समाधिसंभारपरिवर्तः

समाधिसंभारपरिवर्तः लोकनाथाय नमः बोधिचित्तं दृढं कुर्यात् पूर्व कारुण्यशक्तिजम्।
भवभोगसुखेऽसक्तः परिग्रहपराङ्मुखः॥१॥

श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत्।
तद्दिष्टसमयाचारं परिपालितुमुद्यतः॥२॥

कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः।
कायवाक् चित्तसंशुद्धः सिद्धिपात्रं स साधकः॥३॥

समाध्यङ्गसमुद्भूत- संभारपारिपूरितः।
शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः॥४॥

समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा।
जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति॥५॥

तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित्।
तद् भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत्॥६॥

समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये।
समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते॥७॥

शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता।
क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम्॥८॥

कायवाक् चित्तकार्येषु सम्प्रजन्यसमन्वयः।
बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः॥९॥

यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ।
पञ्चावरणहानिश्च युक्तकृद् भक्तमानता॥१०॥

समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा।
संलेखोऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः॥११॥

समाधिसम्भारकृतैर्हि पुण्यैः समाधिं वज्रोपममेतु लोकः। १२, अ ब।
समाधिसम्भारपरिवर्तो महापण्डिताचार्यदीपङ्करश्रीज्ञानपादविरचितः समाप्तः॥

तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-शाक्यमतिना च अनूद्य निर्णीतः॥