२१. करुणावर्गः

अथ तृतीयम् उदानम् (करुणा-दान-शीलानि क्षान्तिर्वीर्यमथापि च।
ध्यानं प्रज्ञाऽथ निर्वाणो मनो भिक्षुश्च ते दश॥

) (२१) करुणावर्गः करुणा मातेव हितकारिणी भवति कृपा सर्वेषु भूतेषु मातेव हितकारिणी।
यां समाश्रित्य पुरुषाः प्रयान्ति सुखमुत्तमम्॥१॥

दयान्वेषीह पुरुषः सर्वसत्त्वहिते रतः।
पूजनीयः सतां याति प्रेत्य स्वर्गे च मोदते॥२॥

दयावन्तः सदावर्त सर्वभूतहिते रतम्।
तमेवं पुरुषं नित्यं प्रणमन्ति दिवौकसः॥३॥

करुणान्वितो देवलोकं गच्छति प्रयाति देवलोकं च शीलवान् करुणान्वितः।
कृपान्वितः स पुरुषो चन्द्रमा इव शोभते॥४॥

सुखार्थिना करुणा सेवितव्या आश्रयन्ति च भूतानि गतशोका गतव्यथा।
तस्माद् दयाप्रयत्नेन सेवितव्या सुखार्थिना॥५॥

कारुण्येन यशवृद्धिर्भवति यस्य वाक् कायचित्ते (च) कारुण्येन विभूषिते।
तस्य मित्रमया लोका भवन्ति यशसा वृताः॥६॥

कारुण्यार्द्रस्य विदुषो निर्वाणं याति कारुण्यार्द्रस्य विदुषो नित्यं मृद्विन्द्रियस्य च।
सम्यग्दृष्टिप्रयत्नस्य निर्वाणं नाति दूरतः॥७॥

कारुण्यविभूषिता मनुष्यलोकं देववद् भूषयन्ति मनुष्यलोके ते देवा ये कारुण्येन विभूषिताः।
कारुण्येन दरिद्रा ये ते दरिद्राः सतां मताः॥८॥

मृद्वाशया मर्त्याः साधवः मृद्वाशया हि ये मर्त्याः साधुवत् काञ्चनोपमाः।
कारुण्यमक्षयं येषां सदा मनसि वर्तते॥९॥

के धर्मपरायणा भवन्ति? ते च सत्त्वाः सदोद्‍युक्ता नित्यं धर्मपरायणाः।
येषां कारुण्यदीपेन हृदयं सम्प्रकाशितम्॥१०॥

न रात्रौ न दिवा तेषां धर्मो हि विनिवर्तते।
येषां सर्वास्ववस्थासु करुणाभिरतं मतम्॥११॥

कारुण्यं शीतलं चित्तम् कारुण्यशीतलं चित्तं सर्वसत्त्वहिते रतम्।
भुक्त्वा सौख्यं निरुपमं पश्चाद् गच्छति निर्वृतिम्॥१२॥

कारुण्यमविनाशि धनम् कारुण्यं मुनिभिः शस्तं कारुण्यं निर्मलं सरः।
कारुण्यं दोषनिर्घाति कारुण्यं धनमव्ययम्॥१३॥

गुणानां भूषणं चाग्रं सर्वदोषविघातकम्।
कारुण्यार्द्रा हि परमं प्रयान्ति धनमच्युतम्॥१४॥

कारुण्यं (वै) धनं यस्मान्माधुर्यपयसा युतम्।
न दाहः क्रोधजस्तस्य हृदये सम्प्रवर्तते॥१५॥

कारुण्यनावमारुह्य जना भवसागरं तरन्ति कारुण्यनावमारुह्य प्रीतिर्धैर्यपरायणः।
त्रिदोषोर्मिमहावेगे भ्राम्यते भवसागरे॥१६॥

करुणायाः परिभाषा गुणानामद्वयं श्रेष्ठं विना चित्तेन भूषणम्।
साधूनां दयितं नित्यं कारुण्यमिति कथ्यते॥१७॥

मार्दवं यस्य हृदये विलीनमिव काञ्चनम्।
स जनो हि तु कल्पान्ते दुःखादाशु विमुच्यते॥१८॥

दयालोः श्रेयांसि रोहन्ति यस्य पात्रीकृतं चित्तं मार्दवेण समन्ततः।
श्रेयांसि तस्य रोहन्ति केदार इव शालयः॥१९॥

चेतोगृहे निधानं तदव्ययं (सर्व) देहिनः।
निर्वासयति दारिद्रयं नृणामध्याशयं महत्॥२०॥

तीक्ष्णेन्द्रियस्याशान्तस्य निध्यानस्य विचारिणः।
विषयेषु प्रमत्तस्य दुःखं नैव प्रधावति॥२१॥

मैत्रेण चेतसा नित्यमनुकम्पा-दया पराः।
ते हेतुफलतत्त्वज्ञा दुःखपाशाद् विनिर्गताः॥२२॥

न सङ्कल्पे मनो येषां रमते दोषवर्जितम्।
ते दोषभयनिर्मुक्ताः पदं गच्छन्त्यनुत्तरम्॥२३॥

क्षान्तिक्रियासमायुक्ते मित्रवानकुतोभयः।
प्रियो भवति लोकेऽस्मिन् पश्चाद् देवेषु मोदते॥२४॥

दयारत्नं सदा सेव्यम् मातृवत् पितृवच्चैव सर्वलोकस्य ते जनाः।
दयारत्नं सदा येषां मनसि स्थितमुत्तमम्॥२५॥

कृपैव सुखस्य मूलमस्ति सुखस्य च परं मूलं कृपैव परिकीर्तिता।
(हृदि ) यस्य कृपा नास्ति स दुःखी परिकीर्त्यते॥२६॥

मैत्री एव सुखावहा एकसत्योत्तरं ब्रह्म एकस्यानुत्तरं शिवम्।
एकविद्या परं माता मैत्री चैका सुखावहा॥२७॥

अहिंसका एव धन्याः अहिंसकाः सदा धन्याः सद्‍दृष्टिः परमा शुभा।
एतद् ऋजु सदा सत्यं पापानां चापि वर्जनम्॥२८॥

करुणाया माहात्म्यम् कर्त्तव्यः पुरुषैस्तस्मात् कृपासंवेगमानसैः।
दान-शील-क्षमा-मैत्री-ज्ञानाभ्यासश्च निर्मलः॥२९॥

इति करुणावर्ग एकविंशः॥