योगावतारः
नमस्तारायै
श्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम्।
मृद्वासनोपविष्टः सश्रद्धो योगमारभेद् [योगी]॥१॥
ग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति।
बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः॥२॥
ज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम्।
प्रविवाच्ये देहे यत् तत्तथताज्ञानवज्रेण॥३॥
सर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम्।
निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव॥४॥
स्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम्।
येनापि पश्यतीदं तदपि तथैवावलोकयति॥५॥
सोऽनुपलम्भोऽचित्तं तथताज्ञानं तत्कोटिञ्च।
एवं तमसोऽभ्यासात् प्रज्ञावेदितनिरोधमाप्नोति॥६॥
ताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते।
अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम्॥७॥
…………दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः।
प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य॥८॥
सिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः॥९॥
॥
योगावतारः समाप्तः॥
॥
कृतिरियमार्यदिग् नागपादानामिति॥