिसूत्रे-
कतमे सूत्रान्ता नेयार्थाः कतमे नीतार्थाः? ये सूत्रान्ता मार्गवताराय निर्दिष्टाः, इम उच्यन्तेः नेयार्थाः । ये सूत्रान्ताः फलावताराय निर्दिष्टाः, इम उच्यन्ते नेयार्थाः । यावद् ये सूत्रान्ताः शून्यतानिमित्ताप्रणिहितानभिसंस्काराजातानुत्पादाभावनिरात्मनिः सत्त्वनिर्जीवनिः पुद्गलास्वामिकविमोक्षमुखा निर्दिष्टाः त उच्यन्ते नीतार्थाः । इयमुच्यते भदन्त शारद्वतीपुत्र नीतार्थसूत्रान्तप्रतिशरणता, न नेयार्थसूत्रान्तप्रतिशरणता इति ॥
तथा च आर्यसमाधिराजसूत्रे-
नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता ।
यस्मिन् पुनः पुद्गलसत्त्वपूरुषा नेयार्थतो जानति सर्वधर्मान् ॥
तस्मादुत्पादादिदेशनां मृषार्थां प्रतिपादयितुं प्रतीत्यसमुत्पादानुदर्शनमारब्धवानाचार्यः ॥
ननु च- उत्पादादीनामभावे सति यदि सर्वधर्माणां मृषात्वप्रतिपादनार्थमिदमारब्धवानाचार्यः नन्वेवं सति यन्मृषा न तदस्तीति न सन्त्यकुशलानि कर्माणि, तदभावान्न सन्ति दुर्गतयः, न सन्ति कुशलानि कर्माणि, तदभावान्न सन्ति सुगतयः, सुगतिदुर्गत्यसम्भवाच्च नास्ति संसारः, इति सर्वारम्भवैयर्थ्यमेव स्थात् । उच्यते । संवृतिसत्यव्यपेक्षया लोकस्य इदंसत्याभिनिवेशस्य प्रतिपक्षभावेन मृषार्थता भावानां प्रतिपाद्यते ऽस्माभिः । नैव त्वार्याः कृतकार्याः किञ्चिदुपलभन्ते यन्मृषा अमृषा वा स्यादिति । अपि च । येन हि सर्वधर्माणां मृषात्वं परिज्ञातं किं तस्य कर्माणि सन्ति, संसारो वा अस्ति? न चाप्यसौ कस्यचिद्धर्मस्स्य अस्तित्वं नास्तित्वं वोपलभते । यथोक्तं भगवता आर्यरत्नकूटसूत्रे-
चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते । यन्न लभ्यते तन्नोपलभ्यते । यन्नोपलभ्यते तन्नैव अतीतं न अनागतं न प्रत्युत्पन्नम् । यन्नैवातीतं नानागतं न प्रत्युत्पन्नम्, तस्य नास्ति स्वभावः । यस्य नास्ति स्वभावः, तस्य नास्त्युत्पादः । यस्य नास्त्युत्पादः, तस्य नास्ति निरोधः ॥
इति विस्तरः ॥
(प्प्_१५)
यस्तु विपर्यासानुगमान्मृषात्वं नावगच्छति, प्रतीत्य भावाना स्वभावमभिनिविशते, स धर्मेष्विदंसत्याभिनिवेशादभिनिविष्टः सन् कर्माण्यपि करोति, संसारे ऽपि संसरति, विपर्यासावस्थितत्वान्न भव्यो निर्वाणमधिगन्तुम् ॥
किं पुनः- मृषास्वभावा अपि पदार्थाः सङ्क्लेशव्यवदाननिबन्धनं भवन्ति । तद्यथा मायायुवतिस्तत्स्वभावानभिज्ञानाम्, तथागतनिर्मितश्च उपचितकुशलमूलानाम् । उक्तं हि दृढाध्याशयपरिपृच्छासूत्रे-
तद्यथा कुलपुत्र मायाकारनाटके प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा कश्चिद्रागपरीतचित्ताः पर्षच्छारद्यभयेन उत्थायासनादपक्रामेत्, सो ऽपक्रम्य तामेव स्त्रियमशुभतो मनसिकुर्यात्, अनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसिकुर्यात् । इति विस्तरः ॥
विनये च-
यन्त्रकारकारिता यन्त्रयुवतिः सद्भूतयुवतिशून्या सद्भूतयुवतिरूपेण प्रतिभासते, तस्य च चित्रकारस्य कामरागास्पदीभूता । तथा मृषास्वभावा अपि भावा बालानां सङ्क्लेशव्यवदाननिबन्धनं भवन्ति ॥
तथा आर्यरत्नकूटसूत्रे-
अथ खलु तानि पञ्चमात्राणि भिक्षुशतानि भगवतो धर्मदेशनामनवतरन्त्यनवगाहमानान्यनधिमुच्यमानानि उत्थायासनेभ्यः प्रक्रान्तानि । अथ भगवान् [तस्यां वेलायाम्] येन मार्गेणैते भिक्षवो गच्छन्ति स्म, तस्मिन् मार्गे द्वौ भिक्षू निर्मिमीते स्म ॥
अथ तानि पञ्च भिक्षुशतानि येन [मार्गेण] तौ द्वौ भिक्षू [निर्मितकौ] तेनोपसङ्क्रामन्ति स्म । उपसङ्क्रम्य ताववोचन्- कुत्रायुष्मन्तौ गमिष्यथः? निर्मितकाववोचताम्- गमिष्याव आवामरण्यायतनेषु, तत्र ध्यानसुखस्पर्शविहारैर्विहरिष्यावः । यं हि भगवान् धर्मं देशयति, तमावां नावतरावो नावगाहावहे नाधिमुच्यामहे उत्त्रस्यावः सन्त्रासमापद्यावहे । अथ तानि पञ्च भिक्षुशतान्येतदवोचन्- वयमप्यायुष्मन्तो भगवतो धर्मदेशनां नावतरामो नावगाहामहे नाधिमुच्यामहे उत्त्रस्यामः सन्त्रस्यामः सन्त्रासमापद्यामहे । तेन वयमरण्यायतनेषु ध्यानसुखस्पर्शविहारैर्विहरिष्यामः । निर्मितकाववोचताम्- तेन हि आयुष्मन्तः सङ्गास्यामो न विवदिष्यामः । अविवादपरमा हि श्रमणस्य धर्माः । कस्यायुष्मन्तः प्रहाणाय प्रतिपन्नाः? तान्यवोचन्- रागद्वेषमोहानां प्रहाणाय वयं प्रतिपन्नाः । निर्मितकाववोचताम्- किं पुनरायुष्मतां संविद्यन्ते रागद्वेषमोहा यान् क्षपयिष्यथ? तान्यवोचन्- न ते ऽध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यन्ते, नापि ते ऽपरिकल्पिता उत्पद्यन्ते । निर्मितकाववोचताम्- तेन हि आयुष्मन्तो मा कल्पयत, [मा विकल्पयत] । यदा चायुष्मन्तो न कल्पयिष्यथ न विकल्पयिष्यथ, तदा न रङ्क्ष्यथ न विरङ्क्ष्यथ । यश्च न रक्तो न विरक्तः, स शान्त इत्युच्यते । शीलमायुष्मन्तो न संसरति न परिनिर्वाति । समाधिः प्रज्ञा विमुक्तिर्विमुक्तिज्ञानदर्शनमायुष्मन्तो (प्प्_१६) न संसरति न परिनिर्वाति । एभिश्चायुष्मन्तो धर्मैर्निर्वाणं सूच्यते । एते च धर्माः शून्याः प्रकृतिविविक्ताः । प्रजहीतैतामायुष्मन्तः सञ्ज्ञां यदुत परिनिर्वाणमिति । मा च सञ्ज्ञायां सञ्ज्ञा कार्ष्ट, मा च सञ्ज्ञायां सञ्ज्ञां परिज्ञासिष्ट । यो हि सञ्ज्ञायां सञ्ज्ञां परिजानाति, सञ्ज्ञा बन्धनमेवास्य तद्भवति । सञ्ज्ञावेदयितनिरोधसमापत्तिमायुष्मन्तः समापद्यध्वम् । सञ्ज्ञावेदयितनिरोधसमापत्तिसमापन्नस्य भिक्षोर्नास्त्युत्तरीकरणीयमिति वदावः ॥
अथ तेषां पञ्चानां भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तान्यभूवन् । तानि विमुक्तचित्तानि येन भगवांस्तेनोपसङ्क्रान्तानि । उपसङ्क्रम्य भगवतः पादौ शिरसाभिवन्द्यैकान्ते न्यसीदन् ।
