मध्यमकावतार-कारिका

मध्यमकावतार-कारिका chapter 6समाहिते चेतसि संस्थितो ऽसौसंबुद्धधर्माभिमुखो ऽभिमुखयाम्। इदंप्रतीत्योदयदृष्टतत्त्वःप्रज्ञविहारात् तुनिरोधम् एति॥

6.1एकेन पुंसाक्षिमता यथेष्टंदेशं समस्तो ऽन्धगणः सुखेन। आकृष्यते तद्वद् इहाक्षिहीनान्आदाय धीर् याति गुणाञ् जिनत्वम्॥

6.2धर्मान् स गम्भीरतरान् अवैतियथागमेनापि च युक्तितश् च। तथार्यनागार्जुननीतितस् तान्यथास्थितप्रक्रियया ब्रवीमि॥

6.3पृथग्जनत्वे ऽपि निशम्य शून्यतांप्रमोदम् अन्तर् लभते मुहुर्मुहुः। प्रसादजास्राविलजातलोचनस्तनूरुहोत्फुल्लतनुश् च जायते॥

6.4(1)यस् तस्य संबुद्धधियो ऽस्ति बीजंतत्त्वोपदेशस्य च भाजनं सः। आख्येयम् अस्मै परमार्थसत्यंतदन्वयास् तस्य गुणा भवन्ति॥

6.5शीलं समादाय सदैव वर्ततेददाति दानं करुणां च सेवते। तितिक्षते तत्कुशलं च बोधयेप्रणामयत्य् एव जगद्विमुक्तये॥

6.6संबोधिसत्त्वेषु करोति गौरवम्उदारगम्भीरनये विचक्षणः। लभेत भूमिं मुदितां जनः क्रमात्तदर्थिनैषा पदवी निशाम्यताम्॥

6.7तेभ्यस् त एव न भवन्ति कुतः परेभ्योद्वाभ्यां न चापि कुत एव विनैव हेतुम्। तस्माद् धि तस्य भवने न गुणो ऽस्ति कश्चिज्जातस्य जन्म पुनर् एव च नैव युक्तम्॥

6.8जातस्य जन्मनि पुनः परिकल्प्यमानेनैवाङ्कुरादय इह प्रभवं लभेरन्। बीजस्य च प्रभव एव भवेद् भवान्तंतेनैव तस्य हि कथं च भवेद् विनाशः॥

6.9संस्थानवर्णरसवीर्यविपाकभेदाःस्युर् नाङ्कुरस्य तव कारणतो विभिन्नाः। प्रागात्मभावम् अवधूय तदन्यरूपम्आपद्यते यदि तदास्य कथं हि तत्त्वम्॥

6.10बीजाद् अनन्य इह ते यदि चाङ्कुरः स्याद्गृह्येत नैव हि स बीजम् इवाङ्कुराख्यः। गृह्येत वा तद् अपि नाम यथाङ्कुरो ऽयंतत्त्वात् तयोर् इति न चैतद् अतो ऽभ्युपेयम्॥

6.11लोको ऽपि चैक्यम् अनयोर् इति नाभ्युपैतिनष्टे ऽपि पश्यति यतः फलम् एष हेतौ। तस्मान् न तत्त्वत इदं न च लोकतश् चयुक्तं स्वतो भवति भाव इति प्रकल्पम्॥

6.12(2)जन्यस्य चैव जनकस्य च कर्मणश् चकर्तुश् च जन्मनि भवेत् स्वत इष्यमाणे। ऐक्यं न चैक्यम् अनयोर् इति नाभ्युपेयंजन्म स्वतो विहितविस्तरदोषसक्तेः॥

6.13अन्यत् प्रतीत्य यदि नाम परो ऽभविष्यज्जायेत तर्हि बहुलः शिखिनो ऽन्धकारः। सर्वस्य जन्म च भवेत् खलु सर्वतश् चतुल्यं परत्वम् अखिले ऽजनके ऽपि यस्मात्॥

6.14शक्यं प्रकर्तुम् इति कार्यम् अतो निरुक्तंशक्तं यद् अस्य जनने स परो ऽपि हेतुः। जन्मैकसन्ततिगताज् जनकाच् च तस्माच्छाल्यङ्कुरस्य न तथा च यवादितश् चेत्॥

6.15इष्टा यथा न जनका न च शक्तियुक्तानैवैकसन्ततिगताः सदृशा न चैव। शाल्यङ्कुरस्य यवकेसरकिंशुकाद्यानो शालिबीजम् अपि तस्य तथा परत्वात्॥

6.16अस्त्य् अङ्कुरश् च न हि बीजसमानकालोबीजं कुतः परतयास्तु विना परत्वम्। जन्माङ्कुरस्य न हिसिध्यति तेन बीजात्संत्यज्यतां परत उद्भवतीति पक्षः॥

6.17अन्तद्वयस्य नमनोन्नमने तुलायादृष्टे यथा न खलु नैव समानकाले। स्यातां तथा जनकजन्यनिरोधजातीयद्य् एकदा तद् असद् अत्र विनैककालम्॥

6.18जन्मोन्मुखं न सद् इदं यदि जायमानंनाशोन्मुखं सद् अपि नाम निरुद्ध्यमानम्। इष्टं तदा कथम् इदं तुलया समानंकर्त्रा विना जनिर् इयं न च युक्तरूपा॥

6.19चक्षुर्धियः स्वजनकैः खलु चक्षुराद्यैःसंज्ञादिभिश् च सहभाविभिर् एककालैः। अन्यत्वम् अस्ति यदि किं भवनेन सत्यांनास्याः सतीत्वम् अथ चेद् विहितो ऽत्र दोषः॥

6.20जन्यं परं च जनयेज् जनकः स हेतुःसद् वाथ चासद् उभयं विगतद्वयं वा। (3)सच् चेत् किम् अस्य जनकैर् असतो ऽपि किं तैर्द्वैते ऽपि तैः किम् अथ किं विगतद्वये तैः॥

6.21युक्त्या किम् अत्र खलु वर्णितया क्रियेतलोकः स्थितः स्वदृशि येन मतः प्रमाणम्। लोकश् च नाम परतः परभावम् एतितेनास्ति जन्म परतः किम् इहोपपत्त्या॥

6.22सम्यग्मृषादर्शनलब्धभावंरूपद्वयं बिभ्रति सर्वभावाः। सम्यग्दृशां यो विषयः स तत्त्वंमृषादृशां संवृतिसत्यम् उक्तम्॥

6.23मृषादृशे ऽपि द्विविधा मता हिस्पष्टेन्द्रिया दोषवदिन्द्रियाश् च। सदिन्द्रियज्ञानम् अपेक्ष्य मिथ्याज्ञानं मतं दोषवदिन्द्रियाणाम्॥

6.24विनोपघातेन यद् इन्द्रियाणांषण्णाम् अपि ग्राह्यम् अवैति लोकः। सत्यं हि तल् लोकत एव शेषंविकल्पितं लोकत एव मिथ्या॥

6.25अज्ञाननिद्राप्रचलायमानैस्तीर्थैर् यथास्वं परिकल्पिता ये। मायामरीच्यादिषु कल्पिताश् चतेषाम् अतत्त्वं खलु लोकतो ऽपि॥

