अष्टमः परिच्छेदः
वेदान्ततत्त्वविनिश्चयावतारः
वेदान्तवादिनः प्राहुरात्मविद् दुर्लभो बहिः।
कुत आत्मद्विषां मोक्षः शून्यसस्कारवादिनाम्॥१॥
तमःपरस्तात् पुरुषं महान्तं सूर्यवर्चसम्।
मृत्युमत्येति मतिमान् मत्वात्मानं महेश्वरम्॥२॥
रुक्मवर्णं यदा पश्यः पश्येत् कर्तारमीश्वरम्।
विहाय पापं पुण्यं च परं साम्यं तदाप्नुयात्॥३॥
भूतं भवद् भविष्यच्च पुरुष इष्यते।
सोऽन्तर्बहिश्च कूरे च सोऽन्तिके स च कर्मकृत्॥४॥
विश्वे भावास्ततो जाता ऊर्णनाभादिवांशवः।
तस्मिन् प्रलीना विद्वांसो नाप्नुवन्ति पुनर्भवम्॥५॥
अमृतत्वं न मर्त्यस्य वह्नेः शैत्यमिवेष्यते।
तस्मादमृततायुक्ताप्रबोधात् पुरुषेऽमृते॥६॥
यतः परं परं नास्ति यतो ज्यायान्न बिद्यते।
अणीयान् वापि तेनेदं विश्वमेकेन संततम्॥७॥
de ni phra dan rags dan 1dan /
yan ldan gtso bo dban sgyur ba//
rab phye ‘dod pa;i mthar thug gan /
rnal ‘byor ji ltar ‘dod par ‘gro //8//
तस्मिन् सर्वाणि भूतानि भवन्त्यात्मैव पश्यतः।
बालपण्डितचण्डालविप्रादीनां च तुल्यता॥९॥
घटोत्पत्तौ विनाशे वा नाकाशस्य तदात्मता।
तदात्मतात्मनोऽपीष्टा न देहाद्युदयव्यये॥१०॥
घटाकाशवदेकस्य नानात्वं चेदभेदतः।
घटभेदेन चैकत्वं साम्यं सर्वस्य यन्मतम्॥११॥
यथा घटादिभेदेऽपि मृद्भेदो नास्ति कश्चन।
de bshin lus ni tha dad kyan /
bdag latha dad ‘ga’ yanmed //12//
घटाकाशे यथैकस्मिन् रजोधूमादिभिर्वृते।
तद्वत्ता न हि सर्वेषां सुखादेर्न तदात्मनः॥१३॥
अप्रबोधादनात्मज्ञः स्वप्ने मोहाभिमानवत्।
चिनोति कर्म भुङ्क्ते च तत्फलं यच्छुभाशुभम्॥१४॥
देहसंस्थोऽप्यसङ्गत्वाद् भुञ्जानो नोपलिप्यते।
राजवत् कामचारी च पापेनानपराध्यसौ॥१५॥
एकं सर्वगतं नित्यं परं ब्रह्माच्युतं पदम्।
योगी युञ्जन् यदा वेत्ति न तदैति पुनर्भवम्॥१६॥
नित्यं तदविकल्पं च यत्र वाचामगोचरः।
गिरस्तत्र प्रयुज्यन्ते भेदापहृतबुद्धिभिः॥१७॥
अत्रापीदं परीक्षन्ते पक्षपातानपेक्षिणः।
पक्षरागावृतमतिः सत्यं यथापि नेक्षते॥१८॥
निषिद्धमात्मनोऽस्तित्वं जगत्कारणता तथा।
अतस्तद्दर्शनान्मुक्तिरभूतैव प्रकल्पिता॥१९॥
सत्कायदृष्टिः सहजा पशूनामप्यशान्तये।
सर्वसंक्लेशमूलत्वात् सैव त्वया विवर्धिता॥२०॥
सत्कायदृष्ट्याविष्टानां ममाहंकारकारिणाम्।
