१५
स्वभावपरीक्षा पञ्चदशमं प्रकरणम्।
न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः।
हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत्॥१॥
स्वभावः कृतको नाम भविष्यति पुनः कथम्।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च॥२॥
कुतः स्वभावस्याभावे परभावो भविष्यति।
स्वभावः परभावस्य परभावो हि कथ्यते॥३॥
स्वभावपरभावाभ्यामृते भावः कुतः पुनः।
स्वभावे परभावे वा सति भावो हि सिध्यति॥४॥
भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः॥५॥
स्वभावं परभावं च भावं चाभावमेव च।
ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने॥६॥
कात्यायनाववादे चास्तीति नास्तीति चोभयम्।
प्रतिषिद्धं भगवता भावाभावविभाविना॥७॥
यद्यस्तित्वं प्रकृत्या स्यान्न भवेदस्य नास्तिता।
प्रकृतेरन्यथाभावो न हि जातूपपद्यते॥८॥
प्रकृतौ कस्य चासत्यामन्यथात्वं भविष्यति।
प्रकृतौ कस्य च सत्यामन्यथात्वं भविष्यति॥९॥
अस्तीति शाश्वतग्राहो नास्तीत्युच्छेददर्शनम्।
तस्मादस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः॥१०॥
अस्ति यद्धि स्वभावेन न तन्नास्तीति शाश्वतम्।
नास्तीदानीमभूत्पूर्वमित्युच्छेदः प्रसज्यते॥११॥