6.26न बाधते ज्ञानम् अतैमिराणांयथोपलब्धिस् तिमिरेक्षणाणाम्। तथामलज्ञानतिरस्कृतानांधियास्ति बाधो न धियो ऽमलायाः॥

6.27मोहः स्वभावावरणाद् धि संवृतिःसत्यं तया ख्याति यद् एव कृत्रिमम्। जगाद तत् संवृतिसत्यम् इत्य् असौमुनिः पदार्थं कृतकञ् च संवृतिः॥

6.28(4)विकल्पितं यत् तिमिरप्रभावात्केषादिरूपं वितथं तद् एव। येनात्मना पश्यति शुद्धदृष्टिस्तत् तत्त्वं इत्य् एवम् इहाप्य् अवैहि॥

6.29लोकः प्रमाणं यदि तत्त्वदर्शीस्याल् लोक एवेत्य् अपरैः किम् आर्यैः। किम् आर्यमार्गेण भवेच् च कार्यंमूढः प्रमाणं न हि नाम युक्तः॥

6.30लोकः प्रमाणं न हि सर्वथातस्तत्त्वाधिकारे न च लोकबाधा। स्याल् लोकबाधा यदि लौकिकार्थोलोकप्रतीत्यैव निराक्रियेत॥

6.31उप्त्वापि लोकः खलु बीजमात्रंब्रवीति पुत्रो जनितो मयैषः। उप्तस् तरुश् चेति परैति यस्माज्जन्मान्यतस् तेन न लोकतो ऽपि॥

6.32यतो न बीजात् परताङ्कुरस्यसत्य् अङ्कुरे बीजम् अतो न नष्टम्। एको यतो नास्ति ततो ऽपि बीजंसत्य् अङ्कुरे ऽस्तीति न वाच्यम् एव॥

6.33स्वलक्षणं चेद् भवति प्रतीत्यतस्यापवादे सति भावनाशात्। स्याच् छून्यता भावविनाशहेतुर्युक्तं न चैतन् न ततो ऽस्ति भावः॥

6.34अर्वाङ् न तत्त्वात्मकरूपतो ऽमीस्थितिं लभन्ते प्रविचार्यमाणाः। यतः पदार्था न ततो विचारःकर्यो हि लोकव्यवहारसत्ये॥

6.35तत्त्वाधिकारे हि ययैव युक्त्यास्वस्मात् परस्माच् च न जन्म युक्तम्। युक्त्या तयैव व्यवहारतो ऽपिन युज्यते केन तवास्तु जन्म॥

6.36शून्याः पदार्थाः प्रतिबिम्बकाद्याःसामग्र्यपेक्षा न हि न प्रसिद्धाः। (5)यथा च शून्यात् प्रतिबिम्बकादेश्चेतस् तदाकारम् उपैति जन्म॥

6.37एवं हि शून्या अपि सर्वभावाःशून्येभ्य एव प्रभवं प्रयान्ति। नोच्छेदिनस् ते न च शाश्वताश् चसत्यद्वये ऽपि प्रकृतेर् अभावात्॥

6.38यस्मात् स्वरूपेण न तम् निरुद्धंचिरं निरुद्धाद् अपि कर्मणो ऽतः। क्वचिद् विनैवालयम् अस्य शक्तेःफलं समुत्पद्यत इत्य् अवैहि॥

6.39स्वप्नोपलब्धान् विषयान् अवेत्यबोधे ऽपि मूढस्य यथैव सङ्गः। संजायते तद्वद् असत्स्वभावात्फलं निरुद्धाद् अपि कर्मणो ऽस्ति॥

6.40तुल्ये ऽप्य् असत्त्वे विषयस्य यद्वत्केशाकृतिं तैमिरिकः परैति। न सर्वभावाकृतिम् इत्य् अवैहितथा विपक्वान् न पुनर् विपाकम्॥

6.41अतो हि कृष्णाद् अशुभो विपाकःशुभाद् विपाकः शुभ एव दृष्टः। शुभाशुभाभावधियश् च मोक्षश्चिन्तानिषेधः फलकर्मणां च॥

6.42एवं हि गम्भीरतरान् पदार्थान्न वेत्ति यस् तं प्रति देशनेयम्। अस्त्य् आलयः पुद्गल एव चास्तिस्कन्धा इमे वा खलु केवलाश् च॥

6.43अहं ममेत्य् एव यथा दिदेशसत्कायदृष्टेर् विगमे ऽपि बुद्धः। तथा ऽस्वभावान् अपि सर्वभावान्अस्तीति नेयार्थतया दिदेश॥

6.44(6)प्रज्ञाविहारी स हि बोधिसत्त्वोविज्ञानमात्रप्रतिविद्धतत्त्वः। ग्राह्यं विना ग्राहकताम् अपश्यन्विज्ञानमात्रं त्रिभवं परैति॥

6.45यथा तरङ्गा महतो ऽम्बुराशेःसमीरणप्रेरणयोद्भवन्ति। तथालयाख्याद् अपि सर्वबीजाद्विज्ञानमात्रं भवति स्वशक्तेः॥

6.46संविद्यते ऽतः परतन्त्ररूपंप्रज्ञप्तिसद्वस्तुनिबन्धनं यत्। बाह्यं विना ग्राह्यम् उदेति सच् चसर्वप्रपञ्चाविषयस्वरूपम्॥

6.47विनैव बाह्यं क्व यथास्ति चित्तंस्वप्ने यथा चेद् इदम् एव चिन्त्यम्। स्वप्ने ऽपि मे नैव हि चित्तम् अस्तियदा तदा नास्ति निदर्शनं ते॥

6.48स्वप्नस्य बोधे स्मरणान् मनो ऽस्तियद्य् अस्तु बाह्यो विषयो ऽपि तद्वत्। यथा मया दृष्टम् इति स्मृतिस् तेबाह्ये ऽपि तद्वत् स्मृतिसम्भवो ऽस्ति॥

6.49चक्षुर्धियः सम्भव एव मिद्धेनास्त्य् अस्ति वै मानसम् एव चेतः। तदाकृतौ बाह्यतया निवेशःस्वप्ने यथेहापि तथा मतं चेत्॥

6.50बाह्यो यथा ते विषयो न जातःस्वप्ने तथा नैव मनो ऽपि जातम्। चक्षुश् च चक्षुर्विषयश् च तज्जंचित्तं च सर्वं त्रयम् अप्य् अलीकम्॥

6.51(7)श्रोत्रादिशेषं त्रयम् अप्य् अजातंस्वप्ने यथेहापि तथा प्रबोधे। मृषा पदार्था न तद् अस्ति चित्तंन गोचरः सन्ति च नेन्द्रियाणि॥

6.52यावन् न बोधं लभते ऽस्ति तावत्त्रयं हि तस्येह यथाप्रबोधे। सति प्रबोधे त्रयम् अप्य् असत्यंस मोहनिद्राक्षयतस् तथैव॥

6.53केशाकृतिं यां तिमिरप्रभावाद्धिया यया वेत्ति स तैमिराक्षः। द्वयं हि तद्बोधम् अपेक्ष्य सत्यंस्पष्टार्थदृष्टेर् द्वयम् अप्य् अलीकम्॥

