ओधतन्त्रोक्त षिद्धौअधि षग्रह चन्दममहारोशण तन्त्रशरीर शोधयेत् पुर्व पश्चात्कर्म समारभेत्। शुक्लेवस्त्रे कृतं वर्ण श्रेष्ठं उज्ज्वलितं भवेत्॥
त्रिफलाक्वाथमागृह्य यवक्षारपलाशकम्। भक्षयित्वा गुडपानात् कृम्यजीर्णप्रणाशनम्॥
केतक्याःस्वरसं तैलं हिलमोचीं च सैन्धवम्। पीत्वा लिप्त्वा च रौद्रे युका नाशो वपु र्वृताः॥
केतक्याःस्वरसं तैलं पिवेत् लवणसैन्धवम्। रौद्रे भ्रमण योगेन भवेत् लवस्य नाशणम्॥
हिलमोचीरसं किञ्चित् सैन्धवेन च संयुतम्। च्छायायां च स्थितिं कृत्वा भवेत् पित्तस्य नाशनम्॥
रसं कृष्माण्डमञ्चर्याः पिधेत् लवण संयुतंम्। चूर्णनाशो भवेत् धन्या श्लेष्माणमधु नाशयेत्॥
एकैकं द्विदिनं कुर्यात् पश्चात् औषधमारभेत्। तेनैवं फलदं तच्च निष्फलं चान्यथा प्रिये॥
शाल्मलीवल्कलं चूर्न तप्तमण्डेन भक्षयेत्। सप्तधा मन्त्रितं कृत्वा प्रातर्वा भोजनक्षणे। प्रत्यहं यावत् जीवं तु शुक्रशोणित वर्द्धनम्॥
मन्त्रः ओं चण्डमहारोषणः इदंमे दिव्यामृतं कुरु हूं फट॥
झटितं नारिकेलं च नवनीतं चापि माहिषम्। वाष्पमण्डेन संयुक्तं मेदं सूकर संभवम्॥
लिंगकर्णस्तनानां तु भगस्वापि विमर्दने। सर्वकायाविमर्दश्च वर्धन्ते ते नशंसयम्॥
निर्नखं तर्जनी कृत्वा म्रक्षयित्वा तु तेन वै। योनीमध्ये तु प्रक्षिप्य फोन्दयेत् रन्धवर्धनम्॥
वारण पिप्पलीश्वेतापराजिताकृता तथामाहिष्य नवनीततेल मर्दनात् लिंग वर्धनम्। शैवालकटुरोहिणीमाहिष्यनवनीतेनमर्दनात् लिंगवर्द्धनम्। धत्तुररसेनाश्वगन्धामूलं पिष्ट्वा माहिष्यनवनीतं मिश्रितंधत्तुरफलकोटरमोरात्रं स्वापयेत् ततो लिंगं माहिष्यशकृता दृढं मर्दयित्वा पूर्वोक्तेन रात्री त्रयं लिप्त्वा मर्दयेत्। वर्धते। इन्द्रगोप चूर्णेन धृतं साधयित्वा माहिष्यं यौन्य भेन्तरेलेपयेत्। शिठिला योनी गाढा भवति। पध्मवीजोत्पलवीजृंणालोशीरमुस्तकैःतिलतैलेन पाचयेत् तेनभगाभ्यंगात् दौर्गन्धाः शिथिला वैषम्योनतादिकं नाशयेत्। निम्वत्वक् क्वाथेन भगं प्रक्षालयेत्। निम्वत्वचा धूपयेत् च। सौकुमारं सुगन्धि सुभगादि गुणोपेतं भवति। हरिताल भागापञ्च किंशुकक्षार भागैकंयवक्षारभागैकं कदलीक्षार भागैकं जलेन पिष्ट्वा लेपेन भग,कक्ष,लिंगनां रोम नाशनम्। ततो हालाहमसर्पपुच्छचूर्णमिश्रितं कटुतैलं सप्ताहं तेनलिंगादिकं म्रक्षयेत् न पुन केशा प्रादुर्भवन्ति। महिवसूकरहस्तीकर्कटमेदतैलाभ्यां मर्दनात्स्तनादिनां वृद्धि। जातिपुष्पंतिलेन पिष्ट्वा भगमुद्रर्तयेत्। उच्छ्वसितं भवति। माहिष नवनीत