अथायुष्मान् सुभूतिस्तान् । भिक्षूनेतदवोचत्- कुत्रायुष्मन्तो गताः कुतो वागताः ते ऽवोचन्- न क्वचिद्गमनाय न कुतश्चिदागमनाय भदन्त सुभूते भगवता धर्मो देशितः आह- को नामायुष्मतां शास्ता? आहुः- यो नोत्पन्नो न परिनिर्वास्यति । आह- कथं युष्माभिर्धर्मः श्रुतः? आहुः- न बन्धनाय न मोक्षाय । आह- केन यूयं विनीताः? आहुः- यस्य न कायो न चित्तम् । आह- कथं यूयं प्रयुक्ताः? आहुः- नाविद्याप्रहाणाय न विद्योत्पादनाय । आह- कस्य यूयं श्रावकाः? आहुः- येन न प्राप्तं नाभिसम्बुद्धम् । आह- के युष्माकं सब्रह्मचारिणः? आहुः- ये त्रैधातुके नोपविचरन्ति । आह- कियच्चिरेणायुष्मन्तः परिनिर्वास्यन्ति आहुः- यदा तथागतनिर्मिताः परिनिर्वास्यन्ति । आह- कृतं युष्माभिः करणीयम्? आहुः- अहं कारममकारपरिज्ञानतः । आह- क्षीणा युष्माकं क्लेशाः? आहुः- अत्यन्तक्षयात्सर्वधर्माणाम् । आह- धर्षितो युष्माभिर्मारः? आहुः- स्कन्धमारानुपलम्भात् । आह- धर्षितो युष्माभिर्मारः? आहुः- स्कन्धमारानुपलम्भात् । आह- परिचरितो युष्माभिः शास्ता? आहुः- न कायेन न वाचा न मनसा । आह- विशोधिता युष्माभिर्दक्षिणीयभूमिः? आहुः- अग्राहतो ऽप्रतिग्राहतः । आह- उत्तीर्णो युष्माभिः संसारः? आहुः- अनुच्छेदतो ऽशाश्वततः । आह- प्रतिपन्ना युष्माभिर्दक्षिणीयभूमिः? आहुः- सर्वग्राहविनिर्मुक्तितः । आह- किङ्गामिन आयुष्मन्तः? आहुः- यङ्गामिनस्तथागतनिर्मिताः । इति ह्यायुष्मतः सुभूतेः परिपृच्छतस्तेषां भिक्षूणां प्रतिविसर्जयतां तस्यां पर्षदि अष्टानां भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि, द्वात्रिंशतश्च प्राणिसहस्राणां विरजो विगतमलं धर्मचक्षुर्विशुद्धम् । इति ॥
इत्येवं मृषास्वभावाभ्यां तथागतनिर्मिताभ्यां भिक्षुभ्यां पञ्चानां भिक्षुशतानां व्यवदाननिबन्धनं कृतमिति ॥
उक्तं च आर्यवज्रमण्डायां धारण्याम्-
तद्यथा मञ्जुश्रीः काण्डं च प्रतीत्य मथनीं च प्रतीत्य पुरुषस्य हस्तव्यायामं च प्रतीत्य धूमः प्रादुर्भवतीति अग्निरभिनिर्वर्तते । स चाग्निसन्तापो न काण्डसन्निश्रितो न मथनीसन्निश्रितो न पुरुषहस्तव्यायामसन्निश्रितः । एवमेव मञ्जुश्रीः असद्विपर्यासमोहितस्य पुरुषपुद्गलस्य उत्पद्यते रागपरिदाहो द्वेषपरिदाहो मोहपरिदाहः । स च परिदाहो नाध्यात्मं न बहिर्धा नोभयमन्तरेण स्थितः ॥
अपि तु मञ्जुश्रीः यदुच्यते मोह इति, तत्केन कारणेनोच्यते मोह इति? अत्यन्तमुक्तो हि मञ्जुश्रीः सर्वधर्मैर्मोहस्तेनोच्यते मोह इति । तथा नरकमुखा मञ्जुश्रीः सर्वधर्मा इदं धारणीपदम् । (प्प्_१७) आह- कथं भगवन्निदं धारणीपदम्? आह- नरका मञ्जुश्रीः बालपृग्थजनैरसद्विपर्यासविठपिताः स्वविकल्पसम्भूताः । आह- कुत्र भगवन्नरकाः समवसरन्ति? भगवानाह- आकाशसमवसरणा मञ्जुश्रीः नरकाः । तत्किं मन्यसे मञ्जुश्रीः स्वविकल्पसम्भूता नरका उत स्वभावसम्भूताः? आह- स्वविकल्पेनैव भगवन् सर्वबालपृथग्जनां नरकतिर्यग्योनियमलोकं सञ्जानन्ति । ते च असत्समारोपेण दुःखां वेदनां वेदयन्ति दुःखमनुभवन्ति त्रिष्वप्यपायेषु ॥
यथा चाहं भगवन् नरकान् पश्यामि तथा नारकं दुःखम् । तद्यथा भगवन् कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरगतो नरकगतमात्मानं सञ्जानीते । स तत्र क्वथितायां सम्प्रज्वलितायामनेकपौरुषायां लोहकुम्भ्यां प्रक्षिप्तमात्मानं सञ्जान्Ōष्यात् । स तत्र खरां कटुकां त्Ōष्व्रां दुःखां वेदनां वेदयेत् । स तत्र मानसं परिदाहं सञ्जान्Ōष्यात् उत्त्रसेत् सन्त्रासमापद्येत । स तत्र प्रतिबुद्धः समानः- अहो दुःखम्, अहो दुःखम्, इति क्रन्देत् शोचेत् परिदेवेत् । अथ तस्य मित्रज्ञाति सालोहिताः परिपृच्छेयुः- केन तत्ते दुःखमिति । स तान् मित्रज्ञातिसालोहितानेवं वदेत्- नैरयिकं दुःखमनुभूतम् । स तानाक्रोशेत् परिभाषेत्- अहं च नाम नैरयिकं दुःखमनुभवामि । यूयं च मे उत्तरि परिपृच्छथ केनैतत्तव दुःखमिति । अथ ते मित्रज्ञातिसालोहितास्तं पुरुषमेवं वदेयुः- मा भैर्मोः पुरुष । सुप्तो हि त्वम् । न त्वमितो गृहात् क्वचिन्निर्गतः । तस्य पुनरपि स्मृति रुत्पद्यते- सुप्तो ऽहमभूवम् । वितथमेतन्मया परिकल्पितमिति । स पुनरपि सौमनस्यं प्रतिलभते ॥
तद्यथा भगवन् स पुरुषो ऽसत्समारोपेण सुप्तः स्वप्नान्तरगतो नरकगतमात्मानं सञ्जानीयात्, एवमेव भगवन् सर्वबालपृथग्जना असद्भागपर्यवनद्धाः स्त्रीनिमित्तं कल्पयन्ति । ते स्त्रीनिमित्तं कल्पयित्वा ताभिः सार्धं रममाणमात्मानं सञ्जानन्ति । तस्य बालपृथजनस्यैवं भवति- अहं पुरुषः, इयं स्त्री, ममैषा स्त्री । तस्य तेन च्छन्दरागपर्यवस्थितेन चित्तेन भोगपर्येष्टिं चित्तं क्रामयन्ति । स ततोनिदानं कलहविग्रहविवादं सञ्जनयति । तस्य प्रदुष्टेन्द्रियस्य वैरं सञ्जायते । स तेन सञ्ज्ञाविपर्यासेन कालगतः समानो बहूनि कल्पसहस्राणि नरकेषु दुःखां वेदनां वेदयमानमात्मानं सञ्जानाति ॥
तद्यथा भगवन् तस्य पुरुषस्य मित्रज्ञातिसालोहिता एवं वदन्ति- मा भैः, मा भैः, भो पुरुष । सुप्तो हि त्वम् । न त्वमितो गृह्यत् कुतश्चिन्निर्गतः इति । एवमेव बुद्धा भगवन्तश्चतुर्विपर्यासविपर्यस्तानां सत्त्वानामेवं धर्मं देशयन्ति- नात्र स्त्री न पुरुषो न सत्त्वो न जीवो न पुरुषो न पुद्गलः । वितथा इमे सर्वधर्माः । असन्त इमे सर्वधर्माः । विठपिता इमे सर्वधर्माः । मायोपमा इमे सर्वधर्माः । स्वप्नोपमा इमे सर्वधर्माः । निर्मितोपमा इमे सर्वधर्माः । उदकचन्द्रोपमा इमे सर्वधर्माः । इति विस्तरः । ते इमां तथागतस्य धर्मदेशनां श्रुत्वा विगतरागान् सर्वधर्मान् पश्यन्ति । विगतमोहान् सर्वधर्मान् पश्यन्ति अस्वभावाननावरणान् । ते आकाशस्थितेन चेतसा कालं कुर्वन्ति । ते कालगताः समाना निरुपधिशेषे निर्वाणधातौ परिनिर्वान्ति । एवमहं भगवन् नरकान् पश्यामि । इति ॥
(प्प्_१८)
उक्तं च आर्योपालिपरिपृच्छायाम्-
भय दर्शित नैरयिकं मे सत्त्वसहस्र सवेजित नैके ।
न च विद्यति कश्चिह सत्त्व यो च्युतु गच्छति घोरमपायम् ॥
न च कारकु कारण सन्ति येहि कृता असितोमरशस्त्राः ।
कल्पवशेन तु पश्यति तत्र कायि पतन्ति अपायित शस्त्राः ॥
चित्रमनोरम सज्जितपुष्पाः स्वर्णविमान जलन्ति मनोज्ञाः ।
तेष्वपि कारकु नास्तिह कश्चि ते ऽपि च स्थापित कल्पवशेन ॥
कल्पवशेन विकल्पितु लोकः सञ्ज्ञगहेण विकल्पितु बालः ।
सो च गहो अगहो असभूतो मायमरीचिसमा हि विकल्पाः ॥
तदेवमेते ऽस्वभावा भावाः स्वविपर्यासविठपिता बालानां सङ्क्लेशहेतवो भवन्ति संसारे इति स्थितम् ॥
यथा च मृषास्वभावानां पदार्थानां सङ्क्लेशव्यवदानहेतुत्वं तथा मध्यमकावताराद्विस्तरेणावसेयम् ॥