6.54ज्ञेयं विना स्याद् यदि नाम बुद्धिस्तत्केशदेशानुगलोचनस्य। वितैमिरस्यापि च केशबुद्धिःस्याद् एव न त्व् एवम् अतो ऽस्ति नैतत्॥

6.55धीशक्तिपको ऽस्ति न शुद्धदृष्टेर्यतस् ततो धीर् न हि जायते ऽस्य। न ज्ञेयसद्भाववियोगतश् चेत्तच्छक्त्यभावान् न हि सिद्धम् एतत्॥

6.56जातस्य शक्तेर् न हि सम्भवो ऽस्तिनाजातरूपस्य च शक्तिर् अस्ति। विशेषणं नास्ति विना विशेष्यंवन्ध्यासुतस्यापि च तत्प्रसङ्गः॥

6.57भविष्यता चेद् व्यपदेश इष्टःशक्तिं विना नास्ति हि भावितास्य। परस्परायाश्रयणी च सिद्धिर्असिद्धिर् एवेति वदन्ति सन्तः॥

6.58निरुद्धशक्तेः परिपाकतः स्याद्यद्य् अन्यशक्तेः परसम्भवः स्यात्। सन्तानिनां तत्र मिथो ऽस्ति भेदःसर्वस्य सर्वप्रभवस् ततः स्याद्॥

6.59(8)सन्तानिनो यद्य् अपि तत्र भिन्नाःसन्तानभेदो ऽस्ति हि नैव तेषाम्। ततो न दोषा इति साध्यम् एतत्अभेदसन्तानगतेर् अयोगात्॥

6.60मैत्रोपगुप्ताश्रयिणो हि धर्मान ह्य् एकसन्तानगताः परत्वात्। स्वलक्षणेनापि पृथक् पृथग् येते ऽप्य् एकसन्तानगता न युक्ताः॥

6.61चक्षुर्धियो जन्म यतः स्वशक्तेर्आजायते ऽनन्तरम् एव तस्याः। शक्तेः स्वविज्ञानसमाश्रयस्यरूपीन्द्रियं चक्षुर् इति प्रतीतिः॥

6.62बहिर् विना रूपम् इह स्वबीजान्नीलादिनिर्भासितयोद्भवन्तीम्। विज्ञप्तिम् अक्षिप्रभवाम् अबुद्ध्वाग्राह्यं जनो बाह्यम् अवैति चित्तात्॥

6.63स्वप्ने विनार्थान्तरम् एव रूपंयथा तदाकारम् उदेति चेतः। स्वशक्तिपाकाद् इह जाग्रतो ऽपितथास्ति बाह्येन विना मनश् चेत्॥

6.64नीलादिनिर्भासम् उदेति चेतःस्वप्ने यथा मानसम् अक्ष्यभावे। कस्माद् इहान्धस्य तथाक्ष्यपायेस्वबीजपाकाद् उदयं न याति॥

6.65स्वप्ने ऽस्ति षष्ठस्य हि शक्तिपाकोन जाग्रतो ऽस्तीति सचेत् तव स्यात्। यथेह षष्ठस्य न शक्तिपाकःस्वप्ने तथासन्न् इति किं न वेत्सि॥

6.66अक्ष्योर् अभावो ऽस्य यथा न हेतुःस्वप्ने ऽपि मिद्धं न तथैव हेतुः। स्वप्ने ऽपि तद्रूपम् अतो ऽभ्युपेयंचक्षुर् मृषागोचरबोधिहेतुः॥

6.67यं यं परीहारम् अयं ब्रवीतितं तं प्रतिज्ञासमम् अस्य पश्यन्॥

(9)निवारयेद् वादम् अमुं न बुद्धावस्तु क्वचिन् नाम सद् इत्य् उशन्ति॥

6.68पूर्णां महीं सङ्कलया च योगीगुरूपदेशाद् अपि यत् परैति। तत्रापि पश्येत् त्रयम् अप्य् अजातंमिथ्यामनस्कारतयोपदेशात्॥

6.69यथा ऽक्षिबुद्धौ विषयाकृतिस् तेतथाशुभायां मनसो यदि स्यात्। तद्देशबुद्धेर् इतरस्य तद्वत्स्याद् एव बोधो न मृषा च तत् स्यात्॥

6.70तोयं वहन्त्याम् अपि पूयबुद्धिःप्रेतस्य नद्यां तिमिराक्षतुल्या। संक्षेपतस् त्व् अर्थम् अमुं परैहिज्ञेयं यथा नास्त्य् अपि धीस् तथेति॥

6.71ग्राह्यं विना ग्राहकतावियुक्तंद्वयेन शून्यं परतन्त्ररूपम्। यद्य् अस्ति केनास्य परैषि सत्ताम्अगृह्यमाणं च सद् इत्य् अयुक्तम्॥

6.72तेनैव तस्यानुभवो न सिद्धःसिद्धः स्मृतेर् उत्तरकालतश् चेत्। असिद्धसिद्ध्यर्थम् असिद्धम् एतन्निरुच्यमानं न हि साधनाय॥

6.73कामं स्वसंवेदनसिद्धिर् अस्तुस्मर्तुः स्मृतेर् नैव तथापि युक्ता। अज्ञानसन्तानजवत् परत्वाद्धेतुर् विशेषान् अपि चैष हन्यात्॥

6.74येनानुभूतो विषयस् ततो ऽस्यस्मर्तुः परत्वं न हि मे ऽस्ति यस्मात्। ततो मया दृष्टम् इति स्मृतिः स्याद्एषा च लोकव्यवहारनीतिः॥

6.75तस्मात् स्वसंवेदनम् अस्ति नैवकेनान्यतन्त्रग्रहणं तव स्यात्। कर्तुश् च कर्मक्रिययोश् च नैक्यंतेनैव तस्य ग्रहणं न युक्तम्॥

6.76(10)अज्ञायमानात्मकम् अप्य् अजातंभावो यदि स्यात् परतन्त्ररूपः। वन्ध्यासुतेनापकृतं परस्यकिं नाम येनास्य न वेत्ति सत्त्वम्॥

6.77यदान्यतन्त्रं न समस्ति किंचित्किं सांवृतानां हि निबन्धनं स्यात्। द्रव्यस्य लोभेन परस्य नष्टाःसर्वा व्यवस्था अपि लोकसिद्धाः। 6.78आचार्यनागार्जुनपादमार्गाद्बहिर्गतानां न शिवाभ्युपायः। भ्रष्टा हि ते संवृतितत्त्वसत्यात्तद्भ्रंशतश् चास्ति न मोक्षसिद्धिः॥

6.79उपायभूतं व्यवहारसत्यम्उपेयभूतं परमार्थसत्यम्। तयोर् विभागं न परैति यो वैमिथ्याविकल्पैः स कुमार्गयातः। 6.80न संवृतिश् चापि मयाभ्युपेतायथा त्वयेष्टं परतन्त्ररूपम्। लोकानुरोधात् त्व् असतीत्य् अमीषांसतीति कार्यार्थम् अहं ब्रवीमि॥

