लघुतन्त्रटीका Chapter IThe Foundation of TantraIntroductionओं नमः श्रीचक्रसंवराययेनाक्रान्तः पिनाकी हिमगिरितनया वामसव्याङ्घ्रिणार्केदेवा भूतासुरेन्द्रा ग्रहगणसहितास् त्रासिताः क्रोधदृष्ट्या। मुद्रेभव्याघ्रचर्मोरगपविनरकं मुण्डमाला धृता तंनत्वा तत्तन्त्रटीका स्फुटकुलिशपदान्वेषिका लिख्यते सा॥
[१]वीरेशचोदितेनैषा मया श्रीवज्रपाणिना। योगिनां पुण्यलाभाय महामुद्राफलाप्तये॥
[२]अथात उद्धृतः सारस् तन्त्राल् लक्षाभिधानतः। श्रीहेरुकमहायोगो डाकिनीचक्रसंवरः॥
[३]काले पञ्चकषाये ऽस्मिन् पुण्यज्ञानफलाप्तये। वाराह्याध्येषितो वज्री लघुतन्त्रं प्रकाशयेत्॥
[४]अल्पायुष्काल्पवीर्यानां साधकानां हिताय तत्। रागद्वेषादियुक्तानाम् उपायेनैव तेन च॥
[५]रहस्ये डाकिनीगुह्ये सर्वात्मनि सदा स्थितः। सर्वदूतीमयः सत्त्वो वज्रसत्त्वो महासुखः॥
[६]स्वयम्भूर् भगवान् एष सर्वकामार्थसाधकः। नादरूपा विनिष्क्रान्ता समयाचारगोचरा॥
[७]<दुर्लभस्> त्रिषु लोकेषु आदिमध्यान्तसंस्थितः। (१)मन्थ्यमन्थानसंभूतो मन्त्रयोगविधिः क्रमः॥
[८]अभिधानं तद् एवोक्तम् अभिधेयो येन वाच्यते। हेरुकः सहजानन्दो मध्यमाश्वास उत्तमः॥
[९]विण्मूत्रचन्द्रमार्ताण्डचतुर्णाडीसमन्वितः। कुलिका वज्रवाराही महामुद्रा निराश्रया। तेन तां पूजयेत् योगी कर्ममुद्रासुखोज्झितः॥
[१० १/२]इत्य् एवम् अभिषेकार्थो ऽप्रकटो यश् चाल्पतन्त्रतः। उद्देशमात्रतः प्रोक्तष् टीकया स वितन्यते॥
Subject-Matter and Contents of this Tantraइह प्रथमं तावद् अभिधेयाभिधानसंबन्ध-प्रयोजन-प्रयोजनप्रयोजनान्य् अभिसंवीक्ष्य वैनेयजनानां नियमरहितानांस्वचित्ताभिप्रायेणेह जन्मनि बुद्धत्वदायकं परमरहस्यस्थेनवीरवीरेश्वरीपरिवृतेन वज्रवाराह्याध्येषितेन श्रीहेरुकभगवतामूलतन्त्राल् लक्षाभिधानात् सारात् सारतरं तन्त्रंसप्तशतग्रन्थप्रमाणम् संदेशितम् इति। अत्र प्रज्ञोपायात्मको हेरुको भगवान् अभिधेयः। अस्यप्रतिपादकं तन्त्रराजम् अभिधानम्। तयोर् अभिधेयाभिधानयोःपरस्परं वाच्यवाचकलक्षणः संबन्धः। मण्डलप्रवेशादिनासत्त्वार्थकरणं लौकिकीसिद्धिसाधनं प्रयोजनम्। पुण्यज्ञानसंभारेण महामुद्रासिद्धिसाधनं बुद्धत्वंप्रयोजनप्रयोजनम् इति। एतान्य् अभिसंवीक्ष्य। वैनेयजनानांनियमरहितानाम् इति नियमः श्रावकभिक्षुसंवरः। तेन रहितानियमरहिताः। तेषाम् स्वचित्ताभिप्रायो रागद्वेषाद्यात्मकः। तेनस्वचित्ताभिप्रायेणापीह जन्मनि बुद्धत्वदायकम्। तेनैव(२)भावनोपायेन पञ्चकषायकाले ऽल्पायुष्काल्पवीर्याणां साधकानाम्। परमरहस्यस्थेनेति। रहस्यं धर्मोदयम् आकाशधातुस्तत्रस्थेन परमरहस्यस्थेन। वीरवीरेश्वरीपरिवृतेनेति। वीरःखण्डकपालिकादयश् चतुर्विंशतिश् चन्द्रचरणाः। वीरेश्वर्योडाकिन्यादयः सप्तत्रिंशद्बोधिपाक्षिकधर्मस्वभावाः। ताभिःपरिवृतो वीरवीरेश्वरीपरिवृतः। तेन वज्रवाराह्याध्येषितेन श्रीहेरु-कभगवतेति आह-श्रीकाराद् अद्वयं ज्ञानं हेकाराद् धेतुवर्जितम्। रुकाराद् रूपनिर्मुक्तं ककारात् करणोज्झितम्॥
ऐश्वर्यादिगुणैर् युक्तो भगो वा मारभञ्जनात्। स यस्यास्तीत्य् असौ प्रोक्तो भगवान् त्रैधातुकेश्वरः॥
इति। तेन श्रिहेरुकभगवता मूलतन्त्राल् लक्षाभिधानात् सारंस्पतशतग्रन्थप्रमाणं तन्त्रं देशितम्॥
स च भगवान् अन्या तन्त्रस्वभावतयावस्थितः। प्रथमं वि-जहारस्थानस्वभावतयावस्थितः। ततः समयाचारस्वभाव-तयावस्थितः। ततोऽध्येषकदेशकस्वभावतयावस्थितः। कुलिकापूजास्व-भावतयावस्थितः। ततो दूतिकासिद्धिपूजास्वभावतयावस्थितः। कामसिद्धिभावनास्वभावतयावस्थितः। ततो बोधिचित्तबिन्दुभिर्बुद्धबोधिसत्त्वादिपूजास्वभावतयावस्थितः। सर्वपापविमुक्तिस्व-भावतयावस्थितः। ततो योगित्वसाधनस्वभावतयावस्थितः। समयपालनस्वभावतयावस्थितः। ततः समयभेद-रक्षणस्वभावतयावस्थितः। पञ्चामृतभक्षणस्वभाव-तयावस्थितः। ततो गणचक्रे ऽङ्गुष्ठानामिकाभ्यां वक्त्रे सोम-पानास्वादनस्वभावतयावस्थितः द्वीन्द्रियसमापत्तिस्वभाव-तयावस्थितः। ततो दिव्यसौख्यप्रशंसास्वभावतयावस्थित इतिदिव्यमानुष्यकं सुखं कलां षोडशीं नार्घति दिव्यसौख्य-स्याक्षरस्येति। प्रथमपिण्डार्थपरिच्छेदे भगवान् व्यवस्थित इति॥
(३)ततो गिरिगह्वरादिस्थाननियमस्वभावतयावस्थितः। मण्ड-लादिदशतत्त्वस्वभावतयावस्थितः। ततो गुरुवीरवीरे-श्वरीमण्डलचक्रपूजास्वभावतयावस्थितः। शिष्यमण्डलप्रवेशन-स्वभावतयावस्थितः। ततो ऽभिषेकदानस्वभावतयावस्थितः। मुद्रा-चार्यपूजास्वभावतयावस्थितः। इति मण्डलसेकपरिच्छेदे भगवान्अवस्थितः॥
ततो डाकिनीभुवनविजृम्भणस्वभावतयावस्थितः। मन्त्रोद्-धारस्वभावतयावस्थितः। ततो विद्याराजकर्मप्रसरस्वभावत-यावस्थितः। लौकिकाष्टसिद्धिसाधनस्वभावतयावस्थितः। ततश्छोमाकार्यस्वभावतयावस्थितः। कर्ममुद्रालक्षणस्वभावत-यावस्थितः। ततस् तासां संभाषणगमनागमनक्रियास्वभावत-यावस्थितः। डाकिनिलक्षणस्वभावयावस्थितः। ततो मुद्राप्रतिमु-द्रादर्शनस्वभावतयावस्थितः। समयनामकथनस्वभावत-यावस्थितः। लौकिकलोकोत्तराष्टमहासमयस्वभावतयावस्थितः। तत एकचरुकभोजनस्वभावतया व-स्थितः। बलिदानस्वभावतयावस्थितः। तत सुम्भराजमन्त्रोद्-धारस्वभावतयावस्थितः। तस्य कर्मप्रसरसाधनस्वभाव-तयावस्थितः। मन्त्रबिम्बध्यानस्वभावतयास्थितः। ततो निर्वि-कल्पतत्त्वभावनास्वभावतयावस्थितः लोकोत्तरहोमस्वभावतयाव-स्थितः। ततश् चतुर्वक्त्रादिमन्त्रपदसहितवीरवीरेश्वरीनामम-ध्यगतान्ते चित्तवज्रादि मन्त्रजापस्वभावतयावस्थितः। पिठादिदशभूमिचतुर्विंशतिस्थाननिर्देशस्वभावतयावस्थितः। शिरसादिन्यासस्वभावतयावस्थितः। सप्तत्रिंशद्बोधिपाक्षिक-धर्मविशुद्धिस्वभावतयावस्थितः। ततः खण्डकपालादिचतुर्-विंशतिधातुविशुद्धिस्वभावतयावस्थितः। देवीभूचरखेचररूपप-रिवर्तनस्वभावतयावस्थितः। सप्तत्रिंशत्स्वभावकुलनारीपूजाच-क्रसंचार भोगलयाधिकारस्वभावतयावस्थितः। धर्म-च क्रप्रवर्तनस्वभावतयावस्थितः। ततो निर्माणसंभोग-धर्मशुद्धकायस्वभावतयावस्थितः शून्यताकरुणाभिन्नस्वभाव-(४)तयावस्थित इति। एवं श्रीहेरुको। भगवान् तन्त्रस्वभावत-यावस्थितः॥
The Incipit of Tantraअनेनाप्य् अभिधानेनात्मानम् अभिधेयं वज्रवाराह्याःप्रकाशयति। अथातो रहस्यं वक्ष्ये समासान् न तु विस्तराद् इत्यादिना। ननु सर्वस्मिन् तन्त्रराजे एवं मया श्रुतम् इत्यादिना विजहार-स्थाननिर्देशः। कथम् अस्मिंस् तन्त्रे ऽथातो रहस्यम् इत्यादिनाविजहारस्थाननिर्देशो भगवतक्तो भवति। समाजेहेवज्रादौयोगयोगिनीतन्त्रे एवं मया श्रुतम् इत्यादिना भगवतो वचनंतत्रे सत्यं भवति। तस्माद् इदं तन्त्रं भगवता संदेशितं न भवति। इति केषांचिद् व्यञ्जन सरणार्थिनाम् अभिप्रायोभविष्यति। तस्माद् उच्यते। इह यद् वक्तव्यम् अनागतकाले बालजनैर्व्यञ्जनसरणताश्रितैर् एवं मया श्रुतम् इत्यादिना विना तन्त्रराजंभगवतोक्तं न भवति। तन् न। कस्मात्। इह भगवताचत्वारि प्रतिसरणान्य् अन्यत्रोक्तानि। तद्यथा। अर्थप्रतिसरणता नव्यञ्जनप्रतिसरणता ज्ञानप्रतिसरणता। न विज्ञानप्रतिसरणता। नीतार्थप्रतिसरणता न नेयार्थप्रतिसरणता। धर्मप्रतिसरणता न पुद्गलप्रतिसरणता। अतो भगवतो वचनान् न व्यञ्जनप्रतिसरणताक्वचिद् याने भगवतोक्ता। स्वरव्यञ्जनसमूहं संज्ञामात्रंसंज्ञिनां भावाभावधर्मानां प्रतिपादकम्। इहैकस्यापिभावाभावधर्मस्यानेकाः संज्ञाः संभवन्ति। न च तासाम्एका संज्ञा प्रधाना ऽप्रधाना वा भविष्यति। सर्वासाम्एकभावाभावधर्मप्रतिपादकत्वात्। स्त्रीनारियुवत्यादिनां स्तन-केशवतीभावधर्मप्रतिपादकत्वात्। तथा खपुष्पव्योमताम-रसादीनाम् अभावधर्मप्रतिपादकत्वाद् इति। एवं सर्वत्र(५)संज्ञसंज्ञिसंबन्धो योगिभिर् अवगन्तव्यः। इहाकारः शून्यताप्र-तिपादकः सप्तम्यन्त एकारो भवति। अत ए इति संज्ञया आकाशधातुर् गृह्यते सर्वाधारः। तथा डाकिनीवज्रपञ्जरे भगवान् आह-आकाशे त्व् अजडे स्वच्छे ऽनवकाशप्रकाशिनि। विश्वे वज्रालये लयने सर्वधातौ मनोरमे॥
इत्यादिना। रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः॥
इतिपर्यन्तं विजहारपदस्य नानासंज्ञा विशेषणछलेनोक्ताः। तथाश्रीसमाजादिके। एवं मया श्रुतम् एकस्मिन् समये भगवान् सर्वत-थागतकायवाक्चित्तहृदयवज्रयोषिद्भगेषु विजहार। अस्याप्य्अनेकाः संज्ञाः। ए भगः कमलं शुद्धं सुखावासः सुखावती। सिंहासनं निरालम्बं तथता पारमिता मता॥
इत्य् आधारः। तथा ऽधेयः। वं वज्री वरदो वादि सहजानन्दम् अक्षरम्। शिवः शान्तश् च कल्यानं ईश्वरः सर्वगः परः॥
इत्याद्यनेकसंज्ञाभिर् आधेयः परिगीयते। भगवता नामसंगीत्यां ज्ञानकायो निरन्वय<ः>। इति। प्रज्ञापरमिताधारः सर्वाकारा त्व् अकल्पिता। करुणा या निरालम्बा स आधेयः प्रकाशितः॥
इति अत उक्तं तन्त्रान्तरे-एकाराकृति यद् दिव्यं मध्ये वंकारभूषितम्। आलयं सर्वसौख्यानां बुद्धरत्नकरण्डकम्॥
इति। तथा। अनादिनिधनं शान्तं भावाभावक्षयं विभुम्। शून्यताकरुणाभिन्नं बोधिचित्तम् इति स्मृतम्॥
(६)इत्याद्य् अनेकतन्त्रतन्त्रान्तरे ऽयं प्रज्ञोपायात्मको योगो भगवतोक्तः। तेन बौद्धैर् न वक्तव्यम्। एवं मयादि यत्रास्ति तत् तन्त्रंभगवता देशितम्। यत्र नास्ति तन् न भवति। अत्र मन्त्रनये ऽदृष्ट-धर्मदोषग्रहणान् मूलापत्तिर् भवति। मूलापत्तितो ऽवीचिगम-नं भवति मिथ्याश्रुताभिमानिनाम्। इति अतो ऽस्मिंस् तन्त्रे ऽथातोरहस्यम् इत्यादिना तन्त्रदेशना ऽविरुद्धा। शून्यताकरुणात्मकप्रज्ञो-पायधर्मप्रतिपादकत्वाद् इति। अत्राह लक्षाभिधाने-शून्यताकरुणयोर् ऐक्यं यस्मिन् तन्त्रे प्रकाशितम्। साधनं लोकनाथस्य तत् तन्त्रम् बुद्धदेशितम्॥
लोकसंवृतिसत्येन लौकिकीसिद्धिसाधने। विकल्पभावना प्रोक्ता मन्त्रजापविधिस् तथा॥
परमार्थसत्यतः प्रोक्ता सर्वसंकल्पवर्जिता। भावना ज्ञानकायस्य साधनाय तथागतैः॥
इति तन्त्रप्रतिष्ठापननियमः॥
(७)Chapter IISurface Meaning and Deep MeaningCommentary on CS 1इदानीं तन्त्रोक्तो नेयार्थो नीतार्थो। वितन्यते ऽथातो रहस्य वक्ष्यइत्यादिना। अथातो वज्रभैरवसमाधेर् अनन्तरं डाकिनीचक्रसंवरस-माधिसमापन्नो लक्षाभिधानाच् छ्रीहेरुको भगवान् वज्रवाराहीम्आमन्त्रयति स्म-हे वज्रवाराहि शृणु योगं चैव विधिज्ञानं तन्त्रे निगदितम्यल् लक्षाभिधाने हेरुकाख्यं तद् एव रहस्यम् अहं वक्ष्ये तवसमासान् न तु विस्तराद् इति। तत् कस्य हेतोर् भगवन्न् अल्पतन्त्रं मूलतन्त्राद् देशेयसि। भगवान् आह। इह पञ्चकषायकाले जाम्बूद्वीपका मनुष्या विशेषे-णार्यविषये ऽल्पायुषो ऽल्पप्रज्ञा भविष्यन्ति। ये वज्राचार्यास् तेमूलापत्तिगामिनो भविष्यन्ति। भिक्षवो दशाकुशलकारिनो भविष्यन्ति। गृहस्था रत्नत्रयद्रव्योपभोगिनो भविष्यन्ति। पण्डिता अश्रुत-तन्त्रव्याख्यातारो भविष्यन्ति। पण्डिताभिमानेन तन्त्रे पञ्जिकाटीकाकाराभविष्यन्ति। तन्त्रार्थं विपरीतं देशयित्वा नरकगामिनो भविष्यन्ति। ये मूर्खबौद्धास् ते श्रद्धाजडत्वेन गृहस्थाचार्येषु पर्युपासनांकरिष्यन्ति। सर्वज्ञध्वजधारकान् दूषयिष्यन्ति। ये शिष्यास् तेसद्गुरुछिद्रान्वेषका भविष्यन्ति। असद्गुरुभ्यो भक्षाद्वैतेभ्यःस्तुतिपूजां करिष्यन्ति। गुर्वाराधनोक्तं बुद्धवचनं न करिष्यन्ति। (८)धर्मदेशका दशाकुशलप्रवर्तका भविष्यन्ति। साधका बाक्य-खानपानभोगासक्ता भविष्यन्ति। मातृग्रामा अत्यन्तकामलुब्धाभविष्यन्ति। तस्मात् सर्वमूलतन्त्राद् अल्पतन्त्रदेशना बुद्धस्य। सा च वज्रपदबहुलत्वात् सद्गुरूपदेशेन तन्त्रतन्त्रान्तरोक्तेनबोधिसत्त्वकृतटीकया ज्ञातव्या विद्वद्भिर् मोक्षार्थिभिर् इति। अतःसंक्षेपान् न तु विस्तराद् वक्ष्ये ऽहं रहस्यम्। रहस्यम् इतिनेयार्थेन कर्ममुद्रा भग उच्यते। नीतार्थेन प्रज्ञापारमिता शून्यताश्रीहेरुकसंयोगम् इति। श्रीति सहजानन्दम्। हे इतिकर्ममुद्राज्ञानमुद्राहेतुवर्जितम्। रु इति रूप लक्षणनिर्मुक्तम्। क इति चक्षुरादिकरणवर्जितं निरालम्बकरुणालक्षणम्। तस्यशून्यतया सह योगम् एकत्वम्। शून्यताकरुणयोर् अभिन्नत्वंवक्ष्ये ऽहम् इति। नेयार्थेन श्रीहेरुकः पुरुषेन्द्रियम्। तस्य नारीभगेन संयोगम् एकत्वं बालजनानां वक्ष्ये ऽहंद्वीन्द्रियसुखाभिलाषिनां पुण्यसंभारार्थं चित्तस्यापरविषयपरि-मोचनार्थम् इति। सर्वकामार्थसाधकम् इति कर्मपदविशेषणम्। वक्ष्ये ऽहम् इति कर्तर्य् आत्मनेपदं सर्वत्र वेदितव्यम् इति। इहबाह्ये नेयार्थेन सर्वकामार्थो लौकिकाणिमादिगुणैश्वर्यं मन्त्र-कर्मज्ञानमुद्रायोगेन भवति। तस्य साधकं पूर्वोक्तं प्रज्ञाज्ञानम्इति। नीतार्थेन सर्वकामो वज्रसत्त्वः सम्यक्संबुद्धस् तस्यार्थःसर्वज्ञतादशबलचतुर्वैशारद्यादिधर्मचक्रप्रवर्तनम्। तस्यसाधकं सर्वकामार्थसाधकम्। शून्यताकरुणाभिन्नं योगंवक्ष्य इति॥
(९)उत्तराद् अपि चोत्तरम् इति। अत्र उत्तरं कामार्थं मनुष्यवि-षयसुखानाम् उत्तरं सिद्धकामरूपारूप्यावचरसुखम्अष्टगुणैश्वर्यादिसंयुक्तम्। तस्माद् उत्तराद् अपि च संभावनेपरमोत्तरं सर्वज्ञसुखं सर्वैश्वरयगुणसंयुक्तं सर्वधर्-मदेशकं सर्वाकारं सर्वगम्। उत्तराद् अपि चोत्तरम् इति। डाकिनीचक्रसंवरम् इति। इह नेयार्थेन डाकिन्यो वज्रडाकिन्या-दयः। अध्यात्मनि षट्त्रिंशन्नाड्यो ज्ञानचित्तवाक्कायचक्रे मुखाद्य-ष्टद्वारेष्व् अवस्थिताः। ता एवात्मपीठादिसंज्ञया उक्ता उच्छिष्टश्मशान-पर्यन्तम्। बाह्ये मेरोर् अष्टदिक्षु वक्ष्यमाणक्रमेण देशादिशिर-आदिस्थाननिर्देश आधार आधेयधर्मिणीनां ज्ञातव्य इति। आसांडाकिनीनां चक्रं समूहम्। तस्य संवरम् एकत्वं मेलापकंहेरुकेण सार्धम् आत्मपीठादिके डाकिनीचक्रसंवरम् इति। हेरुको ऽपिसवीरः पञ्चविंशत्यात्मकः। वज्रवाराही वीरेश्वरीभिः सार्धं सप्त-त्रिंशदात्मिका। आसां हेरुकेण चतुर्विंशतिवीरैः सह संवरो मेलापकोडाकिनीनाम् इति। अत्र हेरुकेण सह द्वादशदूतिनां संवरः। वीरैः सहचतुर्विंशतिदूतीनां संवरः। स एव आलिकालियोगेन मन्त्रबीजेनोच्यते। अत्र तावत् षट्त्रिंशद्योगिनीतन्त्राणि क काराद्येकैकाक्षरेणस्वरसमूहसहितेन षट्त्रिंशन्माण्डलेयात्मकानि भवन्ति। नायकेन विनानायकौ सप्तत्रिंशदात्मकौ। अत्र तावत् कवज्रतन्त्रम् उच्यते। गर्भज्ञानचक्रकर्णिकायां पञ्चशून्यात्मको हूंकारः। दिग्दले अ आअं अः। विदिग्दले क का कं कः। गुणभेदेन दिक्षु श्मशानेक का कं कः कोणे क का कं कः। चित्तचक्रे दिक्षुकि कृ कु कॢ विदिक्षु की कृ क् कॣ इति। वाक्चक्रे गुण <वृद्धि>भेदेनदिक्षु के कर् को कल् विदिक्षु कै कार् कौ काल् इति। का(१०)यचक्रे यणादेशेन दिक्षु क्य क्र क्व क्ल विदिक्षु क्या क्राक्वा क्ला। इति वायुतेज-उदकपृथ्वीधर्मेणोत्थापितं व्यञ्जनंत्रिचक्रे चतुर्विंशत्यात्मकं भवति। शून्यस्वरधर्मेणोत्थापितंज्ञानचक्रे श्मशानाष्टके उत्थापितेन सह द्वादशात्मकं भवति। तेन याः शून्यतास्वरधर्मिण्यो डाकिन्यस् तासां निरालम्बक-रुणामूर्तिना सार्धं संवरः। भगवतो द्वादशलोचनस्य<वज्र>वाराह्या सह द्वन्द्वम् इति वीरेश्वरीणां चतुर्विंशतीनांचतुर्विंशतिवीरैः सह द्वन्द्वम् इति। नेयार्थेन डाकिनीचक्रसंवरः। एवं खकारवज्रादिकम्। तद्यथा क ख ग घ ङ - च च ज झ ञ - ट ठ ड ढ ण - प फ ब भम- त थ द ध न- स प ष श क- ल व र य-ह क्ष इति। षट्त्रिंशद् योगिनीतन्त्रनायिकाः। योगतन्त्रनायका अपि। एकबीजेन निष्पन्ना माण्डलेया भवन्ति। षट्त्रिंशद्भिन्नबीजैर् उत्पादितामाण्डलेया भिन्नतत्रकुले भवन्ति। न ते एककुलेनावगन्तव्याःत्रिकुलं पञ्चकुलं चैव स्वभावैकं शतकुलम्इति भगवतो वचनात्। नानाकुलात्मकं तन्त्रम् अर्थप्रतिसरणताम्आश्रित्य योगिनावगन्तव्यम् इति तथागतनियमः। इति लोकसंवृत्याडाकिनीचक्रसंवरः लौकिकीसिद्धिसाधनायेति। नीतार्थेनडाकिनीचक्रसंवर इति। डाकिन्य इति सप्तत्रिंशद्बोधिपाक्षिकधर्माः। तेषां चक्रं समूहो धर्मकायलक्षणः शून्यतात्मक इति। तस्यस्वाभाविककायेन निरालम्बकरुणात्मकेन सह संवरम् एकत्वम्। अत्र करुणा चन्द्रो बोधिचित्तं पञ्चविंशतिशशिपदलक्षणंमहासुखं निरावरणम्। सूर्यो द्वादशशून्यतात्मक इति। तेन सहसंवरो डाकिनीचक्रसंवरस् तं वक्ष्ये ऽहम् इति क्रियानियमः। एवम् उक्तक्रमेण-(११)रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितःसर्वदूतीमयः सत्त्वो वज्रसत्त्वः परं सुखम्॥
इति। इह पूर्वोक्ते शून्यधातौ सर्वात्मधर्मिणि सदा सर्वस्मिन्काले ऽतीतानागतवर्तमाने स्थित उत्पादविनाशधर्माभावात्। सर्वदूती-मयः सत्त्व इति। दूत्यो डाकिन्यस् ता आकाशसमाः स्कन्धधात्वायतनाव-रणप्रहीणा आकाशचराः। डै वैहायसगमन इति धातुपाठात्। नसर्वसत्त्वापकारिण्यो ग्रामदैवत्यः पीठोपपीठाद्याश्रिता इति। ताःसप्तत्रिंशद्बोधिपाक्षिकधर्मस्वभावविशुद्धाः। तन्मयःसर्वदूतीमयः सत्त्वस् त्रैधातुक लक्षणधर्मकाय इति। वज्रसत्त्वः परं सुखम् इति। सहजकायश् चतुर्थः परंसुखम् अक्षरसुखम् इत्य् अर्थः। अनयोर् धर्मकायसहजकाययोर्एकत्वं वज्रसत्त्व इत्य् उच्यते। वज्रम् इति धर्मकायः शून्यता प्रज्ञा। सत्त्वम् इति सहजकायः करुणा उपायः। एवं प्रज्ञोपायात्मकोहेरुकसंयोगो वज्रसत्त्वो ऽभिधीयते॥
Commentary on CS 3CDअसौ स्वयम्भूर् भगवान् डाकिनीजालसंवर इति॥
इह स्वयम्भूर् ब्रह्मा स च कायवज्रो वैरोचनः कायवज्रधरोब्रह्मा इत्य् उक्तत्वात् तन्त्रान्तरेणावगन्तव्यः। स च तद्यथा। मायाजाले भगवान्आह-गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान्। वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः॥
ईत्यादिना वज्राङ्कूशो महापाश इतिपर्यन्तगाथाभिर् ज्ञातव्यः स्वयम्भूर्वैरोचनो निर्माणकायः सर्वाकारवरोपेत इति डाकिनीजालसंवरनियमः॥
Commentary on CS 4ABनादरूपा विनिष्क्रान्ता समयाचारगोचरा॥
इति। (१२)अतः सहजधर्मनिर्माणकायैकयोगात् संभोगकायो नादरूपीसर्वज्ञानाहतध्वनिलक्षणः। तत्स्वरूपा मन्त्रमूर्तिः समयाचारैर्गोचरा नादरूपा मन्त्रदेवता अनाहतभाषा। असौ समयाचारोवक्ष्यमाणे वक्तव्यो येन सा गोचरा गम्या भवतीति। तथाच भगवान् आह-धर्मशङ्को महाशब्दो धर्मगण्डी महारणः। अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः॥
इति। Commentary on CS 4CDदुर्लभं त्रिषु लोकेषु आदिमध्यान्तसंस्थितम्॥
इति। इदं ज्ञानं सहजधर्मसंभोगनिर्माणकायात्मकंज्ञानचित्तवाक्कायैकलोलीभूतं त्रिषु लोकेषु स्वर्गमर्त्यपातालेषु संस्थितंसर्वधर्मेषु दुर्लभं मन्दपुण्यानाम्। आदिमध्यान्तम् इति। अतीतानागतप्रत्युत्पन्नकाले संस्थितम् आदिमध्यान्तसंस्थितम् इति॥
Commentary on CS 5मन्थ्यमन्थानसम्योगान् मन्त्रजापादिभिर् युतम्॥
इति। इह तद् एव ज्ञानं मन्थ्यमन्थानयोगेन द्वीन्द्रियसमापत्त्यायोगिनां यथा भवति तथा योगं चैव पूर्वोक्तं विधिज्ञानं चलौकिकं। विधिना ज्ञानं सिद्धिं मन्त्रजापेन मण्डल-चक्रध्यानेन सिद्धम्। आदिशब्देन मन्त्रहोमादिभिर् युतंसाध्यते। तद् एव ज्ञानं विधिज्ञानं लौकिकज्ञानम् इति। एवंयोगं चैव पूर्वोक्तं शून्यताकरुणात्मकं चैवशब्दाद् विधिज्ञानंच तन्त्रे निगदितम् यल् लक्षाभिधाने मया तद् अल्पतन्त्रे ऽधुनावज्रवाराहि देश्यमानं सारात् सारतरं तन्त्रं शृणु इति। देशकाध्येषकसंबन्धो ऽभिधेयाभिधानसंबन्धेन सार्धंटीकया प्रकाशितो नेयनीतार्थाभ्यां भगवतो नियमेनेति॥