यतो भावितः संसारो मुक्तिरप्युदिता ततः॥२१॥
तद्दृष्टौ चेद् भवेच्छान्तिर्मदादिव मदात्यये।
अजीर्णात् संनिपन्नस्य भोजनात् स्वस्थता भवेत्॥२२॥
rig byed smra bas bdag de ni /
rnam pa gnis su ‘dod byed de //
lus shes byes ba bcins bdag dan /
mchog na gnas pa grol pa’i bdag //23//
न परेष्टात्मविषया यथार्थात्मेति धीर्यथा।
आत्मन्येवं परामर्शाद् देहादावात्मधीर्यथा॥२४॥
परिकल्पितसत्त्वोऽपि किमात्मा कुरुते तव।
रूपशब्दादिविषयां बुद्धिं चेत् तन्न युज्यते॥२५॥
धियो रूपादिविषया जायन्ते नात्मकर्तृकाः।
प्रत्ययायत्तजन्मत्वात् सूर्यकान्तादिवानलः॥२६॥
ध्वनिर्वर्णात्मको यश्च सोऽपीष्टो नात्मकर्तृकः।
श्रावणत्वाद् ध्वनित्वाद् वा तद्यथा प्रतिशब्दकः॥२७॥
एतेन शेषाः प्रत्युक्ता गमनागमनादिकाः।
हस्तपादादिविस्पन्दलक्षणा देहजाः क्रियाः॥२८॥
व्यवच्छेदेन संज्ञाया संज्ञानं स्मरणं स्मृतेः।
प्रज्ञानं च प्रकारेण प्रज्ञातो वेदनं विदः॥२९॥
न चान्यदात्मनः कार्यं स्वभावो नावधार्यते।
खपुष्पवदतस्तस्य न सत्ताप्यवधार्यते॥३०॥
ज्ञानादेः करणोक्तेश्चेत् करणत्वं प्रसाध्यते।
तदन्यकर्तृकत्वं वा दातृवत् तन्न युक्तिमत्॥३१॥
कर्तरि प्रत्ययोत्पत्तेर्नैषां करणता यतः।
अतोऽसिद्धार्थता हेतोरनेकान्तिकतापि वा॥३२॥
ज्ञानादीनां हि कर्तृत्वं कर्तृशब्दाभिधानतः।
देवदत्तश्छिनत्तीति यथा दृष्टात्र कर्तृता॥३३॥
निरीह एव संस्कारराशौ स्यात् कर्तृवाच्यता।
करणत्वाद् यथा दीपे दीपो द्योतयतीति ते॥३४॥
न मुख्यस्तत्त्वतः कर्ता नैको हि धटकृद् यतः।
नौपचारिककर्तृत्वं दीपादेरिष्यते ततः॥३५॥
चित्तं रागादिवशगं सक्तं रूपादिगोचरे।
प्रतिबद्धं च निर्मोक्षे बद्धं संसारचारके॥३६॥
पाण्यादिसमुदायोऽयं सचित्तः सत्त्वसंज्ञकः।
त्यागादिचेतनोत्पत्तेर्दातेत्यादि निगद्यते॥३७॥
विद्योत्पत्तावविद्यादिसंयोजननिवृत्तितः।
रागादिबन्धनान्मुक्तो मुक्त इत्यभिधीयते॥३८॥
आत्मनि व्योमकल्पे तु सर्वमेतत् सुदुर्वचः।
खपुष्पमस्तु वात्मा ते यद्यात्मातीव वल्लभः॥३९॥
स्वभावतो हि यद्यात्मा ज्ञानभाव इतीष्यते।
न तर्ह्यस्यैकता युक्ता करणादिव्यपेक्षणात्॥४०॥
सति वात्मादिके ज्ञेये ज्ञानं तन्न निवर्तते।
कृतार्थस्यापि दीपस्य दृष्टं जन्म स्वकारणात्॥४१॥
सतो ज्ञानोदयो यावत् तावद् बीजं प्रचीयते।