6.81स्कन्धान् समुत्सृज्य शिवप्रवेशेयथार्हतां नास्ति तथैव न स्यात्। लोकस्य चेत् तद्वद् इमां सतीतिब्रूयाम् अहं नैव हि लोकतो ऽपि॥

6.82निषिध्यतां लोकत एव चैषान लोकबाधा भवतो यदि स्यात्। लोको भवांश् चेह विवादम् एतुपश्चाद् बलीयांसम् अहं श्रयिष्ये॥

6.83विज्ञानमात्रं त्रिभवं परैतियद् बोधिसत्त्वो ऽभिमुखो ऽभिमुख्याम्। नित्यात्मकर्तृप्रतिषेधबोधात्प्रपद्यते कर्तृ स चित्तमात्रम्॥

6.84उक्तं चातो धीमतां धीविवृद्ध्यैसर्वज्ञेनोत्तुङ्गतीर्थ्याद्रिभेदि। (11)सूत्रे तस्मिन्न् आर्यलंकावतारेसन्ध्युच्छित्तौ वाङ्मयं वज्रम् एतत्॥

6.85तस्मिन् तस्मिन् वर्णिताः शास्त्र एतेतीर्थ्यैर् युक्त्या पुद्गलाद्या यथास्वम्। कर्तृत्वेनापश्यता तान् जिनेनलोकस्योक्तं चित्तमात्रं तु कर्तृ॥

6.86बुद्धो यद्वद् बुद्धतत्त्वो निरुक्तस्तद्वल् लोकश् चित्तमात्रप्रधानः। उक्तः सूत्रे चित्तमात्रं निषेधोनो रूपस्येतीह सूत्रार्थ एवम्॥

6.87रूपम् एव यदि तत्र निषिद्धंचित्तमात्रम् इदम् इत्य् अवगम्य। मोहकर्मजम् उवाच किमर्थंचित्तम् अत्र पुनर् एव महात्मा॥

6.88सत्त्वलोकम् अथ भाजनलोकंचित्तम् एव रचयत्य् अतिचित्रम्। कर्मजं हि जगद् उक्तम् अशेषंकर्म चित्तम् अवधूय च नास्ति॥

6.89रूपम् अस्ति खलु यद्य् अपि तस्यकर्तृता तु न हि चित्तवद् अस्ति। तेन कर्तुर् इतरस्य हि चित्ताद्वारणं न खलु रूपनिषेधः॥

6.90पञ्चाप्य् एते सन्ति लोकप्रसिद्धाःस्कन्धास् तत्त्वे लौकिके ऽवस्थितस्य। तत्त्वज्ञानस्योदये वाञ्छिते वैपञ्चाप्य् एते योगिनां नैवजाताः॥

6.91रूपाभावे मा ग्रहीश् चित्तसत्तांरूपाभावं चित्तसत्त्वे च मा गाः। प्रज्ञानीतौ सूत्र एते समानंबुद्धैः क्षिप्ता वर्णिताश् चाभिधर्मे॥

6.92भित्वाप्य् एतां सत्ययोर् आनुपूर्वींन द्रव्यं ते याति सिद्धिं निषिद्धम्। तस्माद् एवंप्रक्रमाद् विद्धि भावान्लोके जातांस् तत्त्वतश् चाद्यजातान्॥

6.93(12)यत्राप्य् उक्तं नास्ति दृश्यं बहिर् वैचित्तं चित्रं दृश्यते चेति सूत्रे। रूपे ऽत्यन्तं ये प्रसक्ता बधानरूपं तेभ्यस् तच् च नेयार्थम् एहि॥

6.94नेयार्थत्वं चादिदेशास्य शास्तायुक्ता युक्त्या चापि नेयार्थतास्य। सूत्रस्यान्यस्यापि चैवंविधस्यनेयार्थत्वं द्योतयत्य् आगमो ऽयम्॥

6.95ज्ञेयं विना ज्ञाननिराकृतिश् चलभ्या सुखेनेति वदन्ति बुद्धाः। ज्ञेयस्य पूर्वं प्रतिषेधम् एवज्ञेयऽसति ज्ञाननिषेधसिद्धेः॥

6.96एवं ज्ञात्वा प्रक्रियाम् आगमस्यव्याख्यातार्थं यच् च नेयार्थम् उक्तम्। सूत्रं बुद्ध्वा नीयतां यन् न तत्त्वंनीतार्थं च ज्ञायतां शून्यतार्थम्॥

6.97द्वाभ्यां न चापि जननं खलु युक्तरूपंदोषाः पतन्ति विहितास् तुत एव यस्मात्। न लोकतो ऽपि न च तत्त्वत इष्टम् एतद्एकैकतो न जननस्य यतो ऽस्ति सिद्धिः॥

6.98हेतुं विनैव यदि जन्म भवेत् तदानींस्यात् सर्वतो ऽपि सकलस्य सदैव जन्म। बीजादिकस्य शतशः फलसंभवायलोकश् च संग्रहम् अयं खलु नैव कुर्यात्॥

6.99गृह्येत नैव च जगद् यदि हेतुशून्यंस्याद् यद्वद् एव गगनोत्पलवर्णगन्धौ। गृह्नासि लोकम् अतिचित्रतरं च तस्माल्लोकं स्वबुद्धिम् इव कारणतःपरैहि॥

6.100भूतानि तानि न हि नाम तथात्मकानियेनात्मना तव धियो विषयीभवन्ति। अत्रैव यस्य बहुलो ऽस्ति मनोऽन्धकारोलोकं परं स कथम् एष्यति सम्यग् एव॥

6.101(13)ज्ञेयस्वभावविपरीतदृशं परैहिस्वात्मानम् एव परलोकनिषेधकाले। तद्दृष्टिजातसदृशाश्रयदेहवत्त्वाद्भूतात्मसत्त्वम् उपयासि यदा तदेव॥

6.102भूतानि तानि न हि सन्ति यथा तथोक्तंसामान्यतः स्वपरतो द्वयतश् च जन्म। आहेतुकं च खलु येन पुरा निषिद्धंभूतान्य् अमून्य् अनुदितानि न सन्ति तस्मात्॥

6.103भावाः स्वभावरहिताः स्वपरोभयस्माज्जन्मास्ति हेतुम् अनपेक्ष्य च नैव यस्माद्। मोहस् तु येन बहलो घनवृन्दतुल्योलोकस्य तेन विषयाः खलु भान्ति मिथ्या॥

6.104कश्चिद् यथैव वितथं तिमिरप्रभावात्केशद्विचन्द्रशिखिचन्द्रकमक्षिकादि। गृह्णाति तद्वद् अबुधः खलु मोहदोषाद्बुद्ध्या विचित्रम् अवगच्छति संस्कृतं हि॥

6.105मोहं प्रतीत्य यदि कर्म विना न मोहाद्भूतं तद् इत्य् अबुध एव परेति नूनम्। सद्बुद्धिभास्करविहीनघनान्धकारोविद्वांस् तु शून्यम् अवगच्छति मुच्यते च॥