(१३)Chapter IIIThe Worship of कुलिकाCommentary on CS 6ABCइदानीं कुलिकापूजोच्यते मध्यमोत्तमश्वासेनेत्यादिना। इह मध्यमा ऽवधूती आलिकाल्योर् मध्ये ऽग्निरेखाप्रवाहिणि। तस्याः श्वासाः षट्शताधिकैकविंशतिसहस्राणां मध्ये ऽहोरात्रेणद्वादशलग्नसंक्रान्तिषु पञ्चसप्तत्यधिकषट्शतसंख्याः। शेषाःसपादनवशताधिकविंशतिसहस्रसंख्या ललनारसनाप्रवाहिणो द्वाद-सलग्नेषु। तेषु प्रत्येकं मेषादौ विषमलग्ने ललनाप्रवाहिणोऽष्टादशशतश्वासाः। तथा रसनाप्रवाहिणः प्रत्येके वृषभादौ सम-लग्ने। तयोर् आद्यन्तश्वासाः प्रत्येकसंक्रान्तिकाले समविषमलग्नयोर्मध्ये मध्यमाया अवधूत्याः सपादषट्पञ्चशत्संख्याः। अधमाःप्राणिनां मृत्युदायकाः कुलिकाकालसंभूताः क्षरस्वभावाअरिष्टमरणकारकाः कालाग्निप्रवाहित्वात्। शेषाः सपादषट्पञ्चाशदूनाललनारसनापञ्चमण्डलवाहिनो ऽष्टादशशतश्वासाः। तेषुप्रत्येकमण्डल वाहिनः षष्ट्युत्तरत्रिशत संख्याःसपादैकादशश्वासोनाः। अत्र मण्डलान्य् आकाशादीनि पञ्च ललनायाः। पृथ्व्यादीनि पञ्च रसनाया वामे दक्षिणे च इह नाभिपद्मदलेयथासंख्यं मध्ये पूर्वे सव्ये वामे पश्चिमे शून्यवाय्व-ग्नितोयपृथ्वीमण्डलानि। कर्णिकायां <विषुवं> षष्ठं ज्ञान-मण्डलम्। ऊर्द्ध्वे नासारन्ध्रयोर् यथा मध्ये ऊर्द्ध्वे सव्ये वामेऽधो यथाक्रमेण वामे शून्यादिकं दक्षिणे भूम्यादिकम्। षष्ठमम्नासारन्ध्रयोर् यौगपद्येन सपादषट्पञ्चाशत्श्वासात्मकम् इति। (१४)एषां मण्डलानं वामदक्षिणप्रवाहिनः श्वासा नाडीसंचारबलेनप्राणायामबलेन वा मध्यमायाम् अवधूत्यां प्रवेशिताः सन्तःसाधारणा अरिष्टमरणवञ्चका भवन्ति योगबलेन मध्यमायांप्रवाहित्वात्। इह उत्तमा महाप्राणसंभूता अधमसाधारणानांविध्वंसकाः परमाक्षरसुखदायका योगिज्ञानस्वसंवेद्याबाह्येन्द्रियविषयक्ष रसुखस्वभावरहिता दिव्येन्द्रियगम्याःश्वासचक्रसंख्याः सहजानन्दरूपिणो महासुखाच्युतत्वाद् इति। तेषुप्रत्येकं परमाक्षरसुखश्वास उत्तमो मध्यमोत्तमश्वास इति तेनमध्यमोत्तमश्वासेन। गन्धोदकसहितेन त्व् इति। इह गन्धइति वैरोचनचन्द्रश्वासप्रवाहिनी अध ऊर्द्ध्वे ललना। उदकम् इतिमूत्रसूर्यश्वा सप्रवाहिनी अध ऊर्द्ध्वे रसना। मध्यमेतिशुक्ररजोराहुकालाग्निश्वाप्रवाहिनी अध ऊर्द्ध्वे ऽवधूती। अस्यामध्यमाया अवधूत्या अधमः क्षरः श्वासः प्राणिनां मृत्युदायकः। साधारणो ऽरिष्टमरणवञ्चकः मध्यमः। उत्तमः परमाक्षर-सुखो महामुद्रासिद्धिदायको ऽतो मध्यमोत्तमश्वास इत्य्उच्यते। स एवाध ऊर्द्ध्वे विण्मूत्रचन्द्रार्कनाडीभिर् युक्तःशुक्ररजोराहुकालाग्निनाडीसमरसीभूतो बोधिचित्तचतुर्बिन्दुधृक् काय-वाक्चित्तसमरसीभूत ऊर्ध्वरेता एकशूकवज्रम् इति। तेन मध्य-मोत्तमश्वासेन गन्धोदकसहितेन सहजानन्दस्वभावेनग्राह्यग्राहकवर्जितेन वज्रधरीयमहाश्वासेन कर्ममुद्राज्ञानमु-द्राहेतुरहितेन महामुद्राहेतुसंभूतेन योगिज्ञानस्वसंवेद्येन विष-(१५)येन्द्रियैकलोलीभूतेन नाभौ चण्डाल्या ज्वलितया स्कन्धधात्वायतन-दग्धललाटचन्द्रद्रुतामृतेनाच्युतेनोर्ध्वगामिना परमाक्षरोद्भूत-सहजकायेनालिकालिहूंफट्काररहितेन मण्डलचक्रभावना र-हितेन मन्त्रजापमुद्राधिष्ठानगुर्वाज्ञासंचारधर्मबाह्यभूतेनभवनिर्वाणाप्रतिष्ठितेन करुणाशून्यताभिन्नेन ललाटाद् वज्रमणि-पर्यन्ताविच्छिन्नबोधिचित्तबिन्दुरूपेण महाच्युतरागेण मध्य-मोत्तमश्वासेन। अनेन कुलिकां पूजयेन् नित्यम् इति। इह कुलिका मध्य-मा ऽवधूती वज्रवाराही निरावरणा ग्राह्यग्राहकवर्जितायोगिनां मारसमूहस्य क्षयकारिणी अज्ञानिनां स्कन्धधात्वायतनसमूहस्य बोधिचित्तस्य च क्षयकारिणी बोधिचित्तच्यवनान्मृत्युदायिका। सा वज्रयोगिनी स्वचित्तप्रतिभासमात्रा महामुद्रा सर्वाका-रवरोपेता प्रज्ञापारमिता शून्यता तथता कुलिका पद्मम् इत्य् उच्यते। तांकुलिकां परमाक्षरसुखेनाच्युतबोधिचित्तबिन्दुना चन्द्रद्रुतेनमहारागेण मध्यमोत्तमश्वासेन गन्धोदकसहितेन कुलिकासंभूतेन। तेनोपायेन ताम् एव स्वप्रज्ञां पूजयेद् इति। ग्राह्यग्राहकचित्तयोर्ज्ञेयज्ञानयोः शून्यताकरुणयोर् एकत्वं योगी कारयेद् इतिनीतार्थः। पूजयेन् नित्यम् इति सर्वकालम् अशुचिः शुचिर् वा उत्थितोवा निषण्णो वा सुप्तो वा कायवाक्चित्तकृत्ये स्थितो वा परमाक्षरसुखानुरक्तःसर्वकामोपभोगविगतस्पृहो बाह्ये दिव्येन्द्रियैर् दृष्टविषयोपभोगा-सक्तः। इति मध्यमोत्तमश्वासेन कुलिकापूजाविधिर् लोकोत्तरसत्येनमहामुद्रासिद्ध्यर्थं भगवतोक्त इति॥
(१६)Chapter IVThe Worship of दूतिकाsCommentary on CS 6Dइदानीं लौकिकसिद्धिसाधनाय दूतीसंचारचक्रमेलापके पञ्-चामृतगुलिकया संग्रामे शस्त्रहतैर् निरवद्यैर् व्यापातेन मृतैर्वा कुकर्मणि हतैर् वा गोकुदहनादिभिर् महासमयैः पञ्चोपचारा-दिभिर् दूतिकापूजाविधिर् बाह्ये ऽध्यात्मन्य् उच्यते कालविशेषेणेत्यादिना। Time and its Subdivisions: Apt Moments for the Performance of a Riteअत्र कालस् तावद् द्विधा बाह्ये ऽध्यात्मनि च। प्रतिवर्षंप्रतिदिनं च यथासंख्यम्। अस्य विशेषः कालविशेषो बाह्येऽध्यात्मनि। राशिचक्रं द्वादशलग्नात्मकम् इति कालविशेषः। अत्रबाह्ये प्रतिवर्षस्य कालविशेषः पुनः दिनानि पक्षा मासा ऋतवो युगाःकाला अयने इति। अध्यात्मनि प्रतिदिनस्य कालविशेषः पुनः श्वासाःपानीयपलानि घटिका मुहूर्ता अर्धप्रहरा लग्नानि प्रहरा संध्याअहोरात्रम् इति कालविशेषः। बाह्ये प्रतिवर्षे कालविशेषःषष्ट्युत्तरत्रिंशतदिनानि चतुर्विंशतिपक्षा द्वादशमासाः षडृतवस्त्रिमासात्मकाश् चत्वारो युगाश् चतुर्मासात्मकास् त्रयः कालाःषण्मासात्मके द्वे ऽयने। एषां समूहो वर्षम् एकं काल इतिअध्यात्मनि प्रतिदिनं काल इति। षट्शताधिकैकविंशतिसहस्रश्वा-सनिश्वासाः षट्शताधिकत्रिसहस्र पानीयपलानि षष्टिघटिकास्त्रिंशन्मुहूर्ताः षोडशार्धप्रहरा द्वादशलग्नान्य् अष्टप्रहराश् चतस्रः(१७)संध्या अहोरात्रम् इत्य् एषां समूहो दिनम् एकं काल इति। एवं यथाबाह्ये सूर्यप्रचारेण कालविशेषस् तथा ऽध्यात्मनि प्राणप्रचारेणकालविशेषः। तेन कालविशेषेण प्रतिवर्षे प्रतिदिने दूतिकाः पूजयेद् इति। दूतिका वज्रडाकिन्यादयो यममथन्यन्ताः षट्त्रिंशद्योगिन्यस् ताःपूजयेद् इति॥
इह यथा दूतिकाः पूज्यास् तथा सहजाः सिद्धा विलोमेनवज्रसत्त्वादयश् चतुर्विंशतिर् अधममध्यमोत्तमाः कायवाक्चित्तच क्रेषु पातालमर्त्यखेचरसिद्धिदायकत्वाद् इति। ते ऽपि कालविशेषेण पूज्या इति तथागतनियमः। एवं दूतिकाः सहजाः सिद्धाश् चपूजयेत् पञ्चामृतगुलिकया गोकुदहनादिभिर् मांसैर् निरवद्यैःसमयैः पञ्चोपचारादिभिर् बाह्ये गणचक्रे। अध्यात्मनि ज्ञान-चित्तवाक्कायचक्रे सूर्यसंचारेण प्राणसंचारेण कालविशेषः। तेनकालविशेषेण दूतीसंचारः। दूतीसंचारेण भोगलयाधिकाराः प्रभुत्वंच कुलिकायाः षट्त्रिंशद्दूतिकानां च। यथानुक्रमेण वर्तमानकालेभोगः। अनागतकाले लयः प्रभुत्वं च। अतीतकाले ऽधिकारः। उदयेभोगः। मध्याह्ने ऽधिकारः। अस्तङ्गतस्थाने प्रभुत्वम्। अर्धरात्रे लय इति न्यायः। एवं बाह्ये भोगदिने ऽध्यात्मनिभोगवेलायां योगिनीसंचारः। योगिनीसंचारेण चक्रमेलापकः। चक्रमेलापके दिनभोगिनीं वेलाभोगिनीं पूजयेद् इति। बालकालेभोगः। युवाकाले ऽधिकारः। वृद्धकाले प्रभुत्वम्। मरणेऽर्धरात्रकाले लयः। लयात् पुनर् उत्पादो बाल इत्य् उच्यते। एवं कालविशेषेण चतुःसंध्याभेदेनाष्टप्रहरभेदेन चतुर्विंशतिपक्षभेदेन षट्त्रिंशद्योगिनीनां कालविशेषेण भोगलयाधिकारा आधिपत्यं चेति सर्वत्र नियमः॥
The Worship of the Four ज्ञानचक्रडाकिनीsइदानीं पूजाविधिर् उच्यते। इह बाह्ये ऽध्यात्मनि वा कुलिकांवज्रवाराहीं महाक्षरसुखलक्षणेन मध्यमोत्तमश्वासेनसर्वकालं पूजयेन् महामुद्रासिद्ध्यर्थं मन्त्री। लौकिकसिद्ध्यर्थं वज्रडाकिन्यादयो यथानुक्रमेण कालविशेषेण(१८)पूजयेद् इति। अत्र बाह्ये मकरसंक्रान्तौ पूर्ववक्त्रोदये वज्रडाकिनींपूजयेन् मारणकर्मसाधनार्थम्। मेषसंक्रान्तौ दक्षिणवक्त्रोदयेलामां वश्यकर्मसाधनार्थम्। कर्कटसंक्रान्तौ पश्चिम-वक्त्रोदये कण्डरोहां पूजयेत् स्तम्भनार्थम्। तुलासंक्रान्तव्उत्तरवक्त्रोदये रूपिणीं शान्तिकार्थं पूजयेन् मन्त्रीति। त्रिसंक्रान्तित्रिमासान्ते रविकाधनऋणवृद्धिहानिभेदेन वर्ष-स्य चतुर्युगसंध्याः। तासां संक्रान्तिदिनेषु यथोक्तक्रमेणचतस्रो डाकिन्यो भोगिन्यश् चित्तवाक्ज्ञानकायवक्त्रभेदेन भगवतःपूर्वदक्षिणपश्चिमोत्तरदिग्देव्यो ऽवगन्तव्याः। मारणादिकर्मसाधनाय न पृथ्व्यादिधातुभेन्देनेति नियमः। एवंसर्वत्र वक्ष्यमाणे वक्त्रभेदेन कर्मप्रसरसाधने पूजानियमः॥
The Worship of the Eight श्मशानदेवीsइदानीं श्मशानदेवीनां पूजोच्यते। इह मकरसंक्रान्तिदिने काका-स्याम् उच्चाटनार्थम्। कुम्भार्धदिने उलूकास्याम् आकृष्ट्यर्थम्। मेषसंक्रान्तिदिने श्वानास्यां कीलनार्थम्। वृषभार्धदिने शूकरास्यांपुष्ट्यर्थम्। कर्कटसंक्रान्तिदिने यमदाढीं निर्विषार्थम्। सिंहार्धदिने यमादूतीं मोहनार्थम्। तुलासंक्रान्तिदिने यमदंष्ट्रिणीं स्तोभनार्थम्। वृश्चिकार्धदिने यममथनींविद्वेषणार्थं पूजयेद् योगीति वर्षस्य सार्धसार्धमासात्मकाअष्टप्रहराः। तेष्व् आदिदिनेषु यथोक्तक्रमेणाष्टयोगिन्योभोगिन्यः सार्धसार्धमासं यावद् इति नियमः॥
(१९)The Worship of the Twenty-Four वीरs and विरेश्वरीs of चित्त-वाक्-कायचक्रs इदानीं चित्तवाक्कायचक्रदेवीपूजोच्यते। इह मार्गशीर्षामावास्यांप्रचण्डां कण्डकपालिनं मारणकर्मसाधनार्थम्। पूर्णिमायांचण्डाक्षीं महाकङ्कालं विश्यार्थम्। पुष्यामावास्यां प्रभावतींकङ्कालं स्तम्भनार्थम्। पूर्णमास्यां महानासां विकटदंष्ट्रिणंपुष्टिकार्थम्। माघामावस्यां वीरमतीं सुरावैरिणं शान्त्यर्थम्। पूर्णमास्यां खर्वरीम् अमिताभं मोहनार्थम् फाल्गुनामा-वस्यां लङ्केश्वरीं वज्रप्रभम् आकृष्त्यर्थम्। पूर्णमास्यांद्रुमच्छायां वज्रदेहं विद्वेषार्थम् इति। मार्गशीर्षादिचतुर्मा-सपक्षाष्टदिनेषु यथोक्तक्रमेणास्टवीरवीरेश्वर्यो भोगिन्यश् चित्तचक्रे॥
इदानीं वाक्चक्रपूजोच्यते। इह चैत्रामावास्याम् ऐरावतीम्अङ्कुरिकम् उच्चाटनार्थम्। पूर्णमास्यां महाभैरवां वज्रजटिलं संतापार्थम्। वैशाखामावास्यां वायुवेगां महावीरंसैन्यस्तम्भनार्थम्। पूर्णमास्यां सुराभक्षीं वज्रहुंकारंमेघवर्षणार्थम्। ज्येष्ठामावास्यां श्यामदेवीं सुभद्रंज्वरोपशमार्थम्। पूर्णमास्यां सुभद्रां वज्रभद्रं पातालभेद-नार्थम्। आषाढामावास्यां हयकर्णां महाभैरवम् आवेशनार्थम्। पूर्णमास्यां खगाननां विरुपाक्षं मेघविदारणार्थम् इति। चैत्रादिचुतुर्मासपक्षाष्टदिनेषु यथोक्तक्रमेणाष्टवीरवीरेश्वर्यो भोगि-न्यो वाक्चक्रे॥
इदाणीं कायचक्रपूजोच्यते। इह श्रावणामावास्यांचक्रवेगां महाबलं महाखड्गसाधनार्थम्। पूर्णमास्यांखण्डरोहां रत्नवज्रं नागकन्यावश्यार्थम्। भाद्रपदामावास्यांशौण्डिनीं हयग्रीवं नागराजस्तम्भनार्थम्। पूर्णमास्याम्चक्रवर्मिणीम् आकाशगर्भं महारससाधनार्थम्। अश्विनामावास्यां सुवीरां हेरुकम् अमृतफलसाधनार्थम्। पूर्ण-मास्यां महाबलां पद्मनर्तेश्वरं द्रव्यसाधनार्थम्। कार्तिकामा-वास्यां चक्रवर्तिनीं वैरोचनं रत्नसाधनार्थम्। पूर्ण-मास्यां महावीर्यां वज्रसत्त्वं त्रैलोक्यप्रकम्पनार्-थम् इति श्रावणादिचतुर्मासपक्षाष्टदिनेषु यथोक्तक्रमे-णाष्टवीरवीरेश्वर्यो भोगिन्यः कायचक्रे॥
(२०)अथवा वृश्चिकसंक्रान्तिदिने वृशिकार्धदिने। धनुःसंक्रान्तिदिनेधन्वर्धे। मकरसंक्रान्तिदिने मकरार्धे। कुम्भसंक्रान्तौकुम्भार्धदिनेष्व् अष्टवीरवीरेश्वर्यो भोगिन्यश् चित्तचक्रे। एवंमीनसंक्रान्तौ मीनार्धे। मेषसंक्रान्तौ मेषर्धे वृषसंक्रान्तौवृषार्धे। मिथुनसंक्रान्तौ मिथुनार्धे दिने। एष्व् अष्टदिनेषुयथोक्तक्रमेणाष्टवीरवीरेश्वर्यो भोगिन्यो वाक्चक्रे। तथा कर्कटसं-क्रान्तौ कर्कटार्धे। सिंहसंक्रान्तौ सिंहार्धे। कन्यासंक्रान्तौकन्यार्धे। तुलासंक्रान्तौ तुलार्धे। एष्व् अष्टदिनेषु यथाक्रमेणाष्टवी-रविरेश्वर्यो भोगिन्यः कायचक्रे। इह प्रभवादित्रिवर्षत्रिवर्-षप्रभेदेन वर्तमानं प्रथमवर्षं ग्राह्यम् तद्यथा। प्रभवो विभवः शुक्लः प्रमादो ऽथ प्रजापतिः। अङ्गिरा श्रीमुखो भावो युवा धाता तथैव च॥
ईश्वरो बहुधान्यश् च प्रमादी विक्रमो वृषः। चित्रभानुः सुभानुश् च तारणः पार्थिवो ऽव्यव्यः॥
सर्वजित् सर्वधारी च विरोधी विकृतः खरः। नन्दनो विजयश् चैव जयो मन्मथदुर्मुखौ॥
हेमलम्बो विलम्बी च विकारी शार्वरी प्लवः। शुभकृत् शोभनः क्रोधी विश्वावसुः पराभवः॥
प्रवङ्गः कीलकः सौम्यः साधारणो विरोधकृत्। परिधावी प्रमादी च आनन्दो राक्षसो ऽनलः॥
पिञ्गलः कालदूती च सिद्धार्थो रौद्रदुर्मती। दुन्दुभि रुधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः॥
इति षष्थिसंवत्सराः। त्रिवर्षान्ते पुनर् आदिवर्षत्रयंगुणत्रयभेदेन ग्राह्यम् इति तत्र। प्रथमवर्षे चतुर्देवीनामसहितंचतुर्वक्त्रमन्त्रं त्रिमासत्रिमासभेदेन जपेत्। ततो द्वितीये वर्षे(२१)ऽष्टयोगिनीनामसहितम् अष्टपदिकं मन्त्रं सार्धमासभेदेनजपेत्। ततस् तृतीये वर्षे चतुर्विंशतिदेवीनामसहितं प्रत्यङ्ग-मालामन्त्रं जपेत् पुर्वोक्तकर्मप्रसरसाधनार्थम्। एवं त्रिवर्षैःषद्वर्षैर् नववर्षैर् द्वादशवर्षैः षट्त्रिंशड्डाकिन्यः साधयित्वाततः सर्वकर्मप्रसरं लौकिकसिद्धिसाधनं करोति मन्त्रीतितथागतनियमः। एवम् अध्यात्मनि चतस्रः संध्या अष्टप्रहराःसार्धद्विदण्डात्मकाश् चतुर्विंशतिलग्नपक्षाः। एतासु वेलासुप्रतिदिने वज्रडाकिन्यादिकाः पूजयेत् पूर्वोक्तसिद्धि साधनायेति। कालविशेषेण दूतिकापूजाविधिनियमः॥
Time Subdivisions According to Other Tantrasइदानीम् अन्यतन्त्रातरोक्तः कालविशेष उच्यते। इह कालविशेषोभगवता तन्त्रतन्त्रान्तरेषूक्तः। अस्मिन्न् उद्देशमात्रेणोक्तः। स च तेन <अन्य>तत्रोक्ताभिप्रायेनात्रावगन्तव्यस् तन्त्रं तन्त्रान्तरेणबोद्धव्यम् इति तथागतवचनात्। एवम् असौ कालविशेषः। प्रथमंतावच् चतुष्पीठे मकरादीनि यानि लग्नानि तानि रोहितादयोद्वादशनाड्यः। ये पुष्यादयो द्वादशमासास् तान्य् अविद्यादीनिद्वादशाङ्गानि। एवं बाह्ये ऽध्यात्मनि प्रतिवर्षे प्रतिदिने द्वादशलग्नानि। एकैकलग्नं पञ्चपञ्चदण्डात्मकम्। दण्डंषष्टिपानीयपलात्मकम्। पनीपलं षट्श्वासात्मकम्। एवम् अहोरात्रेणषट्शताधिकैकविंशतिसहश्वासनिश्वासा बाह्ये सूर्यस्य दण्डाअध्यात्मनि श्वासाः। एवम् अहोरात्रेणेति। तथा हेवज्रे भग-वतोक्तं सपादषट्पञ्चशत्पानीयपलात्मकाश् चतुःषष्तिदण्डा निर्माणचक्रे। द्विदण्डात्मका द्वात्रिंशड्घटिका महासुखचक्रे। षोडशसंक्रान्तयोद्विघटिकात्मकाः संभोगचक्रे। अष्टौ प्रहराश् चतुर्-घटिकात्मिका धर्मचक्रे। अत्र गुरूपदेशः संभोगस्य महासु-खचक्रे विलोमः। एवम् अहोरात्रेण कालविशेषो लघुतन्त्रान्तरे सं-क्षिप्तः। मूलतन्त्रे पुनर् विसतरेण भगवतोक्तो लक्षाभिधानादिके(२२)। तद्यथा। तत्र बाह्ये सूर्यस्य प्रतिवर्षं दिनम् एव। तस्मिन्दिने कालविशेषः। षट्शताधिकैकविंशत्सहस्रदण्डास् ते च सूर्यश्वासाः। ते चाध्यात्मनि प्रतिदिने श्वासा देहिनाम् इति। एवं षष्टिषष्टि-दण्डात्मकानि षष्ट्युत्तरत्रिंशतदिनानि अध्यात्मनि षष्टिषष्टिश्वा-सात्मकानीति। एवं नवशतनवशतदण्डात्मकाश् चतुर्विंशतिपक्षाःअध्यात्मनि नवशतनवशतश्वासात्मका इति। तथा बाह्ये ऽष्टादशशता-ष्टादशशतदण्डात्मका द्वादशमासाः। अध्यात्मन्य् अष्टादशशताष्टा-दशशतश्वासात्मका इति। बाह्ये षट्त्रिंशच्छतषट्त्रिंशच्छ-तदण्डात्मकाः षडृतवः। अध्यात्मनि षट्रिंशच्छतषट्त्रिंशच्छत-श्वासात्मका इति। बाह्ये चतुःपञ्चाशच्छतचतुःपञ्चाशच्छतदण्डात्म-काश् चत्वारो युगाः। अध्यात्मनि चतुःपञ्चाशच्छतचतुःपञ्चा-शच्छतश्वासात्मका इति। बाह्ये द्वासप्ततिशतद्वासप्ततिशतदण्-डात्मकास् त्रयः कालाः। अध्यात्मनि द्वासप्ततिशतद्वासप्ततिश-तश्वासात्मका इति। बाह्ये ऽष्टशताधिकदशसहस्रदण्डात्मकेप्रत्येके ऽयने द्वे। अध्यात्मन्य् अष्टशताधिकदशसहस्रश्वासात्मकेइति। एवम् अहोरात्रेण षट्शताधिकैकविंशतिसहस्रदण्डा बाह्येसूर्यस्य प्रतिदिने। अध्यात्मनि देहिनां श्वासाः स्वस्वप्रतिदिने। अत्रमनुष्याणां श्वासोच्छ्वासं तनुजानां कृमिकुलानाम् अहोरात्रम्। त्रत्रैवायं कालविशेसो ऽवगन्तव्यः। इह मनुष्याणां मासः। अहोरात्रं प्रेतानाम् इति। सुराणां वर्षं दानवानां षष्टिसंवत्सराः। शकेर् इति बोधिसत्त्वानां श्वासचक्रसंख्या वर्षा अहोरात्रम्। तद् एव दिनम् <एकश्वासो> भर्तुः सत्त्वार्थकरणायेति। एवं(२३)कालविशेषः सर्वेषां प्रतिदिने ऽवगन्तव्यस् तन्त्रतन्त्रान्तरे त-थागतेनोक्तः। एवं चतुष्पीठादिभिश् चक्रसंवरे कालविशेषो ज्ञातव्यः। मूलतन्त्रश्रुताभावात्। अनेन तन्त्रेण चतुष्पीठादिकेयोगिनीसंचारो भोगलयाधिकारो ऽवगन्तव्यो विद्वधिर् इति। कालविशेषेणबाह्ये ऽध्यात्मनि पूजाविधिनियमः॥
(२४)Chapter VThe thirty-six कुलदूतिकाsइदानीं षट्त्रिंशत्कुलदूतिका उच्यन्ते। सप्तत्रिंशतिमा कुलिका। त-द्यथा मूलतन्त्रे। इह वज्रवाराहि कुलिका। अकुलीना डोम्बिनी। दाकिनी शुद्री लामा क्षत्रिणी। खण्डरोहा वैश्या। रूपिणी ब्राह्मणी॥
काकास्या म्लेच्छी। उलूकास्या हड्डिनी। श्वानास्या मातङ्गी। सूकरास्यातापिनी। यमदाढी शवरी। यमदूती भिल्ली। यमदंष्ट्रिणी पुक्कसी। यमामथनी बर्बरी॥
प्रचण्डा अंशुकारिणी। चण्डक्षी कल्यपालिनी। प्रभावती मालाकारी। महानासा हेमकारी। विरमती कूपकर्ती। खर्वरी वेणुनर्तकी। लङ्केश्वरी कंसकारि। द्रुमच्छाया मणिकारी। ऐरावती लोहकारी। महाभैरवा लाक्षाकारी। वायुवेगाकोशकारी। सुराभक्षी तैलिनी। श्यामादेवी नापिती। सुभद्रा चर्मकारीहयकर्णा काष्ठकारी। खगानना वंशकारी। चक्रवेगा खटिकिनी। खण्डरोहा कन्दुकी। शौण्डिनी शिबिका। चक्रवर्मिणी नटी। सुवीरा रजकी। महाबला कैवर्ती। चक्रवर्तिनी कुम्भकारी। महावीर्यागणिका॥
एता यथानुक्रमेण बाह्ये भोगदिने भोगवेलायांपूर्वकर्मप्रसरलौकिकसिद्धिसाधनार्थं पूजेयेन् मन्त्रीति नियमःकुलदूतीपूजाविधौ भगवतोक्तः॥
(२५)इदानीं स्वरूपपरिवर्तिन्यः समयदूतूय उच्यन्ते। इहवज्रवाराही कुलिका सर्वासां सर्वरूपपरिवर्तिनी। वज्रडाकिनीश्वानी। लामा अश्वी। खण्डरोहा हस्तिनी। रूपिणी गौः॥
प्रचण्डा मेषी। चण्डक्षी अजी। प्रभावती हरिणी। महानासा खरी। वीरमती सूकरी। खर्वरी उष्ट्री। लङ्केश्वरी अरण्यश्वानी। द्रुमच्छायाअरण्यसिंहिनी। ऐरावती गण्डी। महाभैरवा व्याघ्री। वायुवेगा ऋक्षी। सुराभक्षी नकुली। श्यामादेवी चमरी। सुभद्रा जम्बुकी। हयकर्णाउद्री। खगानना बिडाली। चक्रवेगा कुम्भिरी। खण्डरोहा कपर्दिका। शौण्डिनी कर्कटी। चक्रवर्मिणी मत्सी। सुविरा मकरी। महाबलादर्दूरी। चक्रवर्तिनी कूर्मी। महावीर्या शङ्खिनी। काकास्या गोधी। उलूकास्या मूषकी। श्वानास्या शालिजातकी। शूकरास्या वानरी। यमादाढीगवली। यमदूती सल्लकी। यमदंष्ट्रिणी-इषुकी। यममथनी कृकलासी। इति स्थलचरजलचरवनचररूपपरिवर्तिन्यः समयदेवत्यःषट्त्रिंशत् सिद्धिदाः स्युर् योगिनां यदा योगिनस् ते स्वरूपं तासां जानन्तीति॥
इदानीं खेचररूपपरिवर्तिन्य उच्यन्ते। इह कुलिकावज्रवाराही सर्वरूपपरिवर्तिनी। वज्रडाकिनी चातकी। लामा शुकी। खण्डरोहा सारिका। रूपिनी कोकिला॥
प्रचण्डा लाबी। चण्डाक्षीपारावती। प्रभावती बकी। माहानासा चटकी। वीरमती चक्रवाकी। खर्वरी हम्सी लङ्केश्वरी पाजी। द्रुमच्छाया वृक्षारिणी। ऐरावती काकी। महाभैरवा गृध्री। वायुवेगा घुकी। सुराभक्षीमृगारिणी। श्यामादेवी शिखिनी। सुभद्रा कुक्कुटी। हयकर्णा भेडिणी। खगानना पारी। चक्रवेगा क्रुञ्चा। खण्डरोहा कोकिलाक्षी। शौण्डिनी रजकी। चक्रवर्मिणी भगवती। सुवीरा तित्तिरी। महाबलासारसी। चक्रवर्तिनी जलकाकी। महावीर्या बलाका॥
काकास्या नीलाक्षी। उलूकास्या चकोरी। श्वानास्या अनिला। शूकरास्या वाग्बुलिका। यमदाढी(२६)बुक्की। यमदूति टिट्टिभी। यमदंष्ट्रिणी भेरुण्डी। यममथनीअम्बरकी। इति खेचररूपपरिवर्तिन्यः सप्तत्रिंशद्योगिन्यः। एषांस्थलचरजलचरवनचरखेचराणां परस्पराहतैर् निरवद्यैर्यथालब्धैः पललैः पञ्चामृतसहितैर् वक्ष्यमाणक्रमेण गुलिकांकृत्वा श्मशानभूम्यां साधयित्वा तया वाग्वज्रादीनि पूजाद्रव्याणिप्रोक्षयेत्। ततः शोभयेद् बोधयेत् प्रदीपयेद् अमृतीकृत्वायथालब्धान् समयद्रव्यान् चक्रपूजाकाले योगिनीनां निवेदयेन् मन्त्री। भावनाकाले संचारकाले समापत्तिकाले गुलिकाम् आत्ममुखेप्रक्षेपयेत् प्रज्ञामुखे च वीरवीरेश्वरीमुखे च। इतिसमयपूजाविधिनियमः॥
(२७)Chapter VIThe Places of योगिनीs इदानिं बाह्ये ऽध्यात्मनि पीठादियोगिनीसंचारस्थानम् उच्यते। बाह्येसुमेरोर् मूर्द्ध्नि विश्वपदमवरटके। अध्यात्मनि गुह्यकमलेमूलपीठे वज्रवाराही कुलिका। पद्मपूर्वदले हृत्कमलेआत्मपीठे वज्रडाकिनी। दक्षिणदले कण्ठपद्मे परपीठे लामा। पश्चिमदले नाभिपद्मे मन्त्रपीठे खण्डरोहा। उत्तरदलेललाटकमले तत्त्वपीठे रूपिणी। कर्णिकायाम् उष्णीषकमले सर्वपीठेश्रीहेरुकः पूजनीयो ज्ञानचक्रे। तत आकाशे चित्तचक्रे मेरोर् अष्टदिक्षु पूर्वारे पूर्णगिरौ शिरसिप्रचण्डाकण्डकपालिकम्। दक्षिणारे जालन्धरे शिखायां चण्-डाक्षीमहाकङ्कालम्। पश्चिमारे ओड्डियाणे दक्षिणकर्णोर्ध्वे प्रभाव-तीकङ्कालम्। उत्तारे ऽर्बुदे ग्रीवापृष्ठमूर्द्ध्नि महानासाविकटदं-ष्टृणम् इति सवीरवीरेश्वर्यश् चतुष्पीठेषु भोगिन्यःकुण्डलादक्षिणावर्तेन। तत ईशानारे गोदावर्यां वामकर्णोर्ध्वेवीरमतीसुरावैरिणम्। वायव्यारे रामेश्वरे भ्रूमध्ये खर्व-री-अमिताभम्। नैरृत्यारे देवीकोटे चक्षुर्द्वये लङ्केश्वरीवज्रप्रभम्। आग्नेयारे मालवके बाहुमूलयोर् द्रुमच्छायावज्रदेहम्। इति चतुर्-षूपपीठेषु सवीरवीरेश्वर्यो भोगिन्यः कुण्डलावामावर्तेन। एवंपीठोपपीठभोगिन्यः खेचर्यश् चित्तचक्रे पूजयेद् इति। ततो भूमिवलये मेरोर् अष्टदिक्षु वाक्चक्रे पूर्वारे कामरूपेकक्षद्वये ऐरावती-अङ्कुरिकम्। दक्षिणारे ओड्रे स्तनयुगले महा-(२८)भैरवावज्रजटिलम्। इति क्षेत्रयोः सवीरवीरेश्वर्यौ भोगिन्यौ। पश्चिमारे त्रिशकुनौ नाभौ वायुवेगामहावीरम्। उत्तरारे कोशलेनासिकाग्रे सुराभक्षीवज्रहूंकारम्। इत्य् उपक्षेत्रयोः सवीरवी-रेश्वर्यौ भोगिन्यौ। एवं क्षेत्रोपक्षेत्रभोगिन्यः कुण्डलादक्षि-णावर्तेन। तत इशानारे कलिङ्गे मुखे श्यामादेवीसुभद्रम्। वायव्यारे लम्पाके कण्ठे सुभद्रावज्रप्रभम् इतिछन्दोहयोः सवीरवीरेश्वर्यौ भोगिन्यौ। नैरृत्यारे काञ्च्यांहृदये हयकर्णामहाभैरवम्। आग्नेयारे हिमालये मेढ्रेखगाननाविरूपाक्षम्। इत्य् उपछन्दोहयोः सवीरवीरेश्वर्यौ भोगिन्यौछन्दोहोपछन्दोहभोगिन्यः कुण्डलावामावर्तेन। एवं क्षेत्रोपक्षे-त्रछन्दोहोपछन्दोहभोगिन्यः भूचर्यो वाक्चक्रे पुज्या मन्त्रिणा। ततो भूमितले समुद्रवलये मेरोर् अष्टदिक्षु कायचक्रे पूर्वारेप्रेतपुर्यां लिङ्गे चक्रवेगामहाबलम्। दक्षिणारे गृहदेवतायांगुदे खण्डरोहारत्नवज्रम्। इति मेलापकयोः सवीरवीरेश्वर्यौभोगिन्यौ। पश्चिमारे सौराष्ट्रे ऊरुयुगले शौण्डिनीहयग्रीवम्। उत्तरारे सुवर्णद्वीपे जङ्घयोश् चक्रवर्मिणी-आकाशगर्भम्। इत्य् उपमेलापकयोः सवीरवीरेश्वर्यौ भोगिन्यौ। एवंमेलापकोपमेलापकभोगिन्यः कुण्डलादक्षिणावर्तेन। तत ईशानारेनगरे पादाङ्गुलीषु सुवीराहेरुकम्। वायव्यारे सिन्धौ पादपृष्ठयोर्महाबलापद्मनर्तेश्वरम्। इति श्मशानयोः सवीरवीरेश्वर्यौ भोगिन्यौ। नैरृत्यारे मरौ पादाङ्गुष्ठयोश् चक्रवर्तिनीवैरोचनम्। आग्नेयारेकुलतायां जानुद्वये महावीर्यावज्रसत्त्वम् इत्य् उपश्मशानयोःसर्वीरवीरेश्वर्यौ भोगिन्यौ। एवं श्मशानोपश्मशानभोगिन्यःकुण्डलावामावर्तेन। एवं मेलापकोपमेलापकश्मशानोपश्म-शानभोगिन्यः कायचक्रे पूजनीयाः। योगिनीसंचारेण चक्रमेलापकेवक्ष्यमाणक्रमेण। इति त्रिचक्रसंचारपूजा। ततह् पातले ऽग्निवायुवलयमध्ये मेरोर् अष्टदिक्षु तीव्रधू-ममहानरके ऽष्टसु महाश्मशानेषु। तत्र पूर्वश्मशाने शूलभेदेमुखद्वारे काकास्या। दक्षिणे शवदहने दक्षिणनासापूटे उलू-कास्या। पश्चिमे पूतिगन्धे गुदद्वारे श्वानास्या। उत्तरे क्लिन्नगन्धे(२९)वामनासापुटद्वारे शुकरास्या। इति कुण्डलादक्षिणावर्तेन। ततईशानारे बालमृत्यौ वामकर्णद्वारे यमदाढी। वायव्ये सर्पदंशेदक्षिणकर्णद्वारे यमदूती। नैरृत्यां घोरयुद्धे दक्षिणनेत्रद्वारेयमदंष्त्रिणि आग्नेयाम् उच्छिष्ते वामनेत्रद्वारे यममथनी। इतिकुण्डलावामावर्तेन। एवं दक्षिणावर्तेन वामवर्तेनानुलोम-विलोमेनाष्टमहाश्मशानभोगिन्यश् चक्रमेलापके पूज्या इति। एवंनाभिहृत्कण्ठललाटेषु ज्ञानचित्तवाक्कायचक्रेषु मुखाद्यष्टद्वारेषुद्वारपालिन्यः। एवं षट्त्रिंशद्योगिन्यौ बाह्ये ऽध्यात्मनि आसांस्थाननिर्देशः॥
