अथ चतुर्थम् उदानम्
(पुण्य-देव-सुखैर्मित्र-राज-स्तुतिभिरन्विताः।
सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः॥
)
(३१) पुण्यवर्गः
पुण्यप्रशंसा
रमणीयानि पुण्यानि फलं तेषां परं शुभम्।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं धनम्॥१॥
पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम्।
प्रदीपसदृशं पुण्यं मातृवत् पितृवत् सदा॥२॥
पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम्।
पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते)॥३॥
पुण्यं परं सुखम्
पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा।
तस्मात् कुरुत पुण्यानि नास्ति पुण्यसमं सुखम्॥४॥
पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च।
हेतुभूतं सदा दृष्टं तस्मात् पुण्यं परं सुखम्॥५॥
पुण्यादृते सुखमसंभवम्
पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम्।
तस्मात् सुखं परं पुण्यं नास्ति पुण्यादृते सुखम्॥६॥
पुण्यापुण्यफलयोरन्तरम्
पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः।
पुण्यापुण्यफलो लोकस्तस्मात् पुण्यं समाचरेत्॥७॥
अपुण्यनिन्दा
ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः।
कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम्॥८॥
वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः।
न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम्॥९॥
पुण्यवशाद् देवलोकं गच्छति
मानुष्यं सुकृतं ह्येतत् कृते भवति देहिनः।
तेन कर्मविपाकेन स्वर्गलोकेषु जायते॥१०॥
प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः।
स करोतु महत्पुण्यं देवलोकोपपत्तये॥११॥
धर्मचारी पुरुष एव सुखमवाप्नुते
धर्मचारी हि पुरुषः सुखात् सुखमवाप्नुते।
निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति।
तस्मात् कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम्॥१२॥
पुण्यकर्त्तृ अव्ययं सुखमश्नुते
पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम्।
रमणीयानि पुण्यानि करणीयान्यनेकशः॥१३॥
पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च
विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते।
धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः।
शमत्राणो यथा धर्मस्तस्माद् धर्मरतो भवेत्॥१४॥
अधर्मी दुःखं प्राप्नोति
यो (हि) धर्म परित्यज्य रमते कुकृते नरः।
तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः॥१५॥
धर्मे एव मनः कार्यम्
यावन्नाभ्येति मरणं यावत् सकलचिन्तनम्।
तावद् धर्मे मनः कार्यमुपशान्तिर्भविष्यति॥१६॥
परोपकर्तृ निर्वाणपुरं याति
यो हि देशयते धर्म परेषां हितकाङ्क्षया।
स माता स पिता चैव निर्वाणपुरदेशकः॥१७॥
शास्तुः सुभाषितममूल्यम्
शुभाधिकपरश्चैकः यो देशयति देशिकः।
स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम्।
न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै॥१८॥
साधारणद्रव्याद् धर्मद्रव्यस्य वैलक्षण्यम्
न पदं लभते शान्तं यद् धनैरुपलभ्यते।
द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम्॥१९॥
धर्मद्रव्यमक्षुण्णमस्ति
द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै।
आभ्यन्तरसहस्त्राणि धर्म एकोऽनुगच्छति॥२०॥
न धनं पदमप्येकं गच्छन्तमनुगच्छति।
हीयते द्रविणं तेषां राजचौरोकाग्निभिः।
धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन॥२१॥
अतो धर्मपरो भवेत्
अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः।
भवत्यवश्यं पतनं तस्माद् धर्मपरो भवेत्॥२२॥
धर्म एकः परं त्राणं धर्म एकः परा गतिः।
धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः॥२३॥
धर्मचारिणः प्रशंसा
वरं धर्मो धर्मचारी धर्ममेव निषेवते।
स सुखात् सुखमाप्नोति न दुःखमनुपश्यति॥२४॥
अधर्मचारिणो निन्दा
अधर्मचारी पुरुषो यदाऽधर्म निषेवते।
स तदा दुःखमाप्नोति नरकेषु पुनः पुनः॥२५॥
निर्वाणमहत्त्वम्
रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः।
फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः॥२६॥
आत्मनैव पुण्यमाचरणीयम्
आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते।
सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते॥२७॥
शीलवतः पुण्यप्रभावो विपुलः
नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते।
पुण्यप्रभावो विपुलो यस्य शीले रतं मनः॥२८॥
भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते।
धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः॥२९॥
धर्मादृते पुरुषः नरकं याति
एतदेव हि पर्याप्तं यद् धर्मपरिपालनम्।
धर्मादृते हि पुरुषो नरकानुपधावति॥३०॥
धर्मविगर्हणान्मरणं श्रेयः
श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम्।
धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत्॥३१॥
धर्मविरहितस्य दुःखमयं जीवनम्
धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः।
वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथाऽपरः॥३२॥
धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः।
यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा॥३३॥
शुभेन सविशुद्धेन भावितेन प्रयत्नतः।
प्रयान्ति तत् पदं शान्तं यत्र दुःखं न विद्यते॥३४॥
इन्द्रियवशी मारं नातिवर्तते
इन्द्रियाणां वशे यस्तु विषयेषु तथैव च।
स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते॥३५॥
पापकैर्धर्मैरलिप्त एव स्वस्थः
अलिप्तपापकैर्धर्मैः निर्धनात् कनकद्युतिः।
स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः॥३६॥
बुद्धादीनां पूजया निर्वाणलाभः
बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः।
शुश्रूषाऽऽचार्यपादानां श्रद्दधानश्च कर्मणाम्॥३७॥
त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला।
मातापितृणां पूजातः निर्वाणपुरगामिनाम्॥३८॥
प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः।
ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः॥३९॥
धर्मदानं सर्वोत्तमम्
दानानामुत्तमं दानं धर्मदानं प्रकथ्यते।
उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम्॥४०॥
अग्रयस्तथागतः प्रोक्तः
ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः।
अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः॥४१॥
वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते।
क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः॥४२॥
माता पितृसमः पूज्य उपाध्यायः सदा भवेत्।
स उन्मीलयते चक्षुर्वशगोचरतां प्रति॥४३॥
निःसुखा विषया मताः
अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना।
सुखस्य भूमयो ह्येता निःसुखा विषया मताः॥४४॥
यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम्।
सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु॥४५॥
भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम्।
स आहूय प्रयत्नेन सेवितव्यः सदा नरैः॥४६॥
अनागते भयं यो हि पश्यति बुद्धचक्षुषा।
स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः॥४७॥
विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान्।
स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते॥४८॥
अथ मूढमतिर्नित्यं विषयानेव सेवते।
विमोहितः स विषयैः पश्चात्तापेन दह्यते॥४९॥
समग्रं जन्म पुण्यानि करणीयानि
यावत् समग्रं जन्मेदं ज्ञानं याति विनाविलम्।
तावत् कुरुत पुण्यानि दुःखं हयकृतपुण्यता॥५०॥
क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम्।
धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः॥५१॥
यो हि धर्म परित्यज्य प्रमादोपहतो नरः।
न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते॥५२॥
न यावदायाति जरा न व्याधिः सह मृत्युना।
तावत् कार्याणि पुण्यानि मा पश्चात् परितप्यथ॥५३॥
असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च।
नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति॥५४॥
किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः।
सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा॥५५॥
अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः।
विरतिश्चापि पापेभ्यः साधूनां दर्शने न च॥५६॥
शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः।
न सञ्चिनोति पुण्यानि स भवं नातिवर्तते॥५७॥
धर्मरताः सदा वन्द्याः
ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः।
कामरागाद्धि ये भीता देवानां देवसम्मताः॥५८॥
देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा।
ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः॥५९॥
धर्मसेतुमिमं प्राप्य पारावारगतं महत्।
न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते॥६०॥
शुभं नैव प्रणश्यति
शुभानुचारिधर्मैश्च शुभं भवति सर्वदा।
कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति॥६१॥
पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि
सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम्।
दानं चाभिक्षया दत्तं भवति स्वरसात्मकम्॥६२॥
सदैव गुणाः सेव्याः
दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम्।
तस्माद् दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः॥६३॥
ज्ञानेन लौकिकं दुःखं नश्यति
संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः।
नश्यति भवजं दुःखमर्कपादैर्यथा तमः॥६४॥
अभ्युपेयो देवरतो देवताभिश्च वन्द्यते।
प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति॥६५॥
॥
इति पुण्यवर्ग एकत्रिंशः॥