३५. राजाववादवर्गः

(३५) राजाववादवर्गः धार्मिको राजा स्वर्ग याति भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः।
स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये॥१॥

कः लोभनिर्मुक्तो राजा? नियतं यः करं काले धर्मेण परिभुज्यते।
स राजा लोभनिर्मुक्तो यामानामधिपो भवेत्॥२॥

राज्ञः स्वरूपम् क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः।
स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः॥३॥

अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते।
स राजन्यसभाजेता देवलोकाय कल्प्यते॥४॥

बद्धदर्शी महात्मा यो गुरुपूजक एव च।
अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत्॥५॥

पूर्वे यत् पितृभिर्दत्तं देवानुपदिशन्ति च।
न च हिंसति भूतानि स देवेषूपपद्यते॥६॥

दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः।
स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते॥७॥

नाधार्मिकं धारयति धार्मिकेषु च रक्षति।
स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत्॥८॥

न स्त्रीणां वशगो राजा साधूनां च वसेत् सदा।
स निर्मलमतिर्धीरः सुरलोकोपपत्तये॥९॥

न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु।
सोऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति॥१०॥

को यामानामधिपो? यो धर्मलोभमायाति द्रविणं नैव लप्स्यते।
स लोभमलनिर्मुक्तो यामानामधिपो भवेत्॥११॥

न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः।
स शुद्ध एव विमलो यामानामधिपो भवेत्॥१२॥

कः राजा देवप्रियो भवति? प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः।
प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत्॥१३॥

प्रियस्य तु भवेद् वाक्यं स्तोत्रोत्सवकरं परम्।
आह्लादयित्वा वसुधामन्ते देवोपपत्तये॥१४॥

अविसंवादकं वाक्यं यस्य मेरुरिवाचलम्।
सत्यसोपानमारुह्य देवानामन्तिके गतः॥१५॥

ह्रास-वृद्धी च भूतानामकस्मात् कुरुते हि यः।
स राजा वै परो देवैर्देवलोके च तिष्ठति॥१६॥

मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम्।
स धी-बलाभ्यां संयुक्तो यामानामधिपो भवेत्॥१७॥

त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते।
यस्तत् पूजयते राजा स देवेषूपजायते॥१८॥

कालं नियतदर्शी यः प्रजानां च हिते रतः।
सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः॥१९॥

निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः।
ज्ञानगोचरसम्पूज्यो नियतं देव एव सः॥२०॥

कः स्वर्ग याति ? कौसीद्यदोषरहितो नित्यं दृढपराक्रमः।
नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते॥२१॥

सन्मित्रैः परिवारितो राजा देवाधिपो भवति हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः।
स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत्॥२२॥

नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः।
स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत्॥२३॥

क्रोधहर्षविघाताय न च पापेषु रक्ष्यते।
स पापपङ्कनिधौतः सुरलोकाधिपः सदा॥२४॥

न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा।
स शुद्धधर्मसन्दर्शी विबुधोऽधिकतां व्रजेत्॥२५॥

कः पदमुत्तमं प्राप्नोति? सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते।
धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम्॥२६॥

संसाराद् दीर्घसूत्राद् यस्त्वरितं धर्ममाचरेत्।
स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम्॥२७॥

धर्मेण प्रजापालकः स्वर्गसुखं याति धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः।
स धार्मिकः प्रशस्तात्मा सुरलोके महीयते॥२८॥

दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना।
यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत्॥२९॥

हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च।
स दृष्टिमलनिर्मुक्तो विबुधोऽधिकतां गतः॥३०॥

कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति यो देवतां पूजयति यथा चाह्नि महीपतिः।
स देवपूजितो भूयो देवानामधिपो भवेत्॥३१॥

अनाविलेन मनसा प्रसन्नश्चाधिदारकः।
स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत्॥३२॥

कः शीलवान्? हीयते यो न विषयैः सर्वबालापहारिभिः।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः॥३३॥

अविद्यावर्जकान् नित्यं सेवते यः सुधार्मिकान्।
सद्‍धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि॥३४॥

(व्यापारैः स्वस्थचित्तो यः ) पार्षदालापहारिभिः।
स शीलवान् दिवं याति नित्यं शीलेन रक्षितः॥३५॥

सद्धर्मी राजा एव वसुधाधिपतिः सद्‍व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः।
प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत्॥३६॥

सत्कर्मनिरतस्य राज्ञो भृत्योऽपि शोभते सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि।
जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे॥३७॥

कः राजा देवतुल्यो भवति? हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम्।
सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः॥३८॥

इति राजाववादवर्गः पञ्चत्रिंशः॥