चतुर्थः परिच्छेदः
श्रावकतत्त्वविनिश्चयावतारः
दुर्विगाहामिमां नीतिं बोद्धुं दुर्बलशक्तयः।
अस्थानत्राससंरब्धाः प्राहुर्हीनाधिमुक्तयः॥१॥
निर्विकल्पधियः शास्तुः शरीरं नाश्रयः किल।
शरीरत्वाच्छरीरं हि यथा गोपस्य नेष्यते॥२॥
सम्यग्दृष्ट्यादिमार्गेण प्रतीतेन प्रतीयते।
संबुद्धानां महाबोधिर्बोधित्वाच्छिष्यबोधिवत्॥३॥
इन्द्रियातिशयाच्छास्तुः सर्वज्ञज्ञानसंभवः।
मार्गाभेदे यथाभीष्टाः कस्यचित् प्रतिसंविदः॥४॥
एतेनैव च मार्गेण ज्ञेयावरणसंक्षयः।
चैतसत्वे सति वृतेः क्लेशावृतिवदिष्यते॥५॥
महायानेऽप्ययं मार्गः सर्ववित्त्वाप्तये मुनेः।
यानान्तरत्वात् प्रत्येकबुद्धयाने यथेष्यते॥६॥
न बुद्धोक्तिर्महायानं सूत्रान्तादावसंग्रहात्।
मार्गान्तरोपदेशाद् वा यथा वेदान्तदर्शनम्॥७॥
फलहेत्वपवादाद् वा यथा नास्तिकदर्शनम्।
अष्टादशनिकायान्तर्भावाभावान्न निश्चितम्॥८॥
रूपाद्यालम्बना बुद्धिः स्वसंवेद्यापि विद्यते।
यतः प्रत्यक्षबाधापि जायतेऽजातिवादिनः॥९॥
तत्त्वतो हि न भावानां जन्मेत्येवं विशेषणात्।
न प्रत्यक्षप्रतीतिभ्यां बाधा संभवतीति चेत्॥१०॥
अगम्या परमार्थेन गम्यास्त्रीत्वाद् यथेतरा।
इत्येवमपि वस्तुः स्यान्निर्दोषं दोषवद् वचः॥११॥
सत्यदृष्टिर्न चेत् तत्त्वं तत्त्वाभावः प्रसज्यते।
योनाकदेवदेश्यं वा तत्त्वं तच्च न हीष्यते॥१२॥
बाह्यायतनसद्भावस्तन्निर्भासोदयाद् धियः।
प्रतीयते प्रतीतं वश्चित्तास्तित्वं यथाप्रियम्॥१३॥
अथ चेतोऽस्तिता नेष्टा चित्तमात्रं न वो जगत्।
जगत्पक्षीक्रियायां च हेतूदाहरणे न वः॥१४॥
तत्र प्रागुक्तनीत्या तु स्वनीतिविपदं परः।
यदमृष्यन्नुपादिक्षत् तन्न युक्तमितीष्यते॥१५॥
निर्विकल्पा मतिः शास्तुर्नैरात्म्यालम्बना मता।
यथा पुद्गलनैरात्म्यविषया बुद्धिरित्यतः॥१६॥
साधनं बाध्यते तस्य विरुद्धाव्यभिचारिणा।
प्रायोगिकादिबुद्धीनामुत्पादो यन्निषिध्यते॥१७॥
ज्ञेयस्य सर्वथासिद्धेर्यस्तत्रानुदयो धियः।
सोऽयं बोध्योऽभिसंबोधौ ज्ञेयतत्त्वाविपर्ययात्॥१८॥
सा स्वभावविकल्पादिरहिताभिमता मतिः।
तदाश्रयनिषेधश्चेत् साध्यमेव प्रसाध्यते॥१९॥
कल्पनां च समारोप्य तच्छान्तत्वादिदेशना।
सम्यग्दृष्ट्यादिमार्गं च भवत्यभ्यसतो यदा॥२०॥
अदर्शनमसंकल्पो वागव्याकृतिरक्रिया।
अनाजीवोऽसमारम्भोऽसंप्रमोषोऽस्थितिस्तथा॥२१॥
तदानेनैव मार्गेण बुद्धबोधिर्मता हि नः।
सिद्धसाधनदोषोऽतो भावना वा परीक्ष्यताम्॥२२॥
यदागमेनाविधुरमनुमानानुसारिणाम्।
तत् तत्त्वं भावना चास्य तथैवाभिमता सताम्॥२३॥
स बुद्धो येन तद् बुद्धमन्यथा मातृमोदकम्।
न बुद्धोक्तिर्महायानमित्यत्राप्येष निर्णयः॥२४॥
बुद्धबोध्याप्तये चायं नालं मार्गः पुरोदितः।
दुःखाद्याकारतो बोधात् प्रत्येकजिनमार्गवत्॥२५॥
अनुमानेन बाधैवं परपक्षस्य जायते।
दृष्टान्तासंभवो वापि तद्वद्वृत्तेर्निराकृतिः॥२६॥