6.106न तत्त्वतश् चेत् खलु सन्ति भावास्तेषाम् असत्त्वं व्यवहारतो ऽपि। स्याद् एव वन्ध्यातनयस्य यद्वत्स्वभावतः सत्त्वम् अतो ऽस्ति तेषाम्॥

6.107केशादयस् ते न हि नाम जाताये तैमिरादेर् विषयं प्रयान्ति। त एव तावत् खलु चोदनीयाःपश्चाद् अविद्यातिमिरानुजाताः॥

6.108स्वप्नं सगन्धर्वपुरं मरीच्यांकम् इन्द्रजालं प्रतिबिम्बकादि। पश्यस्य् अजातान् यदि तत् कथं तेतुल्ये ऽप्य् असत्त्वेन तु तन् न युक्तम्॥

6.109एते न तत्त्वेन यथैव जातान वापि वन्ध्यासुतवन् न यान्ति। लोकस्य यद् दर्शनगोचरत्वंतस्माद् अनैकान्तिकम् एतद् उक्तम्॥

6.110(14)स्वेनात्मना जन्म न तत्त्वतो ऽस्तिवन्ध्यासुतस्यापि न लोकतो ऽपितथास्वभावेन न लोकतो ऽमीजाता न तत्त्वेन च सर्वभावाः॥

6.111धर्मान् जगादादित एव शान्तान्अतः प्रकृत्या परिनिर्वृतांश् च। शास्ता वियुक्तान् उदयेन सर्वान्यतस् ततो नास्ति सद् एव जन्म॥

6.112घटादयः सन्ति न तत्त्वतो ऽमीलोकप्रसिद्ध्या तु यथा भवन्ति। भावा भविष्यन्ति तथैव सर्वेस्यान् नैव वन्ध्यासुतवत्प्रसङ्गः॥

6.113अहेतुतश् चेश्वरकारणादेःस्वस्मात् परस्मात् द्वयतश् च यस्माद्। उत्पद्यमाना न हि सन्ति भावास्तस्मात् प्रतीत्यप्रभवं प्रयान्ति॥

6.114प्रतीत्यभावप्रभवेन शक्यान कल्पनाः कल्पयितुं यद् एताः। तस्मात् प्रतीत्योदययुक्तिर् एषाकुदृष्टिजालं सकलं छिनत्ति॥

6.115स्युः कल्पना वस्तुनि विद्यमानेपरीक्षितं वस्तु यथा च नास्ति। विनेन्धनं नास्ति यथैव वह्निस्तद्वद् विना वस्तु भवन्ति नैताः॥

6.116या कल्पनानां विनिवृत्तिर् एतत्फलं विचारस्य बुधा वदन्ति। पृथग्जनाः कल्पनयैव बद्धाअकल्पयन् मुक्तिम् उपैति योगी॥

6.117न वादलोभाद् विहितो विचारस्तत्त्वं तु शास्त्रे कथितं विमुक्त्यै। व्याख्यायमाने यदि नाम तत्त्वेभिदां गतान्य् अन्यमतान्य् अदोषः। 6.118स्वदृष्टिरागो ऽपि हि कल्पनैवतथान्यदृष्टाव् अपि यश् च रोषः। (15)विधूय रागं प्रतिघं च तस्माद्विचारयन् क्षिप्रम् उपैति मुक्तिम्॥

6.119सत्कायदृष्टिप्रभवान् अशेषान्क्लेशांश् च दोषांश् च धिया विपश्यन्। आत्मानम् अस्या विषयं च बुद्ध्वायोगी करोत्य् आत्मनिषेधम् एव॥

6.120आत्मा तीर्थ्यैः कल्प्यते नित्यरूपोऽकर्ताभोक्ता निर्गुणो निष्क्रियश् च। कंचित् कंचिद् भेदम् आश्रित्य तस्यभेदं याताः प्रक्रियास् तीर्थिकानाम्॥

6.121इत्थंभूतस्यात्मनो नास्ति सत्त्वंनाहंकारस्याश्रयश् चैष युक्तः। वन्ध्यापुत्रस्येव जातेर् वियोगान्नो संवृत्यापीष्यते सत्त्वम् अस्य॥

6.122शास्त्रे शास्त्रे ये ऽस्य तीर्थ्यैर् विशेषानिर्दिश्यन्ते तान् अजातत्वहेतुर्। यस्मात् सर्वान् बाधते स्वप्रसिद्धःसन्त्य् अस्यातो नापि सर्वे विशेषाः॥

6.123स्कन्धेभ्यो ऽन्यो विद्यते नात आत्माहित्वा स्कन्धांस् तद्ग्रहस्याप्रसिद्धेः। लोकस्याहंकारबुद्धेर् अपीष्टोनैवाधारो ऽतद्विदाम् आत्मदृष्टेः॥

6.124तिर्यक्तो ये कल्पशः संप्रवृद्धानित्याजातं ते ऽपि पश्यन्ति नैनम्। दृष्ट्वा तेषाम् अप्य् अहंकारवृत्तिंस्कन्धेभ्यो ऽन्यस् तेन नात्मास्ति कश्चित्॥

6.125स्कन्धा एवालम्बनं त्व् आत्मदृष्टेःस्कन्धेभ्यो ऽन्यस्यात्मनः सिद्ध्यभावात्। स्कन्धान् पञ्चाप्य् एक इच्छन्ति केचिच्चित्तं त्व् एकं निश्रयायात्मदृष्टेः॥

6.126स्कन्धा आत्मा चेद् अतस् तद्बहुत्वाद्आत्मानः स्युस् ते ऽपि भूयांस एवम्॥

(16)द्रव्यं चात्मा प्राप्नुयात् तद्दृशश् चद्रव्ये वृत्तौ वैपरीत्यं च न स्यात्॥

6.127आत्मोच्छेदी निर्वृतौ स्याद् अवश्यंनाशोत्पादी निर्वृतेः प्राक् क्षणेषु। कर्तुर् नाशात् तत्फलाभाव एवभुंजीतान्येनार्जितं कर्म चान्यः॥

6.128न स्याद् दोषः सन्ततिस् तत्त्वतश् चेद्उक्तो दोषः सन्ततेः प्राग्विचारे। स्कन्धा नात्मा नापि चित्तं च तस्माद्इतो लोकस्यान्तवत्त्वाद्यभावात्॥

6.129आत्माभावं पश्यतो योगिनश् चभावाभावः स्यादवश्यं तदा ते। नित्यात्मा चेत् क्षिप्यते ते तदानींस्कन्धाश् चित्तं वा भवेन् नात आत्मा॥

6.130रूपादीनां नैव तत्त्वं गतं स्याद्आत्माभावं पश्यतो योगिनस् ते। रागादीनां रूपम् आलम्ब्य वृत्तेःस्याद् उत्पत्तिस् तत्स्वरूपाविबोधात्॥

6.131स्कन्धा आत्मेत्य् उक्तवान् येन शास्तास्कन्धा एवात्मेति तस्मान् मतश् चेत्। स्कन्धेभ्यो ऽन्यस्यात्मनो ऽसौ निषेधोरूपं नात्मेत्यादिसूत्रान्तरोक्तेः॥

