२६
द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्।
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः॥१॥
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ।
संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते॥२॥
निषिक्ते नामरूपे तु षडायतनसंभवः।
षडायतनमागम्य संस्पर्शः संप्रवर्तते॥३॥
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते॥४॥
संनिपातस्त्रयाणां यो रूपविज्ञानचक्षुषाम्।
स्पर्शः सः तस्मात्स्पर्शाच्च वेदना संप्रवर्तते॥५॥
वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते।
तृष्यमाण उपादानमुपादत्ते चतुर्विधम्॥६॥
उपादाने सति भव उपादातुः प्रवर्तते।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः॥७॥
पञ्च स्कन्धाः स च भवः भवाज्जातिः प्रवर्तते।
जरामरणदुःखादि शोकाः सपरिदेवनाः॥८॥
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते।
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः॥९॥
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात्॥१०॥
अविद्यायां निरुद्धायां संस्काराणामसंभवः।
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात्॥११॥
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते।
दुःखस्कन्धः केवलोऽयमेवं सम्यङ् निरुध्यते॥१२॥