नानुत्पादक्षयज्ञाने यथार्थे परमार्थतः।
भ्रान्तिवत् सविकल्पत्वात् तद्बोधः कस्य तत्त्वतः॥२७॥
हेतुर्यानान्तरत्वाख्य एतेनैव गतोत्तरः।
कथं चावृतिसद्भावादर्हन्नर्हति निर्वृतिम्॥२८॥
क्लिष्टाविद्याप्रहाणाच्चेत् तन्मुक्तिर्बुद्धवन्मता।
तदसत् तदसद्भावान्मुख्यनिर्माणबुद्धयोः॥२९॥
न तत्त्वतो महायाने मार्गः संबुद्धबोधये।
सविकल्पनिमित्तत्वात् साक्षाल्लौकिकमार्गवत्॥३०॥
अथ स्याद् यद्यभूतोऽयं मार्गः क्लेशक्षयोऽप्यसन्।
अभूतत्वाद् यथा स्थाणौ नरज्ञानान्न तत्क्षयः॥३१॥
रज्ज्वां सर्प इति भ्रान्तेर्यथा त्रस्तस्य कस्यचित्।
लताकुलरज्जुज्ञानं प्रतिपक्षोऽपि जायते॥३२॥
हेतुः सव्यभिचारोऽतो वादत्यागश्च वादिनः।
संक्लेशप्रतिपक्षत्वमेतेन विहितोत्तरम्॥३३॥
महायानं च नो बौद्धं नैरात्म्यादिप्रकाशनात्।
रत्नत्रितयमाहात्म्यप्रथनाच्छिष्ययानवत्॥३४॥
प्रतितर्केण बाधातो हेतोश्च स्यादसिद्धता।
महायानोक्तसत्यादिसंग्रहाद् विनयादिषु॥३५॥
सर्वज्ञताप्तये मार्गः सम्यग्दृष्टिपुरःसरः।
यस्मादुक्तो महायाने तस्माद्धेतोरसिद्धता॥३६॥
दुःखोत्पत्तिनिरोधोक्तेर्नाजातं दुःखमिष्यते।
जातं दुःखस्वभावेन शून्यं तत् किं न गृह्यते॥३७॥
संस्कृतत्वाद् यथा माया स्कन्धा वानास्रवा यथा।
दुःखसत्यमतिः किं ते सम्यग्दर्शमतिर्मता॥३८॥
दुःखा च वेदना दुःखं जात्यादेर्दुःखता कथम्।
विनाशस्तस्य दुःखं च दुःखत्वं हेतुमार्गयोः॥३९॥
हेतुत्वतश्चेत् स्याद् दुःखं दुःखं समुदयो भवेत्।
भाक्तत्वाच्चापि दुःखस्य तज्ज्ञानं दुःखधीः कथम्॥४०॥
न दुःखविषयं ज्ञानं तत्त्वतः सत्यमिष्यते।
दुःखतस्तत्परिज्ञानाद् यथा वेधादिदुःखधीः॥४१॥
हेतुर्न दुःखहेतुत्वाद् युक्तः समुदयात्मकः।
यथा खड्गाभिघातादि चैत्तत्वाद् वापि मार्गवत्॥४२॥
न दुःखहेतुविषया दुःखाद्याकारबोधतः।
मतिस्तथ्या मता यद्वत् तदन्या दुःखहेतुधीः॥४३॥
अजाते न निरोधोऽस्ति प्रागुक्तप्रतिषेधतः।
जातेर्निषेधान्नाजातेः खपुष्पस्येव युज्यते॥४४॥
निरुद्धश्च निरोधः स्यात् सोऽजातो जन्मना यदा।
नेष्यते किं तदा विद्वान् त्वमन्यं सत्यतो वद॥४५॥
नैवाजातनिरोधोऽपि निरोधः परमार्थतः।
अनुत्पन्ननिरोधत्वादप्रसंख्यानिरोधवत्॥४६॥
निरोधासंभवादेव किं मार्गो मार्गते तव।
अजातश्च कथं मार्गस्तस्य किं प्रापयिष्यति॥४७॥
नापवर्गाप्तये मार्गः संस्कृतत्वात् तदन्यवत्।
निरोधालम्बनत्वाद् वा यथेतरनिरोधधीः॥४८॥
सामान्यालम्बनत्वाद् वा संस्कृतत्वादथापि वा।
दुःखादिदर्शनं मिथ्या मिथ्याज्ञानवदिष्यताम्॥४९॥
एतेन सम्यक्संकल्पव्यायामादिमृषात्वतः।
मार्गसत्यं न सत्यं ते युज्यते परमार्थतः॥५०॥
भावनातस्तथायुक्ता युक्ता दुःखाद्यदर्शनात्।
दृश्यस्यादृश्यरूपेण सर्वदा हि तथास्थितेः॥५१॥
अथापि द्रुग्धबुद्धेः स्यात् कस्यचिन्ननु बालवत्।
न सत्यादर्शनादिष्टो मोक्षोऽपि भवतामिति॥५२॥