(३०)Chapter VIIभोग, लय अधिकार and प्रभुत्वम्(३१)इदानीं भोगलयाधिकारप्रभुत्वान्य् उच्यन्ते कुलिकादिनाम्। इहकुलिकायाः सर्वत्र भोगलयाधिकाराः प्रभुत्वं चात्मपीठादिके। वज्रडाकिन्यादीनां यथानुक्रमेणात्मपीठादिके। इहात्मापीठेभोगः परपीठे लयः। तत्त्वपीठे ऽधिकारः। मन्त्रपीठे प्रभुत्वम्। परपीठे भोगः मन्त्रपीठे लयः। आत्मपीठे ऽधिकारः। तत्त्वपीठे प्रभुत्वम्। मन्त्रपीठे भोगः। तत्त्वपीठे लयः। परपीठे ऽधिकारः। आत्मपीठे प्रभुत्वम् तत्त्वपीठे भोगः। आत्मपीठे लयः। मन्त्रपीठे ऽधिकारः परपीठे प्रभुत्वम्। इतिचतुःसंध्याभेदेन दूतीसंचारश् चक्रमेलापके दक्षिणावर्तेन नाभौ ज्ञानचक्रे। ततः पूर्णगिरौ भोगः। जालन्धरे लयः। अर्बुदे ऽधिकारः। ओड्डियाणे प्रभुत्वम्। जालन्धरे भोगः। ओड्डियाणे लयः। पूर्णगिराव्अधिकारः। अर्बुदे प्रभुत्वम्। ओड्डियाणे भोगः। अर्बुदे लयः। जा-लन्धरे ऽधिकारः। पूर्णगिरौ प्रभुत्वम्। अर्बुदेभोगः। पूर्णगिरौ लयः। ओड्डियाणे ऽधिकारः। जालन्धरे प्रभुत्वम्इति कुण्डलादक्षिणावर्तेन वृश्चिकोदये वृश्चिकार्धेध नुरुदये धन्वर्धे मार्गामावास्यां मार्गपूर्णि-मायां वा पुष्यामावास्यां पुष्यपूर्णिमायां वा योगिनीसंचारो हृदयेचित्तचक्रे। ततो गोदावर्यां भोगः। रामेश्वरे लयः। मालवेऽधिकारः। देवीकोटे प्रभुत्वम्। रामेश्वरे भोगः। देवीकोटे लयः। गोदावर्याम् अधिकारः। मालवे प्रभुत्वम्। देवीकोटे भोगः। मालवे(३२)लयः। रामेश्वरे ऽधिकारः। गोदावर्यां प्रभुत्वम्। मालवे भोगः। गोदावर्यां लयः। देवीकोटे ऽधिकारः। रामेश्वरे प्रभुत्वम्। इतिकुण्डलावामावर्तेन मकरोदये मकरार्धे कुम्भोदयेकुम्भार्धे योगिनीसंचारः हृदये चित्तचक्रे। बाह्ये वा चक्रमेलापकइति पीठोपपीठेषु चित्तचक्रे योगिनीसंचारः। इह यदा कामरूपे भोगः। तदौड्रे लयः। कोशले ऽधिकारः। त्रिशकुनौ प्रभुत्वम्। एवम् ओड्रे भोगः। त्रिशकुनौ लयः। कामरूपे ऽधिकारः। कोशले प्रभुत्वम्। त्रिशकुनौ भोगः। कोशलेलयः। ओड्रे ऽधिकारः। कामरूपे प्रभुत्वम्। कोशले भोगः। कामरूपे लयः। त्रिशकुनाव् अधिकारः। ओड्रे प्रभुत्वम्। इतिक्षेत्रोपक्षेत्रभोगिन्यः कुण्डलादक्षिणावर्तेन कण्ठे वाक्चक्रे बाह्येमेलापके योगिनीनां संचारः। मीनोदये मीनार्धे मेषोदये मेषार्धेयोगिनीनाम् इति। इह यदा कलिङ्गे भोगस् तदा लम्पाके लयः। हिमालये ऽधिकारः। काञ्च्यां प्रभुत्वम् एवं लम्पाके भोगः। काञ्च्यां लयः कलिङ्गे ऽधिकारः। हिमालये प्रभुत्वम्। काञ्च्यां भोगः। हिमालये लयः। लम्पाके ऽधिकारः। कलिङ्गेप्रभुत्वम्। हिमालये भोगः। कलिङ्गे लयः। काञ्च्याम् अधिकारः। लम्पाके प्रभुत्वम्। इति छन्दोहोपछन्दोहभोगिन्यः कुण्डलावामा-वर्तेन वृषोदये वृषार्धे मिथुनोदये मिथुनार्धे कण्ठे वाक्चक्रे बाह्ये चक्रमेलापके क्षेत्रोपक्षेत्रछन्दोहोपछन्दोहयोगि-नीनां संचारः कण्ठे वाक्चक्रे। इह यदा प्रेतपूर्यां भोगस् तदा गृहदेवतायां लयः। सुवर्णद्वीपे ऽधिकारः सौराष्ट्रे प्रभुत्वम्। <एवं>गृहदेवतायां भोगः। सौराष्ट्रे लयः। प्रेतपूर्याम् अधिकारः। सुवर्णद्वीपे प्रभुत्वम्। सौराष्ट्रे भोगः। सुवर्णद्वीपे लयः। गृहदेवतायाम् अधिकारः। प्रेतपूर्यां प्रभुत्वम्। सुवर्णद्वीपेभोगः। प्रेतपूर्यां लयः। सौराष्ट्रे ऽधिकारः। गृहदेवतायांप्रभुत्वम्। इति मेलापकोपमेलापकभोगिन्यः कुण्डलादक्षिणावर्तेनललाटे कायचक्रे। कर्कटोदये कर्कटार्धे सिंहोदये सिंहार्धे बाह्येचक्रमेलापके कायचक्रे योगिनीनां संचारः। इह यदा नगरेभोगस् तदा सिन्धौ लयः। कुलतायाम् अधिकारः। मरौ प्रभुत्वम्। एवं सिन्धौ भोगः। मरौ लयः। नगरे ऽधिकारः। कुलतायांप्रभुत्वम्। मरौ भोगः। कुलतायां लयः। सिन्धाव् अधिकारः। नगरे प्रभुत्वम्। कुलतायां भोगः। नगरे लयः। मराव्अधिकारः। सिन्धौ प्रभुत्वम्। इति श्मशानोपश्मशानभोगिन्यः कुण्डलावामावर्तेन। कन्योदये कन्यार्धे तुलोदये(३३)तुलार्धे ललाटे कायचक्रे बाह्ये चक्रेमेलापके योगिनीनां संचारःकायचक्रे। आसां चतुर्विंशतियोगिनीनां त्रिचक्रे वृश्चिकादिद्वादशलग्नार्धभेदे-न कालविशेषेण संचारः। इह यदा शूलभेदे भोगस् तदा शवदहनेलयः। क्लिन्नगन्धे ऽधिकारः। पूतिगन्धे प्रभुत्वम्। एवंशवदहने भोगः। पूतिगन्धे लयः। शूलभेदे ऽधिकारः। क्लिन्नगन्धे प्रभुत्वम्। पूतिगन्धे भोगः। क्लिन्नगन्धेलयः। शवदहने ऽधिकारः। शूलभेदे प्रभुत्वम्। क्लिन्नगन्धेभोगः। शूलभेदे लयः। पूतिगन्धे ऽधिकारः। शवदहनेप्रभ्त्वम्। इति दिङ्महाश्मशानभोगिन्यः कुण्डलादक्षिणावर्तेन। अर्धरात्रात् प्रथमप्रहरे द्वितीये तृतीये चतुर्थे वक्त्रादिचतुर्द्वारेषुसंचारो बाह्ये गणचक्रे ऽपि योगिनीनाम् इति। इह यदा बालमृत्यौ भोगस्तदा सर्पदंशे लयः। उच्छिष्टे ऽधिकारः। घोरयुद्धेप्रभुत्वम् एवं सर्पदंशे भोगः। घोरयुद्धे लयः। बालमृत्याव् अधिकारः। उच्छिष्टे प्रभुत्वम्। घोरयुद्धे भोगः। उच्छिष्टे लयः। सर्पदंशे ऽधिकारः। बालमृत्यौ प्रभुत्वम्। उच्छिष्टे भोगः। बालमृत्यौ लयः। घोरयुद्धे ऽधिकारः। सर्पदंशे प्रभुत्वम्। इति विदिक्श्मशानभोगिन्यः कुण्डलावामावर्तेन। मध्याह्नात् प्रथमप्रहरे द्वितीये तृतीये चतुर्थेवामकर्णादिचतुर्द्वारेषु श्मशानभोगिनीनां संचारः। बाह्येचक्रमेलापके ऽपि मुखाद्यष्टद्वारेष्व् अष्टप्रहरभेदेन कालविशेषेणसंचारः। एवं बाह्ये ऽध्यात्मनि योगिनीनां संचारो द्विधा। एकःपूर्वादिचित्तवाग्ज्ञानकायचतुर्वक्त्रभेदेन कुण्डलादक्षिणावर्तेन दिक्षु। अपरः कायज्ञानवाक्चित्तवक्त्रभेदेन कुण्डलावामावर्तेन विदिक्षु। इह ज्ञानकमलपूर्वदले चित्तवाक्कायचक्राणां पूर्वाग्नेयारेषुपूर्वाग्नेयमहाश्मशानयोर् भोगिन्यश् चित्तवक्त्रस्वभावेनमारणादिकर्मसिद्धिदाः स्युः। एवं दक्षिणदले दक्षिणन-इरृत्यारेषु दक्षिणनैरृत्यमहाश्मश्मशानयोर् भोगिन्यो वाग्वक्त्र-स्वभावेन वश्यादिकर्मसिद्धिदाः स्युः। एवं पश्चिमदले पश्चिम-वायव्यारेषु पश्चिमवायव्यमहाश्मशानयोर् भोगिन्यो ज्ञानवक्त्र-स्वभावेन स्तम्भनादिकर्मसिद्धिदाः स्युः। तथोत्तरदले उत्तरेशाना-रेषूत्तरेशानमहाश्मशानयोर् भोगिन्यः कायवक्त्रस्वभावेन शान्तिका-दिकर्मसिद्धिदाः स्युः। आसां वायव्याग्नेयमाहेन्द्र-वारुणमण्डलानि यरलवाक्षरसंभूतानि हृदि कण्ठे नाभौ ललाटे(३४)यथानुक्रमेणावगन्तव्यान्य् आसनानि स्वस्वारपृष्ठेषु। इति भगवतश्चतुर्वक्त्रभेदेन आसां संचारः सूर्यप्राणसंचारेण कालविशेषो यस्तेन कालविशेषेण पूजाविधिः एवं सर्वेषु योगिनीतन्त्रेषु यो-गिनीप्रमाणेन कालविशेषेण संचारः। महामायायां चतुर्-योगिनीनां चतुःसंध्याभेदेन संचारः। यत्राष्टयोगिन्यस् तत्रप्रहराष्टभेदेन यत्र षोडशस् तत्रार्धप्रहरभेदेन। यत्रद्वात्रिंशत् तत्र घटिकाभेदेन। यत्र चतुःषष्टिस् तत्र दण्डभेदेन। यत्र पञ्चदशस् तत्र पञ्चदशस् तिथिभेदेन। यत्र द्वादशस् तत्रलग्नभेदेन। यत्र चतुर्विंशतिस् तत्र लग्नार्धभेदेन। यत्र षट् तत्र ऋतुभेदेन। यत्र त्रयस् तत्र कालभेदेन। यत्र द्वे त-त्रायनभेदेन। यत्रैका तत्र संचारो नास्ति। इह सर्वत्र नाडिकाभे-देन। प्राणसंचारः प्राणसंचारेण नानाभेदेन कालविशेषः। तेन कालविशेषेण पूजाविधिः। सर्वेषु योगिनीतन्त्रेषु दूतीनां सं-चारः। संचारवशेन भोगलयाधिकाराः प्रभुत्वं चेति सर्वत्राव-गन्तव्यं॥
(३५)Chapter VIIIThe movement of योगिनीs in the गणचक्रThe ज्ञानचक्रसंचार1st Dayइदानीं गणचक्रे कुलिकाया दूतीनां च स्थानात् स्थानसंचार उच्यते। अत्र प्रतिपद्दिने ऽर्धरात्रे पूर्ववक्त्रोदये मध्याद् अधिपतिस्थानाद्वज्रवाराह्याह् कुलिकायाः पूर्वदले संचारः। वज्रडाकिन्याःकुलिकाधिपतिस्थाने। ततः स्थानवशाद् या वज्रडाकिनी सा कुलिका भवति। या वज्रवाराही सा वज्रडाकिनी भवति। ततः प्रातःसंध्यायांदक्षिणवक्त्रोदये ऽधिपतिमध्यस्थानाद् वज्रडाकिन्याः कुलिकायादक्षिणदले संचारः। लामाया मध्याधिपतिस्थाने। ततः स्थानवशाद्या वज्रडाकिनीकुलिका सा लामा भवति। या लामा सा कुलिका भवति। ततोमध्याह्नसंध्यायां पश्चिमवक्त्रोदये ऽधिपतिमध्यस्थानात्लामाकुलिकायाः पश्चिमदले संचारः। खण्डरोहाया मध्याधिपतिस्थाने। ततः स्थानवशाद् या लामाकुलिका सा खण्डरोहा भवति। याखण्डरोहा सा कुलिका भवति। ततो ऽपराह्णसंध्यायाम् उत्तरवक्त्रोदयेखण्डरोहाकुलिकाया उत्तरदले संचारः। रूपिण्या मध्येऽधिपतिस्थाने। ततः स्थानवशाद् या खण्डरोहा कुलिका स रूपिणी भवति। या रूपिणी सा कुलिका भवति। 2nd Dayपुनर् अपरदिने द्वितीयायां रूपिणीकुलिकादिसंचारः। तत्रार्धरात्रसंध्यायां पूर्ववक्त्रोदये रूपिण्याः कुलिकायामध्याधिपतिस्थानात् पूर्वदले संचारः। वज्रवाराह्या डाकिन्या मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् रूपिणी वज्रडाकिनी भवति। (३६)वज्रवाराहीडाकिनी कुलिका भवति। ततः प्रातःसंध्यायां। वज्रवाराह्याः कुलिकाया दक्षिणदले संचारः। वज्रडाकिन्या लामायामध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् वज्रवाराही लामा भवति। वज्रडाकिनी या लामा सा कुलिका भवति। ततो मध्याह्नसंध्यायांवज्रडाकिनीलामाकुलिकायाः पश्चिमदले संचारः। लामाखण्डरोहायामध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् या वज्रडाकिनीलामाकुलिका साखण्डरोहा भवति। या लामाखण्डरोहा सा कुलिका भवति। ततोऽपराह्णसंध्यायाम् लामाखण्डरोहायाः कुलिकाया उत्तरदलेसंचारः। खण्डरोहारूपिण्या मध्ये ऽधिपतिस्थाने। ततःस्थानवशल् लामाखण्डरोहाकुलिका या सा रूपिणी भवति। याखण्डरोहारूपिणी सा कुलिका भवति। 3rd Dayततस् तृतीयदिने तृतीयायां खण्डरोहाकुलिकादिसंचारः। तत्रार्धरात्रसंध्यायां पूर्ववक्त्रोदये खण्डरोहारूपिणीकुलि-कायाः पूर्वदले संचारः। रूपिणीवज्रडाकिन्या मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् या खण्डरोहारूपिणीकुलिका सा वज्रडाकिनी भवति। यारूपिणीवज्रडाकिनी सा कुलिका भवति। ततः पूर्वाह्णसंध्यायां दक्षि-णवक्त्रोदये रूपिनीवज्रडाकिनीकुलिकाया दक्षिणदले संचारः। वज्रवाराह्या लामाया मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् यारूपिणीवज्रडाकिनीकुलिका सा लामा भवति। या वज्रवाराहीलामा सा कुलिकाभवति। ततो मध्याह्नसंध्यायां पश्चिमवक्त्रोदयेवज्रवाराह्या लामाकुलिकायाः पश्चिमदले संचारः। वज्रडाकिनीखण्डरो-हाया मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् वज्रवाराहीलामा-कुलिका खण्डरोहा भवति। वज्रडाकिनीखण्डरोहा कुलिका भवति। ततो ऽपराह्णसंध्याया उत्तरवक्त्रोदये वज्रडाकिनीखण्डरोहा-कुलिकाया उत्तरदले संचारः। लामारूपिण्या मध्ये ऽधिपतिस्थाने। ततःस्थानवशाद् वज्रडाकिनीखण्डरोहाकुलिका या सा रूपिणी भवति। यालामारूपिणी सा कुलिका भवति। 4th Dayततश् चतुर्थदिने चतुर्थ्यां लामाकुलिकादिसंचारः। तत्रार्धरात्र-संध्यायां पूर्ववक्त्रोदये लामारूपिणीकुलिकायाः पूर्वदले संचारः। (३७)खण्डरोहावज्रडाकिन्या मध्ये ऽधिपतिस्थाने। ततः स्थानवशा। लामारूपिणीकुलिका वज्रडाकिनी भवति। खण्डरोहावज्रडाकिनीकुलिकाभवति। ततः प्रातःसंध्यायां दक्षिणवक्त्रोदये खण्डरोहा-वज्रडाकिनीकुलिकाया दक्षिणदले संचारः। रूपिणीलामाया मध्येऽधिपतिस्थाने। ततः स्थानवशात् खण्डरोहावज्रडाकिनीकुलिका लामा भवति रूपिणीलामा कुलिका भवति। ततो मध्याह्नसंध्यायांपश्चिमवक्त्रोदये रूपिणीलामाकुलिकायाः पश्चिमदले संचारः। वज्रवा-राह्याः खण्डरोहाया मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् यारूपिणीलामाकुलिका सा खण्डरोहा भवति। या वज्रवाराहीखण्डरोहा साकुलिका भवति। ततो ऽपराह्णसंध्यायाम् उत्तरवक्त्रोदये वज्रवाराही-खण्डरोहाकुलिका उत्तरदले संचारः। वज्रडाकिनीरूपिण्या मध्येऽधिपतिस्थाने। ततः स्थानवशाद् वज्रवाराहीखण्डरोहाकुलिका। यासा रूपिणी भवति। या वज्रडाकिनीरूपिणी सा कुलिका भवति। 5th Dayततः पञ्चमे दिने पञ्चम्यां वज्रडाकिनीकुलिकादिसंचारः। तत्रार्धरात्रसंध्यायां पूर्ववक्त्रोदये वज्रडाकिनीरूपिणीकुलिकायाः। पूर्वदले संचारः। लामावज्रडाकिन्या मध्ये ऽधिपतिस्थाने। ततः स्थानवशाद् या वज्रडाकिनी सा लामाखण्डरोहारूपिणीकुलिका भूत्वास्वस्थाने पुनर् एव सा वज्रडाकिनी प्रथमपूर्णायाम्। ततः पूर्वसंध्यायां दक्षिणवक्त्रोदये लामावज्रडाकिनीकुलिकायादक्षिणदले संचारः। खण्डरोहालामाया मध्ये। ततः स्थानवशाल्लामा या सा खण्डरोहारूपिणीवज्रडाकिनीकुलिका भूत्वा पुनर् एवस्वस्थाने लामा भवति। या खण्डरोहालामा सा कुलिका भवति। ततो मध्याह्नसंध्यायां पश्चिमवक्त्रोदये खण्डरोहालामाकुलि-कायाः पश्चिमदले संचारः। रूपिणीखण्डरोहाया मध्ये। ततःस्थानवशाद् या खण्डरोहा सा रूपिणीवज्रडाकिनीलामाकुलिका भूत्वास्वस्थाने पुनर् एव खण्डरोहा भवति। या रूपिणीखण्डरोहा सा कुलिकाभवति। ततो ऽपरसंध्यायाम् उत्तरवक्त्रोदये(३८)रूपिणीखण्डरोहाकुलिकाया उत्तरदले संचारः। वज्रवाराह्या रूपिण्यामध्ये। ततः स्थानवशाद् या रूपिणी सा वज्रडाकिनीलामाखण्डरो-हाकुलिका भूत्वा पुनर् एव स्वस्थाने रूपिणी भवति। या वज्रवारा-हीरूपिणी सा वज्रडाकिनीलामाखण्डरोहारूपिणी भूत्वा पुनर् एवस्वस्थाने कुलिका। एवं पञ्चमे दिने विंशतिषु संध्यासु विंशत्याकारसंभोदिपरि-वर्तेनैष संचारो <वज्र>वाराह्यादीनां नन्दाभद्राजयारि-क्तापूर्णाप्रतिपद्द्वितीयातृतीयाचतुर्थापञ्चमीतिथिभेदेन पञ्चचन्द्रक-लास्वभावेन प्रथमानन्दभेदेनेति। एवं यथा प्रतिपदि तथाषष्ट्याम्। यथा द्वितीयायां तथा सप्तम्याम्। यथा तृतीयायां तथाष्टम्-याम्। यथा चतुर्थ्यां तथा नवम्याम्। यथा पञ्चम्यां तथादशम्यां संचारः परमानन्दभेदेन। एवं यथा षष्ट्यां तथैक-दश्याम्। यथा सप्तम्यां तथा द्वादश्याम्। यथाष्टम्यां तथा त्र-योदश्याम्। यथा नवम्यां तथा चतुर्दश्याम्। यथा दशम्यांतथा पूर्णमास्यां संचारो विरमानन्दभेदेन। तदन्ते महापूजांकृत्वा प्रथमपक्षे चतुर्योगिनीनां संचार इति॥
The महाश्मशानसंचार1st Dayततो द्वितीयकृष्णपक्षे प्रतिपद्दिने ऽर्धरात्रात् प्रथमप्रहरेकुलिकायाः पूर्वस्मिन् महाश्मशाने संचारः। काकास्यायामध्ये ऽधिपतिस्थाने। ततः स्थानवशात् कुलिका। काकास्या भवति काका-स्या या सा कुलिका भवति। ततो द्वितीये प्रहरे काकास्याकुलिकाया दक्षिणम-हाश्मशाने संचारः। उलूकास्याया मध्ये। ततः स्थानवशात् काकास्याकु-लिका उलूकास्या भवति। उलूकास्या कुलिका भवति। ततस् तृतीये प्रहरेउलूकास्याकुलिकायाः पश्चिममहाश्मशाने संचारः। श्वानास्या मध्ये। ततः स्थानवशाद् उलूकास्याकुलिका श्वानास्या भवति। श्वानास्या कुलिकाभवति। ततश् चतुर्थप्रहरे श्वानास्याकुलिकाया उत्तरमहाश्म-शाने संचारः। शूकरास्याया मध्ये। ततः स्थानवशच् छ्वानास्याकुलिकाशूकरास्या भवति। शूकरास्या कुलिका भवति। इति कुण्डलादक्षि-(३९)णावर्तेन सूर्यभागे चतुष्प्रहरभेदेन संचारः। ततोमध्याह्नाच् चन्द्रभागे प्रथमप्रहरे शूकरास्याकुलिकाया इशानेमहाश्मशाने संचारः। यमदाढ्या मध्ये। ततः स्थानवशात्शूकरास्याकुलिका यमदाढी भवति। यमदाढी कुलिका भवति। ततो द्वितीयप्रहरे यमदाढ्याः कुलिकाया वायव्यमहाश्मशाने संचारः। यमदूत्या मध्ये। ततः स्थानवशाद् यमदाढीकुलिका यमदूतीभवति। या यमादूती सा कुलिका भवति। ततस् तृतीयप्रहरेयमदूत्याः कुलिकाया नैरृत्ये महाश्मशाने संचारः। यमदंष्ट्रिण्यामध्ये। ततः स्थानवशाद् यमदूतीकुलिका यमदंष्ट्रिणी भवति। यायमदंष्ट्रिणी सा कुलिका भवति। ततश् चतुर्थप्रहरे यम-दंष्ट्रिण्याः कुलिकाया आग्नेयमहाश्मशाने संचारः। यममथन्या म-ध्ये। ततः स्थानवशद् यमदंष्ट्रिणीकुलिका यममथनी भवति। या यममथनी सा कुलिका भवति। इति कुण्डलावामावर्तेन योगिनी-संचारश् चन्द्रभागे। एवं प्रथमदिने योगिनीनां संचारो वेदि-तव्यः। 2nd Dayपुनर् द्वितीयदिने ऽर्धरात्रात् प्रथमप्रहरेयममथन्याः कुलिकायाः पूर्वमहाश्मशाने संचारः। वज्रवाराह्याकाकास्याया मध्ये। ततः स्थानवशाद् यममथनीकुलिका काकास्याभवति। वज्रवाराहीकाकास्या या सा कुलिका भवति। ततो द्वितीयप्रहरेवज्रवाराह्याः कुलिकाया दक्षिणमहाश्मशाने संचारः। काकास्या-उलूकास्याया मध्ये। ततः स्थानवशाद् वज्रवाराहीकुलिका उलूकास्या भवति। या काकास्या-उलूकास्या सा कुलिका भवति। ततस्तृतीयप्रहरे काकास्यायाः कुलिकाया पश्चिममहाश्मशाने संचारः। उलूकास्यायाः श्वानास्याया मध्ये। ततः स्थानवशात् काकास्याकुलिकाश्वानास्या भवति। उलूकास्याश्वानास्या या सा कुलिका भवति। ततश्चतुर्थप्रहरे उलूकास्याकुलिका उत्तरमहाश्मशाने संचारः। श्वानास्याशूकरास्याया मध्ये। ततः स्थानवशाद् उलूकास्याकुलिका शूकरा-(४०)स्या भवति। श्वाना स्याशूकरास्या या सा कुलिका भवति। इति कुण्ड-लादक्षिणावर्तेन संचारः सूर्यभागे। ततश् चन्द्रांशे मध्याह्नात्प्रथमप्रहरे श्वानास्याकुलिका इशानमहाश्मशाने संचारः। शूकरास्यायमदाढ्या मध्ये। ततः स्थानवच्छ्वानास्याकुलिकायमदाढी भवति। या शूकरास्यायमदाढी सा कुलिका भवति। ततो द्वि-तीयप्रहरे शूकरास्याकुलिकाया वायव्यमहाश्मशाने संचारः। यमदाढ्या यमदूत्या मध्ये। ततः स्थानवशात् शूकरास्याकुलिकायमदूती भवति। या यमदाढीयमदूती सा कुलिका भवति। ततस्तृतीयप्रहरे यमदाढीकुलिका नैरृत्यमहाश्मशाने संचारः। यमदूतियमदंष्ट्रिण्या मध्ये। ततः स्थानवशाद् यमदाढीकुलिकायमदंष्ट्रिणी भवति। या यमदूतीयमदंष्ट्रिणी सा कुलिका भवति। ततश् चतुर्थप्रहरे यमदूतीकुलिकाया आग्नेयमहाश्मशाने संचारः। यमदंष्ट्रिणीयममथन्या मध्ये। ततः स्थानवशाद्यमदू तीकुलिका यममथनी भवति। या यमदंष्ट्रिणीय-ममथनी सा कुलिका भवति। इति कुण्डलावामावर्तेन योगिनीसं-चारश् चन्द्रांशे। 3rd Dayततस् तृतीयदिने पुनर् अर्धरात्रात् प्रथमप्रहरे यमदंष्ट्रिणीकु-लिकायाः पूर्वमहाश्माशाने संचारः। यममथन्याः काकास्याया म-ध्ये। ततः स्थानवशाद् यमदंष्ट्रिणीकुलिका काकास्या भवति। यममथनीकाकास्या या सा कुलिका भवति। ततो द्वितीयप्रहरेयममथनीकुलिकाया दक्षिणमहाश्मशाने संचारः। वज्र-वाराह्या उलूकास्याया मध्ये। ततः स्थानवशाद् यममथनीकुलिका उलू-कास्या भवति। वज्रवाराही-उलूकास्या या सा कुलिका भवति। ततस् तृतीय-प्रहरे वज्रवाराह्या<ः> कुलिकायाः पश्चिममहाश्मशाने संचारः। का-कास्याश्वानास्याया मध्ये। ततः स्थानवशाद् वज्रवाराहीकुलिका श्वानास्याभवाति। काकास्याश्वानास्या या सा कुलिका भवति। ततश् चतुर्थप्रहरेकाकास्याकुलिकाया उत्तरमहाश्मशाने संचारः। उलूकास्याशूकरास्यायामध्ये। ततः स्थानवशात् काकास्याकुलिका शूकरास्या भवति। उलूकास्या याशूकरास्या सा कुलिका भवति। इति कुण्डलादक्षिणावर्तेन संचारःसूर्यभागे। ततश् चन्द्रभागे मध्याह्नात् पूर्वप्रहरेउलूकास्याकुलिकायाः ईषानमहाश्माशाने संचारः। श्वानास्यायमदा-(४१)ढ्या मध्ये। ततः स्थानवशाद् उलूकास्याकुलिका यमदाढी भवति। श्वानास्या या यमदाढि सा कुलिका भवति। ततो द्वितीयप्रहरे श्वानास्यायाः कुलिकाया वायव्यमहाश्मशाने संचारः। शूकरास्यायमदूत्या मध्ये। ततः स्थानवशाच्छवानास्याकुलिकायमादूति भवति। शूकरास्या या यमदूती सा कुलिका भवति। ततस्तृतीयप्रहरे शूकरास्याकुलिकाया नैरृत्यमहाश्मशाने संचारः। यमदा-ढीयमदंष्ट्रिण्या मध्ये। ततः स्थानवशात् शूकरास्याकुलिकायमादंष्ट्रीणी भवति। यमदाढी या यमदंष्ट्रिणी सा कुलिका भवति। ततश् चतुर्थप्रहरे यमदाढीकुलिका आग्नेयमहाश्मशाने संचारः। यमदूतीयममथन्या मध्ये। ततः स्थानवशाद् यमदाढीकुलिकायममथनी भवति। यमदूतीयममथनी या सा कुलिका भवति। इति कुण्डलावामावर्तेन संचारः। 