6.132रूपं नात्मा वेदना नो न संज्ञानो संस्कारा नापि विज्ञानम् उक्तम्। सूत्रे ऽन्यस्मिन् येन तस्मान् न हीष्टःस्कन्धा एवात्मेति सूत्रोपदेशः॥

6.133स्कन्धा आत्मेत्य् उच्यमाने समूहःस्कन्धानां स्यान् नैव तु स्कन्धरूपः। नो नाथत्वं नो दमः साक्षिता वातस्यासत्त्वात् स्याद् अतो नो समूहः॥

6.134कूटस्थानां स्याद् रथत्वं तदानींतस्याङ्गानां तुल्य आत्मा रथेन। (17)स्कन्धांश् चोपादाय सूत्रे निरुक्तस्तस्मान् नात्मा स्कन्धसंहातमात्रम्॥

6.135संस्थानं चेद् रूपिणां तस्य सत्त्वात्तेषाम् एवात्मेति संज्ञा तव स्यात्। चित्तादीनां संहतेर् आत्मता तुन स्याद् यस्मात् संनिवेशो ऽस्ति नैषाम्॥

6.136नोपादातुश् चैकता युक्तरूपास्वोपादानैः कर्तृकर्मैकतैवम्। स्यात् कर्तासन् कर्म चास्तीति चेद् धीर्नो कर्तारं यद् विना नास्ति कर्म॥

6.137भूम्यम्बुतेजांसि समीरणं चविज्ञानम् आकाशम् इति प्रतीत्य। धातून् षड् आत्मा मुनिनोपदिष्टःस्पर्शाश्रयां षट् च स चक्षुरादीम्॥

6.138धर्मान् उपादाय स चित्तचैत्तान्निरुच्यते येन ततो न तत्त्वम्। तेभ्यो ऽस्य नो संहतिमात्रता चतस्माद् अहंकारमतिर् न तेषु॥

6.139नित्यात्मा च क्षिप्यते ऽनात्मबोधेनाहंकारस्याश्रयश् चायम् इष्टः। आत्माभावज्ञेन किं तत् स्वदृष्टेर्उत्खातश् चेत्य् उच्यते ऽतीव चित्रम्॥

6.140पश्यन्न् अहिं छिद्रगतं स्वगेहेगजो ऽत्र नास्तीति निरस्तशङ्कः। जहाति सर्पाद् अपि नाम भीतिम्अहो हि नामार्जवता परस्य॥

6.141स्कन्धेष्व् आत्मा विद्यते नैव चामीसन्ति स्कन्धा नात्मनीतीह यस्मात्। सत्य् अन्यत्वे स्याद् इयं कल्पना वैतच् चान्यत्वं नास्त्य् अतः कल्पनैषा॥

6.142इष्टो नात्मा रूपवान् नास्ति यस्माद्आत्मा मत्वर्थीययोगोहि नातः। (18)भेदे गोमान् रूपवान् अप्य् अभेदेतत्त्वान्यत्वे रूपतो नात्मनः स्तः॥

6.143रूपं नात्मा रूपवान् नैव चात्मारूपे नात्मा रूपम् आत्मन्य् असच् च। स्कन्धान् एवं विद्धि सर्वांश् चतुर्धाविंशत्य् अंशा एत इष्टाः स्वदृष्टेः॥

6.144एतानि तानि शिखराणि समुद्गतानिसत्कायदृष्टिविपुलाचलसंस्थितानि। नैरात्म्यबोधकुलिशेन विदारितात्माभेदं प्रयाति सह तैर् अपि दृष्टिशैलः॥

6.145इच्छन्त्य् एके पुद्गलं द्रव्यसन्तंतत्त्वान्यत्वानित्यनित्याद्यवाच्यम्। षड्विज्ञानज्ञेयता चेष्यते ऽस्यसो ऽहंकारस्यश्रयो हीष्यते च॥

6.146नैवावाच्यं वस्तुसत् संप्रतीतंयच् चित्तस्यावाच्यतां नैषि रूपात्। आत्मा कश्चिद् वस्तुसिद्धो यदि स्यान्नावाच्यः स्याच् चित्तवत् सिद्धरूपः॥

6.147यः स्कन्धेभ्यो ऽवाच्यतां यात आत्मासत्त्वं सिद्धं स्वात्मना तस्य मा गाः। वस्तुत्वेनासिद्धरूपो घटस् तेरूपादिभ्यो ऽवाच्यतां येन यातः॥

6.148विज्ञानं ते स्वात्मतो ऽनन्यद् इष्टंरूपादिभ्यो भिन्नरूपं मतं च। वस्तुन्य् एते द्वे गती नाम दृष्टेनास्त्य् आत्मातो वस्तुधर्मैर् वियोगात्॥

6.149नाहंकारस्याश्रयो वस्तु तस्मान्नान्यः स्कन्धेभ्यो ऽपि न स्कन्धरूपः। स्कन्दाधारो नैव नैवैष तद्वान्स्कन्धांस् तूपादाय यात्य् एष सिद्धिम्॥

6.150स्वाङ्गेभ्य इष्टो न रथो यथान्योन चाप्य् अनन्यो न च नाम तद्वान्॥

(19)नाङ्गेषु नाङ्गान्य् अपि तत्र नापिसंघातमात्रं न च सन्निवेशः॥

6.151संहातमात्रं हि रथो यदि स्यात्कूटस्थितेष्व् एव भवेद् रथत्वम्। संस्थानमात्रं च रथो न युक्तःसन्त्य् अङ्गिनाङ्गानि विना न यस्माद्॥

6.152संस्थानम् अङ्गेषु यथा पुराभूत्प्रत्येकशस् ते रथतां गतेषु। तथैव चेन् नास्ति रथो ऽधुनापिविश्लिष्टभूतेषु यथैव तेषु॥

6.153संस्थानभेदो यदि चाधुनास्तिचक्रादिकस्येह रथत्वकाले। गृह्येत नामैष न चैतद् अस्तिसंस्थानमात्रं न रथो ऽस्ति तस्मात्॥

6.154न चाङ्गवृन्दस्य स संनिवेशोवृन्दं न किंचित् तव येन नाम। न नाम किंचित् खलु यत् कथं तत्संस्थानम् आश्रित्य भविष्यतीह॥

6.155यथेष्टम् एतत् तव तद्वद् एवहेतोर् असत्यस्य समाश्रयेण। असत्यरूपं खलु कार्यजातम्उत्पद्यते सर्वम् अपीत्य् अवैहि॥

6.156एतेन रूपादिषु कुम्भबुद्धिस्तथास्थितेष्व् इत्य् अपि नैव युक्तम्। रूपादयश् चापि न सन्त्य् अजातास्तेषां न संस्थानम् अतो ऽपि युक्तम्॥

6.157न तत्त्वतो नैव च लोकतश् चस सप्तधा यद्य् अपि याति सिद्धिम्। स्वाङ्गान्य् उपादाय विना विचारंप्रज्ञप्यते लोकत एव चैषः॥

6.158अङ्गी स एवावयवी स कर्तारथः स एवेति जने निरुक्तिः। सिद्धो ऽप्य् उपादातृतया जनानांमा संवृतिं नाशय लोकसिद्धाम्॥

