0३. कायजुगुत्सावर्गः

(३) कायजुगुत्सावर्गः कायस्य स्वरूपनिरूपणम् सत्कारैर्वृहणैर्मासैरपि शय्यासनादिभिः।
न स्वीकर्तुमयं कायः कदाचित् केनचित् कृतः॥१॥

कायस्य रिपुत्वम् कृतघ्नस्याविदक्षस्य नित्यं रन्ध्रप्रहारिणः।
कः कायस्य रिपोरर्थ पापं कुर्याद् विचक्षणः॥२॥

रोगानी तमनर्थानां बहूना भाजनं तथा।
अशुच्यङ्गस्य निकरं कायमित्यभिधीयते॥३॥

अविज्ञेयं मरणं जीवितञ्च क्षणिकम् उपस्थितमविज्ञेयं मरणं तत्त्वचिन्तकैः।
जीवितं च क्षणादूर्ध्वं न गच्छति निरूप्यते॥४॥

कायस्य हेयत्वम् आयुष्कर्मार्थनिर्माणमेतं कायं त्यज्ययम्।
अपि विद्धस्तथा शेते काष्ठलोष्ठसमो भुवि॥५॥

क्षणे क्षणेऽपि कायोऽयं जीर्यते न निवर्तते।
तथा यौवनमदैर्बाला मुहयन्ते (मुग्धचेतसः)॥६॥

धनधान्यमदैर्मत्ताः कुर्वन्त्यहितमात्मनः।
तन्नाशमुपयात्येवं स च पापेन दहयते॥७॥

अधार्मिकनिन्दा न मनुष्या मनुष्यास्ते येभ्यो धर्मो न रोचते।
न मार्गे च स्थितास्तत्त्वे निर्वाणपुरगामिके॥८॥

मनुष्ययोनेः भवसागरतरणोपायः कथं प्राप्य हि मानुष्यं श्रेयसामालयं महत्।
न ज्ञानप्लवमारूहय तरन्ति भवसागरात्॥९॥

जीवनस्य क्षणिकता विद्युदालातसदृशं गन्धर्वनगरोपमम्।
सदा तद् याति रभसं जीवितं सर्वदेहिनाम्॥१०॥

शरीरे न मदं कुर्यात् क्षणिके भङ्गुरे सदा।
इत्वरे चपलेऽसारे जरामरणभीरुके॥११॥

ध्यायिनान्नगतं ह्येतत् शोकानामालयो महान्।
शुभाशुभानां क्षेत्रं च शरीरमवधीयते॥१२॥

सफलजीवनरहस्यम् ज्ञानशीलदयादानैर्यस्य गात्रं विभूषितम्।
तस्य सत्त्वैकसारस्य शरीरं सफलं मतम्॥१३॥

धातुज्ञानात् मोक्षः धातूनां मारकात् सर्वमिदं मुक्तं कलेवरम्।
शरीरधातु विचयात् साक्षाद् भवति नेतरात्॥१४॥

शरीरधातुं यो मुक्त्वा धातुष्वन्येषु रज्यते।
स धातुकत्वशिक्षातो दुःखेनैव प्रमुच्यते॥१५॥

हिरण्यधातुर्न तथा दुःखशान्त्यै हि वर्तते।
शरीरधातुतत्त्वज्ञो यथा दुःखात् प्रमुच्यते॥१६॥

दुःखाद् दुःखोदयस्तेन दुःखी न परिरक्ष्यते।
प्रवीणो राजचौरादिभयैः सर्वैरूपद्रुतम्॥१७॥

तस्मादनर्थकं नित्यं दूरतस्तं विवर्जयेत्।
वर्जनात् सुखितो दुष्टसङ्ग्रहाद् दुःखितः पुमान्॥१८॥

शरीरधातुतत्त्वज्ञो धातुलक्षणतत्त्ववित्।
ध्यानाध्ययनसंसक्तो दहति क्लेशपर्वतान्॥१९॥

तस्माच्छरीरजान् धातून् पण्डितः प्रत्यवेक्षते।
तेषां स्वलक्षणं ज्ञात्वा मोक्षो भवति देहिनाम्॥२०॥

इति कायजुगुप्सावर्गस्तृतीयः॥