लोकेशः शून्यतायाम्

शून्यता

यथा एक तैमिरिकः केश-मशकादि पश्यति
यत् वास्तविकतया न भवति …।
तस्याज्ञान-अपनयनार्थम्
एको ऽतैमिरिक आगच्छति, वदति च -

भोः किमपि केशमशकादि नास्ति यत् भवान् पश्यन् अस्ति ।

तदा वस्तुतः यदि तैमिरिकः चिन्तयति यत्

एतत् केशमशकादि नास्ति यद् अहं पश्यामि

तर्हि सः तैमिरिकः मूर्ख एव ।

यदा सः तैमिरिकः किञ्चिदपि केशमशकादि न उपलभते
यस्य भावः वा अभावो स्यात्
तदैव सः स्वस्थः
तदैव सः शून्यतायाः अर्थम् अवगच्छति ।

केशमशकादिनां संपूर्णानुपलब्धिः एव शून्यता ।
सैव निःस्वभावता ।
भावानां सूपर्णतया अग्रहणम् इति ।