6.159(20)यः सप्तधा नास्ति कथं तु स स्याद्इत्य् अस्य सत्तां लभते न योगी। तत्त्वावतारो ऽपि सुखेन वातइतीष्यताम् एवम् इहास्य सिद्धिः॥

6.160सत्त्वं रथस्यास्ति न चेत् तदानींविनाङ्गिनाङ्गान्य् अपि सन्ति नास्य। दग्धे रथे ऽङ्गानि यथा न सन्तिधीवह्निदग्धे ऽङ्गिनि तद्वद् अङ्गम्॥

6.161आत्माप्य् उपादातृतया तथेष्टःस्कन्धान् उपादाय जगत्प्रतीत्या। धातूंस् तथा चायतनानि षड्ढाकर्माप्य् उपादानम् असौ च कर्ता॥

6.162नानित्यता चास्य न नित्यता चन जायते नश्यति नैव चायम्। न शास्वतत्वादि च विद्यते ऽस्यतत्त्वं न चान्यत्वम् अवस्तुसत्त्वात् 6.163अयं स आत्मा जगतां प्रवृत्तायस्मिन् अहंकारमतिः सदैव। यत् तस्य तस्मिन् ममकारबुद्धिर्उदेति मोहाद् अविचारबुद्ध्या॥

6.164अकर्तृकं कर्म च नास्ति यस्माद्आत्मानम् आत्मीयम् अतो विना ऽसत्। आत्मानम् आत्मीयम् अतः स शून्यंपश्यन् विमुक्तिं समुपैति योगी॥

6.165घटपटकटसेनाः काननं पङ्क्तिवृक्षागृहशकटमठाद्या ये च केचित् पदार्थाः। व्यवहरति जनो ऽयं यैस् तथा तान् प्रतीहिविवदति स मुनीन्द्रो यन् न लोकेन सार्द्धम्॥

6.166अवयवगुणरागा लक्षाणानीन्धनाद्याअवयविगुणिरक्ता लक्ष्यम् अग्न्यादयो ऽर्थाः। विहितरथविचारात् सप्तधा सन्ति नैतेसति तु तदितरस्मिन् सन्ति लोकप्रसिद्ध्या॥

6.167जनयति यदि हेतुर् जन्यम् एवं स हेतुर्न जनयति फलं चेत् तद्विनाहेतुकः स्यात्। फलम् अपि सति हेतौ जायते येन तस्मात्कथय भवतु पूर्वं किं कुतो यद् यतः स्यात्॥

6.168(21)जनयति यदि हेतुः प्राप्य कार्यं तदा तेन जनकफलभेदः स्यात् तयोर् ऐक्यशक्तेः। पृथग् अयम् अविशिष्टो ऽहेतुभिः स्याच् च हेतुर्द्वयम् इदम् अवधूयान्यासती कल्पना च॥

6.169फलम् अथ तव हेतुर् नो करोतीत्य् अतो ऽसत्फलम् इति फलहीनो ऽहेतुको सन् न हेतुः। द्वयम् इदम् अपि मायासंनिभं येन तस्माद्भवति न मम दोषो लौकिकाः सन्ति चार्थाः॥

6.170दूष्यं विदूषयति दूषणम् आप्य चैतद्अप्राप्य चेति ननु चैष तवापि दोषः। स्वं पक्षम् एव विनिहंसि वदन् यदैवंदूष्यं तदासि न हि दूषयितुं समर्थः॥

6.171जात्यन्तरैः स्ववचने ऽपि समप्रसङ्गैर्न्यायं विना ऽपवदसे सकलान् पदार्थान्। यस्मात् ततो न खलु सज्जनसंमतो ऽसिवैतण्डिको ऽसि च यतो ऽस्ति न ते स्वपक्षः॥

6.172अप्राप्य दूषयति दूषणम् एव यस्यप्राप्याथ दूष्यम् इति वा नियमेन पक्षः। स्यात् तस्य दोष उदितो ऽयम् अयं तु पक्षोनास्तीति नैष मम सम्भवति प्रसङ्गः॥

6.173दृष्टा यथा ग्रहणकादिषु ते विशेषाआदित्यमण्डलगताः प्रतिबिम्बके ऽपि। नाप्राप्य चाप्य च रविं प्रतिबिम्बजातंयुक्तं प्रतीत्य च भवेद् व्यवहारमात्रम्॥

6.174यद्वद् व्यलीकम् अपि तत् स्वमुखोपशोभा-संपादने भवति तद्वद् इहाप्य् अवैहि। हेतोः स्वसाध्यगतम् इत्य् उपपत्तिहीनात्प्रज्ञामुखोपरचनं प्रति दृष्टशक्तेः॥

6.175प्राप्त्यादियुक्त्युपनयो हि भवेद् यदि स्याद्धेतुः स्वसाध्यगमकः खलु वस्तुसिद्धः। (22)साध्यस्वरूपम् अपि वस्तुत एव गम्यम्एतच् च नास्ति तव केवलम् एव खेदः॥

6.176निर्वस्तुका गमयितुं सकलाः पदार्थाःशक्या यथातिसुकरं न तथा स्वभावः। शक्तः सुखेन खलु बोधयितुं परेषांलोकं किम् अङ्ग लपसीह कुतर्कजालम्॥

6.177शेषं च दूषणम् अवेत्य पुरोपदिष्टंप्राप्त्यादिपक्षपरिहारकृते ऽत्र देहि। वैतण्डिकत्वम् अपि नास्ति यथा तथोक्तंप्राग् एव शेषम् अवगच्छ दिशानयैव॥

6.178नैरात्म्यम् एतद् द्विविधं निरुक्तंधर्मात्मभेदेन जगद्विमुक्तेः। तद् एव भित्वा बहुशो ऽपि भूयस्तथा विनेयेभ्य उवाच शास्ता॥

6.179शून्यताः षोडशाख्याय सप्रपञ्चाः समासतः। चतस्रः पुनर् आख्याता महायाने च ता मताः॥

6.180चक्षुर् वै चक्षुषा शून्यम् अस्यैषा प्रकृतिर् यतः। एवं श्रोत्रं मनो जिह्वा घ्राणं कायश् च कथ्यते॥

6.181अकूटस्थाविनाशित्वम् उपादायास्वभावता। या षण्णां चक्षुरादीनां सा मता ऽध्यात्मशून्यता॥

6.182रूपं रूपेण वै शून्यम् अस्यैषा प्रकृतिर् यतः। एवं शब्दा रसा गन्धा धर्माः स्प्रष्टव्यम् एव च॥

6.183रूपादेर् निःस्वभावत्वं बहिर्धाशून्यता मता। उभयोर् अस्वभावत्वं बहिर्धाध्यात्मशून्यता॥

6.184(23)धर्माणां निःस्वभावत्वं शून्यतेत्य् उच्यते बुधैः। सा चापि शून्यता शून्या शून्यतारूपतो मता॥

6.185शून्यता शून्यताख्या या शून्यताशून्यता मता। शून्यता भावबुद्धीनाम् उक्ता ग्राहनिवृत्तये॥

6.186सत्त्वभाजनलोकस्य निःशेषव्यापकत्वतः। अप्रमाणोपमानेन पर्यन्ताभावतो दिशाम्॥

6.187महत्त्वं दिग्भिर् एवासां दशानाम् अपि शून्यता। या महाशून्यता सोक्ता महाग्राहनिवृत्तये॥