अत्राह- यदि स्वतः परतः उभयतो ऽहेतुतश्च नास्ति भावानामुत्पादः, तत्र कथमविद्या प्रत्ययाः संस्कारा इत्युक्तं भगवता? उच्यते । संवृतिरेव न तत्त्वम् ॥
किं संवृतेर्व्यवस्थानं वक्तव्यम्? इदम्प्रत्ययतामात्रेण संवृतेः सिद्धिरभ्युपगम्यते । न तु पक्षचतुष्टयाभ्युपगमेन सस्वभाववादप्रसङ्गात्, तस्य चायुक्तत्वात् । इदम्प्रत्ययतामात्राभ्युपगमे हि सति हेतुफलयोरन्योन्यापेक्षत्वान्नास्ति स्वाभाविकी सिद्धिरिति नास्ति सस्वभाववादः । अत एवोक्तम्-
स्वयं कृतं परकृतं द्वाभ्यां कृतमहेतुकम् ।
तार्किकैरिष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥
(प्प्_१९)
इहापि वक्ष्यति-
प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् ।
कर्म प्रवर्तते नान्यत्पश्यामः सिद्धिकारणम् ॥
इति ॥
भगवताप्येतावन्मात्रमेवोक्तम्-
तत्रायं धर्मसङ्केतो यदुतास्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते, यदुत अविद्या प्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानमित्यादि ॥
अत्र केचित्परिचोदयन्ति- अनुत्पन्ना भावा इति किमयं प्रमाणजो निश्चय उताप्रमाणजः? तत्र यदि प्रमाणज इष्यते, तदेदं वक्तव्यम्- कति प्रमाणानि किंलक्षणानि किंविषयाणि, किं स्वत उत्पन्नानि किं परत उभयतो ऽहेतुतो वेति । अथाप्रमाणजः, स न युक्तः, प्रमाणाधीनत्वात्प्रमेयाधिगमस्य । अनधिगतो ह्यर्थो न विना प्रमाणैरधिगन्तुं शक्यत इति प्रमाणाभावादर्थाधिगमाभावे सति कुतो ऽयं सम्यग्निश्चय इति न युक्तमेतदनिष्पन्ना भावा इति । यतो वायं निश्चयो भवतो ऽनुत्पन्ना भावा इति भविष्यति, तत एव ममापि सर्वभावाः सन्तीति । यथा चायं ते निश्चयः- अनुत्पन्नाः सर्वधर्मा इति, तथैव ममापि सर्वभावोत्पत्तिर्भविष्यति । अथ ते नास्ति निश्चयो ऽनुत्पन्नाः सर्वभावा इति, तदा स्वयमनिश्चितस्य परप्रत्यायनासम्भवाच्छास्त्रारम्भवैयर्थ्यमेवेति सन्त्यप्रतिषिद्धाः सर्वभावा इति ॥
उच्यते । यदि कश्चिन्निश्चयो नामास्माकं स्यात्, स प्रमाणजो वा स्यादप्रमाणजो वा । न त्वस्ति । किं कारणम्? इहानिश्चयसम्भवे सति स्यात्तत्प्रतिपक्षस्तदपेक्षो निश्चयः । यदा त्वनिश्चय एव तावदस्माकं नास्ति, तदा कुतस्तद्विरुद्धाविरुद्धो निश्चयः स्यात् सम्बन्ध्यन्तरनिरपेक्षत्वात्, खरविषाणस्य ह्रस्वदीर्घतावत् । यदा चैवं निश्चयस्याभावः, तदा कस्य प्रसिद्धयर्थं प्रमाणानि परिकल्पयिष्यामः? कुतो वैषां सङ्ख्या लक्षणं विषयो वा भविष्यति- स्वतः परत उभयतो ऽहेतुतो वा समुत्पत्तिरिति सर्वमेतन्न वक्तव्यमस्माभिः ॥
यद्येवं निश्चयो नास्ति सर्वतः, कथं पुनरिदं निश्चितरूपं वाक्यमुपलभ्यते भवताम्- न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतो भावा भवन्तीति? उच्यते । निश्चितमिदं वाक्यं लोकस्य स्वप्रसिद्धयैवोपपत्त्या, नार्याणाम् । किं खलु आर्याणामुपपत्तिर्नास्ति? केनैतदुक्तमस्ति वा नास्ति वेति । परमार्थो ह्यार्याणां तूष्णीम्भावः । ततः कुतस्तत्र प्रपञ्चसम्भवो यदुपपत्तिरनुपपत्तिर्वा स्यात्?
यदि ह्यार्या उपपत्तिं न वर्णयन्ति, केन खल्विदानीं परमार्थं लोकं बोधयिष्यन्ति? न खल्वार्या लोकसंव्यवहारेणोपपत्तिं वर्णयन्ति, किं तु लोकत एव या प्रसिद्धोपपत्तिः, तां परावबोधार्थमभ्युपेत्य तयैव लोकं बोधयन्ति । यथैव हि विद्यमानामपि शरीराशुचितां विपर्यासानुगता रागिणो नोपलभन्ते, शुभाकारं चाभूतमध्यारोप्य परिक्लिश्यन्ते, तेषां वैराग्यार्थं तथागतनिर्मितो (प्प्_२०) देवो वा शुभसञ्ज्ञया प्राक् प्रच्छादितान् कायदोषानुपवर्णयेत्- सन्त्यस्मिन् काये केशा इत्यादिना । ते च तस्याः शुभसञ्ज्ञाया विमुक्ता वैराग्यमासादयेयुः । एवमिहाप्यार्यैः सर्वथाप्यनुपलभ्यमानात्मकं भावानामविद्यातिमिरोपहतमतिनयनतया विपरीतं स्वभावमध्यारोप्य क्वचिच्च कञ्चिद्विशेषमतितरां परिक्लिश्यन्ति पृथग्जनाः । तानिदानीमार्याः तत्प्रसिद्धयैवोपपत्त्या परिबोधयन्ति । यथा विद्यमानस्य घटस्य न मृदादिभ्य उत्पाद इत्यभ्युपेतम्, एवमुत्पादात्पूर्वं विद्यमानस्य विद्यमानत्वान्नास्त्युत्पाद इत्यवसीयताम् । यथा च परभूतेभ्यो ज्वालाङ्गारादिभ्यो ऽङ्कुरस्योत्पत्तिर्नास्ति इति अभ्युपेतम्, एवं विवक्षितेभ्यो ऽपि बीजादिभ्यो नास्तीत्यवसीयताम् ॥
अथापि स्यात्- अनुभव एषो ऽस्माकमिति, एतदप्युक्तम् । यस्मादनुभव एष मृषा, अनुभवत्वात्, तैमिरिकद्विचन्द्राद्यनुभववदिति । ततश्चानुभवस्यापि साध्यसमत्वात्तेन प्रत्यवस्थानं न युक्तमिति । तस्मादनुत्पन्ना भावा इत्येवं तावद्विपरीतस्वरूपाध्यारोपप्रतिपक्षेण प्रथमप्रकरणारम्भः । इदानीं क्वचिद्यः कश्चिद्विशेषो ऽध्यारोपितः, तद्विशेषापाकरणार्थं शेषप्रकरणारम्भः, गन्तृगन्तव्यगमनादिको ऽपि निरवशेषो विशेषो नास्ति प्रतीत्यसमुत्पादस्येति प्रतिपादनार्थम् ॥
अथ स्यात्- एष एव प्रमाणप्रेमेयव्यवहारो लौकिको ऽस्माभिः शास्त्रेणानुवर्णित इति, तदनुवर्णनस्य तर्हि फलं वाच्यम् । कुतार्किकैः स नाशितो विपरीतलक्षणाभिधानेन, तस्यास्माभिः सम्यग्लक्षणमुक्तमिति चेत्, एतदप्ययुक्तम् । यदि हि कुतार्किकैर्विपरीतलक्षणप्रणयनात्कृतं लक्ष्यवैपरीत्यं लोकस्य स्यात्, तदर्थं प्रयत्नसाफल्यं स्यात् । न चैतदेवम् । इति व्यर्थ एवार्य प्रयत्न इति ॥
अपि च । यदि प्रमाणाधीनः प्रमेयाधिगमः, तानि प्रमाणानि केन परिच्छिद्यन्त इत्यादिना विग्रहव्यावर्तन्यां विहितो दोषः । तदपरिहारात् सम्यग्लक्षणद्योतकत्वमपि नास्ति ॥
किं च । यदि स्वसामान्यलक्षणद्वयानुरोधेन प्रमाणद्वयमुक्तं यस्य तल्लक्षणद्वयम्, किं तल्लक्ष्यमस्ति अथ नास्ति? यद्यस्ति, तदा तदपरं प्रमेयमस्तीति कथं प्रमाणद्वयम्? अथ नास्ति लक्ष्यम्, तदा लक्षणमपि निराश्रयं नास्तीति कथं प्रमाणद्वयम्? वक्ष्यति हि-
लक्षणासम्प्रवृत्तौ च न लक्ष्यमुपपद्यते ।
लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्यसम्भवः ॥
इति ॥
अथ स्यात्- न लक्ष्यते ऽनेनेति लक्षणम्, किं तर्हि ऽकृत्यल्युटो बहुलम्ऽ; इति कर्मणि ल्युटं कृत्वा लक्ष्यते तदिति लक्षणम् । एवमपि तेनैतस्य लक्ष्यमाणत्वासम्भवाद्येनैतल्लक्ष्यते, तस्य करणस्य कर्मणो ऽर्थान्तरत्वात् स एव दोषः ॥
