भिक्षुणा अवलोकितसिंहेन समुद्भावितः
धर्मसमुच्चयः
प्रथमम् उदानम्
(जित-धर्म-कायवर्गाः परिवर्तो ह्यनित्यता।
अप्रमादः काम-तृष्णे स्त्री च मद्येन ते दश॥
) (१) जितवर्गः मङ्गलाचरणम् ॥
ॐ नमो बुद्धाय॥
प्रहीणसर्वास्रव निर्मलश्रीर्यः क्लेशजम्बालनिमग्नलोकम्।
कृपागुणेनोदहरत्समेन प्रणम्यतेऽस्मै त्रिभवोत्तमाय॥१॥
ग्रन्थकारप्रतिज्ञा
सद्धर्म स्मृत्युपस्थानसूत्र-वैपुल्यसागरात्।
गाथाः समुद्धरिष्यामि लोकलोचनतत्पराः॥२॥
मोक्षस्यायतनानि षट्
अप्रमादस्तथा श्रद्धा वीर्यारम्भस्तथा धृतिः।
ज्ञानाभ्यासः संताश्लेषो मोक्षस्यायतनानि षट्॥३॥
नव शान्तिसम्प्राप्तिहेतवः
दानं शीलं दमः क्षान्तिर्मैत्रीभूतेष्वहिंसता।
करुणामुदितोपेक्षा शान्तिसम्प्राप्तिहेतवः॥४॥
नरकस्याग्रहेतवः
चापल्यं पापसंश्लेषः क्रूरता वितथं वचः।
मिथ्यादृष्टिः प्रमादश्च नरकस्याग्रहेतवः॥५॥
प्रेतेषु षट् उद्भवकारणानि
मात्सर्यमीर्ष्या कटुवाक्यता हि प्रमादसेवा विरतिः शुभाच्च।
तत्त्वेष्वभिद्रोहरतं मनश्च प्रेतेषु पन्थान इहोद्भवन्ति॥६॥
तिर्यग्योनौ उद्भवसाधनानि
अज्ञानसेवा जड (ता) च बुद्धेः सद्धर्मनाशः प्रियमैथुनत्वम्।
आहारशक्तिः प्रबला च निद्रा तिर्यग्गतौ च प्रवदन्ति हेतुम्॥७॥
कर्मफलम्
अशुभं त्रिविधं कृत्वा कायवाङ्मनसां महत्।
उत्तरोत्तरसम्बद्धं कर्मणा सम्प्रदृश्यते॥८॥
बालानामपि सम्बद्धमुत्तरोत्तरमेव तत्।
शुभञ्च त्रिविधं कृत्वा साधवो यान्ति निर्वृतिम्॥९॥
तस्मात् कर्मफलं मत्वा प्रमादस्य च वर्जनम्।
श्रेयसे क्रियते बुद्धेरेतत् सुखमनुत्तमम्॥१०॥
दानशीलवतो नित्यं सर्वसत्त्वानुकम्पिनः।
सिद्धयन्ति सर्वशस्तुल्यास्तस्माच्छीलपरो भवेत्॥११॥
कस्य कार्यसिद्धिः भवति?
मैत्रीकरुणायुक्तस्य गताकांक्षस्य देहिनः।
परानुग्रहयुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१२॥
सन्तुष्टस्याप्रमत्तस्य सर्वसत्त्वहितैषिणः।
रागद्वेषविमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१३॥
मित्रामित्रप्रहीणस्य समचित्तस्य देहिनः।
अपायगतिभिन्नस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१४॥
एवं च तस्य धीरस्य धर्मदानरतस्य च।
मात्सर्येर्ष्याप्रमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१५॥
संवरस्थस्य शान्तस्य गुरुपूजारतस्य च।
कार्याकार्यविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१६॥
अशठस्यातिदक्षस्य प्रियवाक्यस्य नित्यशः।
ध्यानाध्ययनशक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता॥
१७॥
देशकालविधिज्ञस्य साध्यासाध्यं विजानतः।
शक्योपायविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता॥१८॥
क्रोधादिविजयसाधनमुखेन धर्मतास्वरूपनिरूपणम्
अक्रोधेन हतः क्रोधः क्षमया क्रूरता जिता।
धर्मेण निर्जितोऽधर्मः प्रभया विजितं तमः॥१९॥
सत्यादेः प्रशंसा
मृषावाक्यं सत्यहतं पैशुन्यं च समाधिना।
पारूष्यं मार्दव जितं अबद्धं बन्धना जितम्॥२०॥
प्राणातिपातो मैत्र्या च स्तेयं दानैः सदा जितम्।
अयोनिशोमनस्कारो योनिजेन सदा जितः॥
२१॥
अविद्या विद्यया जिता दिवसेन तथा क्षपा।
शुक्लपक्षेण च कृष्णपक्षो (हि) सर्वशो जितः॥२२॥
मिथ्याकामेष्वविजितो बुद्धया तत्त्वविचारया।
आर्याष्टाङ्गेन मार्गेण योनिजेन सदा जितः॥२३॥
वैशारद्यैश्चतुर्भिश्च कदर्य जितमेव तत्।
विस्मृतिश्च हता स्मृत्या क्षणेनात्मानमेव च॥२४॥
अरण्यवासनियतैर्जिता रागवशा नराः।
मेरुणा पर्वता जिता (वृक्षेण) वनमालिका॥२५॥
समुद्रेण जिता सर्वे तीर्था (हि) जलसम्भवाः।
आदित्यतेजोविजिता सर्वे च ग्रहतारकाः॥२६॥
नित्या जिता अनित्येन दारिद्रयं दानसम्पदा।
शाठ्यं न मार्दव जितं सत्येनानृतिको हतः॥२७॥
भूतेन निर्जितोऽभूतो वह्निना तरुसम्पदः।
पिपासा विजिता तोयैर्जिघित्सा भोजनैस्तथा॥२८॥
वीर्यप्रशंसा
सिंहेन विजिताः सर्वे मृगाः सत्त्वाधिकाश्च ये।
सन्तापेन महेच्छा च जिता नित्यं प्रकीर्त्यते॥
२९॥
दया प्रशस्यते नित्यमदया नैव शस्यते।
वीर्येण निर्जितं सर्व कौसीद्यं मोहवर्धनम्॥३०॥
तत्त्वदर्शिपुरुषप्रशंसा
ज्ञानाधिकैः सदा दान्तैः पुरुषैस्तत्त्वद(र्शि)भिः।
विजिताः क्रूरकर्माणो मिथ्यावादाधिका नराः॥३१॥
बुद्धेन निर्जिताः सर्वे तीर्थ्याः कुटिलवादिनः।
असुरा विजिता देवैर्धर्मतेयं व्यवस्थिता॥३२॥
॥
इति जितवर्गः प्रथमः॥