आरावप्रभवो यावत् तावत् प्रतिरवो यथा॥४२॥
संसारश्च कथं ज्ञस्य ज्ञानं च करणं विना।
सर्वदा च विशिष्टत्वाद् बन्धमोक्षौ कुतः कथम्॥४३॥
न दुःखेनापि निर्मोक्षो मोक्षेऽप्येकात्मवादिनः।
आत्मनस्तदनन्यत्वाद् यथोष्णेन विभावसोः॥४४॥
लिनानुत्पन्नबुद्धिश्च कथं ज्ञः करणं विना।
यथा हि पूर्णकश्छेत्ता न युक्तः परशुं विना॥४५॥
अग्निना दहतीत्युक्ते दहत्यग्निर्न राधकः।
तद्वद् वेत्ति धियेत्युक्ते ज्ञानं वेत्ति न वः पुमान्॥४६॥
कुलालवन्न तत्सिद्धिस्तत्स्वभावो यतो न सः।
नेष्टा दहनवत् सिद्धिर्दाह्याभावेऽग्न्यसंभवात्॥४७॥
न चाज्ञो ज्ञः कथं कर्ता भोक्ता च स भवेत् तव।
व्योमकल्पोऽविकल्पश्च चिं कल्प्यः केवलागमात्॥४८॥
न चाज्ञाज्ञः स्वभावो वा निःस्वभावो भवेदसौ।
निःस्वभावश्च नात्मा स्याद् वन्ध्यातनयवत् स च॥४९॥
यत्पीडानुग्रहे यस्य तद्दुःखानुग्रहोद्भवः।
न तस्यात्मा ह्यसौ युक्तो यथा खं देवशर्मणः॥५०॥
ध्यानज्ञानादि चेदिष्टं मुक्तयेऽर्थान्तरात्मनः।
अनात्मार्थः प्रयत्नः स्यान्मर्त्यः स्यान्नामृतः कथम्॥५१॥
अन्तरात्मात्मनोऽन्यश्चेत् ……………….. ।
………………………. प्रतिज्ञा ते च हीयते॥५२॥
नान्तरात्मात्मनोऽन्यश्चेत् प्रतिज्ञा ते च हीयते।
………………………………………………………॥५३॥
यदि सूक्ष्मो महान् नायं महांश्चेन्नास्य सूक्ष्मता।
न चैको रूपिधर्मश्च कथमात्मन्यरूपिणि॥५४॥
न युक्ता हस्तिदृष्टान्तादेकस्यानेकरूपता।
करः करी यतो नेष्टः करादीनां न चैकता॥५५॥
सूर्यादिवर्णो यद्यात्मा स्यादवर्णः कथं च सः।
नेष्टा पलाशदृष्टान्तादात्मनोऽनेकरूपता॥५६॥
यतः पलाशो नैकोऽस्ति सर्वदा विकृतात्मकः।
मूलादयो यतो नैके प्रत्ययैश्चापि भेदिनः॥५७॥
ज्यायस्ता च परत्वं च तदन्यापेक्षमिष्यते।
संभवोऽमुष्य च विधेरेकत्वे कथमिष्यते॥५८॥
द्रव्यं यदि भवेदात्मा द्रव्यत्वात् सर्वगो न सः।
घटवन्नापि नित्यः स्यात् तेन पूर्णं कुतो जगत्॥५९॥
द्रव्यस्याधारता युक्ता द्रव्यं चात्मा न युज्यते।
खपुष्पवदजातत्वान्नाधारत्वं यतस्ततः॥६०॥
कस्मिन् सर्वाणि भूतानि भवन्त्यात्मैव पश्यतः।
आत्मतानात्मनो नेष्टा यथाभावस्य भावता॥६१॥
न बालाद्यविशेषोऽतो निराधारोऽनिदर्शनः।
एकत्वे नात्मनो नैकदोषोपप्लवसंभवः॥६२॥
मैत्रात्मा चैत्रकरणैश्चैत्रात्मवदपीक्षताम्।
