१७. प्रेतवर्गः

(१७) प्रेतवर्गः अदानस्य कुतः सुखम्? अदान्तस्य कुतः शान्तिरनुप्तस्य कुतः फलम्? अदीपिका प्रभा नास्ति अदानस्य कुतः सुखम्॥१॥

हृच्छान्तिर्हि तथा नास्ति नयनार्थस्य देहिनः।
दानेन विरहात् तद्वत् सुखं प्रेतैर्न लभ्यते॥२॥

कुकर्मी प्रेतलोकं गच्छति यं प्रेत्य प्रेतलोकस्य त्रिलोके च यथाऽधमाः।
भ्रमेण परमोद्विग्नास्तन्मात्सर्यकृतं फलम्॥३॥

न दात्रा लभ्यते किञ्चित् कृतनाशो न विद्यते।
स्वकर्मफलभोक्तारः प्राणिनः कर्मभोगिनः॥४॥

तव यत्कुकृतं दग्धाः प्रेत्यलोकेष्ववस्थिताः।
क्षुत्पिपासामयेनेह वह्निना परिदीपिताः॥५॥

कदा तु विषयोऽस्माकं भविष्यति सुखोदयः।
परिदाहात् कदा चास्मात् परिमोक्षो भविष्यति॥६॥

मार्गामार्गविहीनो दुःखित एव जीवति मार्गामार्गविविक्तोऽहं न ज्ञातं कर्मणः फलम्।
क्षुत्पिपासामयो वह्निरज्ञातः प्रकटोदयः॥७॥

क्लेशान्धकारवदना निराशास्त्यक्तजीविकाः।
त्वक्स्नायुजालबद्धाः स्म जीवामो बत दुःखिताः॥८॥

न त्राता सर्वतोऽस्माकं हन्त कृच्छ्रगता वयम्।
उत्पन्नेषु मनुष्येषु खण्डिताः स्वेन कर्मणा॥९॥

कस्मान्न चरितो धर्मो रत्नदीपेषु सञ्चितः।
यः करोति शुभं नित्यमशुभं न च सर्वदा॥१०॥

समदृष्टिपथेनैति स्वर्गसोपानमाश्रितः।
येषामर्थे कृतं पापं क्लेशयन् मानसं बहु॥११॥

अनेन ते गताः सर्वे भवानां त्रासने स्थितः।
बद्धोऽसि बन्धनैस्तीव्रैर्यमदत्तैरधिष्ठितः॥१२॥

पापरज्ज्वाऽऽकृष्यमाणः स्वकृतं भुनक्ति प्राप्तोऽसि तमसो घोरं यमलोकं दुरासदम्।
इहोपभोक्ष्यसे कर्म यत्त्वया कुकृतं कृतम्॥१३॥

स्वकृतं भुज्यते बाल! परेषां नैव भुज्यते।
आकृष्यमाण एषोऽत्र पापरज्ज्वा सुघोरया॥१४॥

अनलः प्रेतलोकस्य क्षुत्पिपासामयो महान् नाग्निशस्त्रविषाणां हि निपातस्तादृशः कटुः॥१५॥

क्षुत्पिपासामयाग्नेश्च निपातो यादृशः (कटुः)।
न क्षणो नापि हि लवो न मुहूर्तो न शर्वरी॥१६॥

दुःखान्विता वयम् यत्र सौख्यं भवेन्मृत्युर्नित्यं दुःखावृता वयम्।
दुःखाद् दुःखतरं प्राप्तो दुःखहेतुर्निषेवितः॥१७॥

दुःखात् कदाचिन्मोक्षः स्याद् भविष्यति सुखोदयः।
नोत्सवे दृश्यते तोयं तडागेषु च शुष्यति॥१८॥

कर्मफलस्वरूपनिरूपणम् सरितो नाशमायासुः कथं धावामहे चयम्।
ते वयं शुष्कसलिलाः सशैलवनकाननाः॥१९॥

परिधावामहे भूमौ नित्यं सलिलकांक्षिणः।
ते वयं दग्धतनवः क्षुत्पिपासाहता नराः॥२०॥

शरणं नाधिगच्छामः कष्टं व्यसनमागताः।
वज्रदंष्ट्रैर्महातीक्ष्णैः काकोलूकैश्च सम्मतः॥२१॥

अभिद्रुतो न पश्यामि शरणं सौख्यदायकम्।
प्रतिबिम्बमिदं तस्य कर्मणः समुपस्थितम्॥२२॥

कृतं कर्म यथाऽस्माभिस्तथेदं फलमागतम्।
कर्मवायुरगा बद्धाः कर्मसूत्रेण पाचिताः॥२३॥

कर्मक्षयादृते न मुक्तिः पलायनं न पश्याम ऋते कर्मक्षयादिति।
यस्य पापान्यनिष्टानि वह्निवत् तानि पश्यति॥२४॥

कीदृशं प्रेतभवनम्? स नैति प्रेतभवनं क्षुत्पिपासानलावृतम्।
मुहुर्मुहुः प्रवर्धन्ते वेदना नरकोद्भवाः॥२५॥

ज्वालामालाकुलस्यैव शैलस्य सदृशा वयम्।
ज्वलितः शाम्यते शैलः सलिलेनैव सर्वथा॥२६॥

स समुद्रोपमो वह्निरम्माकं नैव शाम्यति।
कस्मिन् क्षणे समुद्भूतस्तृष्णावायुसहायवान्॥२७॥

कर्माग्निर्निर्दहत्यस्मान् परिवार्यसमन्ततः।
ते वयं पापकर्माणः शुक्लधर्मविवर्जिताः॥२८॥

प्रेतलोकमिमं प्राप्ताः स्वर्गस्य फलमोहिताः।
क्षुत्पिपासामयो वह्निर्द्वितीयश्चाग्निसम्भवः॥२९॥

कुकर्मणैव मुद्गराशिमया जनाः प्रेतभवनं गच्छन्ति मुद्गराशिमया(दाराः) न पुत्राः न च बान्धवाः।
वञ्चितोऽस्मि स्वचित्तेन कर्मणा परिवञ्चिता॥३०॥

प्राप्तोऽस्मि प्रेतभवनं मित्रज्ञातिनिराकृतः।
न दाराः नापि मित्राणि न पुत्राः नापि बान्धवाः॥३१॥

कुकृतफलनिरूपणम् त्रायते कर्मपाशेन नीयमानं बलीयसा।
नान्यस्त्राता यथा कर्म त्रिविधं भुज्यते मया॥३२॥

दानं शीलं श्रुतं चापि त्रिविधं परिकीर्तितम्।
मोहजालवृतेनेह यन्मया कुकृतं कृतम्॥३३॥

शुभकर्मणैव प्रेतलोकात् मुक्तिर्भवति कर्मणो हेतुभूतस्य यत्कृतं फलमागतम्।
यदि मुच्यामहे पापात् प्रेतलोकाद् दुरासदात्॥३४॥

अशुभानि कुकर्माणि विवर्जयेत् न भूयः पापकं कर्म करिष्यामि कथञ्चन।
उष्णान्युष्णविपाकानि महापीडाकराणि च।
कुकर्माण्यशुभानीह तस्मात्तानि विवर्जयेत्॥३५॥

इति प्रेतवर्गः सप्तदशः॥