२४. क्षान्तिवर्गः

(२४) क्षान्तिवर्गः क्षमाभूषणेनैव भूषितो भवति पुमान् क्षान्त्या विभूषितः जीव भूषितो नेतरैर्धनैः।
धनं विना समायाति क्षान्तिं नैव कथञ्चन॥१॥

क्षमावान् पुरुषः सर्वप्रियो भवति देहिनाम्।
पूज्यते दैवतैर्नित्यं तस्मात् क्षान्तिः परन्तप !॥२॥

क्षमावान् पुरुषः सर्वत्र पूज्यते क्षमावान् पुरुषः सर्वैः क्रोधदोषैर्विवर्जितः।
यशसा पूज्यते नित्यमिह लोके परत्र च॥३॥

क्षान्तिधनं सर्वोत्तमम् क्षान्तिर्धनं धनं शीलप्रज्ञावर्धनमेव च।
धनान्यन्यानि शस्तानि न हितस्य कथञ्चन॥४॥

सद्भिः क्षमावानेव पूज्यते पूज्यते सततं सद्भिर्यशसा चैव पूज्यते।
क्षमावान् पुरुषः सर्वस्तमात् क्षान्तिपरो भवेत्॥५॥

क्रोधविषस्य क्षमैव भेषजम् क्षान्तिः क्रोधविषस्यास्य भेषजं परमं मतम्।
क्षान्त्याऽविनाशितः क्रोधोऽनर्थायोपजायते॥६॥

ज्ञानशीलाभिभूतानां बालिशानां विशेषतः।
प्रतीपकार्य कुरुते क्षान्तिर्मार्गनिदर्शिका॥७॥

क्षमावन्त एव लोके धनिनः स धर्मधनहीनानां भ्रमतां गतिपञ्चके।
येषां क्षान्तिमयं द्रव्यं ते लोके धनिनः स्मृताः॥८॥

तमोनिचयकान्तारे दृढक्रोधेन दुस्तरे।
क्षान्त्या यथा स्मृताः सद्भिस्तरन्ति खुल मानवाः॥९॥

सद्धर्मपाठनष्टानां देशिका क्षान्तिरुत्तमा।
अपायभयभीतानां न भयं क्षान्तिरुच्यते॥१०॥

नृणां क्षान्तिः सुखावहा सुखावहा सदा नृणां दुःखस्य च विघातिका।
क्षेमसम्प्रापिका नित्यं विश्वासगुणकारिका॥११॥

शुभास्ति नायिका धन्या ह्यशुभेभ्यो विवर्जिता।
मोक्षसंदेशिका पुंसां संसारभयनाशिका॥१२॥

क्षान्तिः नरकाग्निविनाशिका स्वर्गसोपानभूता च स्वर्गसोपानभूता सा नरकाग्निविनाशिका।
त्रायते प्रेतलोकात्सा तिर्यग्योनौ तथैव च॥१३॥

क्षान्तिः सन्मार्गामृतदीपिका सा गुणौधैः सदा पूर्णा शिवा भवति देहिनाम्।
सा प्रशस्ते सुखे प्राप्ते क्षान्तिः कार्या प्रयत्नतः।
सर्वलोकस्य मातेव सन्मार्गामृतदीपिका॥१४॥

इति क्षान्तिवर्गश्चतुर्विंशः॥