वचाकुष्ठ वला नागवलाभिमर्दनात् स्तन वृद्धिः। तत्पोदक क्षालनात् वर्दितं लिंग सदृशं भवति। दण्डोत्पलमूलं गन्धधृतेन पिवेत् ऋतुकाले गर्भिणी भवति। अश्वगन्धमूल धृतेन पिवेत् गर्भिणी भवति। वलातिवला सितर्शकराः तिलं माक्षिक मधुयुक्तं पिवेत्। गर्भिणी भवति। वलामूलमुदकेन पिष्ट्वा पिवेत् रक्तप्रवाहं नाशय्ति। यवचूर्ण गोमूत्रं सर्जरस यष्टिमधु धृतेनउद्धर्तनात् सर्वगात्रं भद्रं भवति। वराहक्रान्तामूलं ऋतुकाले कर्णेवन्धनात्। गर्भिणी भवति। कलम्वीशाकं भक्षयेत् शुक्र वृद्धि। मधुर दधि भक्षणेन शुक्र वृद्धि। आमलकीचूर्ण जलेन घृतेन मधुना वा विकाले अवलेहेत्। चक्षुष्यं तारुण्यं भवति। प्रज्ञां च जनयति। आमलकीचूर्ण तिलचूर्ण घृतमधुना भक्षयेत् तथैव फलम्। गोरक्षतण्डुलमूलं अश्वगन्ध तिल यवान् गुडेनसमरसीकृत्य भक्षयेत्। योवनं जनयति। अर्जुनत्वक चूर्ण दूग्धादिना भक्षयेत्। वर्ष प्रयोगेन त्रिशतायु। आमलकी रसपलैकं वाकुची कषैकं पिवेत् प्रातरजीर्णे क्षीर भोजनम्। मासेन पञ्चशतायुः। वाकुचिचूर्ण कवैकं तक्रेण जलेन काञ्जिकेनदूग्धेन वा पिवेत्। वण्मासेन यौवनाधुपेतो भवति। पुण्डरीक चूर्ण घृतेन भक्षयेत् द्विसप्ताहेनद्विरष्टवर्षाकृतिः भवति। शणवीजचूर्ण पलैकं रक्तशाली पलैकं एकवर्ण गोक्षीरेण शरावद्वयेनरन्धयेत्। प्रथमं शराव एकं क्षीरं क्षयं नित्वा शणादिकं तत्र दत्वा पचेत्। ततो भक्षयेत् जीर्णे दूग्धेन भोजयेत् वातातप वर्जित सप्ताहत्रयं यावत् यथा क्रिया तवोत्तर क्रिया तत केशादय पतन्ति। पुन उतिष्ठन्ति। ततो वलि पलित रहितो जीवति शतायुः पञ्च। रक्तोचटामूलं घृत मधुना विडाल पद मात्रं भक्षयेत्। तथैव फलम्। आमलकी हरीतकी भृंगराज पिप्पली मरीच लोहचूणं मधुशकंराभ्यां उदुम्बरमात्रं गुटिकां कुर्यात् ततो गुडिकैकां भक्षयेत् मासेन त्रिशतायु। कुमारीपलमेकं घृतदधियुक्तं भक्षयेत् सप्ताहेन त्रिशतायु। यव तिल अश्वगन्धा नागवला माषान् ष्दिगुणगुदेन भक्षयेत् महावलो भवति। भद्रावली गुण्डकं त्रिगुण हरीतक्या एकंजलादिना भक्षयेत् महावली स्यात्। एरण्डमूलं पिष्ट्वा शिरोमर्दयेत् शिरशूलं विनश्यति। छागस्य गोणस्य वा कोष्णं मूत्रं ससैन्धवंकर्ण पूरयेत् कर्णरोगनाशः। शुष्कमर्कट तैलं वा दद्यात्। कटकं पिप्पली आमलकी हरिद्रा वचा शिशिरेणजलेन वटिकां कुर्यात्। तेन अञ्जनात् सर्व चक्षुरोग नाश। मधू पिप्ल्या वा अञ्जयेत्। कर्णगूठं मधुना अञ्जयेत्। रात्र्यन्ध नाशः। घोषफलं धात्वा कंकोलमूल तण्डुलोदकेनपिवेत्। नासिकायां