शिक्षासमुच्चय कारिका

शिक्षासमुच्चय कारिका यदा मम परेषां च भयं दुःखं च न प्रियम्।
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥१॥

दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता।
श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा॥२॥

(शिक्षादरो) महायानाद्‍बोधिसत्त्वस्य संबरः।
मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत्॥३॥

आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च।
उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम्॥४॥

परिभोगाय सत्त्वानामात्मभावादि दीयते।
अरक्षिते कुतो भोगः कि दत्तं यन्न भुज्यते॥५॥

तस्मात्सत्वोपभोगार्थमात्मभावादि पालयेत्।
कल्याणमित्रानुत्सर्गात् सूत्राणां च सदेक्षणात्॥६॥

तत्रात्मभावे का रक्षा यदनर्थविवर्जनम्।
केनैतल्लभ्यते सर्वं निष्फलस्पन्दवर्जनात्॥७॥

एतत्सिध्येत्सदा स्मृत्या स्मृतिस्तीव्रादराद्‍भवेत्।
आदरः शममाहात्म्यं ज्ञात्वातापेन जायते॥८॥

समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः।
शमाच्च न चलेच्चित्तं बाह्यचेष्टा निवर्तनात्॥९॥

सर्वत्रापचलो मन्दमतिस्निग्धाभिभाषणात्।
आवर्जयेज्जनं भव्यमादेयश्चापि जायते॥१०॥

अनादेयं तु तं लोकः परिभूय जिनांकुरम्।
भस्मच्छन्नो यथा वन्हिः पच्येत नरकादिषु॥११॥

रत्नमेघे जिनेनोक्तस्तेन संक्षेपसंवरः।
येनाप्रसादः सत्वानां तद्यत्नेन विवर्जयेत्॥१२॥

एषा रक्षात्मभावस्य भैषज्यवसनादिभिः।
आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते॥१३॥

सुकृतारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः।
इति शिक्षापदादस्य भोगरक्षा न दुष्करा॥१४॥

स्वार्थविपाक वैतृष्ण्याच्छुभं संरक्षितं भवेत्।
पश्चातापं न कुर्वीत न च कृत्वा प्रकाशयेत्॥१५॥

लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा।
बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत्॥१६॥

शोधितस्यात्मभावस्यभोगः पथ्‍यो भविष्यति।
सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम्॥१७॥

तृणच्छन्न यथा शस्यं रोगैः सीदति नैधते।
बुद्धांकुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति॥१८॥

आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम्।
संबुद्धोत्तयर्थसारेण यत्नभावे त्वपायगः॥१९॥

क्षमेत श्रुतमेषेत संश्रयेत वनं ततः।
सामाधानाय युज्येत भावयेदशुभादिकम्॥२०॥

भोगशुद्धिं च जानीयात्सम्यगाजीवशोधनात्।
शून्यताकरुणागर्भेचेष्टितात्पुण्यशोधनम्॥२१॥

ग्रहीतारः सुबहवः स्वल्पं चेद मनेन किम्।
न चातितृप्तिजनकं वर्धनीयमिदं ततः॥२२॥

आत्मभावस्य का वृद्धिर्बलानालस्यवर्धनम्।
शून्यताकरुणागर्भाद्दानाद्‍भोगस्य वर्धनम्॥२३॥

कृत्वादावेव यत्नेन व्यवसायाशयौ दृढौ।
करुणां च पुरस्कृत्य यतेत शुभवृद्धये॥२४॥

भद्रचर्याविधिः कार्यो वन्दनादिः सहादरात्।
श्रद्धादीनां सदाभ्यासो मैत्री बुद्धाद्यनुस्मृतिः॥२५॥

सर्वावस्थासु सत्वार्थो धर्मदानं निरामिषम्।
बोधिचित्तं च पुण्यस्य वृद्धिहेतुः समासतः॥२६॥

सिद्धिः सम्यक्प्रहाणानामप्रमादावियोजनात्।
समृत्याथ संप्रजन्येन योनिशश्चिन्तनेन च॥२७॥