३२. देववर्गः

(३२) देववर्गः सौगतमार्गे चरन्तः पुरुषा देवतुल्याः पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना।
तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः॥१॥

सुगतोक्तो मार्गः सत्यं हि दानं च तथैव मैत्री सत्त्वेषु रक्षा प्रियवादिता च।
सम्यक्त्वदृष्टिर्विमलं मनश्च पन्थानमाहुस्त्रिदिवस्य बुद्धाः॥२॥

शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः।
सुखात् सुखतरं याति ज्योतिर्ज्योतिःपरायणः॥३॥

ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद् यथा।
तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते॥४॥

आचारवान् देवानामन्तिकं व्रजेत् यस्य शुद्धं सदा चित्तं निर्मलं मणिवत् सदा।
स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत्॥५॥

ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम्।
स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत्॥६॥

प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः।
ऋतुस्रोतोऽनुकम्पाश्च देवानामन्तिकं व्रजेत्॥७॥

श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः।
अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्॥८॥

तृणवत् काञ्चनं यस्य कामा यस्य विषोपमाः।
स कामवर्जको धीमान् देवानामन्तिकं व्रजेत्॥९॥

नाकृष्यते मनः कामैर्विषयै रागहेतुभिः।
समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत्॥१०॥

भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः।
यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत्॥११॥

यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी।
स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत्॥१२॥

प्रशस्तकायकर्मान्तो यः पापविरतः सुखी।
स कामविरतो ध्यायी देवानामन्तिकं व्रजेत्॥१३॥

पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः।
न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत्॥१४॥

प्रयत्नवादी यो धर्मे दानशीलसमाधिमान्।
नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत्॥१५॥

सम्यग्बन्धनो येन पाशश्छिन्नो यथाऽसिना।
सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत्॥१६॥

शुभकर्मविपाकेन देवलोके उद्भवः मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः।
तेन कर्मविपाकेन सुरलोके प्रसूयते॥१७॥

धर्मपथाश्रिता एव बलिनः मनुष्याणां बलाद् देवा देवानां बलिनो नराः।
अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः॥१८॥

तिस्त्रोऽपायभूमयः देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः।
अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः॥१९॥

सर्व सुखं धर्माधीनम् धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः।
धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः॥२०॥

देवैरसुरा जिताः धर्मेण निर्जितोऽधर्मः सत्येनानृतिको जितः।
ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः॥२१॥

देवलोकं सुखोदयम् सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि।
योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम्॥२२॥

वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति चतुर्विधो वाङ्नियमः कोऽपि त्रिविधपञ्चधा।
सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः॥२३॥

प्रभया ते च दिव्यन्तः स्वशरीरेण जातया।
रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा॥२४॥

शीलमेव शुभस्य कारणम् नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः।
यद् देवा देवभवने शीलं तत्र हि कारणम्॥२५॥

यदप्सरः परिवृता यत् सूर्यशशिसन्निभाः।
देवाः समन्ताद् देवेषु तत्सर्वशुभहेतुकम्॥२६॥

यदीप्सितं सम्भवति सम्भूतं च न हीयते।
वर्तते च शुभं नित्यं तत् सर्व शुभहेतुकम्॥२७॥

शुभचारी देवानां समतां व्रजेत् शुभचारी सदा दानी सर्वभूतदयारतः।
दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत्॥२८॥

प्राणातिपाताद् विरतः सर्वसत्त्वदयापरः।
सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत्॥२९॥

अदत्ते न रतिः किञ्चिद् दाने चास्य सदामतिः।
शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते॥३०॥

मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा।
निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत्॥३१॥

विमनस्कं हि यत् प्रीते पुरुषे कुरुते लघु।
मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत्॥३२॥

प्रमादविरहितः सुखमाप्नोति सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते।
सुखात् सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति॥३३॥

क्षयावसानं तत् सौख्यं निर्वाणमिति शाश्वतम्।
तत् सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः॥३४॥

उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम्।
शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्)॥३५॥

निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः।
अतीव सौख्यं लभते कस्माद् देवेषु सर्वदा॥३६॥

कः सौख्यमुपलभ्यते? तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते।
एवं सुकृतदग्धेन न सौख्यमुपलभ्यते॥३७॥