4th Dayततश् चतुर्थदिने यमादूत्यः कुलिकाया अर्धरात्रात् प्रथमप्रहरेपूर्वमहाश्मशाने संचारः। यमदंष्ट्रिण्याः काकास्याया मन्ध्ये। ततः स्थानवशाद् यमदूतीकुलिका काकास्या भवति। यमदंष्ट्रिणीकाका-स्या या सा कुलिका भवति। ततो द्वितीयप्रहरे यमदंष्ट्रिणीकुलि-काया दक्षिणमहाश्मशाने संचारः। यममथनी-उलूकास्याया मध्येततः स्थानवशाद् यमदंष्ट्रिणीकुलिका उलूकास्या भवति। यम-मथनी-उलूकास्या या सा कुलिका भवति। ततस् तृतीयप्रहरे यमम-थनीकुलिकायाः पश्चिममहाश्मशाने संचारः। वज्रवा-राह्या श्वानास्याया मध्ये। ततः स्थानवशाद् यममथनीकुलिकाश्वानास्या भवति। वज्रवाराहीश्वानास्या या सा कुलिका भवति। ततश्चतुर्तप्रहरे वज्रवाराह्याः कुलिकाया उत्तरमहाश्मशाने संचारः। का-कास्याशूकरास्याया मध्ये। ततः स्थानवशाद् वज्रवाराहीकुलिका शूकरास्याभवति। काकास्याशूकरास्या या सा कुलिका भवति। इति कुण्डलादक्षिणावर्-तेन सूर्यांशे संचारः। ततश् चन्द्रांशे मध्याह्नात् प्रथमप्रहरेकाकास्याकुलिकाया ईशानमहाश्माशाने संचारः। उलूकास्यायमदाढ्यामध्ये। ततः स्थानवशात् काकास्याकुलिका यमदाढी भवति। उलूकास्यायमादाढी या सा कुलिका भवति। ततो द्वितीयप्रहरेउलूकास्याकुलिकाया वायव्यमहाश्मशाने संचारः। श्वानास्यायमदूत्यामध्ये। ततः स्थानवशाद् उलूकास्याकुलिका यमदूति भवति। श्वानास्यायमदूती या सा कुलिका भवति। तृतीयप्रहरे श्वानास्याकुलिकाया(४२)नैरृत्यमहाश्मशाने संचारः। शूकरास्यायमदंष्ट्रिण्या म-ध्ये ततः स्थानवशाच्छ्वानास्याकुलिका यमदम्ष्ट्रिणी भवति। शूक-रास्यायमदंष्ट्रिणी या सा कुलिका भवति। ततश् चतुर्थप्रहरेशूकरास्याकुलिकाया आग्नेयमहाश्मशाने संचारः। यमदाढीयमम-थन्या मध्ये। ततः स्थानवशात् शूकरास्याकुलिका यममथनी भवति। यमदाढीयममथनी या सा कुलिका भवति। इति कुण्डलावामा-वर्तेन योगिनीसंचारश् चन्द्रांशे। 5th Dayततः पञ्चमे दिने ऽर्धरात्रात् प्रथमप्रहरे यमदाढ्याः कुलिका-याः पूर्वश्मशाने संचारः। यमदूत्याः काकास्याया मध्ये। ततः स्था-नवशाद् यमदाढीकुलिका काकास्या भवति। यमदूतीकाकास्या या सा कुलिकाभवति। ततो द्वितीयप्रहरे यमदूतीकुलिकाया दक्षिणमहाश्मशानेसंचारः। यमदंष्ट्रिणी-उलूकास्याया मध्ये। ततः स्थानवशाद्यमदूतीकुलिका उलूकास्या भवति। यमदंष्ट्रिणी-उलूकास्या या सा कुलिकाभवति। ततस् तृतीयप्रहरे यमदंष्ट्रिणीकुलिकायाः पश्चिममहाश्मशा-ने संचारः। यममथनीश्वानास्याया मध्ये। ततः स्थानवशाद्यमदंष्ट्रिणीकुलिका श्वानास्या भवति। यममथनीश्वानास्या यासा कुलिका भवति। ततश् चतुर्थप्रहरे यममथनीकुलिकाया उत्तरमहा-श्मशाने संचारः। वज्रवाराह्याः शूकरास्याया मध्ये। ततः स्थानव-शद् यममथनीकुलिका शूकरस्या भवति। वज्रवाराहीशूकरास्या या साकुलिका भवति। इति कुण्डलादक्षिणावर्तेन योगिनीसंचारः सूर्यांशे। ततश् चन्द्रांशे मध्याह्नात् प्रथमप्रहरे वज्रवाराह्याः कुलिकायाईशानमहाश्मशाने संचारः। काकास्यायमदाढ्या मधे। ततः स्था-नवशाद् वज्रवाराहीकुलिका यमादाढी भवति। काकास्यायमदाढीया सा कुलिका भवति। ततो द्वितीयप्रहरे काकास्याकुलिकाया वायव्य-महाश्मशाने संचारः। उलूकास्यायमदूत्या मध्ये। ततः स्था-नवशात् काकास्याकुलिका यमदूती भवति। उलूकास्यायमदूती या साकुलिका भवति। ततस् तृतीयप्रहरे उलूकास्याकुलिकाया नैरृत्यमहाश्मशानेसंचारः। श्वानास्यायमदंष्ट्रिण्या मध्ये। ततः स्थानवशाद्उलूकास्याकुलिकाया यमदंष्ट्रिणी भवति। श्वानास्यायमदंष्ट्रिणी या साकुलिका भवति। ततश् चतुर्थप्रहरे श्वानास्यायाः कुलिकाया आग्नेय-महाश्मशाने संचारः। सूकरास्यायममथन्या मध्ये। ततःस्थानवशाच् छ्वानास्याकुलिका यममथनी भवति। शूकरास्याय-ममथनी या सा कुलिका भवति। इति कुण्डलावामावर्तेन योगिनी-संचारश् चन्द्रांशे। (४३)6th Dayततः षष्ठदिने ऽर्धरात्रात् प्रथमप्रहरे शूकरास्याकुलिकायाःपूर्वमहाश्मशाने संचारः। यमदाढ्याः काकास्याया मध्ये। ततःस्थानवशाच् छूकरास्याकुलिका काकास्या भवति। यमदाढीकाकास्याया सा कुलिका भवति। ततो द्वितीयप्रहरे यमदाढीकुलिकाया दक्षिणम-हाश्मशाने संचारः। यमदूती-उलूकास्यया मध्ये। ततः स्थानवशाद्यमदाढीकुलिका उलूकास्या भवति। यमदूती-उलूकास्या या सा कुलिकाभवति। ततस् तृतीयप्रहरे यमदूतीकुलिकायाः पश्चिममहाश्मशानेसंचारः। यमदंष्ट्रिणीश्वानास्याया मध्ये। ततः स्थानवशाद् यम दूतीकुलिका श्वानास्या भवति। यमदंष्ट्रिणीश्वानास्या या सा कुलिकाभवति। ततश् चतुर्थप्रहरे यमदंष्ट्रिणीकुलिकाया उत्तरम-हाश्मशाने संचारः। यममथन्याः शूकरास्याया मध्ये। त-तः स्थानवशाद् यमदंष्ट्रिणीकुलिका शूकरास्या भवति। यमम-थनी या सा शूकरास्याकुलिका भवति। इति कुण्डलादक्षिणावर्तेन संचारःसूर्यांशे। ततश् चन्द्रांशे मध्याह्नात् प्रथमप्रहरे यममथनी-कुलिकाया ईशानमहाश्मशाने संचारः। वज्रवारह्या यमदाढ्यामध्ये। ततः स्थानवशाद् यममथनीकुलिका यमदाढी भवति। वज्रवाराहीयमदाढी या सा कुलिका भवति। ततो द्वितीयप्रहरे वज्रवा-राह्याः कुलिकाया वायव्यमहाश्मशाने संचारः। काकास्यायमदूत्यामध्ये ततः स्थानवशाद् वज्रवाराहीकुलिका यमदूती भवति। काकास्यायमदूति या सा कुलिका भवति। ततस् तृतीयप्रहरे काकास्याकुलिकायानैरृत्यमहाश्मशाने संचारः। उलूकास्यायमदम्ष्ट्रिण्या मध्ये। ततः स्थानवशात् काकास्याकुलिका यमदंष्ट्रिणी भवति। उलूकास्यायम-दंष्ट्रिणी या सा कुलिका भवति। ततश् चतुर्थप्रहरे उलूकास्याकुलिकायाआग्नेयमहाश्मशाने संचारः। श्वानास्यायममथन्या मध्ये। ततःस्थानवशाद् उलूकास्याकुलिका यममथनी भवति। श्वानास्या यममथनीया सा कुलिका भवति। इति कुण्डलावामावर्तेन योगिनीसंचारश्चन्द्रांशे। 7th Dayततः सप्तमदिने ऽर्धरात्रात् प्रथमप्रहरे पूर्वमहाश्म-शाने श्वानास्याकुलिकायाः संचारः। शूकरास्याकाकास्याया मध्येततः स्थानवशाच् छ्वानास्याकुलिका काकास्या भवति। शुकरा-स्याकाकास्या या सा कुलिका भवति। ततो द्वितीयप्रहरे शूकरास्याकुलिकायादक्षिणमहाश्मशाने संचारः। यमदाढि-उलूकास्याया मध्ये। ततस्स्थानवशाच् छूकरास्याकुलिका उलूकास्या भवति। यमदाढी-उलूकास्या यासा कुलिका भवति। ततस् तृतीयप्रहरे यमदाढीकुलिकायाः पश्चिमम-(४४)हाश्मशाने संचारः। यमदूतीश्वानास्याया मध्ये। ततः स्थानवशाद्यमदाढीकुलिका श्वानास्या भवति। यमदूतीश्वानास्या या सा कुलिकाभवति। ततश् चतुर्थप्रहरे यमादूतीकुलिका उत्तरमहाश्मशाने सं-चारः। यमदंष्ट्रिणीशूकरास्याया मध्ये ततः स्थानवशाद् यमदूतीकु-लिका शुकरास्या भवति। यमदंष्ट्रिणी शूकरास्या य सा कुलिका भ-वति। इति कुण्डलादक्षिणावर्तेन योगिनीसंचारः सूर्यांशे। ततश्चन्द्रांशे मध्याह्नात् प्रथमप्रहरे यमदंष्ट्रिणीकुलिकायाईषानमहाश्मशाने संचारः। यममथन्या यमदाढ्या मध्ये। ततः स्थानवशाद् यमदंष्ट्रिणीकुलिका यमदाढी भवति। यममथनी या यमदाढी सा कुलिका भवति। ततो द्वितीयप्रहरे यम-मथनीकुलिकाया वायव्यमहाश्मशाने संचारः। वज्रवाराह्या यमदू-त्या मध्ये। ततः स्थानवशाद् यममथनीकुलिका यमदूती भवति। वज्रवाराहीयमदूती या सा कुलिका भवति। ततस् तृतीयप्र-हरे वज्रवाराहीकुलिकाया नैरृत्यमहाश्मशाने संचारः। काकास्यायम-दंष्ट्रिण्या मध्ये। ततः स्थानवशाद् वज्रवाराहीकुलिका यमदंष्ट्रिणीभवति। काकास्यायमदंष्ट्रिणी या सा कुलिका भवति। ततश्चतुर्थप्रहरे काकास्याकुलिकाया आग्नेयमहाश्मशाने संचारः। उलूकास्यायममथन्या मध्ये। ततः स्थानवशात् काकास्याकुलिकायममथनी भवति। उलूकास्यायममथनी या सा कुलिका भवति॥
इति कुण्डलावामावर्तेन संचारश् चन्द्रांशे। 8th Dayततो ऽष्टमदिने ऽर्धरात्रात् प्रथमप्रहरे उलूकास्याकुलिकायाः पूर्व-महाश्मशाने संचारः। श्वानास्याकाकास्याया मध्ये। ततः स्थानवशाद्उलूकास्याकुलिका काकास्या भवति। श्वानस्याकाकास्या या सा कुलिकाभवति। ततो द्वितीयप्रहरे श्वानास्याकुलिकाया दक्षिणमहाश्मशाने सं-चारः। शूकरास्य-उलूकास्याया मध्ये। ततः स्थानवशाच् छ्वाना-स्याकुलिका उलूकास्या भवति। शूकरास्या-उल्कास्याया या सा कुलिका भवति। ततस् तृतीयप्रहरे शूकरास्याकुलिकायाः पश्चिममहाश्मशाने संचारः। यमदाढीश्वानास्याया मध्ये। ततः स्थानवशाच् छूकरास्याकुलिकाश्वानास्या भवति यमदाढीश्वानास्या या सा कुलिका भवति। ततश्चतुर्थप्रहरे यमदाढीकुलिकाया उत्तरमहाश्मशाने संचारः। यमदूतीशूकरास्याया मध्ये। ततः स्थानवशाद् यमदाढीकुलिका शूकरास्या भवति। यमदूतिशूकरास्या या सा कुलिकाभवति। इति कुण्डलादक्षिणावर्तेन योगिनीसंचारः सूर्यांशे। ततश्चन्द्रांशे मध्याह्नात् प्रथमप्रहरे यमदूतीकुलिकाया इशानमहाश्म-(४५)शाने संचारः। यमदंष्ट्रिणीयमदाढ्या मध्ये। ततः स्थानवशाद्यमदूतिकुलिका यमदाढी भवति। यमदंष्ट्रिणीयमदाढी यासा कुलिका भवति। ततो द्वितीयप्रहरे यमदंष्ट्रिणीकुलिकाया वायव्यम-हाश्मशाने संचारः। यममथन्या यमदूत्या मध्ये। ततः स्थान-वशाद् यमदंष्ट्रिणीकुलिका यमदूती भवति। यममथनीयम-दूती या सा कुलिका भवति। ततस् तृतीयप्रहरे यममथनीकुलिकायानैरृत्यमहाश्मशाने संचारः। वज्रवाराह्या यमदंष्ट्रिण्या मध्ये। ततः स्थानवशाद् यममथनीकुलिका यमदंष्ट्रिणी भवति। वज्रवारा-हीयमदंष्ट्रिणी या सा कुलिका भवति। ततश् चतुर्थप्रहरे वज्रवारा-हिकुलिकाया आग्नेयमहाश्मशाने संचारः। काकास्यायममथन्यामध्ये। ततः स्थानवशाद् वज्रवाराहीकुलिका यममथनी भवति। का-कास्यायममथनी या सा कुलिका भवति। इति कुण्डलावामावर्तेनयोगिनीसंचारश् चन्द्रांशे। 9th Dayततो नवमदिने ऽर्धरात्रात् प्रथमप्रहरे काकास्याकुलिकायाः पूर्व-महाश्मशाने संचारः। उलूकास्याकाकास्याया मध्ये। ततः स्वस्थानव-शात् काकास्या कुलिकादीन् भूत्वा पुनर् एव काकास्या भवति। उलूकास्याकास्या या सा कुलिका भवति। ततो द्वितियाप्रहरे उलुकास्याकुलिकायादक्षिणमहाश्मशाने संचारः। श्वानास्या-उलूकास्याया मध्ये। ततः स्वस्थानवशाद् उलूकास्या कुलिकादीन् भूत्वा पुनर् एवोलूकास्या भवति। श्वानास्या-उलूकास्या या सा कुलिका भवति। ततस्तृतीयप्रहरे श्वानास्याकुलिकायाः पश्चिममहाश्मशाने संचारः। शूकरा-स्याश्वानास्याया मध्ये। ततः स्वस्थानवशाच् छ्वानास्या कुलिकादीन्भूत्वा पुनर् एव श्वानास्या भवति शूकरास्याश्वानास्या या सा कुलिकाभवति। ततश् चतुर्थप्रहरे शूकरास्याकुलिकाया उत्तरमहाश्मशानेसंचारः। यमदाढ्याः शूकरास्याया मध्ये। ततः स्वस्थानवशाच्छूकरास्या कुलिकादीन् भूत्वा पुनर् एव शूकरास्या भवति। यमदाढी-शुकरास्या या सा कुलिका भवति। इति कुण्डलादक्षिणावर्तेन योगिनीसंचारःसूर्यांशे। ततश् चन्द्रांशे मध्याह्नात् प्रथमप्रहरे यमदाढी-कुलिकाया इशानमहाश्मशाने संचारः। यमदूत्या यमदाढ्या मध्ये। ततः स्वस्थानवशाद् यमदाढी कुलिकादीन् भूत्वा पुनर् यमदाढी भवति। यमदूतीयमदाढी या सा कुलिका भवति। ततो द्वितीयप्रहरे यमदू-(४६)तीकुलिकाया वायव्यमहाश्मशाने संचारः। यमदंष्ट्रिण्या याम-दूत्या मध्ये। ततः स्वस्थानवशाद् यमदूती कुलिकादीन् भूत्वा पुनर्यमदूती भवति। यमदंष्ट्रिणी यमदूती या सा कुलिकाभवति। ततस् तृतीयप्रहरे यमदंष्ट्रिणीकुलिकाया नैरृत्यम-हाश्मशाने संचारः। यमदंष्ट्रिण्या यममथन्या मध्ये। ततः स्वस्थानवशाद् यमदंष्ट्रिणी कुलिकादीन् भूत्वा पुनर् यमदंष्ट्रिणीभवति। यममथनीयमदंष्ट्रिणी या सा कुलिका भवति। ततश् चतुर्थ-प्रहरे यममथनीकुलिकाया आग्नेयमहाश्मशाने संचारः। वज्रवाराह्यायममथन्या मध्ये। ततः स्वस्थानवशाद् यममथनी कुलिकादीन्भूत्वा पुनर् यममथानि भवति। या वज्रवाराहि सा काकास्यादीन्भूत्वा पुनः स्वस्थानवशात् कुलिका भवति। इति कुण्डलावामावर्तेनयोगिनीसंचारश् चन्द्रांशे योगिनावगन्तव्यः। इतिमहाष्टश्माशानेषु कालविशेषेण योगिनीसंचारो नवमदिने स्वस्व-स्थानागमनेन संचारपरिच्छेदः। तत उदारां पूजां कृत्वा पुनर्दशमे दिने संचारो यथा प्रतिपद्दिने। एकादश्यां द्वितीयावात्। द्वादश्य्-आं तृतीयावत्। त्रयोदश्यां चतुर्थावत्। चतुर्दश्यां पञ्चमीवत्। अमावा-स्याम् षष्ठीवत्। शुक्लप्रतिपद्दिने सप्तमीवत्। द्वितीयायां अष्टमी-वत्। तृतीयायां नवमीवत् संचारः। ततः स्वस्वस्थानागमनव-शाद् वज्रवाराह्यादीनां पुनः स्वस्वभावः। ततः पूजां कृत्वापुनश् चतुर्थ्यां संचरो यथा दशम्यां पञ्चम्याम् एकादशीवत्। षष्ठ्यां द्वादशीवत्। सप्तम्यां त्रयोदशीवत्। अष्टम्यां चतुर्दशीवत्। नवम्यां अमारास्यावत्। दशम्यां शुक्लप्रतिपद्वत्। एकादश्यांद्वितीयावत्। द्वादश्यां तृतीयवत् संचारः श्मशानवासिनीनां चित्तवाक्का-यभेदेन। ततो नवनवदिनैर् नवनवनक्षत्रयोगेन सप्तविंशति-नक्षत्राणि यावच् चन्द्रस्य द्वादशराशिपर्यन्तम्। एवं चन्द्रकलापञ्-चदशभेदेन डाकिन्यादीनां हेरुकेण सह संचारः। काकास्यादीनांसप्तविंशतिनक्षत्रभेदेन संचारः। ततश् चन्द्रसूर्यभेदान्ते दिन-त्रयं प्रचण्डादीनां संचारो भवति। तद् यथा॥
The चित्त-वाक्-कायचक्रसंचार इह शुक्लत्रयोदश्यां वृश्चिकलग्नोदये चित्तचक्रपूर्वारेपूजां कृत्वोपायं त्यक्त्वा दक्षिणारे संचारः प्रचण्डायाः चण्डाक्ष्याः(४७)पश्चिमारे प्रभावत्या उत्तरारे महानासायाः पूर्वारे। ततः स्थानवशात्प्रचण्डा चण्डाक्षी चण्डाक्षी प्रभावती प्रभावती महानासा महानासाप्रचण्डा भवति। ततो वृश्चिकार्धे पूर्वप्रचण्डायाः पश्चिमारेसंचारः। पूर्वचण्डाक्ष्या उत्तरारे पूर्वप्रभावत्याः पूर्वारे संचारःपूर्वमहानासाया दक्षिणारे। ततः स्थानवशात् प्रचण्डा प्रभावतीचण्डाक्षी महानासा प्रभावती प्रचण्डा महानासा चण्डाक्षीभवति। ततो धनुरुदये पूर्वप्रचण्डाया उत्तरारे संचारः। पूर्वचण्डाक्ष्याः पूर्वारे पूर्वप्रभावत्या दक्षिणारे पूर्वमहानासायाःपश्चिमारे। ततः स्थानवशात् प्रचण्डा महानासा चण्डाक्षी प्रचण्डाप्रभावती चण्डाक्षी महानासा प्रभावती भवति। ततो धन्वर्धेपूर्वप्रचण्डायाः पूर्वारे संचारः। चण्डाक्ष्या दक्षिनारे प्रभावत्याःपश्चिमारे महानासाया उत्तरारे संचारो भवति। ततो स्वस्वस्था-नवशात् प्रचण्डादयो दूत्यः स्वस्वरूपधारिण्यो भवन्ति। इतिकुण्डलादक्षिणावर्तेन वृश्चिकोदये वृश्चिकार्धे धनुरुदये धन्वर्धे। सार्धदण्डद्वयेन सार्धदण्डद्वयेन चतसृणां संचारो गणच-क्रे कर्तव्यः। ततो मकरोदये पूजां कृत्वा वीरमत्या इशस्थानाद् वाय-व्यरे संचारः। खर्वर्या नैरृत्यारे लङ्केश्वर्या आग्नेयारे द्रुमच्छा-याया इशनारे संचारो भवति। ततः स्थानवशाद् वीरमती खर्वरी भवति। खर्वरी लङ्केश्वरी लङ्केश्वरी द्रुमच्छाया द्रुमच्छाया वीरमतीभवति ततो मकरार्धे पूर्ववीरमत्या नैरृत्यारे संचारः। पूर्वखर्वर्या आग्नेयारे पूर्वलङ्केश्वर्या ईशानारे पूर्वद्रुमच्छायायावायुव्यारे संचारो भवति। ततः स्थानवशाद् वीरमती लङ्केश्वरीभवति खर्वरी द्रुमच्छाया लङ्केश्वरी वीरमती द्रुमच्छाया खर्वरीभवति। ततः कुम्भोदये पूर्ववीरमत्या आग्नेयारे संचारःपूर्वखर्वर्या इशानारे पूर्वलङ्केश्वरया वायव्यारे पूर्वद्रुमच्-छायाया नैरृत्यारे संचारः। ततः स्थानवशाद् वीरमती द्रु-मच्छाया भवति। खर्वरी वीरमती भवति। लङ्केश्वरी खर्वरीभवति। द्रुमच्छाया लङ्केश्वरी भवति। ततः कुम्भार्धे पूर्ववीर-मत्या ईशानारे संचारः। पूर्वखर्वर्या वायव्यारे संचारःपूर्वलङ्केश्वर्या नैरृत्यारे संचारः पूर्वद्रुमच्छायाया आग्नेयारेसंचारो भवति। ततः स्वस्वस्थानवशाद् वीरमत्यादयोयोगिन्यः स्वस्वरूपधारिण्यो भवन्ति। इति कुण्डलावामावर्तेनयोगिनीनां संचारो मकरोदये मकरार्धे कुम्भोदये कुम्भार्धे। एवं लग्नार्धभेदेनाष्टयोगिनीनां चित्तचक्रे संचारो गणचक्रेयोगिभिर् अवगन्तव्यः। (४८)ततः पूजं कृत्वा वाक्चक्रे संचारः कर्तव्यः। तद् यथा। इहमीनलग्नोदये वाक्चक्रपूर्वाराद् दक्षिणारे संचार ऐरावत्याः। महाभैरवायाः पश्चिमारे। वायुवेगाया उत्तरारे सुरभाक्ष्याः पूर्वारेसंचारो भवति। ततः स्थानवशाद् ऐरावती महाभैरवा भवति। महाभैरवा वायुवेगा वायुवेगा सुराभक्षी सुराभक्षी ऐरावतीभवति। ततो मीनार्धे पूर्वैरावत्याः पश्चिमारे संचार पूर्वमहाभै-रवाया उत्तरारे पूर्ववायुवेगायाः पूर्वारे पूर्वसुराभक्ष्या दक्षिणारेसंचारो भवति। ततः स्थानवशाद् ऐरावती वायुवेगा भवति म-हाभैरवा सुराभक्षी वायुवेगा ऐरावती सुराभक्षी महाभैरवाभवति। ततो मेषोदये पूर्वैरावत्या उत्तरारे संचारः पूर्वमहाभै-रवायाह् पूर्वारे पूर्ववायुवेगाया दक्षिणारे पूर्वसुराभक्ष्याः पश्चिमारे संचारो भवति। ततः स्थानवशाद् ऐरावती सुराभक्षी भवति महाभै-रवा ऐरावती वायुवेगा महाभैरवा सुराभक्षी वायुवेगा भवति। ततोमेषार्धे पूर्वैरावत्याः पूर्वारे संचारः पूर्वमहाभैरवायादक्षिणारे पूर्ववायुवेगायाः पश्चिमारे पूर्वसुराभक्ष्याउत्तरारे संचारो भवति। ततः स्वस्वस्थानवशाद् ऐरावत्यादयः स्व-स्वरूपधारिण्यो भवन्ति। इति कुण्डलादक्षिणावर्तेन चतुर्योगिनीनांलग्नार्धभेदेन संचारो वाक्चक्रे। ततः पूजां कृत्वावृषलग्नोदये ईशानाराद् वायव्यारे श्यामादेव्याः संचारः सुभद्रायानैरृत्यारे हयकर्णाया आग्नेयारे खगाननाया इशानारेसंचारो भवति। ततः स्थानवशाच् छ्यमादेवी सुभद्रा भवति सुभद्राहयकर्णा हयकर्णा खगानना खगानना श्यामादेवी भवति। ततोवृषभार्धे प्राक् श्यामादेव्या नैरृत्यारे संचारः प्राक् सुभद्रायाआग्नेयारे प्राग् घयकर्णाया इशानारे प्राक् खगाननाया वायव्यारे संचारः। ततः स्थान वशाच् छ्यामादेवी हयकर्णा भवति सुभद्राखगानना हयकर्णा श्यामादेवी खगानना सुभद्रा भवति। ततोमिथुनोदये प्राक्श्यामादेव्या आग्नेयारे संचारः प्राक् सुभद्रायाईशानारे प्राग् घयकर्णाया वायव्यारे प्राक् खगाननाया नैरृत्यारे संचारोभवति। ततः स्थानवशाच् छ्यामादेवी खगानना भवति सुभद्राश्यामादेवी हयकर्णा सुभद्रा खगानना हयकर्णा। ततो मिथुनार्धेपूर्वश्यामादेव्या ईशानारे संचारः पूर्वसुभद्राया वायव्यारेपूर्वहयकर्णाया नैरृत्यारे पूर्वखगाननाय आग्नेयारे संचारो भवति। ततो स्वस्वस्थानवशाच् छ्यामादेव्यादयो योगिन्यः स्वस्वरूपधारिण्योभवन्ति। इति कुण्डलावामावर्तेन चतुर्योगिनीनां संचारो वा-क्चक्रे। मीनाद्यर्धलग्नभेदेनाष्टयोगिनीनां गणचक्रे संचारः कर्-तव्यः। (४९)ततः पूजं कृत्वा कायचक्रे संचारः कर्तव्यः। तद् यथा। इहकर्कटोदये कायचक्रपूर्वाराच् चक्रवेगाया दक्षिणारे संचारःखण्डरोहायाः पश्चिमारे शौण्डिन्या उत्तरारे चक्रवर्मिण्याः पूर्वारे। ततः स्थानवशाच् चक्रवेगा खण्डरोहा भवति खण्डरोहा शौण्डिनीशौण्डिनी चक्रवर्मिणि चक्रवर्मिणी चक्रवेगा भवति। ततः कर्-कटार्धे पूर्वचक्रवेगायाः पश्चिमारे संचारः पूर्वखण्-डरोहाया उत्तरारे पूर्वशौण्डिन्याः पूर्वारे पूर्वचक्रवर्मिण्या दक्षिणारेसंचारः। ततः स्थानवशात् पूर्वचक्रवेगा शौण्डिनी भवति पूर्व-खण्डरोहा चक्रवर्मिणी पूर्वशौण्डिनी चक्रवेगा पूर्वचक्रवर्मिणी खण्डरोहा भवति। ततो सिंहलग्नोदये पूर्वचक्रवेगाया उत्तरा-रे संचारः पूर्वखण्डरोहायाः पूर्वारे पूर्वशौण्डिण्या दक्षिणारे पूर्व-चक्रवर्मिण्याः पश्चिमारे संचारः। ततः स्थानवशात्पूर्वचक्रवेगा चक्रवर्मिणी भवति पूर्वखण्डरोहा चक्रवेगापूर्वशौण्डिनी खण्डरोहा पूर्वचक्रवर्मिणी शौण्डिनी भवति। ततः सिंहार्धे पूर्वचक्रवेगायाः पूर्वारे संचारः पूर्वखण्डरोहायादक्षिणारे पूर्वशौण्डिण्याः पश्चिमारे पूर्वचक्रवर्मिण्या उत्तरारेसंचारः। ततः स्वस्वस्थानवशाच् चक्रवेगादयो योगिन्यः स्वस्वरूप-धारिण्यो भवति। इति कुण्डलादक्षिणावर्तेन संचारः कायचक्रे। ततःपूजां कृत्वा वामावर्तेन संचारः कर्तव्यः। तद् यथा। इह कन्या-लग्नोदये ईशानारात् सुवीराया वायव्यारे संचारो भवति महाबलायानैरृत्यारे चक्रवर्तिन्या आग्नेयारे महावीर्याया इशानारे संचारोभवति। ततः स्थानवशात् सुवीरा महाबला भवति महाबला चक्रवर्तिनीभवति चक्रवर्तिनी महावीर्या भवति महावीर्या सुवीरा भवति। ततः कन्यार्धे पूर्वसुवीराया नैरृत्यारे संचारः पूर्वमहाबलाया आग्ने-यारे पूर्वचक्रवर्तिन्या इशानारे पूर्वमहावीर्याया वायव्यारे संचारः। ततः स्थानवशात् सुवीरा चक्रवर्तिनी भवति। महाविर्या महाबला। च-क्रवर्तिनी सुवीरा। महावीर्या महाबला भवति। ततस् तुलालग्नोदयेपूर्वसुवीराया अग्नेयारे संचारः। पूर्वमहाबलाया ईशाना-रे। पूर्वचक्रवर्तिन्या वायाव्यारे। पूर्वमहावीर्याया नैरृत्यारे संचारोभवति। ततः परस्थानवशात् सुवीरा महावीर्या भवति। महाबला सुवीरा। चक्रवर्तिनी महाबला। महावीर्या चक्रवर्तिनी भवति। ततस् तुलार्धेपूर्वसुवीराया इशानारे संचारः। पूर्वमहाबलाया वायव्यारे। पूर्वचक्रवर्तिन्या नैरृत्यारे। पूर्वमहावीर्याया आग्नेयारे संचारः। त-तः स्वस्वस्थानवशात् सुवीरादयश् चतस्रो योगिन्यः स्वस्वरूपधारिण्योभवन्ति। इति कुण्डलावामावर्तेन संचारः। कन्यादिलग्नार्-धभेदेन गणचक्रे योगिनीनां संचारः कर्तव्यः कायचक्रे। एवं प्रथमदिने वृश्चिकादिद्वादशलग्नार्धचतुर्विंशतिभेदैर्योगिनीसंचारस् त्रयोदश्यां। इह यथा त्रयोदश्यां चित्तभेदेन तमो-(५०)गुणभेदेन वा। तथा चतुर्दश्यां द्वितीयदिने वाग्भेदेन रजो-गुणभेदेन वा। एवं पूर्णिमायां तृतीयदिने कायभेदेन सत्-त्वगुणभेदेन वा। चतुर्विंशतियोगिनीनां संचारः कर्तव्यः वृशिका-दिद्वादशार्धलग्ने चतुर्विंशतिकालभेदैर् योगिभिर् गणचक्रे। इतिचतुर्विंशतिकालविशेषेण योगिनीमां संचारविधिनियमःइह या योगिनी यत्र स्थाने संचारति तत्र तदुच्छिष्टभक्षणवशेनतत्कुलोपायग्रहणेन सा तत्कुलिनी भवति। यावत् तस्याः स्वस्थानागम-नं न भवति। ततः स्वस्थानागमनेन स्वकुलस्थिता भवति। एवंहेरुकग्रहणेन कुलिकोच्छिष्टभक्षणवशेन डाकिन्यादियोगिनी यमम-थनीपर्यन्ता या मध्ये विशति सा वज्रवाराही कुलिका भवति। यावज्रवाराही कुलिका सा परोच्छिष्टभक्षणवशेन तत्कुलिनी भवति। एवंषट्त्रिंशत्कुलयोगिन्यो अकुलीनाः कुलीना भवन्ति। कुलीना अकुलीना भवन्ति। स्थानवशात्। यथा लौकिकसम्वृत्या अकुलीना अपि चक्रवर्ति-रत्नच्छत्रतले स्नापिताः सन्त्याः कुलीना भवन्ति ब्राह्मनादीनां। यथाएव विश्वामित्रादयः श्वपच्यादिगर्भसंभूता अकुलीना मन्त्रध्या-नतपोबलेन ब्राह्मणा बभूवुस् तथा कुलिनापि ब्राह्मणा गोमांसादिकंभुक्त्वा चण्डालाद्यकुलीनां च गृहे भुक्त्वा अकुलीना भवन्ति। तथा योगिनीसंचारे परस्थानभोजनोपायभक्षणग्रहणव-शेन लौकिकसंवृत्या योगिन्यो योगिभिर् ज्ञातव्याः पूर्वोक्ताःसप्तत्रिंशड्डोम्ब्याद्याः कुलदूत्या गणचक्रेसंचारार्थम्। एवं त्रिवर्षं यावत् पूजामन्त्रजापध्यानं कृत्वामन्त्रजापावसाने होमम्। ततः पक्षत्रयं यावद् गणचक्रेयोगिनीसंचारं कूर्यत्। ततः पूर्वोक्तं लौकिकसिद्धिसाधनंतन्त्रोक्तं सर्वं सर्वदा सर्वप्रकारेण साधकस्य सिद्धयति। अन्यप्रकारेण पुनर् एककर्मणा एकसिद्धिः सिद्ध्यति मन्त्र-जापध्यानेन होमेनेति। न च योगी प्रधानसिद्धिसिद्धो भवतिएककर्मणा सिद्धेन एकया खड्गादिसिद्ध्या सिद्धया वा। तेनायं योगिनीसंचारः कालविशेषेण योगिभिर् अवगन्तव्यो मूलतन्त्रेलक्षाभिधाने। अथवा अनया टीकया तस्माद् उक्तः। इति नियमोलौकिकसर्वकर्मप्रसरसर्वसिद्धिसाक्षात्करणाय महासिद्धत्वसाधनाय च । इति योगिनीसंचारविधिः॥
