22 तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्

२२ तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्।
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः॥१॥

बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः।
स्वभावतश्च यो नास्ति कुतः स परभावतः॥२॥

प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते।
यश्चानात्मा स च कथं भविष्यति तथागतः॥३॥

यदि नास्ति स्वभावश्च परभावः कथं भवेत्।
स्वभावपरभावाभ्यामृते कः स तथागतः॥४॥

स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः।
स इदानीमुपादद्यादुपादाय ततो भवेत्॥५॥

स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः।
यश्च नास्त्यनुपादाय स उपादास्यते कथम्॥६॥

न भवत्यनुपादत्तमुपादानं च किंचन।
न चास्ति निरुपादानः कथंचन तथागतः॥७॥

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा।
उपादानेन स कथं प्रज्ञप्येत तथागतः॥८॥

यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते।
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः॥९॥

एवं शून्यमुपादानमुपादाता च सर्वशः।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः॥१०॥

शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते॥११॥

शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम्।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम्॥१२॥

येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत्॥१३॥

स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते।
परं निरोधाद्भवति बुद्धो न भवतीति वा॥१४॥

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम्।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्॥१५॥

तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत्।
तथागतो निःस्वभावो निःस्वभावमिदं जगत्॥१६॥