२५. वीर्यवर्गः

(२५) वीर्यवर्गः देशक्रियायुक्तानि कार्याणि सिद्धयन्ति देशकालोपपन्नस्य क्रियातिथ्योचितस्य च।
न्यायेनारभ्यमाणस्य वीर्यस्य सकलं फलम्॥१॥

न्यायदेशक्रियाहीना अधर्मेण विवर्जिताः।
सीदन्ति कार्यनिकरा वीर्येण परिवर्जिताः॥२॥

आरब्धवीर्या मोक्षं प्राप्नुवन्ति ध्यानेनारब्धवीर्येण मोक्षं गच्छन्ति पण्डिताः।
भवक्षिप्त इवाकारो देवलोके प्रयान्ति च॥३॥

यान्यारब्धानि कार्याणि वीर्यवद् बलिना नृणा।
तानि तानि प्रसिद्धानि विपुलानि भवन्ति च॥४॥

येऽर्था लोकोत्तरे सिद्धा ये च लोकेषु सम्मताः।
ते वीर्येण प्रसाध्यन्ते वीर्यहीना न जातु वै॥५॥

मन्दवीर्य चिरोत्साहं सद्धर्मेण विवर्जितम्।
नरो विशति लोकं (च) शशाङ्कमिव कल्मषम्॥६॥

वीर्यवत्ता परमां गतिं प्रददाति आर्याष्टाङ्गेन मार्गेण न ज्ञानपरिपालितः।
वीर्यवत्तामहोत्साहो प्रयाति परमां गतिम्॥७॥

बोधिः वीर्येणावाप्यते वीर्यणावाप्यते बोधिः स्ववीर्येण तथा मही।
अर्हत्त्वं वीर्यवद्भिश्च तस्मान्नाग्निसमा गतिः॥८॥

उत्तमस्थानप्राप्त्यर्थ वीर्यारम्भे मतिः कार्या तस्माद् देवान् गुणान् मत्वा वीर्यवान् नियतेन्द्रियः।
वीर्यारम्भे मतिं कुर्यार्न्नास्ति वीर्यसमर्थनम्॥९॥

वीर्यार्थी स्मृतिमान् यश्च नरो ज्ञानपरायणः।
प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम्॥१०॥

इति वीर्यवर्गः पञ्चविंशः॥