१८. तिर्यग्वर्गः

१८) तिर्यग्वर्गः परद्रोहं कदापि न कुर्यात् भक्षणं भवदन्योन्यवधबन्धावरोधनम्।
तिर्यग्योनिं समासाद्य तस्माद् द्रोहं विवर्जयेत्॥१॥

मोहोपहतचित्ताश्च शीलदानविवर्जिताः।
तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः॥२॥

गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च।
कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः॥३॥

पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः।
क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः॥४॥

पर्येष्ट्‍युपहता मर्त्याः प्रमादोपहताः सुराः।
क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः॥५॥

के तिर्यग्योनिपरायणाः? परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत्॥६॥

मात्सर्योपहतो दुष्कृत न कुर्यात् न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम्।
मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः॥७॥

केषां सफलं जन्म? तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता।
ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः॥८॥

ज्ञानरथावरूढैर्मुक्तिर्भवति एवं त्रिदोषाकृतकर्मसारं जगद् भ्रमत्येव दुरावगाधम्।
करोति यस्तस्य च शुद्धसत्त्वोऽ- वमाननां ज्ञानरथावरूढः॥९॥

इति तिर्यग्वर्गोऽष्टादशः॥