अथ स्यात्- ज्ञानस्य करणत्वात्तस्य च स्वलक्षणान्तर्भावादयमदोष इति, उच्यते । इह भावानामन्यासाधारणमात्मीयं यत्स्वरूपं तत्स्वलक्षणम्, तद्यथा पृथिव्याः काठिन्यं वेदनाया विषयानुभवो विज्ञानस्य विषयप्रतिविज्ञप्तिः । तेन हि तल्लक्ष्यत इति कृत्वा प्रसिद्धानुगतां च (प्प्_२१) व्युत्पत्तिमवधूय कर्मसाधनमभ्युपगच्छति । विज्ञानस्य च करणभावं प्रतिपद्यमानेनेत्युक्तं भवति स्वलक्षणस्यैव कर्मता स्वलक्षणान्तरस्य करणभावश्चेति । तत्र यदि विज्ञानस्वलक्षणं करणम्, तस्य व्यतिरिक्तेन कर्मणा भवितव्यमिति स एव दोषः ॥
अथ स्यात्- यत्पृथिव्यादिगतं काठिन्यादिकं विज्ञानगम्यं तत्तस्य कर्मास्त्येव, तच्च स्वलक्षणाव्यतिरिक्तमिति । एवं तर्हि विज्ञानस्वलक्षणस्य कर्मत्वाभावात्प्रमेयत्वं न स्यात्, कर्मरूपस्यैव स्वलक्षणस्य प्रमेयत्वात् । ततश्च द्विविधं प्रमेयं स्वलक्षणं सामान्यलक्षणं च इत्येतद्विशेष्य वक्तव्यम्- किञ्चित्स्वलक्षणं प्रमेयं यल्लक्ष्यत इत्येवं व्यपदिश्यते, किञ्चिदप्रमेयं यल्लक्ष्यते ऽनेनेति व्यपदिश्यत इति । अथ तदपि कर्मसाधनं तदा तस्यान्येन करणेन भवितव्यम् । ज्ञानान्तरस्य करणभावपरिकल्पनायामनवस्थादोषश्चापद्यते ॥
अथ मन्यसे- स्वसंवित्तिरस्ति, ततस्तया स्वसंवित्या ग्रहणात्कर्मताया सत्यामस्त्येव प्रमेयान्तर्भाव इति, उच्यते । विस्तरेण मध्यमकावतारे स्वसंवित्तिनिषेधात् स्वलक्षणं स्वलक्षणान्तरेण लक्ष्यते, तदपि स्वसंवित्त्या इति न युज्यते । अपि च । तदपि नाम ज्ञानं स्वलक्षणव्यतिरेकेणासिद्धेरसम्भवाल्लक्ष्याभावे निराश्रयलक्षणप्रवृत्त्यसम्भवात् सर्वथा नास्तीति कुतः स्वसंवित्तिः? तथा चोक्तमार्यरत्नचूडपरिपृच्छायाम्-
स चित्तमसमनुपश्यन् चित्तधारां पर्येषते कुतश्चित्तस्योत्पत्तिरिति । तस्यैवं भवति- आलम्बने सति चित्तमुत्पद्यते । तत्किमन्यदालम्बनमन्यच्चित्तम्, अथ यदेवालम्बनं तदेव चित्तम्? यदि तावदन्यदालम्बनमन्यच्चित्तम्, तदा द्विचित्तता भविष्यति । अथ यदेवालम्बनं तदेव चित्तम्, तत्कथं चित्तेन चित्तं समनुपश्यति? न च चित्तं चित्तं समनुपश्यति । तद्यथापि नाम तयैवासिधारया सैवासिधारा न शक्यते छेत्तुम्, न तेनैवाङ्गुल्यग्रेण तदेवाङ्गुल्यग्रं शक्यते स्प्रष्टुम्, एवमेव न तेनैव चित्तेन तदेव चित्तं शक्यं द्रष्टुम् । तस्यैवं योनिशः प्रयुक्तस्य या चित्तस्यानवस्थानता अनुच्छेदाशाश्वतता न कूटस्थता नाहेतुकी न प्रत्ययविरुद्धा न ततो नान्यतो न सैव नान्या । तां चित्तधारां चित्तलतां चित्तधर्मतां चित्तानवस्थिततां चित्ताप्रचारतां चित्तादृश्यतां चित्तस्वलक्षणतां तथा जानाति तथा पश्यति यथा तथतां न च निरोधयति । तां च चित्तविवेकतां तथा प्रजानाति तथा पश्यति । इयं कुलपुत्र [बोधिसत्त्वस्य] चित्ते चित्तानुपश्यना स्मृत्युपस्थानमिति ॥
तदेवं नास्ति स्वसंवित्तिः । तदभावात् किं केन लक्ष्यते?
किं च । भेदेन वा तल्लक्षणं लक्ष्यात्स्यादभेदेन वा? तत्र यदि तावद् भेदेन, तदा लक्ष्याद् भिन्नत्वादलक्षणवल्लक्षणमपि न लक्षणम् । लक्षणाच्च भिन्नत्वादलक्ष्यवल्लक्ष्यमपि न लक्ष्यम् । तथा लक्ष्याद्भिन्नत्वाल्लक्षणस्य लक्षणनिरपेक्षं लक्ष्यं स्यात् । ततश्च न तल्लक्ष्यं लक्षणनिरपेक्षत्वात् खपुष्पवत् । अथाभिन्ने लक्ष्यलक्षणे, तदा लक्षणादव्यतिरिक्तत्त्वाल्लक्षणस्वात्मवद्विहीयते (प्प्_२२) लक्ष्यस्य लक्ष्यता । लक्ष्याच्चाव्यतिरिक्तत्वाल्लक्ष्यस्वात्मवल्लक्षणमपि न लक्षणस्वभावम् । यथा चोक्तम्-
लक्ष्याल्लक्षणमन्यच्चेत्स्यात्तल्लक्ष्यमलक्षणम् ।
तयोरभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया ॥
इति ॥
न च विना तत्त्वान्यत्वेन लक्ष्यलक्षणसिद्धौ अन्या गतिरस्ति । तथा च वक्ष्यति-
एकीभावेन वा सिद्धिर्नानाभावेन वा ययोः ।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥
इति ॥
अथवोच्यते- अवाच्यतया सिद्धिर्भविष्यतीति चेत्, नैतदेवम् । अवाच्यता हि नाम परस्परविभागपरिज्ञानाभावे सति भवति । यत्र च विभागपरिज्ञानं नास्ति, तत्र इदं लक्षणम्, इदं लक्ष्यम्, इति विशेषतः परिच्छेदासम्भवे सति द्वयोरप्यभाव एवेति । तस्मादवाच्यतयापि नास्ति सिद्धिः ॥
अपि च । यदि ज्ञानं करणं विषयस्य परिच्छेदे, कः कर्ता? न च कर्तारमन्तरेणास्ति करणादीनां सम्भवः छिदिक्रियायामिव । अथ चित्तस्य तत्र कर्तृत्वं परिकल्प्यते, तदपि न युक्तम्, यस्मादर्थमात्रदर्शनं चित्तस्य व्यापारः, अर्थविशेषदर्शनं चैतसानाम्,
तत्रार्थदृष्टिर्विज्ञानं तद्विशेषे तु चैतसाः ।
इत्यभ्युपगमात् । एकस्यां हि प्रधानक्रियायां साध्यायां यथास्वं गुणक्रियानिर्वृत्तिद्वारेणाङ्गीभावोपगमात् । करणादीनां करणादित्वम् । न चेह ज्ञानविज्ञानयोरेका प्रधानक्रिया, किं तर्हि, अर्थमात्रपरिच्छित्तिर्विज्ञानस्य प्रधानक्रिया, ज्ञानस्य तु अर्थविशेषपरिच्छेद इति नास्ति ज्ञानस्य करणत्वं नापि चित्तस्य कर्तृत्वम् । ततश्च स एव दोषः ॥
अथ स्यात्- अनात्मानः सर्वधर्मा इत्यागमात् कर्तुः सर्वथाभावात् कर्तारमन्तरेणापि विद्यत एव क्रियादिव्यवहार इति, एतदपि नास्ति । आगमस्य सम्यगर्थानवधारणात् । एतदेवोक्तं मध्यमकावतारे ॥