(५१)Chapter IXThe Development of Locationइदानीं स्थाननामादिबीजपरिणतान्य् आसनान्य् अध्यात्मनि बाह्ये गणच-क्रे ऽपि उच्यन्ते। तत्र बाह्ये मेरोर् अध आकाशमण्डलं हंकारपरिण-तम् अध्यात्मन्य् उष्णीषकमलकर्णिका। बाह्ये तदुपरी यंकारपरिणतंवायुमण्डलम् अध्यात्मनि ललाटकमलकर्णिका। बाह्ये तदुपरीरंकारपरिणतं अग्निमण्डलम् अध्यात्मनि कण्ठकमलकर्णिका। बाह्ये तदुपरि वंकारपरिणतं तोयमण्डलम् अध्यात्मनिहृदयकमलकर्णिका। बाह्ये तदुपरि लंकारपरिणतं पृथ्वीमण्डलम्अध्यात्मनि नाभिकमलकर्णिका। बाह्ये तदुपरि मंकारपरिणतंमेरुर् अध्यात्मनि गुह्यकमलकर्णिका। बाह्ये तदुपरि क्षंकारपरिण-तं विश्वकमलम् अध्यात्मनि वज्रमण्यन्तर्गता ऽष्टौ नाड्यः सकर्णिकाः। बाह्ये कर्णिकायां सूर्यमण्डलम् अध्यात्मनि कालाग्निः। बाह्ये त-दुपरि उमामहेश्वराव् अध्यात्मनि रजः शुकरं तत्रगतम्। बाह्ये तदुप-रि हेरुको ऽध्यात्मनि सहजानन्दस् तयोर् निरुद्धयोर् यो भवति बाह्याच्यव-नेनेति। वज्रवाराही तद्रश्मिप्रभासर्वज्ञाताचन्द्रस्य चन्द्रिकेवा-भेद्यधर्मिणी। एवं नाभौ गुह्ये वज्रमणौ कायवाक्चित्तधर्मेण स-हजानन्दो हेरुको भगवान् उच्यते। अत्र सहजानन्दो ज्ञानवज्रश् चतुर्थःएवं भगवान् हेरुकश् चतुर्मुखः कायवाक्चित्तज्ञानवक्त्रात्म-कः। तेषां चतुर्वक्त्रानां स्वभावेनोत्तरदक्षिणपूर्वापरचक्रारेषु स्थि-ताः षट्त्रिंशड्डाकिन्यः। तासां स्वस्थाननामाद्यक्षरेण परिणतानिशवासनानि भवन्ति। बाह्ये ज्ञानचक्रे पूर्वारोपर्य् आकारपरिणतंप्रेतं डाकिन्या अध्यात्मनि नाभिकमले याः षष्टिनाड्यो मण्डलवाहिन्यश्चतस्रः संध्यानाड्यः। तासु पूर्वादिनाड्यां निरुद्धः प्राणवायुःशवासनम् उच्यते। एवं बाह्ये पंकारपरिणतं दक्षिणारे लामायाःपश्चिमारे मंकारपरिणतं खण्डरोहाया उत्तरे तंकारपरिणतंरूपिण्याः। इति ज्ञानचक्रे विदिक्षु विङ्मूत्रासृङ्मांसकरोटकानीति। (५२)बाह्ये ऽष्टसु महाश्मशानेषु पूर्वश्मशाने शूंकारपरिणतं शवा-सनं काकास्याया अध्यात्मनि मुखनाड्यां प्राणवायोर् निरोध इत्। तथाबाह्ये शंकारपरिणतं दक्षिण उलूकास्याया अध्यात्मनि दक्षिणनासापु-टनाड्यां प्राणक्षय इति। बाह्ये पूंकारपरिणतम् पश्चिमेश्वानास्याया अध्यात्मनि गुदनाड्याम् अपानवायोर् निरोधः। बाह्येक्लेंकारपरिणतम् उत्तरारे शूकरास्याया अध्यात्मनि वामनासा-पुटनाड्यां प्राणनिरोधः। बाह्ये बांकारपरिणतम् ईशाने शव्-आसनं यमदाढ्या अध्यात्मनि वामकर्णनाड्यां प्राणनिरोधः। बाह्ये संकारपरिणतं शवं वायव्ये यमदूत्या अध्यात्मनिदक्षिणकर्णनाड्यां प्राणनिरोधः। बाह्ये घोंकारपरिणतं नैरृत्येयमदंष्ट्रिण्या अध्यात्मनि दक्षिणनेत्रनाड्यां प्राणनिरोधः। बाह्येउंकारपरिणतम् आग्नेये यममथन्या अध्यात्मनि वामनेत्रनाड्यांप्राणवायोर् निरोधः। इत्य् अष्टमहाश्मशानासनानि काकास्यादीनांवेदितव्यानि बाह्ये गणचक्रे॥
इदानीं प्रचण्डादीनां स्थाननामादिबीजपरिणतान्य् आसनान्य् उच्यन्ते चित्तवाक्कायचक्रे इह बाह्ये चित्तचक्रे पूर्वारोपरि पूंकारपरि-णतं शवम् आसनं प्रचण्डाया अध्यात्मनि धर्मचक्रे पूर्वणाड्यांप्राणनिरोधो नीतार्थेन। नेयार्थेन बाह्ये शिरसि पूंकारन्यासइति। एवं बाह्ये दक्षिणारे जांकारपरिणतं शवम् चण्डाक्ष्याअध्यात्मनि दक्षिणनाड्यां निरोधः प्राणस्येति नीतार्थेन। नेयार्थेन शिखायां जांकारन्यासः। बाह्ये पश्चिमारेओंकारपरिणतं शवं प्रभावत्या अध्यात्मनि पश्चिमनाड्यांप्राणनिरोधः। नेयार्थेन दक्षिणकर्णोर्ध्वे ओंकारन्यासः। बाह्येउत्तरारे अंकारपरिणतं शवं महानासाया अध्यात्मनिउत्तरणाड्यां प्राणनिरोधो हृदये धर्मचक्रे नेयार्थेन ग्रीवापृष्ठेअंकारन्यासः। इति पीठबीजन्यासः। तथा बाह्ये चित्तचक्रे ईशानारेगोंकारपरिणतं शवं वीरमत्या आसनम् अध्यात्मनि धर्मचक्रेईशननाड्यां प्राणनिरोधः। नेयार्थेन वामकर्णोर्ध्वे गोंकारन्यासः। बाह्ये वायव्यारे रांकारपरिणतं शवं खर्वर्या अध्यात्मनि वाय-व्यनाड्यां प्राणनिरोधः। नेयार्थेन भ्रूमध्ये रांकारन्यासः। बाह्ये नैरृत्यारे देंकारपरिणतं शवं लङ्केश्वर्या अध्यात्मनिनैरृत्यनाड्यां प्राणनिरोधः। नेयार्थेन नेत्रद्वयेदेंकारन्यासः। बाह्ये आग्नेयारे मांकारपरिणतं शवं द्रु-मच्छायाया अध्यात्मन्य् आग्नेयनाड्यां प्राणनिरोधो धर्मचक्रे। ने-(५३)यार्थेन बाहुमूले मांकारन्यासः। इति चित्तचक्रे उपपीठदेवीनाम् आस-ननियमः। ततो बाह्ये वाक्चक्रे ऽध्यात्मनि संभोगचक्रे बाह्यपरिमण्-डले द्वात्रिंशन्नाड्यो ऽभ्यन्तरपरिमण्डले ऽष्टनाड्यो यथाधर्मचक्रे तथात्रैवासनान्य् उच्यन्ते। बाह्ये वाक्चक्रे पूर्वारेकांकारपरिणतं शवम् आसनम् ऐरावत्या अध्यात्मनि संभो-गचक्रे ऽभ्यन्तरपरिमण्डले पूर्वनाड्यां प्राणनिरोधः। नेयार्थेनकक्षद्वये कांकारन्यासः। बाह्ये दक्षिणारे ओंकारपरिनतं शवंमहाभैरवाया अध्यात्मनि दक्षिणनाड्यां प्राणनिरोधः। नेयार्थेनस्तनयुगलयोर् ओंकारन्यासः। बाह्ये पश्चिमारे त्रिंकारपरिणतं शवंवायुवेगाया अध्यात्मनि पश्चिमनाड्यां प्राणनिरोधः। नेयार्थे-न नाभ्यां त्रिंकारन्यासः। बाह्ये उत्तरारे कोंकारपरिणतं शवंसुराभक्ष्याया अध्यात्मन्य् उत्तरनाड्यां प्राणनिरोधः। नेयार्थेननासिकाग्रे कोंकारन्यासः इति क्षेत्रोपक्षेत्रदेवीनाम् आसन-बीजन्यासो वाक्चक्रे। एवं बाह्ये ईशानारे कंकारपरिणतंशवम् आसनं श्यामादेव्या अध्यात्मनि कण्टचक्रे इशाननाड्यां प्रा-णनिरोधः। नेयार्थेन मुखे कंकारन्यासः। बाह्ये वायव्यारे लंका-रपरिणतं शवं सुभद्राया अध्यात्मनि वायव्यानाड्यां प्राणनिरोधः। नेयार्थेन कण्ठे लंकारन्यासः। बाह्ये नैरृत्यारे कांकार-परिणतं शवं हयकर्णाया अध्यात्मनि नैरृत्यनाड्यां प्राणनिरोधः। नेयार्थेन हृदये कांकारन्यासः। बाह्ये आग्नेयारे हिंकारपरिणतंशवम् आसनं खगाननाया अध्यात्मन्य् आग्नेयनाड्यां प्राणवायोर्निरोधः। नेयार्थेन मेढ्रे हिंकारन्यासः। इति छन्दोहोपछन्-दोहडाकिनीनाम् आसनबीजन्यासः संभोगवाक्चक्रे। एवंक्षेत्रोपक्षेत्रछन्दोहोपछन्दोहदेवीनाम् आसननियमःततः कायचक्रे बाह्ये ऽध्यात्मनि ललाटे सहजचक्रे बाह्ये परिमण्डलेषोडशनाड्यो ऽभ्यन्तरपरिमण्डले ऽष्टनाड्यो यथा संभोगचक्रेतथात्रैवासनान्य् उच्यन्ते। इह बाह्ये कायचक्रे पूर्वारोपरि प्रेंका-रपरिणतं शवम् आसनं चक्रवेगाया अध्यात्मनि सहजचक्रे ऽभ्यन्त-रपरिमण्डले पूर्वनाड्यां प्राणवायोर् निरोधः। (५४)नेयार्थेन लिङ्गे प्रेंकारन्यासः। बाह्ये दक्षिणारे गृंकारपरिणतंशवं खण्डरोहाया अध्यात्मनि दक्षिणनाड्यां प्राणनिरोधः ने-यार्थेन गुदे गृंकारन्यासः। बाह्ये पश्चिमारे सौंकारपरिणतंशवं शौण्डिन्या अध्यात्मनि पश्चिमनाड्यां प्राणवायोर् निरोधः। नेयार्थेनोरुयुगले सौंकारन्यासः। बाह्ये उत्तरारे सुंकारपरि-णतं शवं चक्रवर्मिण्या अध्यात्मन्य् उत्तरनाड्यां प्राणनिरोधः। नेयार्थेन जङ्घाद्वये सुंकारन्यासः। इति मेलापकोपमेलापकदूतिनाम्आसनबीजन्यासः कायचक्रे। तत इह बाह्ये इशानारे नंकारप-रिणतं शवम् आसनं सुवीराया अध्यात्मनीशाननाड्यां प्राणनि-रोधो नीतार्थेन। नेयार्थेन पादाङ्गुलीषु नंकारन्यासः। बाह्येवायव्यारे सिंकारपरिणतं शवं महाबलाया अध्यात्मनिव्यायव्य-णाड्यां प्राणनिरोधः। नेयार्थेन पादपृष्ठयोः सिंकारन्यासः। बा-ह्ये नैरृत्यारे मंकारपरिणतं शवं चक्रवर्तिन्या अध्यात्मनि नैर्-ऋत्यनाड्याम् प्राणवायोर् निरोधः। नेयार्थेन पादाङ्गुष्ठयोर् मंका-रन्यासः। बाह्ये आग्नेयारे कुंकारपरिणतं शवम् आसनंमहाविर्याया अध्यात्मन्य् आग्नेयनाड्यां प्राणनिरोधः। नेयार्थेनजानुद्वये कुंकारबीजन्यासः। इति श्मशानोपश्मशानदेवीनाम् आसनबी-जन्यासः कायचक्रे। एवं मेलापकोपमेलापकश्मशानोपश्मशा-नवासिनीनाम् आसननियमः कायचक्रे। इह यथा बाह्य प्रेतवाहनानि डाकिनीनां पीठादिगमनार्थंतथाध्यात्मनि सर्वधातूनां प्राणवायुवाहनम् इति। यथा बाह्येगणमेलापके स्वस्वचक्रारेषु शवासनानां स्थितिस् तथाध्यात्मनिप्राणवायूनां स्वस्वचक्रनाड्यां स्थितिः कुम्भकयोगेनेति नीतार्थः। इह बाह्ये गणचक्रे षट्त्रिंशद्दूतीनां नरचर्मशवविशुद्ध्या उक्तबी-जाक्षरैः सप्तवारान् अभिमन्त्रयित्वा स्वस्वस्थाणेसु देयम् आसनम्। एवं आसनविधिः प्रभोः प्रज्ञायाश् च गोचरमव्याघ्राजिनंमध्ये। इह प्रचण्डादीनां डाकिन्यादीनां च स्वनामादिबीजेनोत्पादोगणचक्रे। तेन तेनैव बीजेनाभिमन्त्र्य स्थानात् स्थानसंचारः कर्त-व्य इति सर्वतन्त्रेषु नियमः॥
(५५)Chapter XThe Pills of Secret Elementsइदानीं मुखादिशुद्ध्यर्थं समयगुडिकोच्यते। इहाकाशाद्येकैकगुणवृद्धिभेदेन पञ्चामृतानि पञ्चप्रदीपा ग्राह्यायदा चन्द्रार्कयोर् एकमासे ग्रहणं भवति। प्रथमं चन्द्रस्यपश्चात् सूर्यस्य तस्मिन् मासे न प्रथमं सूर्यस्य पश्चाच् चन्-द्रस्य तत्र मासे। इह चन्द्रग्रहणे प्रतिपत्प्रवेशकाले ऽप्रसूतां द्वा-दशवर्षकन्यां शोडशवार्षिकां वा गौरीं सर्वोपकरणैःपूजयित्वा देवतालम्बनं कृत्वा पद्मे वज्रं प्रक्षिप्य हुंफट्कारेणबोधिचित्तम् उत्सृजेत्। उत्सृज्य चाधः पद्मभाजनं दत्त्वा वज्रेणाकट्यतत्र पद्मभाण्डे क्षिपेत्। द्वितीयायां मृतकस्य पूजां कृत्वा मज्जाग्राह्या। तृतीयायां गौरनार्याः पूजां कृत्वा रजस्वलाया रत्नसंभवोग्राह्यः। चतुर्थ्यां स्वकीयं वज्रोदकं ग्राह्यम्। पञ्चयां विड्ग्राह्यम्। एवं माषकम् एकं शुक्रस्य माषकद्वयं मज्जाया माष-कत्रयं रत्नसंभवस्य माषकचतुष्टयं वज्रोदकस्य माष-कपञ्चकं वैरोचनस्य। एवम् आकाशवायुतेजौदकपृथ्वीनाम्एकद्वित्रिचतुष्पञ्चगुणवृद्धिभेदेन पञ्चदिनैः पञ्चद्रव्याणिग्राह्यानीति। ततः षष्ठ्यां मृतकस्य पूजां कृत्वा नरमांसं ग्राह्यम्। सप्तम्यां हयमांसम् अष्टम्यां दन्तिमांसंनवम्यां कुक्कुरमांसं दशम्यां गोमांसम्। एकाक्षमात्रंद्व्यक्षमात्रं त्र्यक्षामात्रं चतुरक्षमात्रं पञ्चाक्षमात्रम्। यथानुक्रमेण प्रदीपं गृहीत्वा पञ्चामृतेनैकीकृत्य पञ्चसप्त-तिमाषकान्। ततो ऽमृतमक्षिकाभिः पञ्चदशभिः सार्धम् अभुक्तेनै-कादश्यां यथेष्टं माध्वीं गौडीं द्राक्षीं वा तालादिवृक्षजां वा(५६)धानयजां वा पैष्ठिम् वा मदिरां पीत्वा <छर्दयेत्>। तयाछर्द्या कपालगृहीतया तानि पञ्चसप्ततिमाषकात्मकानि दशद्रव्याणिपीषयेत्। ततः सृगालखल्लां गृहीत्वा तन्मध्ये निक्षिपेत्। ततः कपा-लं संपुटं कृत्वा तस्मिन्न् एव रात्रिसमये श्मशानभूम्यां मृतन-रेण सार्धं या नारी वह्निं प्रविष्टा तद्दग्धभूमितलेहस्तम् एकं खनित्वा त्रिकोणं तत्र गन्धधूपादिभिः प्रपूजयित्वामहोदारां बलिं दत्वा ऽनेन मन्त्रविधानेन। ओं वज्रक्रोधेश्वरि सर्वद्रव्याणि विशोधय हूं फट्। इति बलिशोधनमन्त्रः॥
आयान्तु बुद्धाः पितरः समातरः सपुत्रभृत्यैः सह बन्धुवर्गैः। वृताः समग्राः सुरदेवतागणैः सन्तोष्यमाणा वरवज्रसत्त्वम्॥
इति सर्वतथागतावाहनम्॥
ओं श्रीहेरुक आकट्टय आकट्टय प्रवेशयप्रवेशय बन्धय बन्धय तोषय तोषयसर्वडाकिनीनां हृदयं जः हूं वं होः हूंफट्। इति डाकिन्याकर्षणमन्त्रः॥
ओं सुम्भ निसुम्भ हुं हूं फट्। ओं गृह्णगृह्ण हुं हूं फट्। ओं गृह्णापय गृह्णापयहुं हूं फट् ओं आनय हो भगवान् वज्रविद्या-राज हुं हूं फट्। इति बलिदानमत्रः॥
ततो ऽर्घपाद्यादिकं दत्वा। ओं श्रीवज्र हे हे रु रु कंहुं हूं फड् डाकिनीजालसंवरं स्वाहा। अनेनमन्त्रेणाष्टोत्तरशतवारम् अभिमन्त्र्य तस्यां गर्तायां निक्षिपेत्। चितिभस्माना गर्तां पूरयेन् मूर्द्ध्नि। महासिं दद्यात्। (५७)ओं वज्रवैरोचनीये स्वाहा। इत्य् अनेन मन्त्रेण रक्सांकृत्वा स्वगृहम् आगत्य चतुःसंध्यासु चतुर्वक्त्रमन्त्रं जपेद् द्वाद-श्याम्। अष्टपदिकं त्रयोदश्याम्। चतुर्विंशतिपदिकं चतुर्द-श्यां च। ततो ऽमावास्यायां सूर्यग्रहणे उद्धृत्य नरवसयामुद्गप्रमाणाः गुलिकाः कुर्यात्। तया गुलिकया खानपानादि-कं कुण्डगोलकोभवेन सार्धं प्रोक्षितं विशुद्धं भवति। मुखे प्रक्षिप्तया मुखविशुद्धिर् भवति। गणचक्रे भावनाकालेऽपिसर्वरक्षा भवति। इति गुलिकाविधिनियमः॥
(५८)Chapter XIFood and Drink in the गणचक्रइदानीं महागणचक्रे पूर्वोक्तानां डोम्ब्यादिशूद्रादीनांषट्त्रिंसत्कुलदूतीनां खानपानविधिर् उच्यते॥
इह विजने गृहे सुगुप्तस्थाने सर्वाः कुलदूत्यो विवस्त्राश् चतुर्विंशति-साधकाश् च पञ्चमुद्राविभूषिताः स्वस्वस्थाने मुक्तकेशायोगिन्यः। साधका बद्धजूटकाः। नरचर्मोपरि निषण्णाः। गणाधिपतिर् गो-व्याघ्रचर्मोपरिमध्ये चक्रस्य। ततो नरचर्मणा हस्तमात्रपत्तलि-कां कृत्वा गणनायकस्य दद्यात्। पूर्वयोगिनीनां हयचर्मपत्तलिकांदक्षिणयोगिनीनां कुक्कुरचर्मपत्तलिकां पश्चिमयोगिनीनां हस्तिचर्म-पत्तलिकाम् उत्तरयोगिनीनां गोचर्मपत्तलिकां दद्यात्। इशानयोगि-नीनां गवलचर्मपत्तलिकां वायव्ययोगिनीनां खरचर्मपत्तलिकांनैरृत्ययोगिनीनां सृगालचर्मपत्तलिकाम् आग्नेययगिनीनाम् उष्ट्रचर्मपत्-तलिकां दत्वा। ततः स्वकुलमृतकानां कपालम् एकखण्डंद्विखण्डं त्रिखण्डं वा यथालब्धं योगिनीनां दद्यात् पानार्थम्। ततः खानं पत्तलिकायां दत्वा पानं पद्मभाजने दत्वा साधकस् त्रिः प्रदक्षिणं कृत्वा गन्धपुष्पधूपादिभिः पूजयित्वाअध्येषयेत्। ततः परिणामयेत्। अनेन पुण्येन सर्वसत्त्वा म-हामुद्राज्ञानलाभिनो भवन्त्व् इति। इदं गणचक्रं राज्ञा कर्तव्यम्। सामान्यैर् मन्त्रबलेन देवतानियमेन वा। अन्यथाच्छिद्रं भवतिसाधकानाम्। सामायं गणचक्रं देशकुलव्यवहारेण कर्तव्यम्पुण्यसंभारार्थं स्वगृहे परिपाचिताभिः कुलवधूभिः। अन्यथागणचक्रं न भवति। प्रज्ञोपायसुखेन विना(५९)मैथुनबोधिचित्तास्वादनेन रहितं खानपानेन केवलेनवीरभोज्यम् उच्यते न गणचक्रम्। तद् एवाचार्यप्रमुखं कर्तव्यम्उपासकैः। आचार्यो ऽपि मन्त्रनये त्रिविधः -गृहस्थश् चेल्लको भिक्षुर् अधममध्यमोत्तमः॥
इति। गृहस्थो दशतत्त्वपरिज्ञाताप्य् अभिषिक्तो ऽनुज्ञातो ऽपि तुल्यो न भ-वति। तन्त्रे भगवतोक्तवचनात्। तयोर् द्वयोर् गृहस्थचेल्लकयोर् व्या-ख्यानकाले गुरुकृतयोर् अपि व्रतधरैर् भिक्षुभिः सद्धर्मादीन्पुरस्कृत्य वन्दना कर्तव्या नान्यस्मिन् काले व्याख्यानरहिते। अन्यस्मिन् काले अभ्यागतस्यासनदानादिकं सर्वं गौरवं कर्तव्यम्। असत्कर्मवन्दनां त्यक्त्वा इति। असत्कर्मपादप्रक्षालनादिकं त्यक्त्वा कायवाक्चित्तवन्दनां त्यक्त्वा अर्थादिगौरवं कर्त-व्यं गृहस्थचेल्लकयोर् भिक्षुभिर् इति। प्राग्भिक्षोः पुनः प्राग्भिक्षु-वज्राचार्येणाभिषिक्तस्य वज्रधरकृतस्य सर्वकालं गुरोर् वन्दना कर्तव्या भिक्षुभिर् इति नियमः। गृहस्थचेल्लकयोर् अभिज्ञाप्राप्तयोर् अपि भिक्षुभिर् नराधिपेनापि वन्दना कर्तव्या। अतोगृहस्थचेल्लकभिक्षूणाम् अभिषिक्तानां संकरो न भवति ज्येष्ठकनिष्ठलक्षणेन। अत्र गृहस्थयोः प्रागभिषिक्तो ज्येष्ठः। एवं चेल्लकयोर् मध्ये। तथा द्वयोर् भिक्ष्वोर् मध्ये प्रागभिषिक्तोज्येष्ठः पूर्वस्थानवशात्। यथा चक्रवर्तिपुत्रो ऽभिषिक्तश्चक्रवर्ती भवति राजपुत्रो ऽभिषिक्तो राजा भवति अमात्यपुत्रो ऽभिषिक्तोऽमात्यो भवति। तथा भिक्षुर् अभिषिक्तः प्रधानाचार्यो भवति चेल्लकोमध्यमाचार्यो भवति गृहस्थो ऽधमाचार्यो भवति। अतस् त्रयाणांप्राग्भिक्षुः पश्चाद् वज्रधरः कृतो गणचक्रे प्रतिष्ठादौ गणनायकः। तस्याभावे चेल्लकस् तस्याप्य् अभावे गृहस्तः। यदा भिक्षुर् आचार्योविद्यमानो ऽपि गणनायको न क्रियते दानपतिना तदा पूज्यपूजा-(६०)व्यतिक्रमेण पुण्यविपर्यासो भवति दानपतीनां काषायलिङ्गंदूषणेनेति एवं सर्वगुणोपेतः सर्वज्ञध्वजधार-को दशाकुशलपरित्यक्तः। कर्तव्यो गणनायकः। निष्कृपः क्रोधनः क्रूरः स्तब्धो लुभो ऽसंयतः। <स्वोत्कर्षणो> न कर्तव्यो दात्रा बुद्धसुखार्थिना॥
यो गृही मठिकाभोक्ता सेवको लाङ्गली वणिक्। सद्धर्मविक्रयी मूर्खो न चक्रे गणनायकः॥
इत्य् एवं वज्रचार्यः सर्वज्ञध्वजधारी वीरभोज्ये पूर्वाभिमुको दानपतिना कर्तव्यः। तस्य दक्षिणाङ्गे ऽनुक्रमेण ज्येष्ठकनिष्ठ-भिक्षुवज्रधराचार्यपङ्क्तिः कर्तव्या पूर्वाभिमुखी। ततो ज्येष्ठक-निष्ठभेदेन उत्तराभिमुखी चेल्लकाचार्यपङ्क्तिर् नैरृत्याद् आरभ्ययावद् अग्निपर्यन्तम्। ईशानाद् आरभ्य वायुपर्यन्तं दक्षिणाभिमुखीज्येष्ठकनिष्ठभेदेन गृहस्थाचार्यपङ्क्तिः। गणाधिपादिं कृत्वावायव्याद् आरभ्य नैरृत्यपर्यन्तं भिक्ष्वाचार्यपङ्क्तिः कर्तव्या। खानपानादिकं पूर्वे कर्तव्यम् मध्ये रजोमण्डलाभावे गो-मयतोयेन चतुर्स्रं कर्तव्यम् तत्र गन्धपुष्पा-दिभिः पूजां कृत्वा गणाधिपवामपार्श्वे कर्ममुद्रां एकां स्थापयेद्गणाधिपमुद्रां कृत्वा। अन्यथा योगिन्या विना गणाधिपतेः पानं अवि-हितं वीरभोज्ये ऽपि। तेनावश्यं दानपतिना गणाधिपस्य मुद्राढौकनीया पुण्यवृद्ध्यर्थम्। यत्र तु भिक्षुवज्रधरयोर्मध्ये ज्येष्ठो मूर्खः कनिष्ठो देशकस् तत्र कनिष्ठो गणाधिपतिः। ज्येष्ठो ऽन्यगृहे तर्पणीयो मूर्खः। तथान्यतन्त्रान्तरे ऽभिषिक्तापि योगिनोवीरभोज्ये पृथग्गृहे पूजनीयाः। प्राग्भिक्षुण्यो ऽभिषिक्ताः पूर्वाभिमुखाज्येष्ठकनिष्ठभेदेन चेल्लिक्यो ऽभिषिक्ता उत्तराभिमुखा उपासिका(६१)अभिषिक्ता दक्षिणाभिमुखाः। गणनायिकावामे आचार्यो दानपतिना कर्-तव्यः। अन्यथा उपायेन विना गणाधिपत्या मांसभक्षणम् अविहितंवीरभोज्ये। तेनावश्यं दानपतिना गणाधिपत्या उपायो ढौकनीयः। शेषमण्डलादिकं पूर्ववन् मध्ये खान पानादिकं पूर्वे। ततो गणाधिपादिवामावर्तेन भक्ष्यभोज्यं प्रदेयम्। पानंशरावे नारिकेलादिकरोटके वा देयम्। ततो मद्यादिकं शोधयित्वाबोधयित्वा प्रदीपयित्वा अमृतीकृत्य बल्यादिकं दत्वा पूर्वोक्तगुलिकयाप्रोक्षयित्वा। ततो वामहस्तेन शोधयेद् ओंकारेण दक्षिणहस्ते-न बोधयेद् आकारेण। अञ्जल्या पिहित्वा प्रज्वालयेत् हूंकारेन। गरुडमुद्रया होःकारेणामृतीकृत्य मद्यबिन्दुना वामानामिका-ग्रेण भूम्यां त्रिकोणं धर्मोदयं कृत्वा मध्ये वर्तुलं बिन्दुम्। तन्मध्ये ज्ञानचक्रं सप्तत्रिंशद्देवतात्मकं स्वच्छंप्रतिसेनातुल्यं तस्य तर्पणं कुर्याद् वक्ष्यमाणविधिना। क्षेत्र-पालादीनां नगरग्रामस्य नां <अ अ>क्षरैः समैः समनाम्<अ आ>द्य्अन्ताक्षराभ्यां नाम्<अ आ>द्यन्तद्व्यक्षरम्। विषमाक्षरैर्नाम आदिमध्यावसानैस् त्र्यक्षरं नाम भवति। ओंकारआदौ मध्ये नामान्ते आः हूम्। यथा <ओं> अमुक आः हूं। बलि गृह्ण गृह्ण सर्वसत्त्वाणां शान्तचित्तंकुरु कुरु स्वाहा। तथा <ओं> हारीतिपिण्डके क्षींप्रतीच्छ स्वाहा। हारित्यै पिण्डके द्वे। ओं दू-(६२)तिके अग्रग्रासं प्रतीच्छ स्वाहा ओं आं हूं <इति>। मन्त्रेणाभिमन्त्र्य भूम्यां स्थापयेद् यावद् भोजनान्तं भवति। ओं खखखाहिखाहि उच्छिष्टबलिम् उच्छि-ष्टभक्षक स्वाहा उच्छिष्टबलिमन्त्रः। यथानुरूपकालेसर्वं प्रत्येकं कर्तव्यम्। ततः खानपानं सर्वैर् आचार्यैःसशिष्यैः कर्तव्यम्। यदा कश्चिद् विवादं कलहं करोती सनिर्द्धारनीयः। अथाहंकारं करोति चेल्लको गृहस्थो वा तदासामर्थ्यं पृच्छेत्। यदि दर्शयति पञ्चाभिज्ञादिकं सामर्थ्यं तदास गणनायकः सर्वत्र सर्वेषाम्। अन्यथा श्रुताभिमानेनसेकज्येष्ठाभिमानेन चेल्लको गृहस्थो गणनायको न भवति। यःप्राग्भिक्षुः स गणनायकः सर्वत्र। अथ वीरभोज्ये निर्द्धारितोदण्डं याचते तदा खानपानादिके दण्डो दातव्यस् तस्यगणाधिपेन। एवं गण्चक्रे वीरभोज्ये चायं विधिः कर्तव्यः सर्वत्रदानपतिनेति॥