त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम्।
एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत्॥३८॥

अहिंसादानपरमा ये सद्धर्मपरायणाः।
सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं (ते) समागताः॥३९॥

दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः।
यद् देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत्॥४०॥

देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम्।
न्यून-मध्यं तु यस्यैतत् फलं पुण्यस्य दृश्यते॥४१॥

पुण्यकर्ता देवलोकं गच्छति येन यावद्धि यत् पुण्यं कृतं भवति देहिना।
तस्य तावद्धि तत् सौख्यं देवलोकेषु पच्यते॥४२॥

शीलसंरक्षणमावश्यकम् स्वागतं तव भो भद्र! सुकृतं कृतवानसि।
सप्तधा रक्षितं शीलं तस्यैतत् फलमागतम्॥४३॥

रमस्व सह दैवतैः वनोपवनशैलेषु पद्माकरवनेषु च।
हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः॥४४॥

वनोपवनशैलेषु वैदूर्यशिखरेषु च।
वनाद्रिषु च नैकेषु रमस्व सह दैवतैः॥४५॥

कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च।
सरित्सु च विशालासु (रमस्व) सह दैवतैः॥४६॥

स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च।
नगरेषु महार्थेषु रमस्व सह दैवतैः॥४७॥

मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च।
यक्षसद्मसु रम्येषु रमस्व सह दैवतैः॥४८॥

भूमिभागेषु चान्तेषु रत्नाकरवनेषु च।
विमानेषु च रम्येषु रमस्व सह दैवतैः॥४९॥

पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा।
नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः॥५०॥

शीलबीजं शोधयित्वा शीलेषु विविधेषु च।
क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे॥५१॥

यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः।
तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः॥५२॥

यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः।
न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम्॥५३॥

कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा।
भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः॥५४॥

पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै।
एकधर्मव्यतीतस्य देवलोको महीयते॥५५॥

प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता।
आगता देवसदनं स्वकर्मफलसाक्षिणी॥५६॥

सुकृतफलम् उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै।
भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम्॥५७॥

साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः।
निरन्तरं सुसदृशं कथयन्ति मनीषिणः॥५८॥

भाग्यं फलति सर्वत्र येन येन विपाकेन यत्र यत्रोपपद्यते।
पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम्॥५९॥

शुभकर्मणा प्राणी नित्यं देवेषु जायते शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते।
तथाऽशुभेन नरके पतन्ति पुरुषाधमाः॥६०॥

कामिनो मरणं नावगच्छन्ति शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः।
नावगच्छन्ति मरणं यदवश्यं भविष्यति॥६१॥

शुभाशुभविपाकोऽयं यो वृक्षेषूपलभ्यते।
न सौख्याद् विरमन्त्येते मनः सौख्येन मोहिताः॥६२॥

सुकृतं कृत्वा मानवाः देवेषु यान्ति त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा।
त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः॥६३॥

कः देवानामन्तिकं व्रजेत्? नासूयति क्रियाक्लेशान् न च नन्दीमसूयति।
स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः॥६४॥

विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत्।
समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः॥६५॥

प्राणिनां प्रणयं नित्यं रक्षयित्वाऽनुकम्पया।
मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः॥६६॥

अदत्तं च धनं दत्त्वा दत्त्वाऽऽनन्दं च सर्वतः।
चेतनाभावितमतिर्देवानामन्तिकं व्रजेत्॥६७॥

मातृवत् परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः।
अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत्॥६८॥

(कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः।
कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत्॥६९॥

पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम्।
श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत्॥७०॥

पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा।
श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः॥७१॥

अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति।
सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत्॥७२॥

येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम्।
स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत्॥७३॥

कः सफलः धर्मज्ञः? विविधकर्मवशगं जन्मेदं लभते सुरैः।
तत्प्राप्य यो न धर्मज्ञः स पश्चात् परितप्यते॥७४॥

सुकर्मणा शुभजं फलम् वनोपवनरम्योऽयं लतावेदिकमण्डपः।
यद्विचित्रमयो लोकस्तत् सर्व शुभजं फलम्॥७५॥