अथापि स्यात्- यथा शिलापुत्रकस्य शरीरम्, राहोः शिरः, इति शरीरशिरोव्यतिरिक्तविशेषणासम्भवे ऽपि विशेषणविशेष्यभावो ऽस्ति, एवं पृथिव्याः स्वलक्षणमिति स्वलक्षणव्यतिरिक्तपृथिव्यसम्भवे ऽपि भविष्यतीति, नैतदेवम् । अतुल्यत्वात् । शरीरशिरःशब्दयोहि बुद्धयादिपाण्यादिवत्सहभाविपदार्थान्तरसापेक्षताप्रवृत्तौ शरीरशिरः शब्दमात्रालम्बनो बुद्धयुपजननः सहचारिपदार्थान्तरसाकाङ्क्ष एव वर्तते, कस्य शरीरम्, कस्य शिर इति । इतरो ऽपि विशेषणान्तरः सम्बन्धनिराचिकीर्षया । शिलापुत्रकराहुविशेषणध्वनिना लौकिकसङ्केतानुविधायिना प्रतिकर्तुः काङ्क्षामपहन्तीति युक्तम् । इह तु काठिन्यादिव्यतिरिक्तपृथिव्याद्यसम्भवे सति न युक्तो विशेषणविशेष्यभावः । (प्प्_२३) तीर्थिकैर्व्यतिरिक्तलक्ष्याभ्युपगमात्तदनुरोधेन विशेषणाभिधानमदुष्टमिति चेत्, नैतदेवम् । न हि तीर्थिकपरिकल्पिता युक्तिविधुराः पदार्थाः स्वसमये ऽभ्युपगन्तुं न्याय्याः, प्रमाणान्तरादेरप्यभ्युगमप्रसङ्गात् । अपि च । पुद्गलादिप्रज्ञप्तिवत् सशरीरोपादानस्य शिलापुत्रकस्योपादातुर्लौकिकव्यवहाराङ्गभूतस्य विशेषणस्याविचारप्रसिद्धस्य सद्भावात्, शिरौपादानस्य च राहोरुपादातुः सद्भावादयुक्तमेतन्निदर्शनम् । शरीरशिरोव्यतिरिक्तस्यार्थान्तरस्यासिद्धेस्तन्मात्रस्योपलम्भात् सिद्धमेव निदर्शनमिति चेत्, नैतदेवम् । लौकिके व्यवहारे इत्थं विचाराप्रवृत्तेरविचारतश्च लौकिकपदार्थानामस्तित्वात् । यथैव हि रूपादिव्यतिरेकेण विचार्यमाण आत्मा न सम्भवति, अपि च लोकसंवृत्या स्कन्धानुपादाय अस्यास्तित्वम्, एवं राहुशिलापुत्रकयोरपीति नास्ति निदर्शनसिद्धिः ॥
एवं पृथिव्यादीनां यद्यपि काठिन्यादिव्यतिरिक्तं विचार्यमाणं लक्ष्यं नास्ति, लक्ष्यव्यतिरेकेण च लक्षणं निराश्रयम्, तथापि संवृतिरेवेति परस्परापेक्षया तयोः सिद्धया सिद्धिं व्यवस्थापयाम्बभूवुराचार्याः । अवश्यं चैतदेवमभ्युपेयम् । अन्यथा हि संवृतिरुपपत्त्या न वियुज्येत, तदेव तत्त्वमेव स्यान्न संवृतिः । न च उपपत्त्या विचार्यमाणानां शिलापुत्रकादीमेवासम्भवः, किं तर्हि वक्ष्यमाणया युक्त्या रूपवेदनादीनामपि नास्ति सम्भव इति तेषामपि संवृत्या शिलापुत्रकादिवन्नास्तित्वमास्थेयं स्यात् । न चैतदेवमित्यसदेतत् ॥
अथ स्यात्- किमनया सूक्ष्मेक्षिकया? नैव हि वयं सर्वप्रमाणप्रमेयव्यवहारं सत्यमित्याचक्ष्महे, किं तु लोकप्रसिद्धिरेषा अमुना न्यायेन व्यवस्थाप्यत इति । उच्यते । वयमप्येवं ब्रूमः- किमनया सूक्ष्मेक्षिकया लौकिकव्यवहारे ऽवतारिक(त?)या? तिष्ठतु तावदेषा विपर्यासमात्रासादितात्मभावसत्ताका संवृतिः मुमुक्षूणां मोक्षावाहककुशलमूलोपचयहेतुः, यावन्न तत्त्वाधिगम इति । भवांस्तु एतां संवृतिपरमार्थसत्यविभागदुर्विदग्धबुद्धितया क्वचिदुपपत्तिमवतार्य अन्यायतो नाशयति । सो ऽहं संवृतिसत्यव्यवस्थावैचक्षण्याल्लौकिक एव पक्षे स्थित्वा संवृत्येकदेशनिराकरणोपक्षिप्तोपपत्त्यन्तरमुपपत्त्यन्तरेण विनिवर्तयन् लोकवृद्ध इव लोकचारात्परिभ्रश्यमानं भवन्तमेव निवर्तयामि न तु संवृतिम् । तस्माद् यदि लौकिको व्यवहारः, तदा अवश्यं लक्षणवल्लक्ष्येणापि भवितव्यम् । ततश्च स एव दोषः । अथ परमार्थः, तदा लक्ष्याभावाल्लक्षणद्वयमपि नास्तीति कुतः प्रमाणद्वयम्?
अथ शब्दानामेवं क्रियाकारकसम्बन्धपूर्विका व्युत्पत्तिर्नाङ्गीक्रियते, तदिदमतिकष्टम् । तैरेव क्रियाकारकसम्बन्धप्रवृत्तैः शब्दैर्भवान् व्यवहरति, शब्दार्थं क्रियाकरणादिकं च नेच्छतीति अहो वत इच्छामात्रप्रतिबद्धप्रवृत्तितो (वृत्तिः?) भवतः ।
यदा चैवं प्रमेयद्वयमव्यवस्थितं तदा स्वसामान्यलक्षणाविषयत्वेन आगमादीनां प्रमाणान्तरत्वम् । किं च घटः प्रत्यक्ष इत्येवमादिकस्य लौकिकव्यवहारस्यासङ्ग्रहादनार्यव्यवहाराभ्युपगमाच्च अव्यापिता लक्षणस्येति न युक्तमेतत् ॥
(प्प्_२४)
अथ स्यात्- घटोपादाननीलादयः प्रत्यक्षाः प्रत्यक्षप्रमाणपरिच्छेद्यत्वात् । ततश्च यथैव कारणे कार्योपचारं कृत्वा बुद्धानां सुख उत्पाद इति व्यपदिश्यते, एवं प्रत्यक्षनीलादिनिमित्तको ऽपि घटः कार्ये कारणोपचारं कृत्वा प्रत्यक्ष इति व्यपदिश्यते । नैवंविषये उपचारो युक्तः । उत्पादो हि लोके सुखव्यतिरेकेणोपलब्धः, स च संस्कृतलक्षणस्वभावत्वादनेकदुष्करशतहेतुत्वादसुख एव, स सुख इति व्यपदिश्यमानः असम्बद्ध एवेत्येवंविषये युक्त उपचारः । घटः प्रत्यक्ष इत्यत्र तु- न हि घटो नाम कश्चिद्यो ऽप्रत्यक्षः पृथगुपलब्धो यस्योपचारात्प्रत्यक्षत्वं स्यात् । नीलादिव्यतिरिक्तस्य घटस्याभावादौपचारिकं प्रत्यक्षत्वमिति चेत्, एवमपि सुतरामुपचारो न युक्तः, उपचर्यमाणस्याश्रयस्याभावात् । न हि खरविषाणे तैक्ष्ण्यमुपचर्यते । अपि च । लोकव्यवहाराङ्गभूतो घटो यदि नीलादिव्यतिरिक्तो नास्तीति कृत्वा तस्यौपचारिकं प्रत्यक्षत्वं परिकल्प्यते, नन्वेवं सति पृथिव्यादिव्यतिरेकेण नीलादिकमपि नास्तीति नीलादेरस्यौपचारिकं प्रत्यक्षत्वं कल्प्यताम् । यथोक्तम्-
रूपादिव्यतिरेकेण यथा कुम्भो न विद्यते ।
वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥
इति ।
तस्मादेवमादिकस्य लोकव्यवहारस्य लक्षणेनासङ्ग्रहादव्यापितैव लक्षणस्येति । तत्त्वविदपेक्षया हि-
प्रत्यक्षत्वं घटादीनां नीलादीनां च नेष्यते ।
लोकसंवृत्या त्वभ्युपगन्तव्यमेव प्रत्यक्षत्वं घटादीनाम् । यथोक्तं शतके-
सर्व एव घटो ऽदृष्टो रूपे दृष्टे हि जायते ।
ब्रूयात्कस्तत्त्वविन्नाम घटः प्रत्यक्ष इत्यपि ॥
एतेनैव विचारेण सुगन्धि मधुरं मृदु ।
प्रतिषेधयितव्यानि सर्वाण्युत्तमबुद्धिना ॥
इति ।
अपि च । अपरोक्षार्थवाचित्वात्प्रत्यक्षशब्दस्य साक्षादभिमुखो ऽर्थः प्रत्यक्षः, प्रतिगतमक्षमस्मिन्निति कृत्वा घटनीलादीनामपरोक्षाणां प्रत्यक्षत्वं सिद्धं भवति । तत्परिच्छेदकस्य ज्ञानस्य तृणतुषाग्निवत् प्रत्यक्षकारणत्वात् प्रत्यक्षत्वं व्यपदिश्यते । यस्तु अक्षमक्षं प्रति वर्तत इति प्रत्यक्षशब्दं व्युत्पादयति, तस्य ज्ञानस्येन्द्रियाविषयत्वाद् विषयविषयत्वाच्च न युक्ता व्युत्पत्तिः । प्रतिविषयं तु स्यात् प्रत्यर्थमिति वा ॥
अथ स्यात्- यथा उभयाधीनायामपि विज्ञानप्रवृतौ आश्रयस्य पटुमन्दतानुविधानाद् विज्ञानानां तद्विकारविकारित्वादाश्रयेणैवव्यपदेशो भवति चक्षुर्विज्ञानमिति, एवं यद्यपि अर्थमर्थ प्रति वर्तते, तथापि अक्षमक्षमाश्रित्य वर्तमानं विज्ञानमाश्रयेण व्यपदेशात् प्रत्यक्षमिति भविष्यति । दृष्टो हि असाधारणेन व्यपदेशो भेरीशब्दो यवाङ्कुर इति । नैतत्पूर्वेण तुल्यम् । तत्र हि विषयेण (प्प्_२५) विज्ञाने व्यपदिश्यमाने रूपविज्ञानमित्येवमादिना विज्ञानषट्कस्य भेदो नोपदर्शितः स्यात्, मनोविज्ञानस्य चक्षुरादिविज्ञानैः सहैकविषयप्रवृत्तत्वात् । तथा हि नीलादिविज्ञानषट्के विज्ञानमित्युक्ते साकाङ्क्ष एव प्रत्ययाज्जायते किमेतद्रूपीन्द्रियजं विज्ञानमाहोस्विन्मानसमिति । आश्रयेण तु व्यपदेशे मनोविज्ञानस्य चक्षुरादिविज्ञानविषये प्रवृत्तिसम्भवे ऽपि परस्परभेदः सिद्धो भवति । इह तु प्रमाणलक्षणविवक्षया कल्पनापोढमात्रस्य प्रत्यक्षत्वाभ्युपगमे सति विकल्पादेव तद्विशेषत्वाभिमतत्वादसाधारणकारणेन व्यपदेशे सति न किञ्चित् प्रयोजनमुपलक्ष्यते । प्रमेयपरतन्त्रायां च प्रमाणसङ्ख्याप्रवृत्तौ प्रमेयाकारानुकारितामात्रतया च समासादितात्मभावसत्ताकयोः प्रमाणयोः स्वरूपस्य व्यवस्थापनान्नेन्द्रियेण व्यपदेशः किञ्चिदुपकरोतीति सर्वथा विषयेणैव व्यपदेशो न्याय्यः ॥