(६३)Chapter XIIPractice of Mantrasइदानीं मन्त्रसाधनविधिर् उच्यते। इह वक्ष्यमाणा गाथामण्डलवर्तनाय मुद्रामन्त्रसाधनायोक्ता। तद्यथा। गिरिगह्वरकुञ्जेषु महोदधितटेषु च। आदिसिद्धिश्मशानेषु तत्र मण्डलम् आलिखेत्॥
इति स्थाननिर्देशः कर्मप्रसरलौकिकसिद्धिसाधनार्थंभगवतोक्तः। तत्रोक्तस्थाने वक्ष्यमाणमण्डलं वर्तयित्वा पर्वतो-परि स्तम्भनं मोहनं कीलनं साधयेत्। गह्वरे वृक्षसंकीर्णेमण्डलं वर्तयित्वा वश्याकर्षणं साधयेत्। कुञ्जे स्वच्छजलाशयतटेमण्डलं वर्तयित्वा शान्तिकं पौष्टिकं साधयेत्। महोदधितटे मण्डलं वर्तयित्वा विद्वेषोच्छाटनं मारणं साधयेत्। श्मशाने मण्दलं वर्तयित्वा आदिसिद्धिर् इति डाकिनीमन्त्रोद्धारंसाधयेन् मन्त्री। तथा लौकिका सिद्धयः। इह पर्वते निधानसिद्धिंसाधयेत्। गह्वरे रत्नसिद्धिं साधयेत्। कुञ्जे रसदिद्धिंसाधयेत्। महोदधितटे खड्गसिद्धिं साधयेत्। श्मशाने ऽञ्जनसिद्-धिं साधयेत्। अपरा अपि तन्त्रोक्तविधिना साधयेन् मन्त्रीति। अत्र प्रथमं तावच् छ्मशाने मण्डलं वर्तयित्वा महतींपूजां कृत्वा प्रथमसंवत्सरे चैत्रपौर्णमास्यां मूलमन्त्रस्यार्-घं दत्वा नरदन्ताक्षसूत्रेण मूलमन्त्रं जपेत्। प्रतिमासंलक्षत्रयं पञ्चम्यादिप्रत्येकपूर्णायां दशांशेन होमं कुर्यात् कर्मप्रसरोक्तद्रव्यैः। एवं वर्षैकेन षट्त्रिंशल्-लक्षं जपेल् लक्षत्रयं षडयुतं होमयेत्। ओं श्रीवज्र हेहे रु रु कं हुं हूं फट् डाकिनीजालसंवरंस्वाहा इति मूलमन्त्रः। ततो द्वितीये वर्षे तेनैव विधिना वर्षम् एकं(६४)हृदयमन्त्रं जपेद् धोमयेत्। ओं ह्रां ह्रीं ह्रें हूंफट्। इति षडक्षरो हृदयमन्त्रः। तेनैव विधिना तृतीये वर्षेउपहृदयं जपेद् धोमयेत्। ओं ह्रीः हः हः हुं हूं फट्। इति सप्ताक्षर उपहृदयमन्त्रः। ततस् तेनैव विधिना चतुर्थे वर्षेकवचमन्त्रं जपेद् धोमयेत्। ओं हूं हूं हूं हिं हंहुं फट्। इति अष्टाक्षरकवचमन्त्रः। ततस् पञ्चमे वर्षे तनैवविधिना वज्रवाराह्या हृदयमन्त्रं जपेद् धोमयेत्। ओं वज्रवैरोचनीये स्वाहा। इति दशाक्षरहृदयमन्त्रं दशपार-मिताशुद्ध्या। ततः षष्टे वर्षे तेनैव विधिना देवीकवच-मन्त्रं जपेद् धोमयेत्। ओं वं यों मों हृं ह्रेंहूं फट्। इत्य् अष्टाक्षरो महाकवचमन्त्रः। एवं षण्मन्त्राणांषड्वर्षैः कोटिद्वयं षोडशलक्षाणि मन्त्रजापः। एकविंशतिलक्षाणि षडयुतानि होमः कर्तव्यस् तदा कायशुद्धिर् भवति योगिनाम्॥
The Purification of the Four Facesइदानीं चतुर्वक्त्रविशुद्ध्यर्थं चतुर्वक्त्रमन्त्रजाप उच्यते। अत्र मकरसंक्रान्तौ महोदधितटे मण्डलं वर्तयित्वा डाकिन्याअर्घं दत्वा प्रत्येके मासे लक्षत्रयं जापं कुर्याद् धोमंदशंशेन प्रत्येकैकपूर्णायां पूर्ववक्त्रमन्त्रस्य वज्रडाकिनीना-मसहितस्य हुंहूंफट्कारान्तस्य। ओं सुम्भ निसुम्भवज्रडाकिनि हुं हूं फट्। इति चतुर्दशाक्षरपूर्ववक्त्र-मन्त्रः। त्रिमासैर् नवलक्षाणि जपेन् नवायुतानि होमयेत्कर्मप्रसरसाधनोक्ताक्षसूत्रेण नराक्षसूत्रेण प्रथममासे द्वि-तीये उष्ट्राक्षसूत्रेण तृतीये खराक्षसूत्रेण जपेत् कर्मप्रसरोक्त-(६५)द्रव्यैर् होमयेत्। ततो मेषसंक्रान्तौ गह्वरे मण्डलं वर्तयित्वालामाया अर्घं दत्वा प्रत्येकमासे दक्षिणवक्त्रमन्त्रं लक्षत्रयंजपेद् धोमं दशांशेन कारयेत् प्रत्येकपूर्णायाम्। प्रथ-ममासे पद्माक्षसूत्रेण द्वितीये रक्तचन्दनबीजाक्षसूत्रेण तृतीयेरक्तगुञ्जाक्षसूत्रेणेति। एवं नवलक्षाणि नवायुतानि जापो होमश् चकर्तव्यः। ओं गृःण गृह्ण वज्रलामे हुं हूं फट्। इति द्वादशाक्षरो दक्षिणवक्त्रमन्त्रो नवलक्षं जपेन् नवायुतं होम-येत्। ततः कर्कटसंक्रान्तौ गिरौ मण्डलं वर्तयित्वा खण्डरोहायाअर्घं दत्वा प्रत्येकमासे। पश्चिमास्य मन्त्रं लक्षत्रयं जपेद्दशांशेन होमयेत्। प्रथममासे पुत्रजीवाक्षसूत्रेण द्वितीयेरुद्राक्षसूत्रेण तृतीये रिष्टिकाक्षसूत्रेण जपेद् धोमं कर्मप्रसरो-क्तद्रव्यैः कुर्यान् मन्त्रीति ओं गृह्णापय गृह्णापयवज्रखण्डरोहे हुं हूं फट्। इति पश्चिमव-क्त्रमन्त्रम् अष्टादशाक्षरं नवलक्षं जपेन् नवायुतं होमयेद्इति। ततस् तुलासंक्रान्तौ कुञ्जे मण्डलं वर्तयित्वा रूपिण्या अर्घं दत्वाप्रत्येके मासे उत्तरवक्त्रमन्त्रं लक्षत्रयं जपेद्अयुतत्रयं होमयेत् कर्मप्रसरद्रव्यैः। प्रथममासेस्फटिकाक्षसूत्रेण द्वितीये मुक्ताफलाक्षसूत्रेण तृतीये शङ्काक्षसूत्रेणएवं मासत्रयेण नवलक्षाणि जपेन् नावायुतानि होमयेत्। ओं आनय हो भगवन् वज्रवज्ररूपिणि हुं हूंफट्। इत्य् अष्टादशाक्षरम् उत्तरवक्त्रमन्त्रं जपेद् धोमयेद् इति। एवम् एकवर्षेण षट्त्रिम्शल्लक्षाणि जपेत् त्रिलक्षाणि षडयुतानि होमयेत् ततोवक्त्रशुद्धिर् भवति॥
The Purification of the Eight Doorsइदानीं मुखादिश्रोत्रविशुद्ध्यर्थं मन्त्रजाप उच्यते। अत्रद्वितीये वर्षे मकरसंक्रान्तौ महोदधितटे मण्डलं वर्तयित्वा का-कास्याया अर्घं दत्वा नरदन्ताक्षसूत्रेण प्रथमे पक्षे पञ्च-दशदिनैः पञ्चदशयुतं जपेद् अष्टपदिकं द्वितीयपक्षे उष्ट्रद(६६)न्ताक्षसूत्रेण तृतीये खरदन्ताक्षसूत्रेण। एवं सार्धमासेनसार्धचत्वारि लक्षाणि जपेत् सार्धं चत्वार्य् अयुतानि होमयेत्। इतिपूर्ववक्त्रकर्मप्रसरोक्तद्रव्यैः। ओं नमो भगवतेवीरेशाय वज्रकाकास्ये हुं हूं फट्। इत्य् एकोनविंश-त्यक्षरः प्रथमपदमन्त्रः। ततः कुम्भार्धे गह्वरे मण्डलंवर्तयित्वा उलूकास्याया अर्घं दत्वा पक्षत्रयं लामोक्ताक्षसूत्रेणसार्धं चत्वारि लक्षाणि मन्त्रजापं कुर्याद् दशांशेन होमम्। ओंमहाकल्पाग्निसंनिभाय वज्रोलूकास्ये हुं हूंफट्। इत्य् अष्टादशाक्षरो द्वितीयपदमन्त्रः। ततो मेषसंक्रान्तौपर्वते मण्डलं वर्तयित्वा श्वानास्याया अर्घं दत्वा सार्धमासंखण्डरोहाक्षसूत्रोक्तक्रमेण सार्धचत्वारि लक्षाणि जपेद्दशांशेन होमयेत्। ओं जटामकुटोत्कटाय वज्रश्वा-नास्ये हुं हूं फट्। इति सप्तदशाक्षरस् तृतीयपदमन्त्रः। ततोवृषभार्धदिने कुञ्जे मन्डलं वर्तयित्वा शूकरास्याया अर्घंदत्वा सार्धमासं रूपिण्या अक्षसूत्रोक्तविधिना सार्धं चत्वारि लक्षाणि जपेत् सार्धचत्वार्य् अयुतानि होमयेत्। ओंदंष्ट्राकाकरालोग्रभीषणमुखाय वज्रसूक-रास्ये हुं हूं फट्। इति द्वाविंशत्यक्षरश् चतुर्थपदमन्-त्रः। ततः कर्कटोदये पद्मसरे कुञ्जवन् मण्डलं वर्तयित्वायमदाढ्या अर्घं दत्वा रूपिण्योक्ताक्षसूत्रविधिना सार्धमासेन सार्धचत्वारि लक्षानि जपेद् दशांशेन होमयेत्। ओं सहस्रभु-जभासुराय वज्रयमदाढि हुं हूं फट्। इत्य् एको-नविंशत्यक्षरः पञ्चमपदमन्त्रः। ततः सिंहार्धदिने पर्वतेमण्डलं वर्तयित्वा यमदूत्या अर्घं दत्वा खण्डरोहोक्ताक्षसूत्रविधिनापक्षत्रयेन सार्धचत्वारि लक्षाणि जपेद् धोमं दशांशेन कृत्वाविसर्जयेत्। ओं परशुपाशोद्यतशूलखट्वाङ्गधारिणे वज्रयमदूति हुं हूं फट्। इति पञ्चविं-शत्यक्षरैः षष्ठमपदमन्त्रः। ततस् तुलासंक्रान्ताव् उद्याने मण्ड-लं वर्तयित्वा यमदंष्ट्रिण्या अर्घं दत्वा लामोक्ताक्ष-सुत्रक्रमेण सार्धमासेन सार्धचत्वारि लक्षाणि जपेत् सार्धच-त्वार्ययुतानि होमयेत्। ओं व्याग्राजिनाम्बरधरायवज्रदंष्ट्रिणि हुं हूं फट्। इति विंशत्यक्षरः सप्तमप-दमन्त्रः। ततो वृश्चिकार्धदिने समुद्रतटे मण्डलं वर्तयित्वासमुद्राभावे क्षारोदके वापीतटे मण्डलं वर्तयित्वा यममथन्या(६७)अर्घं दत्वा वज्रडाकिण्योक्ताक्षसूत्रविधिना पक्षत्रयं मन्त्रं जपेत्सार्धचत्वारि लक्षाणि प्रत्येकैकपूर्णायां होमयेद् यावत्सार्धचत्वार्ययुतानि भवन्ति। ओं महाधूमान्ध-कारवपुषाय वज्रयममथनि हुं हूं फट्। इतिद्वाविंशत्यक्षरो ऽष्टमपदमन्त्रः। एवं वर्षैकेन षट्त्रिंशल्लक्षाणिजपेत् षट्त्रिंशतयुतानि होमयेत्। ततो मुखगुदनासाश्रोत्रनेत्र-नाडीशुद्धिर् भवति॥
The Purification of the Twenty-Four Secondary Membersइदानीं चतुर्विंशतिप्रत्यङ्गपदमन्त्रजाप उच्यते। इहसमुद्रतटेऽलाभे क्षारोदकवापीतटे मण्डलं वर्तयित्वा मार्गशीर्षामा-वास्यां प्रचण्डया अर्घं दत्वा पञ्चतिथिभिः पञ्चायुतं जापं कुर्यात्पञ्चसहस्रं होमं कुर्यात्। एवं पञ्चदशदिनैः सार्धलक्षंमन्त्रजापं कृत्वा सार्धायुतहोमं कृत्वा वज्रडाकिन्युक्ताप्रत्येकै-काक्षसूत्रेण पञ्चायुतं मन्त्रजापः। ओं कर कर वज्र-प्रचण्डे वज्रकण्डकपालिन् हुं हूं फट्। इतिविंशत्यक्षरः प्रत्यङ्गप्रथमपदमन्त्रः। ततो मार्गशीर्षपूर्णि-मायां गह्वरे उद्याने वने वा मण्डलं वर्तयित्वा चण्डक्ष्या अर्घंदत्वा लामोक्ताक्षसूत्रैः पूर्वक्तविधिना पक्षैकेन सार्धलक्षंजपेत् सार्धायुतं होमयेत्। ओं कुरु कुरु वज्रचण्डाक्षिवज्रामहाककाल हुं हूं फट्। इति विंशत्यक्षरोद्वितीयपदमन्त्रः। ततः पौषामावास्यायां पर्वते मण्डलं वर्तयित्वा प्रभावत्या अर्घं दत्वा खण्डरोहोक्ताक्षसुत्रैः पञ्चदश-तिथिभिः सार्धलक्षं जपेत् सार्धायुतं होमयेत्। ओं बन्धबन्ध वज्रप्रभावति वज्रककाल हुंहूं फट्। इत्य् एकोनविंशत्यक्षरस् तृतीयपदमन्त्रः। ततः पौष-पूर्णिमायां कुञ्जे मण्डलं वर्तयित्वा पद्मसरस्तटे वा महानसायाअर्घं दात्वा रूपिण्युक्ताक्षसूत्रैः पञ्चदशदिनैः सार्धलक्षंजपेत् सार्धायुतं होमयेत्। ओं त्रासय त्रासय वज्रम-हानासे वज्रविकटदंष्ट्रिन् हुं हूं फट्। इतित्रयोविंशत्यक्षरश् चतुर्थपदमन्त्रः। ततो माघामावास्यायां कुञ्जे(६८)वा पद्मसरस्तटे वा मण्डलं वर्तयित्वा वीरमत्या अर्घं दत्वारूपिण्युक्ताक्षसूत्रैः पक्षैकेन सार्धलक्षं जपेत् सार्धायुतं होमयेत्। ओं क्षोभय क्षोभय वज्रवीरमति वज्र-सुरावैरिन् हुं हूं फट्। इति द्वाविंशत्यक्षरैः पञ्चमपदमन्त्रः। ततो माघपूर्णिमायां पर्वते मण्डलं वर्तयित्वाखर्वर्या अर्घं दत्वा सार्धलक्षं जपेत् सार्धायुतं होमयेत्। त्रिपञ्चरात्रेण खण्डरोक्ताक्षसूत्रैः। ओं ह्रौं ह्रौंवज्रखर्वरि वज्रामिताभ हुं हूं फट्। इति षो-डशाक्षरो मन्त्रः षष्थपदः। ततः फाल्गुनामावास्यां गह्वरे उद्या-ने वा मण्डलं वर्तयित्वा लङ्केश्वर्या अर्घं दत्वात्रिपञ्चदिनैर् लामोक्ताक्षसूत्रैः सार्धलक्षं जपेत् सार्धायुतंहोमयेत्। ओं ह्रः ह्रः वज्रलकेश्वरि वज्रप्र-भ हुं हूं फट्। इति षोडशाक्षरः सप्तमपदमन्त्रः। ततःफागुनपूर्णिमायां समुद्रतटे क्षारोदकवापीतटे वा मण्-डलं वर्तयित्वा द्रुमच्छायाया अर्घं दत्वा डाकिण्युक्ताक्षसूत्रैस् त्रि-पञ्चकदिनैः सार्धलक्षं जपेत् सार्धायुतं होमयेत्। ओं फेंफें वज्रद्रुमच्छाये वज्रदेह हुं हूं फट्। इतिषोडशाक्षरो ऽष्टमपदमन्त्रः। एवं प्रचण्डोक्तविधिना ऐरावत्या अर्-घं दत्वा चैत्रामावास्यां मन्त्रं जपेद् धोमयेत्। ओंदह दह वज्रैरावति वज्राकुरिक हुं हूं फट्इत्य् अष्टादशाक्षरो नवमपदमन्त्रः चैत्रपूर्णिमायां चण्डक्ष्युक्-तविधिना महाभैरवाया अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओंपच पच वज्रमहाभैरवे वज्रजटिल हुंहूं फट्। इति विंशत्यक्षरो दशमपदमन्त्रः। ततो वैशाखामा-वास्यायां प्रभावत्युक्तविधिना वायुवेगाया अर्घं दत्वा मन्त्रं जपेद्धोमयेत्। ओं भक्ष भक्ष वज्रवायुवेगे वज्र-महावीर हुं हूं फट्। इति विंशत्यक्षर एकादशमपद-मन्त्रः। वैशाखपूर्णिमायां महानासोक्तविधिनासुराभक्ष्या अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं वसरु-धिरान्त्रमालाबलं विने गृह्ण गृह्ण वज्रसुराभक्षि वज्रहूंकार हुं हूं फट्। इत्य् एकत्रिं-(६९)शदक्षरो द्वादशमपदमन्त्रः। ततो ज्येष्ठामावास्यायाण् वीरम-त्युक्तविधिना श्यामादेव्या अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओंसप्तपातालगतं भुजगसर्पं वा तर्जय तर्-जय वज्रश्यामादेवि वज्रसुभद्र हुं हूं फट्। इति चतुस्त्रिंशदक्षरस् त्रयोदशमपदमन्त्रः। ज्येष्ठपूर्णिमायांखर्वर्युक्तविधिना सुभद्राया अर्घं दत्वा जपेद् धोमयेत्। ओंआकट्ट आकट्ट वज्रसुभद्रे वज्रभद्र हुंहूं फट्। इत्य् एकोनविंशत्यक्षरो मन्त्रश् चतुर्दशमपदः। ततआषाढामावास्यायां लङ्केश्वर्युक्तविधिना हयकर्णाया अर्घं दत्वामन्त्रं जपेद् धोमयेत्। ओं ह्रीं ह्रीं वज्रहयकर्णे व-ज्रमहाभैरव हुं हूं फट्। इत्य् एकोनविंशत्यक्षरःपञ्चदशमपदमन्त्रः। आषाढपूर्णिमायां द्रुमच्छायोक्तविधिनाखगाननाया अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं ज्ञौंज्ञौं वज्रखगानने वज्रविरूपाक्ष हुंहूं फट्। इत्य् अष्टाक्षरः षोडश<म>पदमन्त्रः। ततः श्रावणामा-वास्यायां प्रचण्डोक्तविधिना चक्रवेगाया अर्घं दत्वा मन्त्रं ज-पेद् धोमयेत्। ओं क्ष्मां क्ष्मां वज्रचक्रेवेगे वज्र-महाबल हुं हूं फट्। इत्य् अष्टादशाक्षरः सप्तद-श<म>पदमन्त्रः। ततः पूर्णिमायां चण्डक्ष्युक्तविधि-ना खण्डरोहाया अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं हां हांवज्रखण्डरोहे वज्ररत्नवज्र हुं हूं फट्। इत्य्अष्टादशाक्षरो ऽष्टादश<म>पदमन्त्रः। ततो भाद्रपदामावास्यायांप्रभावत्युक्तविधिना शौण्डिन्या अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं हीं हीं वज्रशौण्डिनि वज्रहयग्रीव हुं हूंफट्। इति सप्तदशाक्षर एकोनविंशतिमपदमन्त्रः। ततः पूर्णि-मायां महानासोक्तविधिना चक्रवर्मिण्या अर्घं दत्वा मन्त्रंजपेद् धोमयेत्। ओं हुं हूं वज्रचक्र वर्मिणिवज्राकाशगर्भ हुं हूं फट्। इत्य् एकोनविंशत्यक्षरोविंशतिमपदमन्त्रः। तत आश्विनामावास्यायां वीरमत्युक्तविधिनासुवीराया अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं किलि किलिवज्रसुवीरे वज्रहेरुक हुं हूं फट्। इत्य् अष्टादशाक्षरएकाविंशति<म>पदमन्त्रः। ततः पूर्णिमायां खर्वयुक्तविधिनामहाबलाया अर्घं दत्वा मन्त्रं जपेद् धोमयेत्। ओं शिलि शिलि(७०)वज्रमहाबले वज्रपद्मनर्तेश्वर हुं हूंफट्। इति द्वाविंशत्यक्षरो द्वाविंशतिमपदमन्त्रः। ततःकार्त्तिकामावास्यायं लङ्केश्वर्युक्तविधिना चक्रवर्तिन्या अर्घं दत्वामन्त्रं जपेद् धोमयेत्। ओं हिलि हिलि वज्रचक्रवर्तिनिवज्र वैरोचन हुं हूं फट्। इत्य् एकविं-शत्यक्षरस् त्रयोविंशतिमपदमन्त्रः। ततः पूर्णिमायां द्रुमच्छा-योक्तविधिना मण्डलं वर्तयित्वा महावीर्याया अर्घं दत्वा त्रिपञ्चदि-नैः सार्धलक्षजापं कृत्वा सार्धायुतं होमं कृत्वाअनेन मन्त्रेण। ओं धिलि धिलि वज्रमहावीर्ये वज्रसत्-त्व हुं हूं फट्। इत्य् अष्टादशाक्षरश् चतुर्विंशतिमपदमत्रः। एवं तृतीये वर्षे चतुर्विंशतिपदमन्त्रं षट्त्रिंशल्लक्षं जपेत् षट्त्रि-ंशदयुतानि होमयेत्। एवं त्रिवर्षैर् अष्टलक्षाधिकः कोटिजापो ऽष्टशता-धिकदशलक्षहोमः। ततः प्रत्यङ्गविशुद्धिर् भवति योगिनाम्। इतिमन्त्रजापविधिः। अथवा चतुर्विंशतिपदिको मन्त्रो द्वादशसंक्रान्तिचतुर्विंशति-पक्षैर् उक्तविधिना जप्तव्यो होतव्यः। वृश्चिकसंक्रान्तौ वृश्चिकार्धदि-ने। एवं द्वादशलग्ने लग्नार्धे रविणा भुक्ते सति मण्डलं वर्तयित्वाअर्घं दत्वा स्वस्वमन्त्रेण जपेद् धोमयेन् मन्त्रं यावद् गणच-क्रकरणाय देवतानियमो भवति। द्वादशवर्षं यावच् चतुर्विंशतिपदिकं मन्त्रं जपेत्। सर्वत्र मन्त्रपदपूर्वे ओंकारम्। त-तः प्रत्यङ्गपदं ततो वज्रपूर्वं दूतीनाम विरनाम च यत्रवज्रपूर्वं नाम न भवति ततो ह्रस्वं दीर्घं हुंहूंकारं तदन्ते फट्कारम् एकम्। यत्र हूंकारत्रयम् अन्ते तत्रसर्वदीर्घाः फट्कारद्वयम् इति सर्वत्र मन्त्रजापनियमः। इहसर्वमूलमन्त्रादयो मन्त्राः प्रत्येककर्मानुरूपेणान्ते हूंफट्का-राक्षरस्थाने देवतावाहने स्वाहान्ताः कर्तव्याः। तथा अर्घ-दाने ऽपि अर्चने नमोन्ताः शान्तौ मन्त्रजापे च। पुष्टिजापे स्वा-हान्ताः। आकृष्टिजापे वौषडन्ताः। वश्यजापे वषडन्ताः। वामदक्षिण-वक्त्रोक्तकर्मविधौ पूर्वापरवक्त्रोक्तकर्मविधौ(७१)हुंहूंफट्कारान्ताः सर्वे कर्तव्याः। यथानुक्रमेण होमेसर्वे मन्त्राः स्वाहान्तः। वामदक्षिणवक्त्रोक्तकर्मविधौ पूर्वापर-वक्त्रोक्तकर्मविधौ पुनर् होमे सर्वे मन्त्राः प्रत्येकं हूं-फट्कारान्ताः कर्तव्याः। विपरीतमन्त्रजापहोमविधिना विपरीतस्थानेमण्डलालेखनेन विपरीतकुण्डेन विपरीतहोमद्रव्यैः सर्वं निष्फ-लं सिद्धिसाधनं भवति बालमतीनाम्। तस्माद् वक्ष्यमाणमण्डलंवर्तयित्वा मन्त्रदेवतानाम् अर्घं दत्वा मन्त्रजापं कृत्वावक्ष्यमाणेषु कुण्डेषु वक्ष्यमाणैर् होमद्रव्यैः कृत्वा मन्त्रंसाधयेद् द्वादशवर्षपर्यन्तम्। यावद् इष्टदेवतानियमो न भवतिगणचक्रकरणाय। ततः पक्षत्रयं गणचक्रं कृत्वा देवतामन्-त्रबलेन पूर्णिमायां गणनायको भूत्वा साधको गणचक्रेण सार्धंसिध्यति अनेन विधिना। अपरविधिना मन्त्रम् एकं द्वादशवर्षैःसाधयित्वा देवतानियमेनैकां कर्ममुद्रां गृहीत्वा सिध्यति। स सर्वत्र लौकिकसर्वसिद्धीनां भाजनो न भवति गणचक्रेसाधितसर्वसिद्धीनां किंकरो भवति <हीन>वीर्यत्वात्। एवंसर्वलौकिकसिद्धिसाधनकालविशेषेण दूतिकाः सहजाः सिद्धाः पूजयित्वापूर्वोक्तविधिना योगिना कर्तव्यम्। इति हेरुकभगवतो नियमोलक्षाभिधाने। इति षट्त्रिंशद्दूतिकापूजाविधिः कालविशेषेणोक्तो मयाश्रीवज्रपाणिना अनया टीकया वीरेशनियमेन उपायपरिज्ञानिनांसर्वसिद्धिसाधनायेति। दूतिकापूजाविधिनियमः॥
(७२)Chapter XIIIThe Threefold दूतिका’s siddhiCommentary on CS 7ABइदानीम् अधममध्यमोत्तमसिद्धिदायका उच्यन्ते दूतिकेत्यादिना। अत्रदूतिकाः सहजास् त्रिविधा महावीर्यादयः। चतुर्विंशतिवज्रसत्त्वादयःसिद्धा वीराः। तेषां अष्टौ अधमाः पातालवासिनः पातालसिद्धिदा-यकत्वात्। एवम् अष्टौ मध्यमा भूवासिनो राज्यादिसिद्धिदायकत्वात्। अष्टौ उत्तमाः खेचराः कामावचरसिद्धिदायकत्वात्। चतस्रो डाकिन्योऽप्य् उत्तमा रूपावचरसिद्धिदायकत्वात्। काकास्यादयोऽप्य् अधमाः प्रे-ततिर्यकसिद्धिदायकत्वात्। एवं लौकिकसत्येन यत् कंचित् साध्यतेयोगिना तत् सर्वं सिद्धिफलं त्रिविधम् अधमं मध्यमोत्तमम्। तस्मात् किं तेन साधितेन येन जातिजरामरणक्षयहेतुभूतं बुद्-धत्वं न भवति योगिनाम्। एवं ज्ञात्वा मोक्षार्थिभिर् योगिभिर्अन्तर्गतेन मनसा कामसिद्धिर् भावनीया। इति तथागतनियमः॥
(७३)Chapter XIVThe Meditation Upon Love-Perfection and the InitiationsCommentary on CS 7CDइदानीं महामुद्रा भावनोच्यते ऽन्तर्गतेन मनसेत्यादिना। इह मन्त्रनेये प्रज्ञोपायतन्त्रेष्व् इदं वज्रपदंसंध्याभाषान्तरेण तन्त्रतन्त्रान्तरे बोद्धव्यम्। अन्तर्गतेन मनसे-ति अस्य पदस्य पूर्वपदादिकम्। इदम् अपि वज्रपदं पञ्चविंशत्सा-हस्रिके श्रीसमाजे बुद्धो भगवान् आह-वज्रपर्यङ्कतश् चित्तं मण्यन्तर्गतम् ईक्षयत्। निःस्यन्दादिसुखापूर्णं वैमल्यं यावद् एति तत्॥
तथा। भगे लिङ्गं प्रतिष्ठाप्य बोधिचित्तं न चोत्सृजेत्। भावयेद् बुद्धबिम्बं तु त्रैधातुकम् अशेषतः॥
इति। इहानेन गाथाद्वयेनास्य वज्रपदस्य पिण्डीकृतो ऽर्थोऽवगन्तव्यः। अस्मिन्न् तन्त्रे ऽर्धगाथया उक्त इति। इह वज्रमणाव्अन्तर्गतं बोधिचित्तम् अन्तर्गतमन इत्य् उच्यते। तेनान्तर्गतेन मनसाऽच्युतबोधिचित्तेन कर्ममुद्राप्रसङ्गे ज्ञानमुद्राप्रसङ्गे वात्रैधातुकलक्षणं बुद्धबिम्बं भावयेद् इति। त्रैधातुकंकामरूपारूपलक्षणं स्थिरचलभावस्वभावा-त्मकं सर्वाकारवरोपेतं भावयेद् अशेषतो योगीति। तद् एवप्रज्ञापारमिता सर्वाकारवरोपेता सा चास्मिन् तन्त्रे कामसिद्धिर् इत्य् उक्ताभगवता प्रज्ञातन्त्रत्वाद् इति। तां कामसिद्धिं भावयेद् योगी। इह कामो महारागो वज्रसत्त्वो महार्थः परमाक्षरः। सिद्धिर्(७४)महामुद्रा प्रज्ञापारमिता सर्वाकारवरोपेता इति। अथवा कामोनिरालम्बा महाकरुणा सिद्धिर् सालम्बा महाशून्यतेति योगिनांस्वसंवेद्यत्वाद् इति। कर्ममुद्राज्ञानमुद्रासिद्ध्योर् उत्तरा सिद्धिः। तां महामुद्रां कामसिद्धिं सर्वज्ञतां सर्वाकारज्ञतांमार्गज्ञतां मार्गाकारज्ञतां दशबलचतुर्वैशारद्यादिबुद्धगु-णदायकीं भावयेद् बुद्धत्वाय। इति तत्रान्तरेषु तथागतनि-यमः। तत्रं तन्त्रान्तरेण बोद्धव्यम् इति तथागतवचनात्। अस्यैवभावना द्विधा। पूर्वबिम्बभावना पश्चाद्बिम्बभावना। पूर्वबिम्बभावना धूमादिनिमित्तभावना बिम्बपर्यन्तम्। दृष्टेबिम्बे भगे लिङ्गं प्रतिष्ठापयित्वा पश्चाद्भावना परमाक्ष-रसुखवृद्ध्यर्थम्। पुनः कर्ममुद्रां ज्ञानमुद्रां परित्यज्य महामुद्रां भावयेन् महासुखवृद्धये। इह कर्ममु-द्राज्ञानमुद्राभावनाप्रतिषेधो द्वादशसाहस्रिके परमादिबुद्धे भ-गवतोक्तः। तथा च भगवान् आह-कर्ममुद्रां परित्यज्य ज्ञानमुद्रां विकल्पिताम्। परमाक्षरयोगेन महामुद्रां विभावयेत्॥
इति। तथादिकर्मणि पूर्वभावना। यावन् न कुरुते योगी बोधिचित्तविसर्जनम्। योनौ प्राप्नोत्य् अविच्छिन्नं तावद् आनन्दम् उत्तमम्॥
तेनैव सुखरूपेण संयुतं बुद्धबिम्बकम्। भावयेन् नित्यम् आत्मानं यावच् छुक्रं स्थिरीभवेत्॥