येन येन यथा कर्म कृतं भवति शोभनम्।
तस्य तस्य तथा दृष्टं फलं तदनुगामिकम्॥७६॥

प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम्।
येन येन यथा चीर्णं तस्य तस्य तथा फलम्॥७७॥

कुकर्मणा दुःखजं फलम् विचित्रवेषाः संमूढा देवा मोहवशानुगाः।
तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम्॥७८॥

विचित्रकामरतयो विचित्रफलकाङ्क्षिणः।
न वा कुर्वन्ति कर्माणि तेऽसुरा मूढचेतसः॥७९॥

के प्रेमपरायणाः? फलं येषां प्रियं चित्तं न च शीले रता मतिः।
ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः॥८०॥

हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान्।
ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः॥८१॥

ज्ञानादेव मुक्तिः विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा?।
विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः ?॥८२॥

कः धीमतः ? तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः।
विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः॥८३॥

सुकर्मैः सुखं भवत्येव यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम्।
यं नेष्टकं भवत्येव तत् सर्वममलं स्मृतम्॥८४॥

देवलोकस्य वर्णनम् यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः)।
सर्वालोकः सदालोको देवतागणसेवितः॥८५॥

विराजते गिरिवरो रत्नमाणिक्यसन्निभः।
प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः॥८६॥

वनोपवनरम्योऽयं मृगपक्षिनिषेवितः।
कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः॥८७॥

कुत्र देवतैः सेव्यते? सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः।
नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः॥८८॥

पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते।
शिरोभूतो महारम्यः प्रभामाली समन्ततः॥८९॥

सुकृतेन शुभेनायं कर्मणाधिगुणेन वै।
यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः॥९०॥

के स्वर्ग गच्छन्ति? दानशीलयुता वृद्धा नित्यं तद्गतमानसाः।
ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः॥९१॥

संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः।
वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये॥९२॥

(वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः।
भवाभवेन तीव्रेण बाधते ( यत्र) साधनम्।
सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः॥९३॥

सत्यमार्गविलम्बेन हयतीव सुखभागिनः।
सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः॥९४॥

संसारे ये न रक्षन्ति स्वमनो (ननु ) देहिनः।
निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः॥९५॥

वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे।
ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः॥९६॥

मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः।
मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः॥९७॥

न स्नानदर्शनरता नराः मन्मथवारिणा।
एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः॥९८॥

क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम्।
कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः॥९९॥

धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः।
न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः॥१००॥

वेदना मध्यतत्त्वान्तमनेकविधसम्भवम्।
पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः॥१०१॥

मायोपमं च क्षणिकं गन्धर्वनगरोपमम्।
ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः॥१०२॥

एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम्।
निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः॥१०३॥

मातृवत् परदारान् ये पितृवत् सर्वदेहिनः।
पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः॥१०४॥

शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः।
अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः॥१०५॥

काष्ठवल्लोष्ठवत् सर्व परवित्तसमीक्षकाः।
संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः॥१०६॥

न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते।
नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः॥१०७॥

कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः।
वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः॥१०८॥

दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा।
संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः॥१०९॥

उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च।
ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः॥११०॥

दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत्।
पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः॥१११॥

तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः।
शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः॥११२॥

शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च।
पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः॥११३॥

अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः।
नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः॥११४॥

मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम्।
सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः॥११५॥

शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च।
संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः॥११६॥

शय्यातले यथा भूमौ हर्म्याग्रे वा तथाऽपरे।
न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः॥११७॥

चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम्।
तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः॥११८॥

अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात्।
अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः॥११९॥

षडिन्द्रियाणि सर्वाणि विषयाँस्तु तथैव च।
संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः॥१२०॥

यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः।
पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः॥१२१॥

कर्मणां च विपाकं च कृतं (ये धीरचेतसा)।
बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः॥१२२॥

इत्येतानि महार्थानि नित्यं दुःखकराणि च।
कुर्वन्ति विधिवत् सर्व ते जनाः स्वर्गगामिनः॥१२३॥

इति देववर्गो द्वात्रिंशः॥