लोके प्रत्यक्षशब्दस्य प्रसिद्धत्वाद्विवक्षिते ऽर्थे प्रत्यर्थशब्दस्याप्रसिद्धत्वादाश्रयेणैव व्युत्पत्तिराश्रीयत इति चेत्, उच्यते । अस्त्ययं प्रत्यक्षशब्दो लोके प्रसिद्धः । स तु यथा लोके, तथा अस्माभिरुच्यत एव । यथास्थितलौकिकपदार्थतिरस्कारेण तु तद्वयुत्पादे क्रियमाणे प्रसिद्धशब्दतिरस्कारः प्रसिद्धः स्यात्, ततश्च प्रत्यक्षमित्येवं न स्यात् । एकस्य च चक्षुर्विज्ञानस्य एकेन्द्रियक्षणाश्रयस्य प्रत्यक्षत्वं न स्याद् वीप्सार्थाभावात्, एकैकस्य च प्रत्यक्षत्वाभावे बहूनामपि न स्यात् ॥
कल्पनापोढस्यैव च ज्ञानस्य प्रत्यक्षत्वाभ्युपगमात्, तेन च लोकस्य संव्यवहाराभावात्, लौकिकस्य च प्रमाणप्रमेयव्यवहारस्य व्याख्यातुमिष्टत्वाद् व्यर्थैव प्रत्यक्षप्रमाणकल्पना सञ्जायते । चक्षुर्विज्ञानसामङ्गी नीलं जानाति नो तु नीलमिति चागमस्य प्रत्यक्षलक्षणाभिधानार्थस्याप्रस्तुतत्वात्, पञ्चानामिन्द्रियविज्ञानानां जडत्वप्रतिपादकत्वाच्च नागमादपि कल्पनापोढस्यैव विज्ञानस्य प्रत्यक्षत्वमिति न युक्तमेतत् । तस्माल्लोके यदि लक्ष्यं यदि वा स्वलक्षणं सामान्यलक्षणं वा, सर्वमेव साक्षादुपलभ्यमानत्वादपरोक्षम्, अतः प्रत्यक्षं व्यवस्थाप्यते तद्विषयेण ज्ञानेन सह । द्विचन्द्रादीनां तु अतैमिरिकज्ञानापेक्षया अप्रत्यक्षत्वम्, तैमिरिकाद्यपेक्षया तु प्रत्यक्षत्वमेव ॥
परोक्षविषयं तु ज्ञानं साध्याव्यभिचारिलिङ्गोत्पन्नमनुमानम् ॥
साक्षादतीन्द्रियार्थविदामाप्तानां यद्वचनं स आगमः ॥
सादृश्यादननुभूतार्थधिगम उपमानं गौरिव गवय इति यथा ॥
तदेवं प्रमाणचतुष्टयाल्लोकस्यार्थाधिगमो व्यवस्थाप्यते ॥
तानि च परस्परापेक्षया सिध्यन्ति- सत्सु प्रमाणेषु प्रमेयार्थाः, सत्सु प्रमेयेष्वर्थेषु प्रमाणानि । नो तु खलु स्वाभाविकी प्रमाणप्रमेययोः सिद्धिरिति । तस्माल्लौकिकमेवास्तु यथादृष्टमित्यलं प्रसङ्गेन । प्रस्तुतमेव व्याख्यास्यामः । लौकिक एव दर्शने स्थित्वा बुद्धानां भगवतां धर्मदेशना ॥
३ ॥
अत्राहुः स्वयूथ्याः- यदिदमुक्तं न स्वत उत्पद्यन्ते भावा इति, तद्युक्तम्, स्वत उत्पत्तिवैयर्थ्यात् । यच्चोक्तं न द्वाभ्यामिति, तदपि युक्तम्, एकांशवैकल्यात् । अहेतुपक्षस्तु (प्प्_२६) एकान्तनिकृष्ट इति तत्प्रतिषेधो ऽपि युक्तः। यत्तु खल्विदमुच्यते नापि परत इति, तदयुक्तम् यस्मात्परभूता एव भगवता भावानामुत्पादका निर्दिष्टाः ।
विश्वास-प्रस्तुतिः
चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥
४ ॥
मूलम्
चत्वारः प्रत्यया हेतुश्चालम्बनमनन्तरम् ।
तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः ॥
४ ॥
तत्र निर्वर्तको हेतुरिति लक्षणात्, यो हि यस्य निर्वर्तको बीजभावेनावस्थितः, स तस्य हेतु प्रत्ययः । उत्पद्यमानो धर्मो येनालम्बनेनोत्पद्यते, स तस्यालम्बनप्रत्ययः । कारणस्यानन्तरो निरोधः कार्यस्योत्पत्तिप्रत्ययः, तद्यथा बीजस्यानन्तरो निरोधो ऽङ्कुरस्योत्पादप्रत्ययः । यस्मिन् सति यद्भवति तत्तस्याधिपतेयमिति । त एते चत्वारः प्रत्ययाः । ये चान्ये पुरोजातसहजातपश्चाज्जातादयः, ते एतेष्वेव अन्तर्भूताः । ईश्वरादयस्तु प्रत्यया एव न सम्भवन्तीति, अत एवावधारयति- प्रत्ययो नास्ति पञ्चम इति । तस्मादेभ्यः परभूतेभ्यो भावानामुत्पत्तिरस्ति परत उत्पत्तिरिति ॥
४ ॥
अत्रोच्यते- नैव हि भावानां परभूतेभ्यः प्रत्ययेभ्य उत्पत्तिरिति । यस्मात्-
विश्वास-प्रस्तुतिः
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥
५ ॥
मूलम्
न हि स्वभावो भावानां प्रत्ययादिषु विद्यते ।
अविद्यमाने स्वभावे परभावो न विद्यते ॥
५ ॥
इति । यदि हि हेत्वादिषु परभुतेषु प्रत्ययेषु समस्तेषु व्यस्तेषु व्यस्तसमस्तेषु हेतुप्रत्यय सामग्या अन्यत्र वा क्वचिद् भावानां कार्याणामुत्पादात्पूर्वं सत्त्वं स्यात्, स्यात्तेभ्य उत्पादः । न चैवं यदुत्पादात्पूर्वं सम्भवः स्यात् । यदि स्यात्, गृह्येत च, उत्पादवैयर्थ्यं च स्यात् । तस्मान्नं चास्ति भावानां प्रत्ययादिषु स्वभावः । अविद्यमाने च स्वभावे नास्ति परभावः । भवनं भाव उत्पादः, परेभ्य उत्पादः परभावः, स न विद्यते । तस्मादयुक्तमेतत् परभूतेभ्यो भावाना मुत्पत्तिरिति ॥
अथवा भावानां कार्याणामङ्कुरादीनां वीजादिषु प्रत्ययेषु सत्स्वविकृतरूपेषु नास्ति स्वभावो निर्हेतुकत्वप्रसङ्गात् ॥
तत्किमपेक्षं परत्वं प्रत्ययादीनाम्? विद्यमानयोरेव हि मैत्रोपग्राहकयोः परस्परापेक्षं परत्वम्? न चैवं बीजाङ्कुरयोर्यौगपद्यम् । तस्मादविद्यमाने स्वभावे कार्याणां परभावः परत्वं बीजादीनां नास्तीति परव्यपदेशाभावादेव न परत उत्पाद इति । तस्मादागमाभिप्रायानभिज्ञतैव परस्य । न हि तथागता युक्तिविरुद्धं वाक्यमुदाहरन्ति । आगमस्य चाभिप्रायः प्रागेवोपवर्णितः ॥
५ ॥
तदेवं प्रत्ययेभ्य उत्पादवादिनि प्रतिषिद्धे क्रियात उत्पादवादी मन्यते- न चक्षूरूपादयः प्रत्ययाः साक्षाद्विज्ञानं जनयन्ति । विज्ञानजनिक्रियानिष्पादकत्वात्तु प्रत्यया उच्यन्ते । सा च क्रिया विज्ञानं जनयति । तस्मात्प्रत्ययवती विज्ञानजनिक्रिया विज्ञानजनिका, न प्रत्ययाः । यथा पचिक्रिया ओदनस्येति । उच्यते-
क्रिया न प्रत्ययवती
यदि क्रिया काचित् स्यात्, सा चक्षुरादिभिः प्रत्ययैः प्रत्ययवती विज्ञानं जनयेत् । न (प्प्_२७) त्वस्ति । कथं कृत्वा? इह क्रियेयमिष्यमाणा जाते वा विज्ञाने इष्यते, अजाते वा जायमाने वा? तत्र जाते न युक्ता । क्रिया हि भावनिष्पादिका । भावश्चेन्निष्पन्नः, किमस्य क्रियया?