6.188परमार्थो हि निर्वाणं परम् एतत् प्रयोजनम्। तस्य या शून्यता तेन सा परमार्थशून्यता॥

6.189निर्वाणे भावबुद्धीनां भावग्राहनिवृत्तये। देशिता परमार्थज्ञैः शून्यता पारमार्थिका॥

6.190धातुत्रयं निरुक्तं वै संस्कृतं प्रत्ययोदयात्। तस्य या शून्यता तेन सोक्ता संस्कृतशून्यता॥

6.191असंस्कृतं न यस्यैता उत्पादस्थित्यनित्यताः। तेन या शून्यता तस्य सोक्ता ऽसंस्कृतशुन्यता॥

6.192अन्तो न विद्यते यस्य तद् अत्यन्तं निरुच्यते। तस्य तेनैव शून्यत्वं कथ्यते ऽत्यन्तशून्यता॥

6.193आदिर् अवरम् अन्तो ऽग्रं तदभावेन कथ्यते। संसारो ऽनवराग्रो हि गत्यागतिवियोगतः॥

6.194स्वप्नाभस्य भवस्यास्य या तेनैव वियुक्तता। शून्यतानवराग्रेति सैषा शास्त्रे निरुच्यते॥

6.195अवकारो ऽवकिरणं छोरणं हि निरुच्यते। न त्यागो ऽनवकारस् तु छोरणं यन् न कस्यचित्॥

6.196तेनैवानवकारेण या तस्यैव हि शून्यता। शून्यतानवकाराख्या तस्माद् एषा निरुच्यते॥

6.197शिक्षैः प्रत्येकबुद्धैश् च बोधिसत्वैस् तथागतैः। स्वभावः संस्कृतादीनां यतो नैव कृतस् ततः॥

6.198स्वभावः संस्कृतादीनां प्रकृतित्वेन कथ्यते। तयैव शून्यता तस्या या सा प्रकृतिशून्यता॥

6.199(24)धातवो ऽष्टादश स्पर्शाः षट् तज्जा वेदनाश् च षट्। रूपिणो ऽरूपिणो धर्माः संस्कृतासंस्कृतास् तथा। 6.200शून्यता सर्वधर्माणां या तेषां तैर् वियुक्तता। रूपणादेर् अभावो यः सा स्वलक्षणशून्यता॥

6.201रूपणालक्षणं रूपं वेदनानुभवात्मिका। निमित्तोद्ग्रहणं संज्ञा संस्कारास् त्व् अभिसंस्कृतिः॥

6.202विषयं प्रति विज्ञप्तिर् विज्ञानस्य स्वलक्षणम्। दुःखस्वलक्षणाः स्कन्धा धात्वात्माशीविषं मतम्॥

6.203आयद्वारतयोक्तानि बुद्धैर् आयतनानि च। यः प्रतीत्यसमुत्पादः स सामग्रीस्वलक्षणः॥

6.204दानपारमिता त्यागः शीलं चादाहलक्षणम्। अकोपलक्षणा क्षान्तिः वीर्यस्य त्व् अनवद्यता॥

6.205संग्रहलक्षणं ध्यानं प्रज्ञा चासङ्गलक्षणा। षण्णां पारमितानां वै लक्षणं कथितं त्व् इदम्॥

6.206ध्यानानि चाप्रमाणानि ये चारूप्याश् तथा परे। अकोपलक्षणा एत उक्ताः सम्यक्प्रजानता॥

6.207सप्तत्रिंशद् बोधिपक्ष्या नैर्याणिकस्वलक्षणाः। शून्यताया विविक्तत्वं लक्षणं नोपलम्भनात्॥

6.208शान्तता त्व् अनिमित्तस्य दुःखामोहस् तु लक्षणम्। तृतीयस्य विमोक्षाणां लक्षणं तु विमोचनम्॥

6.209सुविनिश्चितरूपाणि बलानि कथितानि च। सुप्रतिष्ठितरूपाणि वैशारद्यानि तायिनः॥

6.210प्रतिभानाद्यनाच्छेदलक्षणाः प्रतिसंविदः। जगद्धितोपसंहारो महामैत्री निरुच्यते॥

6.211महाकृपा परित्राणं दुःखिनां मुदिता खलु। प्रामोद्यलक्षणोपेक्षा ज्ञेयासंकीर्णलक्षणा॥

6.212बुद्धस्यावेणिका धर्मा दश चाष्टौ च ये मताः। तैर् अहार्यो यतः शास्ता ततो ऽहार्यस्वलक्षणाः॥

6.213(25)सर्वाकारज्ञताज्ञानं मतं प्रत्यक्षलक्षणम्। अन्यत् प्रादेशिकत्वेन न प्रत्यक्षम् इतीष्यते॥

6.214यल् लक्षणं संस्कृतानां यच् चासंस्कृतलक्षणम्। तस्य तेनैव शून्यत्वं सा स्वलक्षणशून्यता॥

6.215अस्थितो वर्तमानो ऽयम् अतीतानागतं न सत्। यत्रैते नोपलभ्यन्ते ऽनुपलम्भः स उच्यते॥

6.216या तस्यानुपलम्भस्य तत्स्वरूपवियुक्तता। साकूटस्थाविनाशेनानुपलम्भाख्यशून्यता॥

6.217नास्ति सांयोगिकं रूपं भावानां प्रत्ययोदयात्। संयोगस्य तु तेनैव शून्यताभावशून्यता॥

6.218उच्यन्ते भावशब्देनपञ्चस्कन्धाः समासतः। तैर् एव शून्यता तेषां या सोक्ता भावशून्यता॥

6.219अभावो ऽसंस्कृता धर्मा निर्दिश्यन्ते समासतः। तेनाभावेन शून्यत्वं तस्यैवाभावशून्यता॥

6.220प्रकृतेर् निःस्वभावत्वं स्वभावाख्या तु शून्यता। प्रकृतिर् न कृतेत्य् एवं स्वभाव इति कथ्यते 6.221उत्पादे ऽपि हि बुद्धानाम् अनुत्पादे ऽपि भावतः। शून्यता सर्वभावानां परो भावः प्रकीर्तितः॥

6.222भूतकोटिस् तथात्वं च सा परभावशून्यता। प्रज्ञापारमितानीताव् इत्य् एताः संप्रकीर्तिताः॥

6.223इति मतिकिरणस्फुटावभासःस्वकरगतामलकं यथैव बुद्ध्वा। त्रिभवम् इदम् अशेषम् आद्यजातंव्यवहृतिसत्यवशान् निरोधम् एति॥

6.224जनयति करुणां जगत्य् अनाथेभवति निरोधगताशयः सदैषः। जयति च सकलान् धियात ऊर्ध्वंसुगतवचः प्रभवात् स मध्यबुद्धान्॥

6.225(26)जिनगुणजलधेः परं स पारंव्रजति पुरस्कृत एष जन्मिहंसैः। शुभपवनबलेन राजहंसःपृथुसितसंवृतितत्त्वजातपक्षः॥

6.226(27)