(२६) ध्यानवर्गः
स्वस्थः कः?
असंसक्तमतेर्नित्यं नित्यं ध्यानविहारिणः।
विशुद्धमनसो नित्यमेकाग्रभिरतस्य च॥१॥
यस्यैकाग्रकरं चित्तं तस्य दोषा न बाधकाः।
स दोषभयनिर्मुक्तः स्वस्थ इत्यभिधीयते॥२॥
एकाग्राभिरतञ्चेतो विवेकमनुधावति।
सर्वतर्कविनिर्मुक्तः स्वस्थ इत्यभिधीयते॥३॥
चित्तस्यैकाग्रतां वर्णयति
यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा।
न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः॥४॥
यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम्।
चित्तं तत्सर्वमेकाग्रमते भवति देहिनः॥५॥
यतिः अलौकिकं सुखं भुङ्क्ते
एकारामस्य यतिनो यत् सुखं जायते हृदि।
यत् सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम्॥६॥
कीदृशं चित्तं शान्तिं समधिगच्छति?
एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च।
दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति॥७॥
ज्ञानाम्भसा तृष्णाग्निं हन्ति
एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः।
तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः॥८॥
तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः।
अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः॥९॥
निर्वाणपुरगामि वर्त्म
वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते।
एकालम्बनयुक्तेन धार्य तेन समाधिना।
तस्मादेतत् परं वर्त्म निर्वाणपुरगामिकम्॥१०॥
मनोनिग्रहफलम्
एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम्।
मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः॥११॥
निरुपमं ध्यानजं सुखम्
(तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः)।
प्रयान्ति परमं स्थानमशोकं हतकिल्विषम्॥१२॥
निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः
यत् सुखं ध्यानजं भाति कुतस्तस्योपमा परा॥१३॥
ध्यानैः परमं पदं प्राप्यते
एतत्सारं सुधीराणां योगिनां पारगामिनाम्।
यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम्॥१४॥
॥
इति ध्यानवर्गः षड्विंशः॥