चैत्रादभिन्नमूर्तित्वाद् देशाभेदादथापि वा॥६३॥
सुखदुःखोपभोक्ता च तन्मुक्तौ चापि मुच्यताम्।
तद्बन्धे चापि बन्धोऽस्य तद्दुःखे वास्तु दुःखितः॥६४॥
न घटाकाशदृष्टान्तात् सर्वेषां तदसंभवः।
आकाशस्य यतोऽसिद्धमेकत्वं भवतापि च॥६५॥
मुक्तो द्रव्यस्य यो भावस्तदाकाशं हि सांवृतम्।
गतिर्गतिमतां तत्र सोऽवकाशोऽवकाशिनाम्॥६६॥
नातोऽनावृतिराकाशं नावकाशस्य दातृ च।
तद्धेतूक्तौ तदस्तित्वे हेतोस्तु स्यादसिद्धता॥६७॥
नापि हेत्वनुपादानादाकाशं भाव इष्यते।
वन्ध्यातनयवन्नापि तदेकमत एव हि॥६८॥
मृदो घटादिरूपाय मृज्जातीयतयैकता।
अन्या चान्या च कुण्डादावतो नैकत्वमात्मनः॥६९॥
ज्ञत्वे सत्यविपर्यासान्नेष्टा ज्ञस्याभिमानिता।
अज्ञत्वे चाविपर्यासान्नेष्टाज्ञस्याभिमानिता॥७०॥
व्योमच्चाविकारित्वादसङ्गत्वादथापि वा।
नात्मनः कर्तृता युक्ता युक्ता नापि च भोक्तृता॥७१॥
कर्ता चेल्लिप्यते नात्मा कर्तुरिष्टं फलं कथम्।
न युक्तो राजदृष्टान्तः पापभाग् नृपतिर्यतः॥७२॥
न चैकताद्वितीयस्य युक्ता बाह्यानपेक्षणात्।
एकत्वयोगादेकश्चेद् योगस्तस्यैव नेतरः॥७३॥
अनेकं कल्पयित्वा चेदेकता तदपोहतः।
एकत्वं तत्त्वतो न स्यात् कल्पना सांवृती यतः॥७४॥
नित्यैकत्वादिरूपेण तत्त्वतश्चेत् स विद्यते।
एकादिशब्दधीवृत्तिरर्थे सति निरत्यया॥७५॥
एकत्वादिविकल्पाच्च कथमस्याविकल्पता।
विकल्पविषये चार्थे वाचां वृत्तिरवारिता॥७६॥
धियामविषयो ह्येवं कथं वा गोचरो गिराम्।
अवाच्यो निर्विकल्पोऽपि वितथः पूर्वनीतिवत्॥७७॥
बुद्ध्या चेद् दर्शनान्मुक्तिस्तद्भेदात् कथमेकता।
नानात्वधीवत् सा च स्याद् वितथा पूर्ववद् ग्रहात्॥७८॥
अजातिसमतां याते ज्ञानेऽभेदात् क्व दर्शनम्।
अदर्शनाद् विमुक्तिः स्यान्मुक्तिर्वा नास्ति कस्यचित्॥७९॥
बोधे सति तदुत्पादादजातिसमता कुतः।
सत्यभावादनुत्पादे तद्विकल्पसमोऽपि सः॥८०॥
अजातिर्जातिवद् धर्मस्तदभावे च सा सती।
नैवात्मसमता तस्य युक्ता नापि न तत्स्थता॥८१॥
अजस्य को न भेदोऽस्ति मतो येन समर्थनम्।
न जाताजातयोरिष्टमजत्वं तत्त्वतो यतः॥८२॥
खपुष्पात् तदभेदश्चेदसत्पक्षपरिग्रहः।
परिनिष्पत्तिभेदश्चेदद्वैतं न प्रसिध्यति॥८३॥
नातो भावो न चाभावो न पृथग् नापृथक् पुमान्।
न नित्यो नाप्यनित्यश्च न बुद्धिध्वनिगोचरः॥८४॥
