(२८) निर्वाणवर्गः
क्लेशक्षय एव निर्वाणमार्गः
क्लेशक्षयात् परं सौख्यं कथयन्ति मनीषिणः।
एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः॥१॥
तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः।
यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः॥२॥
विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः।
अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः॥३॥
विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति
मित्रामित्रप्रहीणस्य भवरागविवर्जिनः।
विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः॥४॥
शुभकर्त्तृ निर्वाणं प्राप्नोति
शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः।
संसारभयभीतस्य निर्वाणं नातिदूरतः॥५॥
कौसीद्यविरहितः त्वरितं निर्वाणं याति
क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च।
कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः॥६॥
वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम्
चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः।
वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः॥७॥
सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते
सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते।
स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते॥८॥
शुभान्वेषी निर्वाणमधिगच्छति
पुरुषोऽपायभीरुश्च प्रमादबलवर्जकः।
शुभकारी शुभान्वेषी निर्वाणमधिगच्छति॥९॥
॥
इति निर्वाणवर्गोऽष्टाविंशः॥