दुःखतद्दुःख्यनुत्पादे कस्य को मोक्षमिच्छति।
मुक्तिर्मायाकृतत्वात् सा भ्रान्त्यावेधान्निगद्यते॥५३॥
सर्वथादर्शनान्मुक्तिर्दुःखादीनां यतो मता।
दृष्टान्तासंभवस्तस्मात् तथा हेतोरसिद्धता॥५४॥
अयमेव यतो मार्गः सम्यग्दृष्टिपुरःसरः।
महायानेऽपि निर्दिष्टस्तस्माद्धेतोरसिद्धता॥५५॥
वेदान्ते च हि यत् सूक्तं तत् सर्वं बुद्धभाषितम्॥
दृष्टान्तन्यूनता तस्मात् सन्दिग्धं वा परीक्ष्यताम्॥५६॥
सदसत्कल्पनापोढप्रज्ञाचारविहारिणाम्।
दृष्टिः कस्य कुतश्चेष्टा फलहेत्वपवादिका॥५७॥
हेतोः फलेन संबन्धो यथा लोके प्रतीयते।
तथा निषिध्यते नासावतो हेतोरसिद्धता॥५८॥
सांवृतं बालधीग्राह्यं वस्तु प्रत्यक्षगोचरम्।
प्राग्वदत्र समाधानात् तद्बाधापि न बाधिका॥५९॥
विद्वन्नीतिविचारे हि न प्रतीतिः प्रबाधते।
यथा निरात्मका धर्माः क्षणिकाश्चेति जल्पतः॥६०॥
न रूपतत्त्वं बालानां विषयत्वमुपार्च्छति।
अध्यात्मविद्यासंस्कारात् तद्यथात्मादिशून्यता॥६१॥
न रूपतत्त्वे बालानां धीर्युक्ता पारमार्थिकी।
अविद्यापटलान्धत्वाद् यथा निर्वाणगोचरा॥६२॥
तत्त्वतो हि न भावानां जन्मेत्येवं विशेषणात्।
न प्रत्यक्षप्रतीतिभ्यां बाधा कुत्रापि बाधिका॥६३॥
शान्तेष्वाकाशकल्पेषु धर्मेषु परमार्थतः।
स्त्रीत्वाद्यसिद्धेर्दृष्टान्ते बाधा कस्य कुतो मता॥६४॥
गम्या तद्गमनं गन्ता यथैदद् विद्यते त्रयम्।
अगम्यागमनं साध्यं तथा चेद् दोषदित्सया॥६५॥
सत्यं प्रतीतिबाधैवमसिद्धं तु विशेषणम्।
नातोऽस्मद्विधिबाधार्थ समर्थं प्रतिरूपकम्॥६६॥
निष्प्रपञ्चं स्वसंवेद्यं विकल्पमलवर्जितम्।
नानात्वैकत्वरहितं शान्तं तत्त्वं विधुर्बुधाः॥६७॥
योनाकदेवदेश्यत्वं नातस्तत्त्वस्य युज्यते।
ब्रह्मादिदेवप्रभवं देवमाहुर्यतश्च ते॥६८॥
रूपाद्यायतनास्तित्वं बुद्धिविषय इष्यते।
सामान्येन तदस्तित्वं साध्यं तदिष्टमेव नः॥६९॥
भौतिकादिस्वभावा हि रूपाद्यायतनास्तिता।
साध्यते चेन्न दृष्टान्तः प्रतितर्कश्च बाधकः॥७०॥
रूपाद्यायतनं नेष्टं भूतभौतिकलक्षणम्।
स्वात्मनिर्भासधीजन्मकारणत्वाद् यथा मनः॥७१॥
चित्तचैत्तस्वभावं हि प्रदिद्धं चैत्तचेतसाम्।
हेतूदाहरणे नातो नष्टः पक्षोऽपि योगिनाम्॥७२॥
विज्ञप्तिमात्रमित्यत्र बाह्यार्थस्य निराक्रिया।
वाक्यार्थ इति तत्त्यागात् पक्षहानिः कुतः सती॥७३॥
वाग्निर्वचनतः कश्चित् क्रियते न प्रशान्तधीः।
विद्वांसस्तत्र भोत्स्यन्ते वचसः सारफल्गुताम्॥७४॥
श्रावकतत्त्वविनिश्चयावतारो नाम चतुर्थः परिच्छेदःअतितर्कश्च बाधकः॥७०॥
रूपाद्यायतनं नेष्टं भूतभौतिकलक्षणम्।
स्वात्मनिर्भासधीजन्मकारणत्वाद् यथा मनः॥७१॥
चित्तचैत्तस्वभावं हि प्रदिद्धं चैत्तचेतसाम्।
हेतूदाहरणे नातो नष्टः पक्षोऽपि योगिनाम्॥७२॥
विज्ञप्तिमात्रमित्यत्र बाह्यार्थस्य निराक्रिया।
वाक्यार्थ इति तत्त्यागात् पक्षहानिः कुतः सती॥७३॥