ज्ञेयस्य सर्वथासिद्धेर्न्याय्यो बुद्धेरगोचरः।
धीगोचरनिवृत्तौ च स्याद् गिरामप्यगोचरः॥८५॥
ताथागतीमवितथां मत्वा नीतिमिमां शुभाम्।
तस्माज्जातस्पृहैस्तीर्थ्यैः कृतं तत्र ममापि तत्॥८६॥
कः श्रद्धास्यति तां तत्र पूर्वापरविरोधिनीम्।
अत्यन्तातुल्यजातीयं मणिरत्नमिवायसः॥८७॥
देशनायास्तु वैचित्र्यादिहैवं स्यादयं नयः।
आकर्षणार्थमेकेषां शेषग्राहनिवृत्तये॥८८॥
अजातता हि भावानां स्वभावोऽकृत्रिमत्वतः।
अनपायित्वतश्चासावात्मेत्यपि निगद्यते॥८९॥
एकोऽसावेकरूपत्वाद् भावभेदेऽप्यभेदतः।
सर्वगः सर्वधर्मत्वान्नित्यश्चाप्यविनाशतः॥९०॥
अजातत्वादजातोऽयमत एवाजरामरः।
अच्युतश्च्युतभावाच्च प्रकर्षत्वात् परं मतम्॥९१॥
न रूपशब्दगन्धादिर्न भूम्यग्निजलानिलाः।
नाकाशशशिसूर्यादिर्न मनोज्ञानलक्षणः॥९२॥
सर्वश्चासौ स्वभावत्वान्न सर्वं चाविनाशतः।
तत्र क्लेशाद्यनुत्पत्तेः शुद्धोऽसौ शान्त एव च॥९३॥
स कल्पनासमारोपाद् वाच्योऽवाच्यस्तु तत्त्वतः।
सर्वथा चाप्यवाच्यत्वादुक्त एष निरञ्जनः॥९४॥
ईदृशो यद्यभिप्रेत आत्मा हि भवतामपि।
नामादिबहुसाधर्म्यान्निर्दोषः सोपपत्तिकः॥९५॥
नैरात्म्यादेव भीतानां भीत्या तत्रैव च स्थितिः।
आकाशादिव भीतस्य क्व चान्यत्र स्थितिर्भवेत्॥९६॥
स्वागतं क्रियतां तृप्तिर्नात्र कश्चिन्निवार्यते।
बुद्धानां लोकबन्धूनां तत्त्वामृतमिदं परम्॥९७॥
अपि त्वात्मत्वकर्तृत्वभोक्तृत्वादिर्निरास्पदः।
संत्यज्यतामसद्ग्राहो भूतदृक्प्रतिबन्धकः॥९८॥
स्वभावाजातितोऽजातिर्भावानां तत्त्वतो मता।
स्वभावतो ह्यजातत्वादुक्तैषा निःस्वभावता॥९९॥
नैःस्वाभाव्यं च नैरात्म्यं न तदात्मा विरोधतः।
अनात्मा चेद् भवेदात्मा गोरभावोऽपि गौर्भवेत्॥१००॥
युक्तः स्वभावाभावोऽसौ कथं स्यात् कर्तृभोक्तृते।
दृष्टे वन्ध्यासुतस्येव नाकस्मात् कर्तृभोक्तृते॥१०१॥
इत्थंभूतात् कथं जन्म प्रलयस्तत्र वा कथम्।
न व्योमकुसुमे युक्ता प्रलयोत्पादकल्पना॥१०२॥
स्वभावाभावविषया यावद् बुद्धिः प्रवर्तते।
धीकल्पनासमारोपास्तावदेकादिका मताः॥१०३॥
सविकल्पाविकल्पा च यदा बुद्धिर्निवर्तते।
धियामविषये तस्मिन् प्रपञ्चोपशमः शिवः॥१०४॥
वेदान्ततत्त्वविनिश्चयावतारो नाम अष्टमः परिच्छेदःहावोऽपि गौर्भवेत्॥१००॥
युक्तः स्वभावाभावोऽसौ कथं स्यात् कर्तृभोक्तृते।
दृष्टे वन्ध्यासुतस्येव नाक्