२९. मार्गवर्गः

(२९) मार्गवर्गः आर्यचतुष्टयोपासकः पारं गच्छति सत्यानि चत्वारि शिवानि तानि, सुभावितान्येव समीक्ष्य विद्वान्।
सुचिन्तको जाति-जरा-भयेभ्यः, प्रमुच्यये पारमुपैति शान्तः॥१॥

कामेषु सक्तः भवभोगबद्धः भवति अचिन्तको यस्तु विभूतबुद्धिः कामेषु सक्तो भवभोगबद्धः।
स बन्धनैः काममयैर्निबद्धो, न मुच्यते जाति-जरा-भयेभ्यः॥२॥

भवार्णवे सुखद्रष्टा अन्ते नरकं याति विचिन्त्य यो दुःखमिदं विशालं, न खेदमायाति भवार्णवेभ्यः।
स कामवाणैर्निहतो हि मूढः, कष्टामवस्थां नरकेऽपि याति॥३॥

आभ्यन्तरं क्षेमसुखं च हित्वा, किं कामभोगाभिरता हि बालाः।
नैते बिजानन्ति भयं च तीव्र- मभ्येति मृत्युर्ज्वलनप्रकाशः॥४॥

तत्त्वमार्गप्रदर्शकैः किमुक्तम्? अनित्यदुःखशून्योऽयमात्मा कारकवर्जितः।
संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः॥५॥

तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः।
ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते॥६॥

कः तत्त्वविधिज्ञः? अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित्।
ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः॥७॥

तत्त्वविदेव धर्मतामनुविशति अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित्।
स धर्मतामनुविशेद् यथा (च) न विकम्पते॥८॥

द्वयोपायविनिर्मुक्तो नष्टान् नाशयते मुहुः।
नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते॥९॥

स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः।
मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः॥१०॥

प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम्।
तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम्॥११॥

कः सदैव सुखी भवति? नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते।
सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा॥१२॥

आर्य मार्गचतुष्टयम् अन्योन्यफलसम्भूतम् अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते।
तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम्॥१३॥

आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम्।
विषयेषु हि संघुष्टं जगद् भ्रमति चक्रवत्॥१४॥

कः श्रेष्ठो मार्गः? स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः।
येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः॥१५॥

त्रिशरणगत एव सुखं जीवति सुजीवितं भवेत् तस्य यस्य बुद्धौ स्थितं मनः।
नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत्॥१६॥

सुजीवितं भवेत् तस्य यस्य धर्मे स्थितं मनः।
नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत्॥१७॥

सुजीवितं भवेत् तस्य यस्य सङ्घे स्थितं मनः।
नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत्॥१८॥

केषां सुजीवितं जीवनम्? सुजीवितं भवेत् तस्य यस्य सत्ये स्थितं मनः।
नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत्॥१९॥

सुजीवितं भवेत् तस्य यस्य मार्गे स्थितं मनः।
नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत्॥२०॥

निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता।
स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम्॥२१॥

कीदृशी क्रीडा सुखोद्भाविका? या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः।
सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका॥२२॥

केन मार्गेण शिवं स्थानं मिलति? सुखादीनिह सत्यानि यथा दान्तेन विन्दति।
तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः॥२३॥

इति मार्गवर्ग एकोनत्रिंशः॥