इति। इदम् अपि वज्रपदं सेकार्थेनावगन्तव्यम्। इह प्रज्ञोपायात्मकेतन्त्रराजे बालानां प्रतिपत्त्यर्थं कर्ममुद्रानुरागेणोद्भूतंद्वीन्द्रियजं क्षरसुखं प्रज्ञाज्ञानम् इत्य् आह भगवान् किल लौकिकस-त्येन। न तत् परमार्थसत्येन। कुतश्। चतुर्थं तत्पुनस्तथेतिभगवतो वचनात्। इह येन तृतीयं प्रज्ञाज्ञानं तद् एव चतुर्-थम् अभिषेकं वदिष्यन्ति बालजनाः। तेनोच्यते। इह यदि तृतीयं प्रज्ञाज्ञानं तत्पुनस्थथाशब्देन चतुर्थं तद् एव तृतीयंतदाभिहितस्याभिधानं स्यात् पुनरुक्तदोषप्रसङ्गतः। अथ बालानांवाक्यं भविष्यति। हेतुस् तृतीयः फलं चतुर्थम्। हेतुफलयोर् अभेद-त्वाच् चतुर्थम् अपि तृतीयं सिद्धम् इति। तेनोच्यते। नैतद् एव भगवतो व-(७५)चनं पूर्वोक्तं परमार्थसत्यतः। कुतः। यतो मुद्रात्रयंफलत्रयसाधनाय भगवतोक्तम् इति। इह मन्त्रनये त्रिविधं फलंकामरूपसर्वज्ञतासिद्धिभेदेन। तत्र कर्ममुद्रासिद्धिःकामावचरफलम्। ज्ञानमुद्रासिद्धी रूपावचरफलम्। महामु-द्रासिद्धिः सर्वज्ञताफलम्। वितरागाणाम् अरूपधातुफलंमुद्रात्रयरहितम्। ततो महामुद्राफलसाधने कर्ममुद्राज्ञा-नमुद्रा हेतुर् न भवति। कर्ममुद्राज्ञानमुद्राभावनापरित्या-गेन महामुद्राभावनानियमाद् इति। इह द्वीन्द्रियजं क्षरंकामावचरसुखं स्पन्दलक्षणं रूपावचरसुखं महासुखं नभवति। तृतीयं हेतुनोत्पन्नं क्षरं स्पन्दं तृतीयं फलं न तच् चतुर्थं बुद्धैर् उक्तं निःस्पन्दफलत्वाद् इति। इह चतुर्थं तृतीयम्इत्य् अबोद्धारो वदिष्यन्ति। तेन परमादिबुद्धे भगवान् आह-कामावचरां सिद्धिं साधयेत् कर्ममुद्रया। अकनिष्ठभुवनप-र्यन्तं रूपाख्यां ज्ञानमुद्रया॥
सर्वज्ञतां महायोगी महामुद्राङ्गभावनैः। साधयेद् अक्षरं सौख्यं बुद्धत्वम् इह जन्मनि॥
इति। अतस् तत्रतन्त्रान्तरेण सर्वम् एतद् अवगन्तव्यम् विद्वद्भिर् इति। इह यद्उक्तं तन्त्रान्तरे बालजनानां प्रवृत्त्यर्थम्। नरा वज्रधराकारा योषितो वज्रयोषितः॥
इति। तेन वाक्येन न तीक्ष्णेन्द्रियैर् ग्राह्या कर्ममुद्रा। एवं महा-मुद्रा। उत्तरोत्तरवचनात् पूर्ववचनं मृषा स्याद् इति। अत्र प्रज्ञाङ्गे लौकिकलोकोत्तरसत्येनाभिषेकाश् चत्वारः। तेषु त्रयो लोक-संवृत्या चतुर्थः परमार्थत इति। स च योगगम्यःपरमार्थसत्येनावगन्तव्यः सद्गुरूपदेशतः। तथा च समा-जोत्तरे भगवान् आह-अभिषेकं त्रिधा भिन्नम् अस्मिन् तन्त्रे प्रकीर्तितम्। प्रथमं कलशाभिषेकं द्वितीयं गुह्यम् इष्यते। प्रज्ञाज्ञानम् तृतीयं तु चतुर्थं तत्पुनस्तथा॥
इति। चत्वारो ऽभिषेकाः। तथा हेवज्रादिके। आचार्यगुह्यप्रज्ञा च चतुर्थं तत्पुनस्तथा। (७६)इत्य् एवम् उभयतन्त्रे चत्वारो ऽभिषेकाः। अभिषेकक्रमपाठात्। न ते ता-वद् आनन्दादिक्षणा विचार्यमाणा भवन्तीति। तथा मायाजालादिकेउदकादिसप्ताभिषेकाः पृथग् अवगन्तव्या विचक्षणैर् इति। तथाआदिबुद्धे भगवान् आह-उदकं मुकुटः पट्टो वज्रघण्टो महाव्रतम्। नामानुज्ञासमायुक्तः सेकः सप्तविधो नृप॥
इत्य् आदिबुद्धादिके। अतः कलशाभिषेकं सप्तसेकानाम् उत्त-रं पृथक्। अथवाचार्याभिषेकः पृथग् उत्तराणां त्रयाणां प्रथमंद्वितीयं गुह्याभिषेकं प्रज्ञाज्ञानं तृतीयं चाभिषेकम्। ते-षां त्रयाणाम् उत्तरोत्तरं चतुर्थं तत्पुनस्तथाभिषेकं लोकोत्तरम् इति। एवं चत्वारो ऽभिषेका अभिषेकक्रमपाठाद् इति कायवाक्चित्तज्ञान-विशुद्ध्यर्थं भगवतोक्ताः। एषु चतुर्थो ऽभिषेकः सहजानन्दोन भवति उभयसत्याभ्याम् अपि। यदि स्यात् तदा चतुर्णाम् आनन्दानांक्रमो भवति। एवं चेद् आनन्दः कलशाभिषेको भवति। परमानन्दोगुह्याभिषेको भवति। विरमानन्दः प्रज्ञाज्ञानाभिषेकोभवति। सहजानन्दश् चतुर्थं तत्पुनस्तथाभिषेको भवति। एवम्अव्यवस्था आनन्दादिक्षणभेदेनाभिषेकाणां भवतीति। न चैवम्। अत्रलोकसंवृत्या कलशेनाभिषिक्त आचार्याभिषिक्तः। गुह्य<प्रे>क्षणेनामृता-स्वादनेन गुह्याभिषिक्तः। कर्ममुद्रासमर्पणेन द्वीन्द्रियजक्षर-सुखावबोधेन प्रज्ञाज्ञाभिषिक्तः। मण्यन्तर्गतबोधिचित्तसुखाव-बोधेन चतुर्थप्रज्ञाज्ञानेनाभिषिक्त इति। लौकिकसत्येन नेयार्थे-न सेकविधिश् चतुर्विधः। परमार्थतः पुनर् एष विचार्यमाणो निरर्-थकः। इह यदि प्रथमं कलशाभिषेके शिष्य आचार्यो भूतस् तदागुह्ये प्रज्ञाज्ञाने चतुर्थे च को ऽसौ भविष्यति। आचार्यत्वंवज्रसत्त्वत्वं नाम। तत् कथं प्रथमं कलशाभिषेकेनाभिषिक्तआचार्य इति। तस्माद् इयं भ्रान्तिर् बालजनानां या युक्त्या न घटतीति। इह तन्त्रान्तरे संध्याभाषान्तरेण नीतार्थेन पुनः कलशशब्देनस्तनाव् उच्यते। तत्संस्पर्शाद् यत् क्षरं सुखं स कलशा-भिषेकः। गुह्ये वज्रास्फालनाद् यत् क्षरं सुखं स गुह्याभिषेकः। द्वीन्द्रियसमापत्तौ यत् स्पन्दसुखं स प्रज्ञाज्ञानाभिषेकः। महामु-द्रानुरागेण यद् अक्षरसुखं स चतुर्थं तत्पुनस्तथा-(७७)भिषेकः। एवं क्षरक्षरस्पन्दनिःस्पन्दभेदेन चत्वारो ऽभिषेकाः। अभिषिच्यते ऽनेनेत्य् अभिषेकः। सुखचित्तं क्रियत इत्य् अर्थः। अत्र परमादिबुद्धे भगवान् आह-आदौ सप्ताभिषेको यो बालानाम् अवतारणम्। त्रिविधो लोकसंवृत्या चतुर्थः परमार्थतः॥
कुम्भो गुह्याभिषेकश् च प्रज्ञाज्ञानाभिधानकः। पुनर् एव महाप्रज्ञा तस्या ज्ञानाभिधानकः॥
क्षरः क्षरस् ततः स्पन्दो निःस्पन्दश् च ततो ऽपरः। कायवाक्चित्तसंशुद्ध्या अभिषेकत्रयं क्रमात्॥
चतुर्थो ज्ञानसंशुद्धिः कायवाक्चित्तशोधकः। इति। एवं चत्वारो ऽभिषेकाः। एषां प्रत्येके ऽभिषेके चत्वार आनन्दाः। एकैकानन्दे कायवाक्चित्तज्ञानभेदेन चतस्रो ऽवस्थाश् चतुर्भिन्दु-भेदेनेति। एवं षोडशकलाभेदेन प्रत्येके ऽभिषेके षोडशानन्दाःकायवाक्चित्तज्ञानबिन्दुभेदेन चत्वारः। तत्र शुक्लपञ्चमी आनन्दः। दशमी परमानन्दः। पूर्णिमा विरमानन्दः। पूर्णिमान्ते षोडशी कलासहजानन्दः। ललाटे हृदये गुह्ये शुक्रागमनेनेति। गुह्याद् व-ज्रमण्यन्तर्गतेन सहजानन्द ईति। ततः कृष्णप्रतिपदागमेशुक्रच्युतिः। ततः पञ्चमी आनन्दक्षयः। दशमी परमानन्दक्ष-यः। अमावसी विरमानन्दक्षयः। अमावस्यान्ते षोडशी नष्टचन्द्रकलासहजानन्दक्षयः। गुह्ये हृदये ललाटे शुक्रच्यवनं तेन विरा-गः। उष्णीषे नष्टचन्द्रकला बोधिचित्तस्य महाविरागः। पद्मे वज्र-प्रपतनाद् धातुविकलता चित्तस्येति। एवं संसारिणां रागविरागप्रवृत्तिस्तया संसारः। अतो महामुद्रासिद्ध्यर्थं कर्ममुद्रांज्ञानमुद्रां त्यक्त्वा अन्तर्गतेन मनसा बोधिचित्तेन कामसिद्धिंमहामुद्रां भावयेद् इति। ललाटाच् चन्द्रद्रुतेन वज्रमणेर् अच्युतेनखगमुखावधूत्यन्तर्गतेन मनसा कामसिद्धिं भावयेद् इतितथागतनियमः। तथा षोडशसाहस्रिके मायाजाले भगवान् आह-विरागादिमहारागो विश्ववर्णो ज्वलप्रभः॥
संबुद्धवज्रपर्यङ्को बुद्धसंगीतिधर्मधृक्। इति सेकवज्रपदं वक्ष्यते। अत्रैव विरागः कृष्णपक्षःपूर्वोक्तः। तस्यादिर् यो महारागः स विरागादिमहाराग इति तत्पुरुषेणनिर्दिष्टः। तथा तद्वैधर्मयात् पञ्चदशकलात्मकः शुक्लपक्षो रागस्(७८)तदन्ते महारागः षोडशी कलेति। संबुद्धवज्रपर्यङ्क इति। संबुद्धं वज्रं समुत्थितं पर्यङ्कम् आसनं यस्यबोधिचित्तस्य संबुद्धवज्रपर्यङ्को मण्यन्तर्गतकमले संस्थि-त इत्य् अर्थो बोधिचित्ताक्षरत्वात्। बुद्धसंगीतिधर्मधृग् इति। कायवाक्चित्तज्ञानचतुर्बिन्दुधृग् इति नीतार्थः। इदं वक्ष्यमाणेवक्तव्यम्। तथा हेवज्रे भगवान् आह-बोधिचित्तं भवेच् चन्द्रं पञ्चदशकलात्मकम्। आलिरूपं महासौख्यं योगिन्यस् तस्य अंशकाः॥
इदम् अपि सेकवज्रपदं वक्ष्यते। इह प्रतिपदादयः पञ्चतिथयः। शुक्लपञ्चमीं यावन् नैरात्म्यादयो योगिन्यः पञ्चस्कन्धविशुद्ध्याप्रथमम् आनन्दचक्रम्। तथा षष्ठ्यादयः पञ्चतिथयोदशमीं यावत् पुक्कस्यादयो योगिन्यः पञ्चधातुविशुद्ध्या द्विती-यं परमानन्दं चक्रम्। तथैकादश्यादयः पञ्चतिथयःपूर्णिमां यावद् गौर्यादयो योगिन्यः पञ्चविषयशुद्ध्या तृतीयं विर-मानन्दचक्रम्। तदन्ते सहजानन्दो हेवज्रो भगवाञ् शून्याच्छून्यः षोडशी कला बोधिचित्तस्येति सेकार्थः। तथा भगवान् आह-आनन्दं प्रथमं प्रोक्तं परमानन्दं द्वितीयकम्। तृतीयं विरमानन्दं सहजानन्दं तु शेषतः॥
इत्य् एवमादिसेकार्थः। इह पञ्चपञ्चदेवीत्रिचक्रान्ते च-तुर्थः सहजानन्दः षोडशीकला बोधिचित्तस्य लोकसंवृत्याभगवतोक्त इति। तथा मायाजाले भगवान् आह-सर्वाकारनिराकारः षोडशार्धार्धबिन्दुधृक्। अकलः कलनातीतश् चतुर्थध्यानकोटिधृक्॥
इति। सेकवज्रपदं वक्ष्यते। इह सर्वाकारनिराकारो हेतुः पूर्वोक्तंबुद्धबिम्बम् इति। षोडशार्धार्धबिन्दुधृग् इति बोधिचित्तद्रुतचतुर्बिन्-दुधृग् इति फलम्। अकलः पञ्चदशकलान्ते स्थितः। कलनातीतःकृष्णप्रतिपदि न प्रविष्ट इति। चतुर्थध्यानकोटिधृग् इति सहजानन्दकोटि-धृग् इति तथागतनियमः। एवं तृतीयो ऽभिषेकश् चतुर्थः स एव न भ-वति। तथा डाकिनीवज्रपञ्जरे चतुर्थाभिषेकं त्रयाणां पृथग् भग-वान् आह-(७९)प्रथमं कलशाभिषेकं द्वितीयं गुह्यम् इष्यते। प्रज्ञाज्ञानं तृतीयं तु यथा तन् न तथागतः॥
पुनस् तत्रैव पञ्चदशमे पटले चोक्तम्-प्रथमं तोयसेकेन द्वितीयं मौलिसेकतः। तृतीयं पट्टसेकेन चतुर्थं वज्रघण्टयोः॥
पञ्चमं स्वाधिपेनैव नामसेकं तु षष्ठमम्। बुद्धाज्ञा सप्तमं सेकं कलशं सेकं अष्टमम्॥
नवमं गुह्यसेकेन दशमं प्रज्ञाभिषेकतः। तत्त्ववज्रप्रयोगेण सर्वान् वज्रव्रतान् ददेत्॥
व्याकरोति स्वयं शास्ता एष सेकविधिं स्वयम्। आचार्यो नावगन्तव्यः सुगताज्ञां न लङ्घयेत्॥
इति। एवं एकादशो ऽभिषेकः प्रधानं तत्त्ववज्रप्रयोगेणेतिभगवतो विस्पष्टवचनाच् चतुर्थो वैकादशो वा ऽभिषेको पृथग् एवा-वगन्तव्यो विद्वद्भिर् इति। एवं सर्वं सद्गुरूपदेशेन बहुश्रुतेनतन्त्रतन्त्रान्तरेणावगन्तव्यं मोक्षार्थिभिः। इति महामुद्राभावनासेकविधिना अन्तर्गतेन मनसा भगवतोक्ता॥
(८०)Chapter XVWorship of the Great SecretCommentary on CS 8ABइदानीं महागुह्यपूजोच्यते स्वरेतेत्यादिना। इह प्रज्ञोपाये तन्त्रान्तरेद्विधा पूजा बाह्यपूजा अध्यात्मपूजा चेति। तत्र बाह्यपूजापञ्चोपचारादिभिः पञ्चामृतपञ्चप्रदीपादिभिः स्कन्धधात्वादीनांसंतर्पणम् इति। अध्यात्मपूजा स्वरेतोबिन्दुभिर् अच्युतैश् चतुर्भिर्गुह्यनाभिहृत्कण्ठललाटगतैर् निःस्यन्दविपाकपुरुषकारवै-मल्यस्वभावैर् विचित्रविपाकविमर्दविलक्षणवैधर्म्येण। तैर् बुद्धान् इति रूपवेदनासंज्ञासंस्कारविज्ञानस्कन्धान् बोधिसत्-त्वांश् चेति चक्षुःश्रोत्रघ्राणजिह्वाकायमनैन्द्रिय धातून्। चकारात् पृथ्व्यादिधातून् रूपादिविषयधातून् पूजयेद् बोधिचित्-ताच्युतबिन्दुभिर् महाक्षरसुखक्षणैः परिपूरयेद् इति नीतार्थः। बाह्ये पुनश् च्युतबिन्दुभिर् आस्वादितैः पूजयेद् इति बाह्यविशुद्ध्यर्थम्। अध्यात्मपूजा महामुद्रासिद्धये स्वरेतोबिन्दुभिर् मण्यन्तर्गतैर्इति बिन्दुपूजाविधिनियमः॥
(८१)Chapter XVILiberation From All SinsCommentary on CS 8CD-9ABइदानीं सर्वपापविमुक्तिर् उच्यते दर्शनेत्यादिना। इह दर्शनंद्विधा बाह्यम् अध्यात्मिकं च। तथा स्पर्शनं च। इह बाह्यदर्शनंकर्ममुद्रादर्शनं ज्ञानमुद्राप्रकल्पनम्। तयोर् मुखस्तनयोनि-स्पर्शनं च। ताभ्यां द्वाभ्यां दर्शनस्पर्शनाभ्याम् इति। तथाऽध्यात्मनि त्रैधातुकाशेषबुद्धबिम्बदर्शनं महामुद्रा-दर्शनं तयोर् महासुखस्पर्शनम्। ताभ्यां द्वाभ्यां दर्शनस्पर्-शनाभ्याम् इति। तथा श्रवणस्मरणेन चेति। इह सद्धर्मश्रवणेनगुरुबुद्धबोधिसत्त्ववीरवीरेश्वरीस्मरणेन च। ताभ्यां द्वा-भ्यां श्रवणस्मरणाभ्यां मुच्यते सर्वपापैस् त्व् इति कायवाक्चित्-तकृतैः पञ्चानन्तर्यादिदशाकुशलैस् तैः सर्वैर् मुच्यते। अनुज्ञातकालात्पापानाम् अकरणसंवरे स्थितः। न पुनर् अनुज्ञातः सल् लोभादिनाकृतपापैर् विमुच्यते क्वचिद् इति। एवम् एव न संशय इति। एवम् उक्त-क्रमेण चतुर्दशमूलापत्तिरहितो योगी महासुखेन भावितेनभगलिङ्गसमायोगेनाच्युतबोधिचित्तेनेति। पुण्योत्पादविधिः पापमो-चनविधिः॥
(८२)Chapter XVIIThe Means To Attain BuddhahoodCommentary on CS 9CD-10ABइदानीं येन पुनर् बुद्धत्वं सिध्यति स उपाय उच्यते योगित्वम्इत्यादिना। इह योगित्वं द्विधा लौकिकं लोकोत्तरं च। तत्र लोकोत्तरंयोगित्वं बुद्धत्वम् इति। तद्विशेषणं परमं पुण्यं पुण्-यसंभारपूर्णत्वात्। तथा पवित्रं पापनाशनम् इति। तद् एवज्ञानसंभारपूर्णत्वात् पवित्रं पापनाशनम् इति। तद् बुद्-धत्वं सिध्यते मन्त्रजापेन ध्यानेन च सुखेन चेति। इहोक्तंयोगित्वम् अनेनोपायेन सिध्यते योगिनाम्। सिध्यत इत्य् आग-मपाठः। असाव् उपायः षडङ्गयोगः। अत्र मध्यविलोमेनोक्त एकान्त-रिटाङ्गं त्यक्त्वा। तद् एवानुक्ताङ्गं पूर्वम् अपरोक्ताङ्गसामर्थ्याद्एवावगन्तव्यम्। यथायं दिवाकर इत्य् उक्ते ऽपरो निशाकरो ऽनुक्तो ऽपिसामर्थ्याद् एवोपलभ्यते। तथा परस्परापेक्षकधर्मो ऽनुक्तो ऽप्य्उक्तधर्मेनोपलभ्यते। अतो ऽस्मिन् तन्त्रे एकान्तरितम् अपराङ्गत्रयं(८३)निर्दिष्टं। मध्योक्ताङ्गं पूर्वं कर्तव्यम्। अत्रगुरूपदेशत इति गुरुसंप्रदायः। अन्यथा तन्त्रोक्तपाठक्रमेणयदि गृह्यते तदा गुरुसंप्रदायः को ऽसौ नाम। तस्माद् गुरुसंप्रदायेन संध्याभाषान्तरादिकं वेदितव्यम्। सर्-वत्र तेन बोद्धव्यम्। अथवा बोधिसत्त्वकृतटीकया नान्यया पाण्डि-त्याभिमानभूतैः कृतयेति। तेनात्रापराङ्गत्रयं ध्याने-नेत्यादिना ऽवगन्तव्यम्। अपरतन्त्रान्तरोक्तैः षडङ्गैर् अस्मिन् पिण्डीकृतो ऽर्थो ऽङ्गत्रयाणाम् अवगन्तव्यः। इह श्रीसमाजोत्तरे भ-गवान् आह-प्रत्याहारस् तथा ध्यानं प्राणायामश् च धारणा। अनुस्मृतिः समाधिश् च षडङ्गो योग इष्यते॥
अतो ध्यानपूर्वः प्रत्याहारो वेदितव्यः। मन्त्रजापपूर्वः प्रा-णायामो वेदितव्यः। अत्र मन्त्रजापशब्देन नपुंसकजापो वज्र-जापो वा प्राणधारणा उच्यते। सुखपूर्वानुस्मृतिर् वेदितव्या। अत्र सु-खशब्देन समाधिर् उच्यते। एवम् एभिः षडङ्गैः सिध्यति योगित्वंबुद्धत्वम् इति। सामान्येन बाह्ययोतित्वं लौकिकं सिध्यति। आदि-कर्मिकाणां बालयोगिनां लौकिकं फलं मन्त्रजापेन प्रत्याहार-संज्ञिज्ना। ध्यानेन मण्डलचक्रादिविकल्पभावनाचित्तेन सुखेनच कर्ममुद्राज्ञानमुद्राक्षरस्पन्दसुखेन। लौकिकसत्येनाकनि-ष्ठभुवनपर्यन्तम् इति। एवम् उभ्यक्रमेण लौकिकलोकोत्त-रं योगित्वं सिध्यति। अत्र लोकोत्तरं योगित्वं षडङ्गयोगेनसिध्यति। यथा तथोच्यते॥
(८४)Chapter XVIIIThe Sixfold Yoga( षडङ्गयोग )इह प्रत्याहारो नाम बाह्यरूपादिविषयेष्व् अप्रवृत्तिश्क्षुरादीन्द्रियैश् चक्षुर्विज्ञानादीनाम्। अध्यात्मनि विषयेषु प्रवृत्तिर्व्यचक्षुरादीन्द्रियैर् दिव्यचक्षुर्विज्ञानादीनाम् इति। अध्यात्मनि शून्यता-म्भनेनाकल्पितं सर्वभावदर्शनं शून्ये प्रतिसेनादर्शेमारिकाया इवेति प्रत्याहाराङ्गम् उच्यते त्रैधातुकबुद्धबिम्ब-र्शनाद् इति। ततो ध्यानं नाम शून्येषु सर्वधर्मेषु दृष्टेषु सत्सु। अज्ञा नाम तेषु चित्तप्रवृत्तिः। वितर्को नाम भावग्रहणं चित्तस्य। विचारो नामो भावग्रहणप्रतिपत्तिः। रतिर् नाम सर्वभावेषुतारोपणम् अचलसुखं नाम सर्वभावेभ्यः सुखसंपत्तिः। एवंञ्चधा ध्यानाङ्गम् उच्यते। ततः प्राणायामो नाम ललनारसना-मदक्षिणमार्गनिरोधः। अवधूतीमध्यमार्गे प्राणवायोः सदाअवृत्तिर् इति। पूरककुम्भकरे चकयोगेनावधूत्याम्_कारेण श्वासं। हूंकारेण निरोधम्। आःकारेण निःश्वासम्। (८५)चन्द्रराहुसूर्यस्वभावेन कुरुते योगीति प्राणायामाङ्गम् उच्यते। ततो धारणा नाम प्राणस्य माहेन्द्रवारुणाग्निवायुमण्डले नाभौहृदि कण्ठे ललाटे प्रवेशो बाह्ये ऽनिर्गमः। बिन्दौ प्राणनिवेशनम् इतिधारणाङ्गम् उच्यते। ततो ऽनुस्मृतिर् नाम स्वेष्टदेवतादर्शनंप्रतिबिम्बाकारं विकल्परहितम्। तस्माद् अनेकरश्मिस्फुरद्रूपं प्र-भामण्डलम्। ततो ऽनेकाकारं स्फुरद्रूपं त्रैधातुकस्फरणम्इत्य् अनुस्मृत्यङ्गम् उच्यते। ततः समाधिर् नामेष्टदेवतानु-रागाद् यदक्षरसुखप्राप्तिस् तस्याम् एकीकरणं चित्तस्य। ग्राह्य-ग्राहकरहितं चित्तं समाध्यङ्गम् उच्यते तथागतैः। इह षडङ्-गयोगो ऽत्र संक्षेपेणोक्तो। विस्तर्<अत्>ओ लक्षाभिधाने परमादिबुद्धेवा सद्गुरूपदेशेनावगन्तव्यो योगिना महामुद्रासिद्धयइति। इह षडङ्गस्य पुनर् आदिमार्गभावनोपदेशस् तन्त्रान्-तरेषूखः। इह श्रीसमाजोत्तरे सेवोपसाधनं साधनं महासाधनं चेति। तद् एव भगवान् आह-सेवाकाले महोष्णीषं बिम्बं विभाव्य यत्नतः। उपसाधनकाले तु बिम्बं चामृतकुण्डलीम्॥
साधने देवताबिम्बं भावयेद् योगतत्परः। महासाधनकाले तु बिम्बं बुद्धाधिपं विभुम्॥
इति। अत्र संध्याभाषान्तरेणोष्णीषबिम्बं बुद्धबिम्बं त्र-इधातुकम् अशेषतः। आकाशे धर्मोदये चित्तवज्रं प्रतिष्थाप्य सेवाकालेप्रथमकाले प्रत्याहारेण भावयेद् ध्यानाङ्गेन स्थिरीकुर्याद् इत्य् अत्रभगवतः प्रतिज्ञा-(८६)सर्वचिन्तां परित्यज्य दिनम् एकं परीक्षयेत्। यदि न स्यात् प्रत्ययस् तत्र तदा मे तन्मृषा वचः॥
इति। अत्र प्रत्ययो धूमादिकं निमित्तं नान्यन् मन्त्रादिकंदिनेनैकेन साध्यते येन प्रत्ययो भविष्यति मन्त्रिणाम्। अतो ऽस्तिनास्ति-बुद्धिं परित्यज्य निराश्रयां कृत्वा शून्ये गम्भीरो निरालम्बःप्रत्ययो भवति। स च प्रत्ययार्थो धूमादिको भाव्यतेयोगिनेति तथागतनियमः। तथा-करणैर् बन्धसंयोगैः साधयेद् भुवनत्रयम्। इति। बुद्धबिम्बं भुवनत्रयं साधयेत् करणैश् चक्षुरादिभिः। स एवो-पदेशो गुरुवक्त्रेणावगन्तव्यः। तत्र गुरूपदेशेनाकाशे प्रथमं योगी धूमं पश्यति न मरीचिकाम् इति स्वानुभवतो ज्ञेयम्। ततो मरीचिकापश्चात् तद् एव धूमादिकं कल्पनारहितं प्रतिसेनावद् इति। एवं प्रथमं धूमनिमित्तम्। द्वितीयं मरीचिकानिमित्तम्। तृतीयं खद्योतनिमित्तम्। चतुर्थम् दीपनिमित्तम्। पञ्चमंनिरभ्रगगनसंनिभं निमित्तम् इति समाजोत्तरे। डाकिनी-वज्रपञ्जरे ऽपि भगवतोक्तम्। तदुपरि भगवान् आह डाकिनीवज्र-पञ्जरे-सर्वज्ञहेतुकं तद् धि सिद्धिनिकटे निवर्तकम्। पश्चान् मायोपमाकारं स्वप्नाकारं क्षणात् क्षणं॥
इत्यादि। अतो भगवतो वचनाद् आदौ धूमादिनिमित्तभावना-प्रत्ययो भवति। केचित् सिद्धिकाले वदिष्यन्ति ते सर्वे भगवतःप्रतिज्ञाभङ्गकारिणः। सर्वचिन्तां परित्यज्य दिनम् एकं परीक्षयेत्प्रत्ययम् इति भगवतो वचनविहेठकाः। यत् सिद्धिकाले लौकिकंधूमादिकं तन् निमित्तं मायास्वप्नोपमं न भवति। साक्षाद् धू-मज्वालादिदहनक्रियासामर्थ्यात् तथा कुञ्कुमपुष्परत्नसुवर्णा-दिवृष्टिर् अपि। अतः षडङ्गयोगाद् धूमादिकं निमित्तं भवतीति। तथा डाकिनीवज्रपञ्जरे भगवान् आह-(८७)षडङ्गं भावयेत् तस्मात् स्वाधिष्ठानसमं पुनः। पश्चात् संलक्षयेच् चिह्नम् अनुलोमविधिक्रमैः॥
इति। अत्र स्वाधिष्ठानं नाम संवृतेः सत्यदर्शनं शून्ये दर्शनंप्रत्याहारेण। चिह्नं नाम मेघधूमादिवत् प्रतिभासः। स च प्र-थमं दृश्यते प्रदीपपर्यन्तम्। तत आकाशं निरभ्रंनिर्मलम् इति। तन्त्रेष्व् अपरं ज्वालादिबिन्दुपर्यन्तं षड्-धा निमित्तं मायाजाले समाधिपटले प्रोक्तं भगवता। तद्यथा। गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान्॥
वैरोचनो महादीप्तिर् ज्ञानज्योतिर् विरोचनः। जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः॥
विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत्। इति। गाथाद्वयेन मायाजाले ऽपरनिमित्तं भगवतोक्तं संध्याभा-षान्तरेण पूर्वोक्तान् निरभ्रगगनाद् भवति प्रतिभासो यः सगगनोद्भवः स्वयम्भूः सर्वविकल्परहितचित्ताद् इति। अत्र प्रज्ञाज्ञाना-नल इति ज्वालाप्रतिभासः। वैरोचनो महादीप्तिर् इति चन्द्रप्रतिभासः। सएव ज्ञानज्योतिर् विरोचन इति। जगत्प्रदीप इति सूर्यप्रतिभासो ज्ञानोल्-क इति राहुप्रतिभासः। महातेजाः प्रभास्वर इति विद्युत्प्रतिभासः। वि-द्याराजो ऽग्रमन्त्रेश इति बिन्दुप्रतिभासो नीलवर्णचन्द्रमण्डलाकारइति। मन्त्रराजो महार्थकृद् इति सर्वाकारत्रैधातुकभावप्रतिभासोमायास्वप्नप्रतिसेनातुल्यो दृश्यते योगिना प्रत्याहारेणेतिचक्षुरादीन्द्रियकरणेन। तत्र प्राणायामबन्धेन एभिः करणैर्बन्धसंयोगैः साधयेद् भुवनत्रयं कामरूपार्प्यलक्षणं स्थि-रचलस्वभावात्मकम् इति। तथा डाकिनीवज्रपञ्जरे भगवान्आह-(८८)सिध्यत्य् अशेषनिःशेषं त्रैधातुक<ं> चराचरम्। लोकधातुषु सर्वेषु यावन्तो वज्रद्छिनः॥
इति। षडङ्गभावनयेति भगवतो नियमः। तथा श्रीसमाजे भगवान्आह-अभावे भावनाभावो भावना नैव भावना। इति भावो न भावः स्याद् भावना नोपलभ्यते॥
इत्। इहाभावे निरभ्रगगने भावना प्रत्याहारः। स <एवाभावे>भावनाभाव इति भावना नैव भावनेति। इह प्रत्याहारभवना याऽभावे निरभ्रगगने सा भावना नैव भावना भवति। विकल्पभा-वनारहितत्वाद् इति भावो यः प्रत्याहारेण दृष्टः स भावो न भावः स्याद्अकल्पितातीतानागतवर्तमानभावाभावदर्शनाद् इति। अतो विकल्पभावना नोपलभ्यते प्रत्याहारभावनायाम् इति भगवतो वाक्यम्। इयं भावना प्रज्ञापारमितायाम् अपि भगवतोक्ता। तद्यथा। अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवो-चत्। य आर्यसुभूते ऽत्र प्रज्ञापारमितायां योगम् आपस्यते क्व स यो-गम् आप्स्यते। सुभूतिर् आह। आकाशे स कौशिक योगम् आप्स्यते। यःप्रज्ञापारमितायां योगम् आप्स्यते। अभ्यवकाशे सकौशिक योगम् <आप्तुकामः> यः प्रज्ञापारमितायां शिक्षित-व्यं मन्स्यत इति। महामुद्राभावना प्रतिसेनामायातुल्या निरभ्रे गगनेभगवतोक्तेति। एवं प्रत्याहारेण ध्यानेन सेवाङ्गम्उच्यते। ततो ऽमृतकुण्डलीबिम्बसंज्ञया संध्याभाषान्तरेण वायुर्उक्तः। स च पञ्चप्रकारः। तथा समाजोत्तरे भगवान् आह-(८९)पञ्चरत्नमयं श्वासं पञ्चबुद्धैर् अधिष्ठितम्। निश्चार्य पिण्डरूपेण नासिकाग्रे विभावयेत्॥
