॥
विमलरत्नलेखः॥
भारतभाषायाम्विमलरत्नलेखो नाम। भोटभाषायाम्द्रि म मेद् प रिन् पो छे-इ फ्रिन चेस व्य व। गुरुवे नमः। तारादेव्यै नमः॥
(1)महागति(?)कायं दृष्ट्वाबर्द्धयन् बुद्धशासनम्धर्मेण पालयन् राज्यंनयपालो नृपोऽभवत्॥१॥
त्वय पूर्व्वं दानंदश कुशलानि पोषधः। क्षान्तिर्वीर्यञ्चाभ्यस्तमितिदेव त्वमधुना सम्पन्नः॥
२॥
(2)गुरुणामाज्ञांधम्मानुगतं सूत्रादिकञ्चेदम्। भक्त्या शिरसा गृहाणआत्मपरयोर्हितं भवेत्॥३॥
विवर्जयन् सर्व्वसंशयंसिद्ध्ये कुरु महायत्नम्। निद्रालुत्वं तन्द्राञ्च विवर्जयन्नित्यमुद्यमं कुर्या वीर्याय॥४॥
(3)स्मृतिज्ञानाप्रमादेनसदेन्द्रियद्वाराणि रक्षेत्। अहोरात्रं पुनःपुन-श्चित्तसन्तानं परीक्षेत॥
५॥
स्वदोषज्ञानं चक्षुरिव कुर्यात्परदोषज्ञानं त्वन्धवत्। स्मृतिमनहङ्कारंशून्यताञ्च सदा भावयेत्॥६॥
(4)कुर्यात् स्वदोषकीर्त्तनंनापरस्य भ्रान्तिमनुसन्दध्यात्। कीर्त्तयेदपरस्य गुणंआत्मगुणन्तु गोपयेत्॥७॥
त्यजेल्लाभं सत्कारञ्चनित्यमात्मख्यातिं त्यजेत्। मैत्रीं करुणाञ्च भावयेद्बोधिचित्तं स्थिरं कुरु॥८॥
(5)दशाकुशलानि हेयानिसदा श्रद्धा दृढीकार्या। मनागपि प्रियं सन्तोषःकृतानुकम्पा च स्मर्त्तव्यम्॥
९॥
क्रोधो गर्वञ्च प्रहातव्यंकार्या च हीनचित्तता। मिथ्याजीविका विवर्जनीयाधर्मजीविका जीवितव्या॥१०॥
(6)सर्वमामिषं विवर्जयेद्आर्यधनेन (आत्मानं) सम्पन्नं कुर्य्यात्। सदा समाजं त्यजेद्अरण्ये निवसेत्॥११॥
त्यजेद् वाचमसम्बद्धांनित्यं स्यात् शुद्धसंयतः। गुरूपाध्यायदशनेश्रद्धया परिचर्यां कुर्यात्॥१२॥
विशिष्टे पुरुषेधर्मचक्षुषि पुद्गले। आदिकर्म्मिकसत्त्वेषु चशास्तृसंज्ञामुत्पादयेत्॥१३॥
(7)दुःखतप्तानांसर्व्वेषां सत्त्वानाञ्च दर्शने। बोधिचित्तमुत्पाद्यमातृपितापुत्रसंज्ञाञ्चोत्पादयेत्॥१४॥
सर्वं लोककृत्यं त्यक्त्वानित्यं समाधिभावनां कुरु। त्यज पापमित्रंकल्याणमित्रमा_य॥१५॥
(8)दुःशीलभिक्षूणाम्अन्येषां धर्म्महीनानाम्। पापाचाराणाञ्च दर्शनेतेषां निग्रहान्न विरमेत्॥१६॥
सर्व्वेरकल्याणमित्रैःसर्व्वैः पापसहायैः। रत्नत्रये गुरा-वुपाध्याय आचार्ये च श्रद्धाहीनैः॥
१७॥
(9)अकृतज्ञै-रैहिकबुद्धिभिः। परत्राल्पश्रद्धैश्चदिनत्रयातिक्रमेण न वसेत्॥१८॥
दुष्टामशुभां भूमिं परित्यज्ययत्र शुभं गन्तव्यम्। यत्र रागस्तत् परित्याज्यम्अनासक्तं वसेत्॥
१९॥
रागो हि सुगतिमप्रापयन्मोक्षजीवनं छीनत्ति। यत्र कल्याणमित्रं वसतितत्र नित्यं वसेत्॥
२०॥
(10)गुरुं सदाश्रित्यनित्यं सूत्रनिकायमवलोकयेत्। आदौ यदारब्धंप्रथमं तदेव साधयितव्यम्। अन्यथा नोभयं सिध्यति॥२१॥