नस्यं च दद्ध्यात्। कामला नाशः। अलक्तकरसं दुर्वारसं दाडिमपुष्परसं मेलयित्वा नस्यंदद्घात्। नासिकया रक्तं नस्रवति। काष्ठोदुम्वर मूलं तण्डुलोदकेन पिवेत् मुखद्वारेण रक्त नस्रवति। सेफालीका मूलं चर्वणात् गलशुण्डी विनश्यति। गुञ्जामूलेन दन्तकीट विनाशः। गोधृतं गोदुग्धं कर्कटपदं पचेत्। पादम्रक्षणात् दन्त कट्कटी नश्यति। मूलक बीजं रक्तचन्दनं कुष्ठं पिष्ट्वाउद्वर्तनात् मर्कट्ध्यादि विनश्यति। हरिणमासं शुष्कं छाग क्षीरेण पिवेत्पलमेकं। क्षयरोग नाशः। माहिषदधि भक्तभोजनात् अतिसार नाशः। अम्लभक्ताशनात् तथा। कुटजवल्कलभागद्वयंमरीच , गुडशुष्ठिनामेकंभागं गष्यतक्रेण पिवेत्। ग्रहणी नाशः। आमलकी पिप्पली चित्रकं आद्रकं पुरातन गुड घृतमधुसमंभक्षयेत् विकाले। श्वासकासं विनाशयेत्। हरीतकीचूणं मधुना तथा। आर्द्रक जीरकं च दध्ना मण्डेन वा मूत्रकृच्छ विनाशनम्। शर्करायवक्षारं समं वा भक्षयेत्। शौभाञ्जन मूल क्वाथं वा पिवेत् अश्मरी पतति। हरीतकी चित्रकं आर्द्रकं च मस्तुना पिवेत् प्लीह नाशनम्। जीरक गुडेन भक्षयेत्। ज्वर वात विनश्यति। यवक्षार दध्ना पिवेत्। आमवात् नाशः। कटुत्रयं, विडङ् सैन्धवं मन्दकोष्णं पिवेत्। अग्निदीप्यति क्रिमयो विनश्यन्ति। हरीतकी गुडेन भक्षयेत्। दुर्नाम विनश्यति। हरीतकीं शुण्ठया भक्षयेत्। आमवातनाशः। दुर्वा हरिद्रया पिष्ट्वा लेपयेत्। कच्छूनाशः। अनेनैव ददु विष्फोटकः क्रूर दष्ट्राघातादिकं नाशयेत्। कासमर्दकमूलं काञ्जिकेन पिष्ट्वा तथागुडकटुतैलेन पिवेत्। श्वासो विनश्यति। अर्जुनत्वचं घृतादिना भक्षयेत् हृदयव्यथानाशः। विल्वं दध्ना गुडेन भक्षयेत्। रक्तातिसार नाश। मातृलुंङरसं गुडेन पिवेत्। शूलं नश्यति। गुडं शुण्ठिनाददध्यात् सर्वश्लेष्मनाशः। कटकं मधुना अञ्जयेत्। चक्षुरोग नाशः। काञ्जिकं सैन्धव दुर्वामूलं च कांस्ये निघृस्यअञ्जयेत् चक्षूशूलं नाशयेत्। गुंड घृतेन भक्षयेत् वातपित्तश्लेष्मकुष्ठादयो विनश्यन्ति। त्रिफलाचूर्ण घृतमधुना भक्षयेत्। सर्वरोग नाशः। हरीतकीचूर्ण घृतमधुना विकाले अवलिहेत्। वासकपञ्चांङ वचां व्राम्हीं पिपलीं च शुष्कचूणं कृत्वा सैन्धवमधुना च वटीं कुर्यात्। तत् भक्षयेत्। वातश्लेष्मा विनश्यति। सुस्वरं मधुरं च भविष्यति। व्राम्हीं वचां शुण्ठीं पिप्पलीं हरीतकीं वासकं खदिरंचमधुना गुटीकां कृत्वा भक्षयेत्। तथैव फलम्। यवानीवूशुण्ठीहरीतकीसैन्धवान्समान्सक्षयेत्सर्वाजीर्ण नाशः। गुडुचीरसं मधुना पिवेत् मासत्रयेन प्रमेहनाशः। दूग्धं