इति। इह पञ्चरत्नशब्देन रसना पञ्चमण्डलधर्-मिण्यः पृथिव्यादिपञ्चधातवस् तन्मयं श्वासं पञ्चरत्नम-यम् इति सव्यनासापुटे। तथा पञ्चबुद्धा ललनापञ्चमण्डलधर्मि-नो विज्ञानादिपञ्चस्कन्धाः। तैर् अधिष्ठितं श्वासं वामनासापुट इति। निश्चार्य पिण्डरूपेणेति। इह पिण्डं सव्यावसव्यमण्डलानाम्एकत्वं मध्यमायाम् अवधूत्यां प्राणवायोर् इति। तं च प्रा-णवायुं निश्चार्य पिण्डरूपेण नासिकाग्रे विभावयेत्। अत्र नासिका-शब्देन नाभिहृत्कण्ठललाटोष्णीषकमलकर्णिकोच्यते। तस्याग्रेभावयेन् नासिकाग्रे भावयेत्। कर्णिकात् कर्णिकामध्ये न सव्यावस-व्यकमलदल इति। एवं बिन्दुस्थाने पिण्डरूपेण निरोधितःप्राणः। तेनैव तस्य धारणोच्यते। एवम् अङ्गद्वयेनोपसा-धनम् अमृतकुण्डलीबिम्बेनेति। तद् एवोपसाधनं वज्रजाप इत्य्उच्यते। मध्यमाभिन्नाङ्गेन जप्तव्य इति। प्राणस्य न वामदक्षिण-नाड्यां प्रचारेणेति। उष्णीषबिम्बे दृष्टे सति पश्चात् प्राणाया-मं कुर्यान् मन्त्रीति। गुरूपदेशः संध्याभाषान्तरेणा-वगन्तव्य इति प्राणायामधारणोपसाधनम् उच्यते। ततः साधने देव-ताबिम्बम् इति। इह धारणाबलेन नाभिस्थां चण्डलीं ज्वलितां प-श्यति योगी सर्वावरणरहितां प्रतिसेनोपमां महामुद्राम् अनन्तबुद्-धरश्मिमेघान् स्फारयन्तीं प्रभामण्डलविराजिता<म् सा>नुस्मृति<ः>साधनम् उच्यते। धारणान्ते चण्डलीयोगं भावयेद् इतिनियमः। ततस् तस्या ज्ञानार्चिषा स्कन्धधात्वायतनादीनि दग्धान्य्एकलोलीभवन्ति। वामदक्षिणनाडीगतानि विज्ञानादिपृथिव्यादीनि मण्ड-लस्वभावानि ललाटे चन्द्रमण्डले प्रविष्टानि। ततश् चण्डाल्या ज्ञानार्चिषा(९०)चन्द्रद्रुते सति यद् बोधिचित्तं बिन्दुरूपेनाधोगतं कण्ठेहृदि नाभौ गुह्यकमले आनन्दपर मविरमस्वभावेन। त-तो वज्रमणिं यावत् सहजानन्दस्वभावेनेति। अथवा विचित्रविपाकविमर्दविलक्षणस्वभावेनेति। एवं षोडशकलापूर्-णं मण्यन्तर्गतं यदा सुखं ददाति भावनाबलेन च्यवनसुख-सदृशम् इति दृष्टान्तमात्रम्। स्वरूपतो द्वीन्द्रियजं क्षरसुखं कोटीस-हस्रतमीम् अपि कलां नार्घति परमाक्षरसुखस्येति। इहाक्षरसु-खावस्था या सहजानन्दरूपिणी सावस्था काप्य् अविज्ञेया बालयोगिनाम्। बोधिसत्त्वैः शून्यता समाधिर् इत्य् उच्यते। न पुनर् लोकरूढ्यानास्तिक्यार्थानुपातिनीति। एवं षडङ्गयोगेन मन्त्रजापेनध्यानेन सुखेन च योगित्वं योगिनां सिध्यते परमं पुण्य्-अं पवित्रं पापनाशनम्। जन्मनीहैव साध्यसाधकनियमोभगवतोक्तः॥
(९१)Chapter XIXThe keeping of PledgesCommentary on CS 10CDइदानीं समयपालनम् उच्यते समयान् इत्यादिना। इह समया द्विधाबाह्या अध्यात्मिकाश् चेति। तान् समयान् पालयेद् रक्षयेद् योगी। बाह्याबाह्ये लोकप्रवृत्यर्थम्। अध्यात्मिका अध्यात्मनि ज्ञानप्रवृत्यर्थम्। इह बाह्ये लोकप्रवृत्या पुण्यसंभारो योगिनां भवतिबाह्यसमयरक्षणात्। अध्यात्मनि ज्ञानप्रवृत्या ज्ञानसंभारोभवति अध्यात्मसमयरक्षणेनेति। अतः समयान् पालयेन्नित्यं साधकः सुसमाहित इति। The Pledges According to गुह्यसमाजतन्त्रइह बाह्याध्यात्मिकाः समया अपरतन्त्रान्तरेण बोद्धव्याः। अत्र श्रीसमाजे सप्तदशमे पटले भगवान् आह प्रथमं तावद्अध्यात्मसमयान्। तद्यथा। अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वबुद्धकायवज्रसमयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयेत्। समयचतुष्टयं रक्ष्यं बुद्धैर् ज्ञानोदधिप्रभैः। महामांसं सदा भक्ष्यम् इदं समयम् उत्तमम्॥
इति। इहानेन समाजोक्तविधिना चक्रसंवरे समयपालनं वेदित-व्यम्। तन्त्रं तन्त्रान्तरेण बोद्धव्यम् इति तथागतवचनात्। इह सर्-वबुद्धकायवज्रसमयस्य नीतार्थः। अत्राध्यात्मनि बोधिचित्त-(९२)बिन्दुः कायलक्षणो जाग्रदवस्थाजनकः प्रज्ञारागद्रुतः सन्गुह्यकमलागतः। स एव चतुर्विधः कायानन्दवागानन्-दचित्तानन्दज्ञानानन्दभेदेन चतुर्विधो बोधिचित्तकायबिन्दु<ः>समय उच्यते। समयो मेलापकः कायवाक्चित्तज्ञानवज्राणाम् एकत्वंगुह्ये बोधिचित्तबिन्दुरूपेण। स एव बिन्दुः समयचतुष्टयम् रक्ष-णीयम्। तेन रक्षितेन महामांसं सदा भक्ष्यम् इति। महा-मांसं संस्कारस्कन्धः। स एव भक्षणीयो निरावरणः कर्तव्यइति नीतार्थः। कैर् बुद्धैर्। ज्ञानोदधिप्रभैर् योगिभिर् बुद्धैर्इति। इदं समयम् उत्तमं बालयोगिनाम् अगम्यम् इत्य् अर्थः। एवं वक्ष्यमाणे सर्वत्र समयचतुष्टये नीतार्थो ऽवगन्तव्य इति। कायवज्रसमय उक्तः॥
ततो वाग्वज्रसमय उच्यते। तद्यथा। अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागतवाग्वज्रसमयंस्वकायवाक्चित्तवज्रेभ्यो निश्चारयेत्। समयचतुष्टयं रक्ष्यं वाग्वज्रं महाक्षरैः। विण्मूत्रं सदा भक्ष्यम् इदं गुह्यं महाद्भुतम्॥
इति। अस्यापि नीतार्थ उच्यते। इह बोधिचित्तबिन्दुर् वाग्लक्षणःस्वप्नावस्थाजनकः प्रज्ञारागद्रुतः सन् नाभिकमलागतः। स एवचतुर्विधः कायपरमानन्दवाक्परमानन्दचित्तपरमानन्दज्ञानपरमानन्दभेदेन चतुर्विधो बोधिचित्तवाग्बिन्दु<ः> समयउच्यते। समयो मेलापकः कायवाक्चित्तज्ञानवज्राणाम् एकत्वं नाभौबोधिचित्तबिन्दुरूपेण। स एव <बिन्दुः> समयचतुष्टयंकायपरमानन्दादिकं रक्षणीयं वागवज्रम्। महाक्षरैर् इति बोधि-चित्ताच्युतसुखक्षणैर् महामुद्राक्षरैर् योगिभिः संरक्ष्यम्इति। तेन रक्षितेन वाग्वज्रबिन्दुना विण्मूत्रं सदा भक्ष्यम् इति। रूपस्कन्धो विज्ञानस्कन्धो निरावरणः कर्तव्यो योगिभिर् इति तथाग-तवचनं परमार्थतः। इदं गुह्यं महाद्भुतम् इति बालमतीनांयोगिनां द्वीन्द्रियसुखाभिलाषिणाम् इदं परमाक्षरैर्बोधिचित्तरक्षणं महाद्भुतम् इति वाग्वज्रबिन्दुसमय उक्तः॥
ततश्चित्तवज्रबिन्दुसमय उच्यते। तद्यथा। (९३)अथ वज्रपाणिः सर्वतथागताधिपतिर् इदं सर्व-वज्रधर <चित्तवज्र>समयं स्वकायवाक्चित्तवज्रेभ्यो निश्चारयेद् इति। समयचतुष्टयं रक्ष्यं वज्रसत्त्वं महर्द्धिकैः। रुधिरं शुक्रसंयुक्तं सदा भक्ष्यं दृढव्रतैः॥
इति। अस्यापि नीतार्थ उच्यते। इह बोधिचित्तबिन्दुश् चित्तलक्षणः। <सुषु>प्तावस्थाजनकः प्रज्ञारागद्रुतः सन् हृत्कमलागतः। स एवचतुर्विधः। कायविरमानन्द-वाग्विरमानन्द-चित्तविरमानन्द-ज्ञानविरमानन्दभेदेन चतुर्विधो बोधिचित्त<चित्त>बिन्दुःसमय उच्यते। समयो मेलापकः कायवाक्चित्तज्ञान-वज्राणाम् एकत्वं हृदये बोधिचित्तबिन्दुरूपेण। स एव बिन्दुःसमयचतुष्टयं कायविरमानन्दादिकं रक्षणीयं वज्रसत्त्वं। महर्द्धिकैर् <इति> योगिभिस् तृतीयचित्तबिन्दुमार्गस्थैःषडङ्गयोगेन। तेन समयचतुष्टयेन रक्षितेनरुधिरं शुक्रसंयुक्तं सदा भक्ष्यं दृढव्रतैर् इति। वेदनास्कन्धः संज्ञास्कन्धो निरावरणः कर्तव्य इति नीतार्थः सर्वस्मिन् काले दृढव्रतैः कर्ममुद्राप्रसङ्गे ऽप्य्अच्युतशुक्रैर् योगिभिर् इति। चित्तवज्रबिन्दुसमय उक्तः॥
इहत्रिकुलात्मके श्रीसमाजे त्रिबिन्दुसमयो भगवतोक्तः। चतुर्थज्ञान-बिन्दुसमयस्य प्रत्युद्देशः परमादिबुद्धे चतुःकुलात्मके भ-गवान् आह। तद्यथा। समयचतुष्टयं रक्ष्यं ज्ञाने ऽयं मार्गसंस्थितैः। गोक्वादिकं सदा भक्ष्यं समयो दुरतिक्रम॥
इति। अस्यापि नीतार्थ उच्यते। इह बोधिचित्तबिन्दुर् ज्ञानलक्षणस् तुर्-यावस्थाजनकः प्रज्ञारागद्रुतः सन् कण्ठकमलागतः। स एवचतुर्विधः कायसहजानन्द-वाक्सहजानन्द- चित्तसहजानन्द-ज्ञा-नसहजानन्दभेदेन चतुर्विधो बोधिचित्त<ज्ञान>बिन्दुः समयउच्यते। समयो मेलापकः कायवाक्चित्तज्ञानवज्राणाम् एकत्वं कण्ठेबोधिचित्तबिन्दुरूपेण। स एव बिन्दुः समयचतुष्टयं कायसह-(९४)जानन्दादिकं रक्षणीयं ज्ञाने ऽयम् चतुर्थो बिन्दुः। मार्ग-स्थैर् इति। शून्यतामार्गो धूमादिकः। तत्स्थैर् मार्गस्थैर् योगिभिर्इति। गोक्वादिकं सदा भक्ष्यम् इति। अत्र संध्याभाषया गोशब्दे-न चक्षुः। क्वादिशब्देन श्रोत्रम्। दादिशब्देनप्राणः। हादिशब्देन जिह्वा। नादिशब्देन कायेन्द्रियम्। छर्दिमक्-षिकाशब्देन मन-इन्द्रियं वेदितव्यं भक्ष्यम्। एवं निमित्-ताभावेन नैमित्तिकस्याप्य् अभावः। षड्विषया रूपादयः। चक्षुर्विज्ञानादीनि षड्विज्ञानानि भक्षणीयानि योगीभिः। एवम्अष्टादशधातवो भक्षणीया ज्ञानबिन्दुसमयचतुष्टये रक्षिते सति। तथाभिषेकाध्येषणाकाले गुरुस्तुतिगाथां शिष्य आहतन्त्रतन्त्रान्तरेण भगवतोक्ताम्। तद्यथा। मांसं रक्तं न ते काय विण्मूत्रं शुक्रम् एव च। धातवो ऽष्टादशाप्य् एवं वज्रकाय नमो ऽस्तु ते॥
इत्यादि। सर्व अध्यात्मसमयभक्षणं योगिभिर् अवगन्तव्यम् इति। इहसमयानां रक्षितानां यत् फलम् तच् छ्रीसमाजे भगवान् आह-कायवाक्चित्तवज्राणां समयो ऽयं महाद्भुतः। शाश्वतः सर्वबुद्धानां संरक्ष्यो वज्रधारिभिः॥
यश् चेदं समयं रक्षेद् वज्रसत्त्वं महाद्युतिम्। कायवाक्चित्तरागात्मा बुद्धो भवति तत्क्षणात्॥
इति भगवतो नियमः समयरक्षणे॥
बाह्येषु पुनः समयचतुष्टयं बाह्यदेशकुलव्यवहारेणरक्ष्यं गोप्येन भक्ष्यं तथा यागकाले भक्ष्यं कुलीनैः। रथ्याखर्परधारिभिर् योगिभिः सदा भक्ष्यं लोकव्यवहार-वर्जितैर् इति। अत्र बाह्यसमचतुष्टयं पञ्चविधम-(९५)द्यपानं पञ्चविधमांसभक्षणं पञ्चविधस्त्रीप्रसङ्गः पञ्चवि-धामृतास्वादम् इति विस्तरेण सप्तत्रिंशद्भेदभिन्नं योगिनाज्ञातव्यं मूलतन्त्रान्तरे लक्षाभिधानादिके भगवतोक्त इति। एवंसमया रक्षणीया भक्षणीयाः सर्वतन्त्रान्तरे लौकिकलोकोत्तरसिद्ध्यर्-थम् इति भगवतो नियमः। अत उपायतन्त्रानुमतेन प्रज्ञातन्त्रंबोद्धव्यं प्रज्ञातन्त्रानुमतेन उपायतन्त्रं बोद्धव्यंसमयविशुद्ध्यर्थं नाडिकाचक्रविशुद्ध्यर्थम् इति। The Pledges According to नामसंगीतिपुनः षोडशसाहस्रिके मायाजाले समयचतुष्टयं षोडशप्रकारम्। तस्य च रक्षणोपायं भगवतोक्तं पूर्वोक्ताभिषेकगाथया। अत्रैवसमयरक्षणे साप्य् एवं वेदितव्या। सर्वाकारनिराकारादेर् वज्रपद-स्य नीतार्थः। इह सर्वाकारनिराकारो हेतुः। प्रत्याहारेण यो दृष्टोभावो घटपटादिकः प्रतिसेनातुल्यः प्रतिभासतः। सर्वाकार < इति>कपनापोढो ऽभ्रान्तः प्रत्यक्षदर्शनाद् इति। निराकारः प-रमाणुधर्मतातीतः कल्पनारहितत्वाद् इति। पिहितापिहितने-त्रगम्यो यतः। तस्मान् न रूपं न रूपाद् अन्यो चक्षुर्गम्यो नचक्षुषा विना। एवं सर्वाकारनिराकारो हेतुः प्रज्ञापारमितामहाशून्यता सर्वाकारवरोपेता। अथवा बुद्धबिम्बं त्रैधातुकम् अशे-षत इति हेतुः। तदुत्पन्नं फलं परमाक्षरसुखं षोडशार्धार्-धबिन्दुधृङ् महाप्रज्ञाज्ञानम् इत्य् उच्यते तथागतैः। षोडश-कलानाम् अर्धम् अष्टौ तदर्धाश् चत्वारो बिन्दवः कायवाक्चित्तज्ञा-(९६)नलक्षणा जाग्रत्स्वप्नसुषुप्ततुर्यावस्थाजनकाः। तान् धारतीतिषोडशार्धार्धबिन्दुधृक्। समयचतुष्टयपालक इत्य् अर्थः। वज्रसत्त्वोमहारागो ऽकल इति शुक्लपञ्चदशकलारहितः। तासाम् अन्ते स्थितःशुक्लपूर्णावसान इति। कलनातीत इति कलना कृष्णप्रतिपत् तस्मिन् नप्रविष्टः कलनाया अतीतः कलनातीतः सहज इत्य् अर्थः। चतुर्थध्यानकोटिधृग् इति। अत्र प्रथमम् आनन्दसुखध्यानम्। द्वितीयम् परमानन्दसुखध्यानम्। तृतीयं विरमानन्दसुखध्यानम्। चतुर्थं सहजानन्दसुखध्यानम्। पञ्चमी दशमी पूर्णिमापूर्णिमान्ते बिन्दौ परमाक्षरसुखध्यानं स्थितम्। तस्य कोटिर् अग्रभागःसुखपरिपूर्णता ध्यानकोटिः। तां धरति चतुर्थध्यानकोटिधृग् इतिभगवतो वचनम्। एवम् एतान् षोडशसमयान् पालयेन् नित्यम्इति सर्वकालं भावनाबलेनेति। साधकः सुसमाहित इति। अत्र समाहितः शुक्लपक्षान्ते स्थितः। प्रज्ञोपायभावनाबलेनप्रतिपदादयः पञ्चतिथयो बोधिचित्तस्यानन्दजनिकाः। षष्ठ्यादयःपञ्चतिथयः परमानन्दजनकाः। एकादश्यादयः पञ्चतिथयोविरमानन्दजनकाः। पूर्णिमान्ते षोडशीकला सहजानन्दजनकी। षोडशीकला करुणा निरालम्बा तस्यां स्थितः साधकः सुसमाहितइत्य् उच्यते। महाशीलधरो ऽग्रणीर् यतः। तदन्ते च्युतिकालःकृष्णप्रतिपदागमे च्युतिविरागः कृष्णपक्षः। तस्मिन् प्रविष्टोऽसमाहितश् चतुरानन्दक्षयाद् इति। इह बोधिचित्तचन्द्रस्य कृष्णपक्षेविरागश् चतुरानन्दक्षयहेतुभूतः। तत्र कृष्णप्रतिपदादयःपञ्चतिथय आनन्दक्षयकारिण्यः। षष्ठ्यादयः पञ्चपरमानन्दक्षयकारिण्यः। एकादश्यादयः पञ्च विरमानन्द-क्षयकारिण्यः। अमान्ते षोडशी नष्टचन्द्रकला सहजानन्दक्षयकारिणी। एवं रागविरागपक्षौ शुक्लकृष्णपक्षौ संसारिणाम्। तयोर् मध्येसहजं चतुर्थं प्रज्ञाज्ञानं क्षरं वा ऽक्षरं वा द्वीन्द्रियजं वाद्वीन्द्रियजरहितं वेति। अत्र प्रज्ञाचुम्बनेन प्रथमानन्दक्षणोभवति। स च कायसमयः। प्रथमानन्दक्षयात् पद्मेवज्रप्रवेशेन परमानन्दक्षणो भवति। स एव वाक्समयः। परमानन्दक्षयात् पद्मे वज्रास्फालनेन विरमानन्दक्षणो भवति। सएव चित्तसमयः। विरमानन्दक्षयाद् वज्रमणौ बोधिचित्तेनागतेनसहजानन्दक्षणो भवति। स एव ज्ञानसमयश् चतुर्थ उक्तो भगव-ता। एवम् एकक्षणस्य निरोधेनापरक्षणस्योदयो भवति सहजक्ष-(९७)णं यावद् रागपक्षे। एवं सर्वेषाम् आनन्दानां सहजे समर-सत्वं पूर्णत्वम् इति। ततः कुलिशमणेर् बोधिचित्ते च्युते सति विरागपक्षः। विरागपक्षे प्रथमानन्दविरागः। आनन्दविरागक्षयात्परमानन्दविरागः। परमानन्दविरागक्षयाद् विरमानन्दविरा-गः। विरमानन्दविरागक्षयात् सहजानन्दविराग इति। एवं चतुःसम-यक्षयो भगवतोक्तः। एवम् एकक्षणस्य निरोधेनापरक्षणस्योद-यो भवति सहजविरागक्षणं यावद् विरागपक्षे। एवं सर्वेषाम्आनन्दादिविरागाणां सहजविरागे समरसत्वं पूर्णत्वम् इति। एवंशुक्लपक्षश् चतुरानन्दरागात्मकः। कृष्णपक्षश् चतुरानन्दविरागात्मकः। एवं रागविरागाभ्यां त्रैलोक्यम् असमाहितं व्याकुलीकृतम् इति। सहजक्षणेनाच्युतेन व्यवस्थितत्वाद् इति समाहितासमाहितसाध-कनियमः। अत्रैव प्रज्ञासङ्गे सेवादिकं भगवता तन्त्रान्तरेषूक्तम्तथा। चुम्बनालिङ्गनः सेवा पद्मे वज्रोपसाधनं। साधनं कुलिशास्फाल्<ओ> महासाधनं तत्सुखम्॥
इति। एवं बोधिचित्तबिन्दुसमयान् पालयेत् साधकः सुसमाहित इति भग-वतो नियमः॥
(९८)Chapter XXThe Eight Great Pledges(अष्टसमयाः)तथा ऽत्रैव तन्त्रे ऽष्टमहासमयान् भगवान् आह। तद्यथा। सिद्धीनां कारणं नित्यं समयानां तु पालनम्। दूतीं नान्यकुलोद्भूतां कामयेत् कामलौल्यतः॥
अद्वैतं चाप्रतिहतं समयानां तु चेष्टितम्। नारीचर्यासुमन्थानं ब्रह्मचर्यं तथानने॥
आक्रोशो नाडीसंचार इत्य् अष्टौ समयाः स्मृताः। एतान् यः पालयेन् नित्यं स शीघ्रं सिद्धिम् आप्नुयात्॥
इति। अस्य नीतार्थ उच्यते। सिद्धीनाम् इति। इह सिद्धीनां कर्ममु-द्राज्ञानमुद्रामहामुद्रासिद्धीनां तिसृणां कारणं बोधिचित्तं नित्यंहेतुः कामावचररूपावचरसम्यक्षंबुद्धफलाप्तये ऽच्युतंबोधिचित्तम् इति प्रथमः समयः। समयानां तु पालनम् इति। समयाश् चत्वारो बोधिचित्तबिन्दवः। पूर्वोक्तविधानेन तेषांकण्ठे हृदये नाभौ गुह्ये आगतानां प्रज्ञारागद्रुतानां तुषोडशानन्दात्मकानां तेषां पालनं रक्षणं योगिनां द्वितीयःसमयः। दूतीं नान्यकुलोद्भूतां कामयेत् कामलौल्यतः। इह कुलिकांत्यक्त्वा बाह्यसिद्ध्यर्थं डाकिन्यादिकाम् अन्यतथागतकुलोद्भूतां न भावयेद् इति नीतार्थस् तृतीयः समयः। अद्वैतम् इति। चतुर्बिन्दुसमयानाम् अद्वैधीकरणंपूर्णिमान्ते चतुर्थः समयः। अप्रतिहतम् इति। चकाराच् चतुर्बिन्दुस-(९९)मयानां चेष्टितं षोडशानन्दरूपम् अप्रतिहतं कृष्णपक्षे न प्रविष्टम् इति पञ्चमः समयः। नारीचर्यासुमन्थानम् इति। नारीप्रज्ञापारमिता समन्तभद्रा। तस्याश् चर्या बोधिसत्त्वानाम् अनेकधासत्त्वार्थं प्रति। तासु चर्यासु <सु>मन्थानं सुखचित्तं सदाबोधिसत्त्वानाम् इति षष्ठः समयः। ब्रह्मचर्यं तथानन इति। इहवज्रमुखे आनने सदा अच्युतशीलः सप्तमः समयः। आक्रोशो नाडीसंचार इति। अधो गतानां बोधिचित्तबिन्दुनांनाडीसंचारे ऽवधूतीखगमुखासंचारे गतानां वज्रमणेर् आक्रोशआकर्षणं गुह्ये नाभौ हृदये कण्ठे ललाटे कर्णिकात् कर्णिकासंचारेऊर्ध्वगमनं रेतस इत्य् अष्टमः समयः। एवम् एते ऽष्टौमहासमयाः। एतान् यः पालयेन् नित्यं सर्वकालं स सिद्धिंमहामुद्रासिद्धिं शिघ्रम् आप्नुयाद् इत्य् अध्यात्मसमयपालनम्॥
बाह्ये पुनः सिद्धीनाम् <इति> बाह्यसिद्धीनाम् अकनिष्ठभुवन-पर्यन्तं कारणं नित्यं बोधिचित्तोत्पाददानादिपुण्यसंभार इतिप्रथमः समयः। समयानां पालनम् इति समया बाह्ये मद्यं गोक्वादिकम् अवर्णाभिगमनं पञ्चामृतास्वादनम्। तेषांपालनं देशकुलव्यवहारेण रक्षणं कर्तव्यम्। यदि कर्तव्यं तदा-तिगुप्तम् इति द्वितीयः समयः। दूतीं नान्यकुलोद्भूताम् इति। अन्यकुलं शैवदिकं तत्र कुले ऽभिषिक्ताम् अन्यकुलोद्भूताम्। ताम्अन्यकुलोद्भूतां बौद्धसमयदूषकीं तथान्यां समयरहितां न कामयेद् इति। कामलौल्यतो यदि कामयेत् तदालौकिकसिद्धिहानिर् भवति समयविहेठनाद् इति तृतीयः समयः। अद्वैतम् इति। अद्वैतं बोधिचित्तास्वादनं दूतिकावीरयोः सुखम् चैककाले इतिचतुर्थः समयः। समयानां तु चेष्टितम् इति। अप्रतिहतंसेवितानां समयानां चेष्टितं मन्त्रसिद्ध्यादिस्फरणं देवानाम्(१००)अप्रतिहतं विघनैर् न हन्तुं शक्यत इत् पञ्चमः समयः। नारीचर्यासुमन्थानम् इति। नारी सर्ववर्णसंभूतातस्याश् चर्या बहुविधाश् चुम्बनालिङ्गनादिकाः। तासु <सुमन्थानं>मैथुनं कारणं इति षष्ठः समयः। ब्रह्मचर्यं तथानन इति। ब्रह्मचर्यं सुखं तथेति मन्थाने। आनन इति वज्रमुखेवेदितव्यं च्यवनकाले इति सप्तमः समयः। आक्रोशो नाडीसंचार इति ललनारसनामध्यसंचारे बोधिचित्तस्याक्रोश इतितस्य ग्रहणं जरारोगाद्यपनयनार्थं समयसेवनार्थम् इत्य्अष्टमः समयः। एवं बाह्याष्टसमयाः। तान् यः पालयेद् योगीसुसमाहितः। लौकिककृत्यवर्जितः स शीघ्रं सिद्धिम् आप्नुयात्। इति तथागतनियमः। इति समयपालनविधिः॥
(१०१)Chapter XXIThe Breaking of PledgesCommentary on CS 11ABइदानीं समयभेदेन सिद्धिहानिर् उच्यते भेदेनेत्यादिना। इह समयभेदो द्विधा बाह्ये ऽध्यात्मनि वेति। तत्र बाह्येपञ्चामृतपञ्चप्रदीपाः। तेषां भक्षणेन पञ्चवर्णाभिगमनेनमातृभगिन्यादिस्वगोत्रनार्यभिगमनेन यदि भेदो भवति तदासमयभेदः। तेन समयभेदेन लोकावध्यानं भवेद् देशकु-लव्यवहारेण लोकावध्यानेन शासने निन्दा भवति। तया आदिकर्मिकाणांपापं भवति। पापप्रभावात् पुण्यहानिः पुण्याभावात्सिद्धित्रयस्य हानिर् भवति। एवं भेदेन समयानां तु नेष्टसिद्धिर्अवाफ्यते योगिभिर् बाह्यसमयभेदेनेति नियमः। अध्यात्मनि पुनःसमयाश् चत्वारो बोधिचित्तबिन्दवः। तेषां भेदेनेति च्यवनेनमहासुखहानिर् भवति। <महा>सुखहानेर् विरागः। विरागो नाम पापम् पापाद् दुःखसंभव इति। एवं समयभेदेननेष्टसिद्धिर् महामुद्रासिद्धिर् अवाप्यते योगिभिर् इति। तथा परमादिबुद्धेसेकोद्देशे भगवान् आह-च्युतेर् विरागसंभूतिर् विरागाद् दुःखसंभवः। दुःखाद् धातुक्षयः पुंसां क्षयान् मृत्युर् इति स्मृतः॥
इति पुनस् तत्रैव। न विरागात् परं पापं पुण्यं न सुखतः परम्। अतो ऽक्षरसुखे चित्तं वेशनीयं सदा नृप॥
इति पुनः समयपरिच्छेदेपतिते बोधिचित्ते ऽस्मिन् सर्वसिद्धिनिधानके। मूर्छिते स्कन्धविज्ञाने सिद्धिं प्राप्नोति न व्रती॥
इति। (१०२)एवं सर्वतन्त्रराजे समयभेदनिषेधो बाह्ये ऽध्यात्मन्य् अपिभगवतोक्तः। इह यदा बाह्ये देवतानां सौम्यरौद्राणां साधनंकर्तव्यं योगिना तदा तेषां समयाः सेवनीयाः। अन्यथा ऽन्यसमये-नान्यक्रियया न सिध्यन्ति साधकानां मृत्युदा भवन्ति तन्त्रोक्त-विधिरहितानाम् इति। अतो बाह्ये ऽध्यात्मनि समया रक्षणीयाः। यदा बाह्यसमयाः कर्तव्याः सेकादिके दिने ऽत्यन्तसुगुप्तेन कर्तव्याः। पश्चात् कुलपुत्राणां निषेधनीयाः सद्गुरुना। भिक्षूणांपुनः सेककाले ऽप्य् न देयाश् चीवरधारिणाम्। स्ववाचया गुरुणा सर्वंप्रतिपादनीयम्। अन्यथा गुरोः समयभ्रंसता भवति। तेषां चित्तोत्-पादो महायाने कायवाचोश् च संयमो दातव्यः। यथा श्राव-कशिक्षा तथा कायेन वचसा पालनीया इति समयपालना कर्तव्याभिक्षुभिर्। न समयसेवा चीवरधारिभिः। चीवरे त्यक्ते सतिकायवाक्चित्तकृतेन समयानुष्ठानेन कर्ममुद्रासमर्पणेनाभिषेकोभिक्षूणां देयः प्रकटवज्राचार्यपदलाभाय। समयभेदेन सिद्धिहानिर् भवतीति नियमः॥
Conclusionइह लक्षाभिधानाद् उद्धृते लघुतन्त्रे ऽस्मिंल् लौकिकलोकोत्तर-सिद्धिसाधको ऽभिषेकादिसर्वसमयार्थः पिण्डीकृतः। अथातो र-हस्यं वक्ष्य इत्यादिना नेष्टसिद्धिर् अवाप्यत इति पर्यन्तं सार्ध-दशगाथाभिः सर्वतन्त्रार्थः परमगुह्यतमः संध्या-भाषान्तरेण तन्त्रतन्त्रान्तरेण बोद्धव्यः सद्गुरूपदे-शेन महामुद्रासिद्धिकांक्षिभिर् इति। एवं सर्वलघु-तन्त्रोक्तार्थः प्रधानमूलतन्त्रेण बोधिसत्त्वकृतटीकया वा षट्को-ट्यर्थदेशक्या देशान्तरं दक्षिणोत्तरं गत्वा सर्वम् एतज् ज्ञातव्य्-अम्। न पुनः पण्डिताभिमानैः कृतटीकया गुह्यार्थो वितन्यते(१०३)<इति> भगवता तन्त्रोक्तः। इह लघुतन्त्रटीकायां संक्षेपेण पिण्-डार्थः प्रकटीकृतो विस्तरतन्त्रटीकायां विस्तरेणावगन्तव्यो वीर्यवद्भिर्इति भगवतो नियमः॥
इति लक्षाभिधानाद् उद्धृते लघ्वभिधाने पिण्डार्थविवरणंनाम प्रथमटीकापरिच्छेदः॥
साध्यसाधनसंयोगाद् यत् तत् सेवेति <भण्यते>। <वज्रपद्मसमायोगाद्> उपसाधनम् उच्यते॥
साधनं चालनं प्रोक्तं हूंफट्कारसमन्वितम्। स्वभावं स्वसुखं शान्तं महासाधनम् उच्यते॥
(१०४)