दण्डिकथाकस्मिंश्चिद् देशे
दण्डीत्यभिहितो ब्राह्मणः कश्चित् प्रतिवसति स्म। [स] नितरां दीनोऽशनेन
हीनो [बभूव]। [स च] वसनैर् [अपि] हीनो बभूव। तेन कस्माच्चिद् गृहपतेर्वृषः कश्चिद् धारितः। दिवाभागे स
वृषभं कर्मणि नियोज्य पश्चात् तमादाय च तस्य गृहपतेर्गृहं जगाम। तत्र [गृहे] गृहपतिर्हि भोज्यं
बुभुजे। दण्डिना स च वृषो भवनस्य [अजिर-] मध्ये त्यक्तः।
ऋषभो द्वारान्तरं क्रान्त्वा नष्टो बभूव। स गृहपतिरपि भुक्त्वा तद् भोज्यमुत्तस्थौ।
तत्र [गृहचत्वरे] च वृषं नावलोक्य तेन [गृहपतिना] “वृषभः क्कास्ती"ति दण्डी पप्रच्छे। तेन [दण्डिना] [प्रत्य्-] उक्तम् - “तव गृहे मुक्तः” [इति]। [गृहपतिः पुनर्] उवाच - “त्वया मे पुंगवो
यतस्त्यक्तः [अतस्तं त्वं मे] प्रत्यर्पये” ति। तेन [दण्डिना] उत्तरितम् - “न मया [वृषो] नाशितः” इति। ततस्तौ सहितौ " राज्ञः सकाशं गच्छाव। [ स राजा] आवयोर्न्याय्यत्वम्
अन्याय्यत्वं च विचारयिष्यती” त्युक्त्वा जामतुश्च। [तदा] कस्यचिज् जनान्तरस्य
काश्चिदश्वा [छिन्नबन्धना सर्ता] पलायितवती। तेन [जनान्तरेण] दण्डी [“क्क ममाश्वे"ति] पृष्टः। [दण्डी प्रत्य-] उवाच - “न [मया वृषवत्] तुर्ङ्गमा[ऽपि बन्धनान्] नोचिते” ति। [ततस्] तेन [दण्डिना अश्वागतिरोधार्थ]उपलः कश्चिज् जगृहे
अश्वां [प्रति] निचिक्षिपे च [;] [स चोपलः] अश्वायाः पदमेकमाहत्य
[तद्] बभञ्ज। तेन[जनेन] जगदे - “यतस्त्वया तुरगा
मम मारिताऽतः प्रतिदेहि [मे] ममाऽश्वाम्” [इति]। [दण्डिनोक्तम् -] “कस्य हेतोरश्वां
दास्यामि ?” [इति]। [जनेन] तेनाऽऽकारितम्
- “इहागच्छ। नृपस्य सविधे च व्रजाव। [स] आवयोर्विचारनिष्पत्तिं
करिष्यती"ति। तदा तौ जग्मतुश्च। [ततो वैरिभयात्] स दण्डी पलायितुमारेभे।
[अपसरणावसरे] स च कस्यचित् कुडयस्याधस्ताद् अवपुप्लुवे। तस्य पुरतस्तन्तुवायः कश्चित् तन्तून् संवायासीनः। तस्य [कुविन्दस्य] उपरिष्टात् [दण्डी] पपात। स च तन्तुवायः कालगतः। [ततस्] तन्तुवायस्य भार्यया स दण्डी [करे] दध्रे। [सा] उवाच - “यतस्त्वया मम भर्ता निहतः [अतः] प्रतियच्छ मे भर्तारम्” इति। [दण्डी प्रत्य्-] उवाच - “कथं ते स्वामी मया प्रतिदायिष्यते ?” इति। [सोवाच-] " इत एहि [;] राज्ञः सन्निधिं गच्छाव। तेनावयोर्विचारो निष्पादयिष्यत” इति [. tatastau] जग्मतुः। [तेषां गमन-] मार्गस्य मध्ये काचिद् गम्भीरा नदी बभूव। सलिलस्य तस्य सम्मुख[तटे] सूत्रधरः कश्चिन् मुखेन कुठारमुद्रहन्नागतः। पप्रच्छे स च दण्डिना - “कियज् जलस्य गाम्भीर्यम्” इति। “गभीरताऽस्ति नीरस्ये” ति कथनेन [सूत्रधरस्य] कुठारो जले पपात।
[तक्षा] परशुं च न प्राप। तेन [तक्षणा] दण्डी [हस्ते] कगृहे। [सूत्रधरेणाधिंक्षिप्तो -] “त्वया मे परश्वधः पयसि पातितः " [इति]। तेन [दण्डिना प्रत्य् - ] ऊचे - “न [मयाऽयम्] अस्तः” [इति]। “इहाऽऽयाहि [;] नृपतेः सकाशं च प्रसराव। तेनाऽऽवयोर्निर्णयो विधास्यत” इति वदिंस्वा [तौ] जग्मतुः। [ततस्] ते [सर्वे] गत्वा च नरपतेः सन्निधिं प्रापुः। ते भूभृतश्चरणे शिंरसा प्रणेमुः [,] एकपार्श्वे [च] निषेदुः। ततश्च भूपतिंना ते पप्रच्छिरे - “किंमर्थं यूयमागताः” इति। [तदा] तैः सर्वैर्दण्डिगृहपत्योर्विवादो [राज्ञे] विवृतः। [तद् विवरणमाकर्ण्य] भूपेन दण्डी बभाषे
