01 प्रथमः परिच्छेदः

मध्यमकहृदयम् भव्यकृतम् प्रथमः परिच्छेदः बोधिचित्तापरित्यागः अप्रतर्क्यमविज्ञेयमनालयमलक्षणम्।
अनिरूप्यं स्वसंवेद्यमनादिनिधनं शिवम्॥१॥

निर्विकल्पं निराभासं निर्निमित्तं निरञ्जनम्।
न द्वयं नाद्वयं शान्तं धीप्रचारविवर्जितम्॥२॥

तत्त्वं दिदेश कारुण्याद् यो निरक्षरमक्षरैः।
भावतोऽस्तु नमस्तस्मै शास्त्रेऽवितथवादिने॥३॥

महाबोधौ कृतधियां परार्थोदयदीक्षया।
तत्त्वामृतावताराय शक्तितः किंचिदुच्यते॥४॥

बोधिचित्तापरित्यागो मुनिव्रतसमाश्रयः।
तत्त्वज्ञानैषणा चेति चर्या सर्वार्थसिद्धये॥५॥

बोधिचित्तं महामैत्रीकरुणाज्ञानभूषणम्।
बुद्धबीजं यतो विद्वांस्तदत्यागाय युज्यते॥६॥

धीमता सत्त्वमहता परदुःखेऽसहिष्णुना।
सम्यगारब्धवीर्येण युक्तं शक्तिमता सता॥७॥

लोकमालोक्य सकलं प्रज्ञालोकतिरस्कृतम्।
संसारामेध्यपातालात् तीर्त्वा तारयितुं स्वयम्॥८॥

का वा शक्तिमतः सक्तिर्यदनाथांस्तपस्विनः।
रागादिनिगडैर्बद्धान् घोरे संसारचारके॥९॥

प्रमादमदिरां पीत्वा प्रसुप्तान् मोहनिद्रया।
वितर्कतस्कराशेषविलुप्तशुभसंचयान्॥१०॥

प्रज्ञानिशितनिस्त्रिंशच्छिन्ननिःशेषबन्धनः।
मुक्तो न मोचयेदेनान् यदयं करुणात्मकः॥११॥

योऽपि बाहुबलोपात्तं परीत्तं कामजं सुखम्।
एकाकी कृपणो भुङक्ते सोऽपि गर्ह्यः सतां भवेत्॥१२॥

किं पुनश्चक्रवर्तीन्द्रबह्मणामपि दुर्लभम्।
अत्यन्ततृष्णाविच्छेदि साधारणमुपायतः॥१३॥

विग्रहक्षयपर्यन्तदुःखाद्यनभिभावितम्।
निःशेषदुःखशमनं तत्त्वार्थाधिगमामृतम्॥१४॥

किं च क्लेशग्रहावेशाद् दुःखं दुःखातुरेष्वपि।
कृतं येषु मया पूर्वं क्षतक्षारोपहारवत्॥१५॥

ये च जात्यन्तरे प्रेमबहुमानोपकारिणः।
तेषां प्रतिक्रिया कान्या निर्वाणप्रापणाद् भवेत्॥१६॥

न बाध्यन्ते प्रदीप्तासिकल्पैरपि भवैर्बुधाः।
परार्थकरणोद्भूतप्रीतिह्लादितचेतसः॥१७॥

दौःशील्याक्रियया सर्वदुर्गतिद्वारबन्धनात्।
शून्यतादर्शनाभ्यासात् क्लेशवृत्त्युपघाततः॥१८॥

कृतपुण्यतयोद्यानयात्रामिव च षड्गतिम्।
पश्यन्तस्त्रासमायान्ति न सन्तो भवचारकात्॥१९॥

न भवे दोषदर्शित्वात् कृपालुत्वान्न निर्वृतौ।
स्थितास्तिष्ठन्ति च भवे परार्थोदयदीक्षिताः॥२०॥

भेदाभेदेन संसारनिर्वाणानुपलम्भतः।
न च क्वचन तिष्ठन्ति सर्वत्र च भवे बुधाः॥२१॥

बोध्यङ्गसप्तरत्नाढ्यं लब्ध्वामितगुणाकरम्।
सद्धर्मचक्रवर्तित्वं सुरासुरनमस्कृतम्॥२२॥

मुक्ताभेदशरत्पूर्णशशाङ्ककिरणामलैः।
यशोभिश्च वचोभिश्च पूरयित्वा दिशो दश॥२३॥

त्रिरत्नवंशस्थितये स्थापयित्वा गुणाकरान्।
सत्पुत्रान् देवनागादिचूडामहितशासनान्॥२४॥

कृतस्वपरकार्यत्वान्निर्वृतास्ते सुनिर्वृताः।
अतोऽन्ये स्कन्धविच्छेदादुच्छिन्नास्तेऽपि निर्वृताः॥२५॥

न क्रोष्टा मत्तमातङ्गकुम्भास्फालनपाटने।
न मातङ्गः समुद्रान्तमहीमण्डलपालने॥२६॥

गम्भीरानुत्तरोदारसंख्यातीतगुणाकरे।
न हीनसत्त्बो बुद्धत्वे मनोरथमपीच्छति॥२७॥

अप्रमेयाद्भुताचिन्त्यसर्वदीप्त्यतिभाविषु।
संबुद्धगुणरत्नेषु कः कुर्वीत न मानसम्॥२८॥

कः परार्थक्रियाशूरो महापुरुषचेष्टितैः।
नानन्तमपि संसारं तिष्ठेदेकमहो यथा॥२९॥

कः परार्थैककार्याणामार्याणां पद्धतिं कृती।
नानुयायादतीतोऽपि यत् कथावस्तुतां व्रजेत्॥३०॥

कोऽसौ परहिताधानसाधनीकरणात् तनुम्।
न नयेत् कदलीफेननिःसारं मेरुसारताम्॥३१॥

प्रतिक्षणं जरामृत्युरुजामाश्रयमाश्रयम्।
करोति धन्यः कारुण्यात् परसौख्योदयाश्रयम्॥३२॥

ससद्धर्मप्रदीपो हि प्रणष्टाष्टाक्षणः क्षणः।
सफलीकरणीयोऽयं महापुरुषचर्यया॥३३॥

बोधिचित्तापरित्यागो नाम प्रथमः परिच्छेदःउषचेष्टितैः।
नानन्तमपि संसारं तिष्ठेदेकमहो यथा॥२९॥

कः परार्थैककार्याणामार्याणां पद्धतिं कृती।
नानुयायादतीतोऽपि यत् कत्