द्वितीयः परिच्छेदः
मुनिव्रतसमाश्रयः
एवं दृढमहाबोधिसमादानो जगद्धिते।
प्रतिरूपं प्रतिपदं प्रतिपन्नो विराजते॥१॥
स मैत्र्याप्रतिघातिन्या कारुण्येन प्रसर्पिणा।
सद्धर्माधिगमातृप्तो धर्मदाने विमत्सरः॥२॥
ऋजुनाहतमानेन मनसा तत्त्वदर्शिना।
परदोषेक्षणान्धेन स्वदोषापत्तिभीरुणा॥३॥
विवादलोकसंसर्गलोकायतपराङ्मुखः।
निर्गुणेऽपि गुणाघानप्रततः स्रंसितादरः॥४॥
कृपोद्भूतेन दानेन सर्वज्ञत्वगतस्पृहः।
सर्वस्य जनकायस्य सर्वदुःखोपशान्तये॥५॥
शीलामलजलस्नायी क्षमासितपवित्रकः।
वीर्यबद्धजटाभारो ध्यानज्ञानपरायणः॥६॥
समुन्मिषितधीनेत्रः शास्त्रलोकज्ञतापटुः।
ह्नीव्यवत्राप्यवसनः सौरत्यतनुबन्धनः॥७॥
कृपाकृष्णाजिनधरः श्रद्धामलकमण्डलुः।
स्मृतिगुप्तेन्द्रियद्वारो धृतिवेत्रासनासनः॥८॥
महायानमहारम्यतपोवनसमाश्रयः।
ध्यानप्रीतिफलाहारः स्मृत्युपस्थानगोचरः॥९॥
गम्भीरोदारसूत्रान्तस्वाध्यायहतकिल्बिषः।
प्रतीत्योत्पादसावित्रीं जपन् सत्यद्वयाश्रयात्॥१०॥
वर्णाढ्यैः प्रतिपत्पुष्पैः सर्वदिग्गन्धवाहिभिः।
उपासीनस्त्वहरहः सम्यक्संबुद्धभास्करम्॥११॥
हुताकुशलसंकल्पः प्रतिसंख्यानपावके।
मुनिव्रतं चरेदेवमनुत्तरपदाप्तये॥१२॥
मुनिव्रतसमाश्रयो नाम द्वितीयः परिच्छेदःरद्धामलकमण्डलुः।
स्मृतिगुप्तेन्द्रियद्वारो धृतिवेत्रासनासनः॥८॥
महायानमहारम्यतपोवनसमाश्रयः।
ध्यानप्रीतिफलाहारः स्मृत्युपस्थानगोचरः॥९॥
गम्भीरोदारसूत्रान्तस्वाध्यायहतकिल्बिषः।
प्रतीत्योत्पादसावित्रीं जपन् सत्यद्वयाश्रयात्॥१०॥
वर्णाढ्यैः