अन्येषु पापदेशनायांपरमपुण्ये च यतेत। वृत्तानुकूलं लोकंसदा परलोकचित्तञ्च रक्षेत्॥२२॥
(11)यदा चित्तमुन्नतं जायतेतदा गर्वं छिन्द्यात्। अप्रमादविरहेगुरूपदेशः स्मर्त्तव्यः॥
२३॥
लीनचित्ते जातेचित्तोन्नतिमपि प्रशंसेत्। स्मृत्वा प्रज्ञापारमितांनिखिलप्रपञ्चोपशमं कुर्यात्॥२४॥
(12)यदा रागद्वेषविषयो जायतेमायाप्रपञ्चवत् पश्येत्। निन्दावाक्यश्रवणेप्रतिश्रुत्कावज्जानीयात्॥२५॥
(13)कायपीडोद्भवेपूर्वकर्मावलोकयेत्। प्रान्तारण्ये प्रवसन्मृगशववत्॥
२६॥
यत्र केनापि न ज्ञायते[ तत्र] आत्मनात्मानं गोपयेत्। सदेष्टदेवतामाश्रयेत्कामे व्यापादे मिद्धे स्त्याने॥
२७॥
आलस्ये तन्द्रायाञ्च यदा चित्तमुत्पद्यतेतदा स्वपापं गणयेत्। व्रतं हृदि स्मरेद्अनित्यतां मृत्युञ्च भावयेत्॥
२८॥
अन्यस्य पुरतोऽवस्थानकालेशान्तमृजु च भाषेत। भ्रूकुटिमुखेन हास्यं प्रहातव्यं। सदा स्मितेन स्थातव्यंनित्यमन्येषु प्रीतिश्च कार्या॥२९॥
(14)अमात्सर्येण त्यागे प्रीतिं कुर्यात्। नित्यमीर्ष्या प्रहातव्या। अन्यस्य चित्तं रक्षेत्। सर्व्वे वादाः प्रहातव्याः॥
३०॥
परिचयेन विना नूतनेन सङ्गं न कुर्यात्। सदा मन्त्रे समर्थः स्यात्। सदा क्षान्तिमान्अल्पकामश्च सन् सन्तोषं कुर्यात्॥३१॥
(15)चण्डालदाससंज्ञः स्यात्लज्जाज्ञानेऽपत्रपायां। तस्यां परलोकाराधनायाञ्च यतेत। आत्मसंयमं कुर्यात्॥
३२॥
परावज्ञा प्रहातव्याश्रद्धाशीलेन तिष्ठेत्। परोपदेशकरणेकारुण्योपकारचित्तः (तत्) कुर्यात्॥३३॥
(16)बुद्धधर्म्मे श्रद्धांसद्धर्म्मञ्च न जातु त्यजेत्। नित्यं रत्नत्रये श्रद्धांसंसारत्रयं च परिशुद्धं कुर्यात्॥
३४॥
पूर्वं करुणागतोऽहोरात्रं त्रिकृत्वः। प्रसिद्धस्याराधनासप्तकस्यस्कन्धत्रयं गृह्णीयात्॥३५॥
जगद्दुःखनिराकरणकामउदारप्रणिधानं स्थापयेत्। सत्त्वपरिपाकं बोधिञ्चेच्छेत्। सर्वं महाबोधौ परिणमयेत्॥
३६॥
(17)चिरं प्रतिज्ञायसदोद्योगी भवेत्। एवं कृते द्विवर्गःसम्पद्यत आवरणद्वयञ्च क्षीयते॥३७॥
नरदेहलाभः सार्थको भवति। दृष्टधर्म्मे निर्व्वाणं भवति। स्वपरार्थः सम्पद्यते। परमतत्त्वं च प्राप्यते॥
३८॥
(18)निदाघकोकिलपोतः मधुरं कूजतीतिकिं मयूरपोतो न मधुरं कूजति। यद्यपि बहुभिः पण्डितैरुक्तं(तथापि) राज्ञां व्यसनच्छेदाय लिखितमिदम्॥३९॥
_____ कथां श्रेयोऽभिप्रायेण कुरु। अन्यस्मायपि मतिमते जनाय कथय। (19)नित्यं षड्देवताः स्मर शुद्धं व्रतमाचर। राजं धर्म्मेण पालय आत्मानं च क्षमं कुरु॥
४०॥
विमलरत्नलेखो नामस्थविरमहापण्डितदीपङ्करश्रीज्ञानाद्राज्ञे नयपालाय प्रेरिता श्लोकचत्वारिंशत् सम्पूर्णा॥
तस्मिन्नेव काले तेनैव गुरुणापरिवर्त्तकेन भिक्षुणा जयशीलेन च परिवर्तिताश्लोकचत्वारिंशत्॥
(20)