२७. प्रज्ञावर्गः

(२७) प्रज्ञावर्गः प्रज्ञा मातेव हितकारिणी धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता।
समाधिबलसंयुक्ता मातेव हितकारिणी॥१॥

प्रज्ञा गतिपञ्चकात् त्रायते सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात्।
न माता न पिता तत्र गच्छन्तमनुगच्छति॥२॥

प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम्।
भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः॥३॥

समाधिना भवार्णवं तरति इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम्।
तदा समाधिना ज्ञान भवसागरमुत्तरेत्॥४॥

दान-शील-तपो-ध्यानै-र्ज्ञानमेवाग्रमुच्यते।
अपवर्गाद् यदा ज्ञानं ज्ञानशीले सुखावहे॥५॥

प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला।
मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः॥६॥

प्रज्ञाबलं सर्वोत्तमम् चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते।
बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम्॥७॥

जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा।
हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः॥८॥

न ज्ञानात्परो बन्धुः अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम्।
न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्‍धनमुत्तमम्॥९॥

ज्ञानशीलयुता प्रज्ञा सेवितव्या ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः।
सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः॥१०॥

क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत् प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च।
महायोगरथारूढः क्लेशादीन् प्रविदारयेत्॥११॥

इति प्रज्ञावर्गः सप्तविंशः॥