वाङ्मण्डलनमस्कारश्लोकाः

वाङ्मण्डलनमस्कारश्लोकाःएकानना वेदकरास्त्रिनेत्राः चच्र्यादिदेव्यः सुविशाखपादाः। नाभि(भी)सरोजस्थितयामनाडीशुद्धाः सुरत्नान्वितमौलियुक्त्ताः॥१॥

पूर्वे हकत्र्युद्भवकृष्णचाच्र्चि वन्दे शवस्थारुणपध्मसंस्थाम्। तां कर्तिशूले च भुजेषु शक्त्तिः खट्वाङ्ग इन्द्रोऽङ्कगतश्च यस्याः॥

२पध्मेषु चर्चिकादीनां दण्डनाडयात्मिकाः क्रमात्। संमुखाड्डक्षिणावर्त्ते दलस्था ललिताङ्घ्रयः॥

३॥

भीमोग्रा कालदंष्ट्रा ज्वलदनलमुखा वायुवेगा प्रचण्डारौद्राक्षी स्थूलनासा कमलवसुदले चर्चिकादद्याः स्वदिक्षु। अष्टौ श्रीनायिकाभा हि-भव-य-यि-यृ-ही-जातकर्त्युद्भवाया-स्ताभ्यः श्रीयोगिनीभ्यो नम इह इहु-य्ळृ-यं-जातकर्त्युद्भवाश्च॥४॥

वाराहिकार्ककमले महिषारुणाभाहःकारदण्डजनिता सितशङ्कराङ्का। दण्डः करेष्वसिवरो वरशृङ्खला चखेटं यमे पदयुगं प्रणमामि तस्याः॥५॥

कङ्काली कालरात्री(त्रिः) प्रकुपितवदना कालदंष्ट्रा (जिह्वा) करालीकाली घोरा विरूपा कमलवसुदले शूकरी यन्त्रदेवी। अष्टौ श्रीनायिकाभा हृभव-र-रि-रृ-जातदण्डोद्भवायाः ताभ्यः श्रीयोगिनीभ्यो नम इह रु-र्ळृ-रं जातदण्डोद्भवाश्च॥६॥

शुक्लोत्तरे वृषभलोहितपद्मसंस्थांरौद्रीं च हंजनितशूलभवां नमामि। यस्यास्त्रिशूलडमरू क्रमतो भुजेषुखट्वाङ्गशुक्लभुजगा वरुणो यमोऽङ्के॥७॥

गौरी गङ्गा च नित्या स्वपरमन्त्रेरिता त्रो(तो)तला लक्ष्मणा चपिङ्गा कृष्णा तथाष्टौ कमलवसुदले नायिका यत्र रौद्री। श्रीमद्रौद्रीसमाना हुभव-व-वि-वृ-ह-जातशूलेन जाताःताभ्यः श्रीयोगिनीभ्यो नम इह वु-वॢ-वं-जातशूलोद्भवायाः॥८॥

ऐरावतारुणपयोजगहाजवज्र-जाता स्ववर्णसदृशी दनुभूमिताङ्का। ऐन्द्री स्थिता च वरुणे पविवाणघण्टा-कोदण्डपाणिकमला प्रणमामि तां च॥९॥

वज्राभा वज्रगात्रा वरकनकवती चोर्वशी चित्रलेखारम्भाऽहल्या सुतारा कमलवसुदले वज्रहस्ताधिदेवे। अष्टौ श्रीनायिकाभा हृभव-ल-लि-ऌ-हृ-जातवज्रोद्भवाया-स्ताभ्यः श्रीयोगिनीभ्यो नम इह ऌ लॣ लं जातवज्रोद्भवाभ्यः॥१०॥

ब्राह्मी तु हंसगसिताब्जगतार्कनेत्राक्ष्माजातसूचितचतुर्मुखपीतवर्णा। वायौ तु तां धृतपयोभवदण्डकुण्डी-पात्रां नमामि घनवर्णहरिर्यदङ्के॥११॥

सावित्री पद्मनेत्रा खलु जलजवती बुद्धिवागीश्वरर्द्धि-र्गायत्री विद्युदेव स्मृतिरपि कमले वेदवक्त्राधिदैव। ताभ्यो ब्राह्मीनिभाभ्यो नम इह सततं योगिनीभ्यः क्षृ-ला-ली-ऌ-क्षॄ-लु-ॡ-लः एभिः क्रमपरिनिहितैर्जातशून्योद्भवाभ्यः॥२॥

क्षं जातपद्मजनिता शशिकान्तिलक्ष्मिसिंहस्थशुक्लकमले गिरिशे नमामि। पद्माक्षसूक्त्रकमलानि मणिश्च पाणौक्रोडे स्थितो रसमुखश्चरणं हि तस्याः॥१३॥

श्रीश्चेता चन्द्रलेखा शशधरवदना हंसवर्णा धृतिश्चपद्मेशा तारनेत्रा विमलशशधरा ईशपद्मे सचिह्ना। ताभ्यो लक्ष्मीनिभाभ्यो नम इह सततं योगिनीभ्यं क्षु-रा-री-रॄ-क्षॄ-रू-र्ळी-रः-एभीः क्रमपरिविहितैर्जातपद्मोद्भवाभ्यः॥१४॥

क्षं-शक्तिचिह्नजनितां रविसन्निभां तांकेकिस्थशुक्लकमले गणनायकाङ्काम्। कौमारिकां दनुदिशि प्रणमामि यस्याःशक्त्यङ्कृशौ च मणिपाशवरौ करेषु॥५॥

पद्मानङ्गा कुमारी मृगपतिनयना रत्नमाला सुनेत्राक्लीना भद्रा पयोजे वरशिखिगमना नायिका यत्र राजन्। ताभ्यो देवीसमाभ्यो नम इह सततं योगिनीभ्यः क्षु-रा-री-रॄ-क्षॄ-रू-रॣ-रः-एभिः क्रमपरिनिहितैर्जात[रत्नोद्?]भवाभ्यः॥१६॥

वह्नौ क्षचक्रजनितासितपद्मसंस्थाश्रीवैष्णवी [च] गरुडा चतुराननाङ्का। अत्यन्तकृष्णतनुचक्रगदापयोज-शङ्खोत्तमाङ्कितकरा च नमोस्तु तस्यै॥१७॥

श्रीमायाकीर्तिलक्ष्म्यौ स्वपरमविजया श्रीजया श्रीजयन्तीश्रीचक्री चाष्टमी वै कमलसुदले वैष्णवी दिक्षु देशे। ताभ्यो देवीनिभाभ्यो नम इह सततं योगिनीभ्यः क्षि-या-यी-यृ-क्षी-यॢ-यः-एभिः क्रमविधिनिहितैर्जातचक्रोद्भवाभ्यः॥१८॥

सव्यद्वार्वामवेद्यां खलु क-ख-ग-घ-ङ-व्यञ्जैर्बिन्दुयुग्म-युक्तैर्बीजैः प्रजातैर्द्विभुजशशिमुखेच्छादिकाः पञ्च जाताः। पूर्वादेः सव्यवेद्यामपि च-ट-प-त-वर्गाक्षरेभ्यः प्रजातै-स्ते वर्णाः पञ्च पञ्च प्रतिदिशि निहिता बीजधातुस्वचिह्नैः॥१९॥

तद्वत्सवर्गजैर्वामवेद्यां पूर्वहवर्गजैः। वामोत्थेकापरे चन्द्रे क्षःकारजेन तास्तथा॥२०॥

[॥

इति वाङ्मण्डलनमस्कारश्लोकाः॥

]