जातस्य जन्म पुनरेव च नैव युक्तम् ।
इत्यादिना च मध्यमकावतारे प्रतिपादितमेतत् । अजाते ऽपि न युक्ता,
कर्त्रा विना जनिरियं न च युक्तरूपा ।
इत्यादिवचनात् । जायमाने ऽपि भावे क्रिया न सम्भवति, जाताजातव्यतिरेकेण जायमानाभावात् । यथोक्तम्-
जायमानार्थजातत्वाज्जायमानो न जायते ।
अथ वा जायमानत्वं सर्वस्यैव प्रसज्यते ॥
इति ।
यतश्चैवं त्रिषु कालेषु जनिक्रियाया असम्भवः, तस्मान्नास्ति सा । अत एवाह- क्रिया न प्रत्ययवती इति ।
विशेषणं नास्ति विना विशेषम् ।
इत्यादिना प्रतिपादितमेतन्मध्यमकावतारे । न हि वन्ध्यापुत्रो गोमानित्युच्यते ॥
यद्येवम्, अप्रत्ययवती तर्हि भविष्यतीति, एतदप्ययुक्तमित्याह-
नाप्रत्ययवती क्रिया ।
यदा प्रत्ययवती नास्ति, तदा कथमप्रत्ययवती निर्हेतुका स्यात्? न हि तन्तुमयः पटो न युक्त इति वीरणमयो ऽभ्युपगम्यते । तस्मात्क्रिया न भावजनिका ॥
अत्राह- यद्येवं क्रियाया असम्भवः, प्रत्ययास्तर्हि जनका भविष्यन्ति भावानामिति । उच्यते-
प्रत्यया नाक्रियावन्तः
यदा क्रिया नास्ति, तदा क्रियारहिता अक्रियावन्तो निर्हेतुकाः प्रत्ययाः कथं जनकाः? अथ क्रियावन्त एव जनका इति, उच्यते-
क्रियावन्तश्च सन्त्युत ॥
६ ॥
नेति प्रकृतेनाभिसम्बन्धः । उतशब्दो ऽवधारणे । तत्र क्रियाया अभाव उक्तः, कथं क्रियावत्त्वं प्रत्ययानामिति? यथा च विज्ञानजनिक्रियोक्ता, एवं परिक्रियादयो ऽपि भावा उक्ता वेदितव्या इति नास्ति क्रियातो ऽपि समुत्पत्तिर्भावानामिति भवत्युत्पादाभिधानमर्थशून्यम् ॥
६ ॥
अत्राह- किं न एतेन क्रियावन्तः प्रत्यया इत्यादिविचारेण? यस्माच्चक्षुरादीन् प्रतीत्य प्रत्ययान् विज्ञानादयो भावा जायन्ते, तस्माच्चक्षुरादीनां प्रत्ययत्वं तेभ्यश्चोत्पादो विज्ञानादीनामिति । एतदप्ययुक्तमित्याह-
(प्प्_२८)
विश्वास-प्रस्तुतिः
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् ॥
७ ॥
मूलम्
उत्पद्यते प्रतीत्येमानितीमे प्रत्ययाः किल ।
यावन्नोत्पद्यत इमे तावन्नाप्रत्ययाः कथम् ॥
७ ॥
यदि चक्षुरादीन् प्रत्ययान् प्रतीत्य विज्ञानमुत्पद्यते इति अस्य इमे प्रत्यया उच्यन्ते, ननु यावत्तद्विज्ञानाख्यं कार्यं नोत्पद्यते तावदिमे चक्षुरादयः कथं नाप्रत्ययाः? अप्रत्यया एवेत्यभिप्रायः न चाप्रत्ययेभ्य उत्पत्तिः सिकताभ्य इव तैलस्य ।
अथ मतम्- पूर्वमप्रत्ययाः सन्तः किञ्चिदन्यं प्रत्ययमपेक्ष्य प्रत्ययत्वं प्रतिपद्यन्त इति, एतदप्ययुक्तम् । यत् तत् प्रत्ययान्तरमप्रत्ययस्य तस्य प्रत्ययत्वेन कल्प्यते, तदपि प्रत्ययत्वे सति अस्य प्रत्ययो भवति । तत्राप्येषैव चिन्तनेति न युक्तमेतत् ॥
७ ॥
किं च । इह इमे चक्षुरादयो विज्ञानस्य प्रत्ययाः कल्प्यमानाः सतो वा अस्य कल्प्येरन्, असतो वा? सर्वथा च न युज्यते इत्याह-
नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते ।
कस्मादित्याह-
असतः प्रत्ययः कस्य सतश्च प्रत्ययेन किम् ॥
८ ॥
असतो ह्यर्थस्य अविद्यमानस्य कथं प्रत्ययः स्यात्? भविष्यता व्यपदेशो भविष्यतीति चेत्, नैवम्-
भविष्यता चेद्वयपदेश इष्टः
शक्तिं विना नास्ति हि भावितास्य ।
इत्यादिनोक्तदोषत्वात् । सतो ऽपि विद्यमानस्य लब्धजन्मनो निष्फलैव प्रत्ययकल्पना ॥
एवं समस्तानां प्रत्ययानां कार्योत्पादनासामर्थ्येन अप्रत्ययत्वमुद्भाव्य अतः परं व्यस्तानामप्रत्ययत्वं प्रतिपाद्यते ॥
अत्राह- यद्यप्येवं प्रत्ययानामसम्भवः, तथापि अस्त्येव लक्षणोपदेशात्प्रत्ययप्रसिद्धिः । तत्र निर्वर्तको हेतुरिति लक्षणमुच्यते हेतुप्रत्ययस्य । न चाविद्यमानस्य लक्षणोपदेशो युक्तो बन्ध्यासुतस्येवेति । उच्यते । स्याद्धेतुप्रत्ययो यदि तस्य लक्षणं स्यात् । यस्मात्-
विश्वास-प्रस्तुतिः
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥
९ ॥
मूलम्
न सन्नासन्न सदसन् धर्मो निर्वर्तते यदा ।
कथं निर्वर्तको हेतुरेवं सति हि युज्यते ॥
९ ॥
तत्र निर्वर्तक उत्पादकः । यदि निर्वर्त्यो धर्मो निर्वर्तेत, तमुत्पादको हेतुरुत्पादयेत् । न तु निर्वर्तते, सदसदुभयरूपस्य निर्वर्त्यस्याभावात् । तत्र सन्न निर्वर्तते विद्यमानत्वात् । असन्नपि, अविद्यमानत्वात् । सदसन्नपि, परस्परविरुद्धस्यैकार्थस्याभावात्, उभयपक्षाभिहितदोषत्वाच्च । यत एवं कार्यस्योत्पत्तिर्नास्ति, हेतुप्रत्ययो ऽप्यतो नास्ति । ततश्च यदुक्तं लक्षणसम्भवाद्विद्यते हेतुप्रत्यय इति, तदेवं सति न युज्यते ॥
९ ॥
(प्प्_२९)
इदानीमालम्बनप्रत्ययनिषेधार्थमाह-
विश्वास-प्रस्तुतिः
अनालम्बन एवायं सन् धर्म उपदिश्यते ।
अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥
१० ॥
मूलम्
अनालम्बन एवायं सन् धर्म उपदिश्यते ।
अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥
१० ॥
इह सालम्बनधर्माः कतमे? सर्वचित्तचैत्ता इत्यागमात् । चित्तचैत्ता येनालम्बनेनोत्पद्यन्ते यथायोगं रूपादिना, स तेषामालम्बनप्रत्ययः । अयं च विद्यमानानां वा परिकल्प्येत अविद्यमानानां वा । तत्र विद्यमानानां नार्थस्तदालम्बनप्रत्ययेन । धर्मस्य हि उत्पत्त्यर्थमालम्बनं परिकल्प्यते, स चालम्बनात्पूर्वं विद्यमान एवेति । अथैवमनालम्बने धर्मे स्वात्मना प्रसिद्धे किमस्य आलम्बनयोगेन परिकल्पितेन, इत्यनालम्बन एवायं सन् विद्यमानो धर्मः चित्तादिकः केवलं सालम्बन इत्युच्यते भवद्भिः स्वमनीषिकया, न त्वस्य आलम्बनेन कश्चित्सम्बन्धो ऽस्ति । अथाविद्यमानस्यालम्बनं परिकल्प्यते, तदपि न युक्तम्, अनालम्बन एवायमित्यादि । अविद्यमानस्य हि नास्ति आलम्बनेन योगः ॥
अनालम्बन एवायं सन् धर्म उपदिश्यते ।
भवद्भिः सालम्बन इति वाक्यशेषः ।
अथानालम्बने धर्मे कुत आलम्बनं पुनः ॥
अथ शब्दः प्रश्ने । कुत इति हेतौ । तेनायमर्थः- अथैवमनालम्बने धर्मे ऽसति अविद्यमाने भूयः कुत आलम्बनम्? आलम्बनकाभावादालम्बनस्याप्यभाव इत्यभिप्रायः । कथं तर्हि सालम्बनाश्चित्तचैत्ताः? सांवृतमेतल्लक्षणं न पारमार्थिकमित्यदोषः ॥
१० ॥
इदानीं समनन्तरप्रत्ययनिषेधार्थमाह-
विश्वास-प्रस्तुतिः
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः ॥
११ ॥
मूलम्
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
नानन्तरमतो युक्तं निरुद्धे प्रत्ययश्च कः ॥
११ ॥
