चतुः शतिका

आर्यदेवस्य तन्नामनोपलब्धग्रन्थभागाः चतुः शतिका १.२१. शत्रुवत् यान्ति ते काला नियमेन क्षणादयः।
सर्व्वथा तेन ते रागः शत्रुभूतेषु तेषु मा॥२१॥

१.२२. विप्रयोगभयाद्गेहान्न निर्गच्छमि [दुर्म्मते]।
[विविच्य] नाम कर्तव्यं कुर्य्याद्दण्डेन को बुधः॥२२॥

२.७. शरीरं सुचिरेणापि सुखस्य स्वं न जायते।
परेणाभिभवो नाम स्वभावस्य न युज्यते॥३२॥

२.८. अग्रयाणां मानसं दुःखमितरेषां शरीरजम्।
दुःखद्वयेन लोकोयमहन्यहनि हन्यते॥३३॥

२.९. कल्पनायाः सुखं वश्यं वश्याद्दुःखस्य कल्पना।
अतोस्ति किञ्चित् सर्व्वत्र न दुःखाद्वलमन्तरम्॥३४॥

२.१०. कालो यथा यथा याति दुःखवृद्धिस्तथ तथा।
तस्मात् कडेवरस्यास्य परवदृश्यते सुखम्॥३५॥

२.११. व्याधयोऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः।
तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः॥३६॥

२.१२. सुखस्य वर्द्धमानस्य यथा दृष्टो विपर्ययः।
दुःखस्य वर्द्धमानस्य तथा नास्ति विपर्ययः॥३७॥

३.१३. प्रतिनासिकया तुष्टिः स्याद्धीनाङ्गस्य कस्यचित्।
रागोऽशुचिप्रतीकारे पुष्पादाविष्यते तथा॥७३॥

३.२४. शुचि नाम च तद्युक्तं वैराग्यं यत्र जायते।
न च सोऽस्ति क्वचिद्भावो निययाद् रागकारणम्॥७४॥

३.२५. अनित्यमशुभं दुःखमनात्मेति चतुष्टयम्।
एकस्मिन्नेव सर्वाणि सम्भर्वान्त समासतः॥७५॥

४.१. अहं ममेति वा दर्पः सतः कस्य भवेद् भवे।
यस्मात् सर्व्वेऽपि सामान्या विषयाः सर्व्व देहिनाम्॥७६॥

४.२. गणदासस्य ते दर्पः षड्भागेन भृतस्य कः।
जायतेऽधिकृते कार्य्यमायत्तं यत्र तत्र वा॥७७॥

४.१४. ऋषीणां चेष्टितं सर्व्व कुर्वीत न विचक्षणः।
हीनमध्यविशिष्टत्वं यस्मात्तेष्वपि विद्यते॥८९॥

४.१५. पुत्रवत् पालितो लोकः पुरतः पार्थिवैः शुभैः।
मृगारण्यीकृतः सोऽद्य कलिधर्मसमाश्रितैः॥९०॥

४.१६. छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते।
अन्येषामपि चौराणां तत् प्रागेव न विद्यते॥९१॥

४.१७. सर्व्वस्वस्य परित्यागो मद्यादिषु न पूजितः।
आत्मनोऽपि परित्यागः किं मन्ये पूजितो रणे॥९२॥

४.२३. विप्रोऽपि कर्म्मना शूद्रः केन मन्ये न जायते॥९८॥

४.२४. पापस्यैश्वर्य्यवद्राजन् संविभागो न विद्यते।
विद्वान्नाम परस्यार्थे कः कुर्य्यादायतोवधं॥९९॥

४.२५. दृष्ट्वा समान् विशिष्टांश्च परांश्छक्तिसमन्वितान्।
ऐश्वार्यजनितो मानः सतां हृदि न तिष्ठति॥१००॥

५.१. न चेष्टा किल बुद्धानामस्ति काचिदकारणा।
निःश्वासोऽपि हितायैव प्राणिनां संप्रवर्त्तत्ते॥१०१॥