- “किं त्वया वृषो धारित ?” इतिं। [दण्डी गिरमाददे -] “अथ किंम्” [इति]। [राजोवाच -] “यावत् प्रतियच्छ [वृषभम्]। [तथा]प्रतिदेहि यथा गृहपतिना [पुंगवः प्रत्यर्णणकाले] दृश्यते” [इति]। [दण्डयुवाच - ] “ससम्बोधनं हि न [वृषो गृहपतये प्रति -]दत्तः” [इति]। नराधिपेनोद्धोषितम्
- “यतोऽमुना दण्डिनाऽऽभाषणमन्तरेण वृषभः प्रतिददे [अतोऽस्य] रसनां छिन्धि।
यतो हि गृहस्वामी वृषमागच्छन्तं पश्यन्नपिं न बबन्ध [अतोऽस्य] नयनम् [एकम्] उत्पाटये” ति। गृहपतिंनोचे - “प्रथमतो मम वृषो दण्डिना नाशितः। द्वितीयतो मम नयनापनयनं यतो वरमतो [विवादे] दण्ड्येव जयी भवतु” [इति]। जनेन केनचित् [तुरङ्गमाखामिना] ऊचे - “देव दण्डिना ममाश्वा मारिते” ति। नृपेण दण्डी पप्रच्छे - “कथं त्वयाश्वा निहते” ति। [दण्डी चचक्षे -] " यदाहं पथा गन्तुमारब्धवांस्तदा
[तुरङ्गमा] सनागता। जनेनाऽनेनाऽश्वा [बन्धनान्] न मोचितेति [सा स्वयमुच्छिन्नबन्धना
] तदा प्राप्ता। [तस्या जवनिरोधार्थं] मयाऽश्मा कश्चिदात्तः।
[ग्रावाणं तं] निरत्याश्वा [सा मया] निहता” इति। नरपतिनोचे - “अश्वपतिनाऽश्वा [बन्धनान्] न मोचितेति हेतोरस्य रसनां छिन्धि। दण्डिनोपलो निचिक्षिप इति बाहुम् [अस्यैकं] कृन्धि” [इति]। जनेन तेन [सप्तिपतिना] प्रोक्तम् - “प्रथमतो मम घोटकी हता। द्वितीयतो यतो जिंह्वा मे छेत्स्यते वरमतो दण्डयेव जयी भवतु” [इति]। [ततस्] तन्तुवायस्य भार्यया बभाषे - " भर्ता मे दण्डिना हतः” [इति]। दण्डिना [नृपाय] निवेदितम् - “वर्धिता मम शत्रव इति भीतः [सन्नहं] प्राचीरादवप्लुत्य पलायितवान्। [तेन च] अन्तराले आसीनोऽदृष्टो जनः [कुविन्दो] निहतः” [इति]। नरपतिनोचे - “[तद्] गच्छ, [दण्डिन्,] अस्या एव भर्ता भव” [इति]। तया [तन्तुवायजायया] जगदे - “प्रथमतो मे खामी मृतः। द्वितीयतो यतोऽयं [वैधेयो] धवो [मम] भविष्यति वरमतो दण्डयेव जयी भवतु [निर्णये” इति]। [ततः] सूत्रधरेणोदीरितम् - “यतोऽयं दण्डी मां पृष्टवान् ‘कियज् जलस्य गाम्भीर्यमि’ति [अतो मम] मुखाद् विधृतः कुठारो नीरे पतितः” [इति]। भूपेन मणितम् - “यत् किञ्चिदपि हार्य वस्तु स्कन्धे वहनस्य योग्यमिति हेतोर् [अनेन] यत आनने [परशुर्] ऊढः [अतः] पूर्वम् [अस्य] सूत्रधरस्य दन्तद्वयं भङ्ग्धि। ‘किम् [अस्त्य्] अम्भसो गाम्भीर्यमि’ति यतः [पप्रच्छे] दण्डी [अतोऽस्य] जिह्वां छिन्धि” [इति]। [तदा] सूत्रधरेणोक्तम्
- “प्रथमतो मम परशुर्नष्टः। द्वितीयतो मम रदनभञ्जनं यतस्ततो वरं जयतु दण्डी” [इति]। [एवं] ते सर्वे [स्वस्वोचितां] पृथग् विचारनिष्पत्तिं चाक्रिंरे। दण्डी [च] सर्वापराधेभ्यो मुमुचे इति॥