तत्र पश्चिमे श्लोकस्यार्धे पादव्यत्ययो द्रष्टव्यः, चशब्दश्च भिन्नक्रमो निरुद्धे चेति । तेनैवं पाठः- निरुद्धे च प्रत्ययः कः? नानन्तरमतो युक्तम् इति । श्लोकबन्धार्थं त्वेवमुक्तम् ॥
तत्र कारणस्यानन्तरो निरोधः कार्यस्योत्पादप्रत्ययः समनन्तरप्रत्ययलक्षणम् । अत्र विचार्यते- अनुत्पन्नेषु धर्मेषु कार्यभूतेष्वङ्कुरादिषु निरोधो नोपपद्यते कारणस्य बीजादेः । यदैतदेवम्, तदा कारणस्य निरोधाभावादङ्कुरस्य कः समनन्तरप्रत्ययः? अथानुत्पन्ने ऽपि कार्ये बीजनिरोध इष्यते, एवं सति निरुद्ध बीजे अभावीभूते अङ्कुरस्य कः प्रत्ययः? को वा बीजनिरोधस्य प्रत्यय इति । उभयमेतदहेतुकमित्याह- निरुद्धे च कः प्रत्यय इति । चशब्दो ऽनुत्पन्नशब्दापेक्षः । तेन अनुत्पन्ने चाङ्कुरे बीजादीनां निरोधे इष्यमाणे ऽप्युभयमेतदहेतुकमपद्यत इति नानन्तरमतो युक्तम् । अथ वा । न स्वतो नापि परत इत्यादिना उत्पादो निषिद्धः, तमभिसन्धायाह-
अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते ।
(प्प्_३०)
नानन्तरमतो युक्तम् इति ।
अपि च ।
निरुद्धे प्रत्ययश्च कः ॥
इत्यत्र पूर्वकमेव व्याख्यानम् ॥
११ ॥
इदानीमधिपतिप्रत्ययस्वरूपनिषेधार्थमाह- बीजादीनां
विश्वास-प्रस्तुतिः
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥
१२ ॥
मूलम्
भावानां निःस्वभावानां न सत्ता विद्यते यतः ।
सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥
१२ ॥
इह यस्मिन् सति यद्भवति, तत्तस्य आधिपतेयमित्यधिपतिप्रत्ययलक्षणम् । भावानां च प्रतीत्यसमुत्पन्नत्वात् स्वभावाभावे कुतस्तद यदस्मिन्निति कारणत्वेन व्यपदिश्यते, कुतस्तद् यदिदमिति कार्यत्वेन? तस्मान्नास्ति लक्षणतो ऽपि प्रत्ययसिद्धिः ॥
१२ ॥
अत्राह- तन्त्वादिभ्यः पटादिकमुपलभ्य पटादेस्तन्त्वादयः प्रत्यया इति । उच्यते पटादिफलप्रवृत्तिरेव स्वरूपतो नास्ति, कुतः प्रत्ययानां प्रत्ययत्वं सेत्स्यति? यथा च पटादिफलप्रवृत्तिरसती, तथा प्रतिपादयन्नाह-
विश्वास-प्रस्तुतिः
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥
१३ ॥
मूलम्
न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत्फलम् ।
प्रत्ययेभ्यः कथं तच्च भवेन्न प्रत्ययेषु यत् ॥
१३ ॥
तत्र व्यस्तेषु तन्तुतुरीवेमतसरशलाकादिषु प्रत्ययेषु पटो नास्ति, तत्रानुपलभ्यमानत्वात् कारणबहुत्वाच्च कार्यबहुत्वप्रसङ्गात् । समुदितेष्वपि तन्त्वादिषु नास्ति पटः, प्रत्येकमवयवेष्वविद्यमानत्वात्, एकस्य कार्यस्य खण्डश उत्पत्तिप्रसङ्गात् । तस्मात्फलाभावान्न सन्ति प्रत्ययाः स्वभावत इति ॥
१३ ॥
अथासदपि तत्तेभ्यः प्रत्ययेभ्यः प्रवर्तते ।
इत्यभिप्रायः स्यात्-
अप्रत्ययेभ्यो ऽपि कस्मात्फलं नाभिप्रवर्तते ॥
१४ ॥
अप्रत्ययेष्वपि नास्ति फलमिति । अप्रत्ययेभ्यो ऽपि वीरणादिभ्यः कस्मान्नाभिप्रवर्तते पट इति नास्ति फलप्रवृत्तिः स्वरूपतः ॥
१४ ॥
अत्राह- यदि अन्यत् फलं स्यादन्ये च प्रत्ययाः, तदा किं प्रत्ययेषु फलमस्ति नास्तीति चिन्ता स्यात् । नास्ति तु व्यतिरिक्तं फलम्, किं तर्हि प्रत्ययमयमेवेति? उच्यते-
विश्वास-प्रस्तुतिः
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयम्मयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥
१५ ॥
मूलम्
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयम्मयाः ।
फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् ॥
१५ ॥
यदि प्रत्ययमयं प्रत्ययविकारः फलमिति व्यवस्थाप्यते, तदयुक्तम् । यस्मात्ते ऽपि प्रत्यया अस्वयम्मया अप्रत्ययस्वभावा इत्यर्थः । तन्तुमयो हि पट इत्युच्यते । स्यात् पटो यदि तन्तव एव (प्प्_३१) स्वभावसिद्धाः स्युः । ते हि अंशुमया अंशुविकारा न स्वभावसिद्धाः । ततश्च तेभ्यो ऽस्वयम्मयेभ्यो ऽस्वभावेभ्यो यत्फलं पटाख्यम्, तत्कथं तन्तुमयं भविष्यति? यथोक्तम्-
विश्वास-प्रस्तुतिः
पटः कारणतः सिद्धः सिद्धं कारणमन्यतः ।
सिद्धिर्यस्य स्वतो नास्तो तदन्यज्जनयेत्कथम् ॥
इति ॥
१५ ॥
मूलम्
पटः कारणतः सिद्धः सिद्धं कारणमन्यतः ।
सिद्धिर्यस्य स्वतो नास्तो तदन्यज्जनयेत्कथम् ॥
इति ॥
१५ ॥
तस्मान्न प्रत्ययमयं
फलं संविद्यते । अप्रत्ययमयं तर्हि अस्तु-
नाप्रत्ययमयं फलम् ।
संविद्यते
इति तन्तुमयो यदा पटो नास्ति, तदा कथं वीरणमयः स्या?
अत्राह- मा भूत्फलम्, प्रत्ययाप्रत्ययनियमस्तु विद्यते । तथा च भवान् ब्रवीति- यदि असत् फलं प्रत्ययेभ्यः प्रवर्तते, अप्रत्ययेभ्यो ऽपि कस्मान्नाभिप्रवर्तते इति । न चासति फले पटकटाख्ये तन्तुवीरणानां प्रत्ययानां प्रत्ययत्वं युक्तम्, अतः फलमप्यस्तीति । उच्यते । स्यात्फलं यदि प्रत्ययाप्रत्यया एव स्युः । सति हि फले इमे ऽस्य प्रत्यया इमे ऽप्रत्यया इति स्यात् । तच्च विचार्यमाणं नास्तीति-
फलाभावात्प्रत्ययाप्रत्ययाः कुतः ॥
१६ ॥
प्रत्ययाश्च अप्रत्ययाश्चेति समासः ॥
तस्मान्नास्ति भावानां स्वभावतः समुत्पत्तिरिति । यथोक्तमार्यरत्नाकरसूत्रे-
शून्यविद्य न हि विद्यते क्वचि अन्तरीक्षि शकुनस्य वा पदम् ।
यो न विद्यति सभावतः क्वचि सो न जातु परहेतु भेष्यति ॥
यस्य नैव हि सभावु लभ्यति सो ऽस्वभावु परपच्चयः कथम् ।
अस्वभावु परु किं जनीष्यति एष हेतु सुगतेन देशितः ॥
सर्व धर्म अचला दृढं स्थिता निर्विकार निरुपद्रवाः शिवाः ।
अन्तरीक्षपथतुल्य ऽजानका तत्र मुह्यति जगं अजानकम् ॥
(प्प्_३२)
शैलपर्वत यथा अकम्पिया एवं धर्म अविकम्पियाः सदा ।
नो च्यवति न पि चोपपद्ययु एवं धर्मत जिनेन देशिता ॥
इत्यादि ।
तथा-
यो न पि जायति ना चुपपद्यी नो च्यवते न पि जीर्यति धर्मः ।
तं जिनु देशयती नरसिंहः तत्र निवेशयि सत्त्वशतानि ।
यस्य सभावु न विद्यति कश्चि नो परभावतु केनचि लब्धः ।
नान्तरतो न पि बाहिरतो वा लभ्यति तत्र निवेशयि नाथः ॥
विश्वास-प्रस्तुतिः
शान्त गती कथिता सुगतेन नो च गति उपलभ्यति काचि ।
तत्र च वोहरसी गतिमुक्तो मुक्तकु मोचयमी बहुसत्त्वान् ॥
इति विस्तरः ॥
१६ ॥
मूलम्
शान्त गती कथिता सुगतेन नो च गति उपलभ्यति काचि ।
तत्र च वोहरसी गतिमुक्तो मुक्तकु मोचयमी बहुसत्त्वान् ॥
इति विस्तरः ॥
१६ ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ प्रत्ययपरीक्षा नाम प्रथमं प्रकरणम् ॥
(प्प्_३३)