11 पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्

११ पूर्वापरकोटिपरीक्षा एकादशमं प्रकरणम्।
पूर्वा प्रज्ञायते कोटिर्नेत्युवाच महामुनिः।
संसारोऽनवराग्रो हि नास्यादिर्नापि पश्चिमम्॥१॥

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत्।
तस्मान्नात्रोपपद्यन्ते पूर्वापरसहक्रमाः॥२॥

पूर्वं जातिर्यदि भवेज्जरामरणमुत्तरम्।
निर्जरामरणा जातिर्भवेज्जायेत चामृतः॥३॥

पश्चाज्जातिर्यदि भवेज्जरामरणमादितः।
अहेतुकमजातस्य स्याज्जरामरणं कथम्॥४॥

न जरामरणेनैव जातिश्च सह युज्यते।
म्रियेत जायमानश्च स्याच्चाहेतुकतोभयोः॥५॥

यत्र न प्रभवन्त्येते पूर्वापरसहक्रमाः।
प्रपञ्चयन्ति तां जातिं तज्जरामरणं च किम्॥६॥

कार्यं च कारणं चैव लक्ष्यं लक्षणमेव च।
वेदना वेदकश्चैव सन्त्यर्था ये च केचन॥७॥

पूर्वा न विद्यते कोटिः संसारस्य न केवलम्।
सर्वेषामपि भावानां पूर्वा कोटिर्न विद्यते॥८॥