पिप्पलीचूर्णं घृतमधुभिः पिवेत्। ज्वर हृद्रोग कासादयो नश्यन्ति। लज्जालु शरपुंखयोर्मूलं वाष्पोदकेन पिष्ट्वा लेपयेत्। गुडुचीमूलं भक्षयेत् नाडीव्रणं नाशयेत्। शूण्ठींयवक्षारेण भक्षयेत् वुभुक्षितो भवति। जयन्तीवीजं मरीचेन पिवेत् दिनत्रयम्। पापरोगनाशःत्रिफलानीलिका कृष्णमृत्तिका भृंगराज सहकारम्लवीजंलोहचूर्णकाञ्चिकं एभिः यामनं कुर्यात् ततो गुग्गुलुना केश धूपयित्वा तेन मर्दयेत् ततो सप्ताहं वध्वा स्थापयेत्। केश रञ्जनम्। मयूरपुच्छं भृंगराजरसेन गष्यधृतं पक्त्वा नश्यं दद्यात्। सप्ताहात् केश रञ्जनम्। पुलिनदैरण्डयो क्वावं कुर्यात् षोडश गुणेन जलेन भागैकं स्वापयेत्। ततः गालयित्वा श्वेत गुञ्जाचूर्ण ददध्यात्। ततः तैल शरावेकं रन्धयेत्। अनेन केशाभ्यंङात् केशरञ्जनम्। भूमिविदारीत्रिकटुगन्धकसमं चूर्णीकृत्य वर्त्तिकामध्ये कृत्वा ज्वालयेत्। अधोमुखवर्त्तिका क्रमेण कटुतैलं संगृहृध्य तत् विन्दु द्वयस्य नस्येनवलिपलितं नश्यति। एतेन मर्दितेन कुष्ठ लेपात् शान्तिर्भवति। सध्योनवनीतमर्दितगन्धकंमासैकंसहितरसतोलकंशालिञ्चिलौण आपिण्डेन घट यन्त्रेण घटाभेन्तरे मूषिका पिहितेन वालुका सहितेन वन्हि दानात् रसवन्धः क्षणात् भवति। क्षयादि नाशः। गोवत्सस्य प्रथमविष्टां गृहीत्वा गुटीकां कारयेत्। पिण्ड तगरमूलं पिष्ट्वा वेष्टयेत्। एकां गुटीकां भक्षयित्वा विषं भक्षयेत् न प्रभवति। जम्वूवीजं वीजपूरवीजं शिरीववीजं च चूर्णयित्वा अजा क्षीरेण पायसं रन्धयेत्। घृतेन भक्षयेत् पक्षैकं यावत् वुभुक्षा नभवति। आमलकी कुष्ठं उत्पलमासी वला एवां लेपेन विरला केशा घनाः स्यू। कुक्कुरदन्तं अन्तरधूमेन दग्ध्वा दूग्धघृतान्वितां कृत्वा म्रक्षयेत्। दूर्जाता अपि केशा उत्तिष्ठन्ति। विडंङ तगरं कुष्ठं मदीरया दध्यात्। अनिच्छां नाशयेत्। अजस्य लिंगं आदाय कटयां श्मसानसूत्रेण अथवा करटकस्य पुच्छं वन्धयेत्। शुक्र स्तंभनम्। मूलं सितकोकिलाक्षस्य धत्तूरस्याथवोत्तरं श्वेतसरपुंख मूलं च वन्धयेत् शुक्र स्तंभनम्। शणमूलं सताम्बूलं यदि सुरसुन्नकं भक्षयेत् मैथुनात् पूर्व शुक्र स्तंभनम्। करञ्जं कोरयित्वा पारदेन प्रपुरयेत् वन्धनात् च कटौ सूत्रै शुक्रस्य धरणीतमम्। सुकरस्य तु तैलेन लाक्षा रसञ्जत श्वैतार्क तुलवत्त्र्य दीपं ज्वालयेत्। शुक्र स्तंभनम्। विष्णुक्रान्तामूलं कुसुमतैलं पचेत्। तेन पादतलं म्रक्षयेत् स्तंभनम्। सितकाकजंङामूलं सितपध्मकेशरमूला भिर्लेपात् शुक्र स्तभनम्। विष्णुक्रान्तामूलं पध्मपत्रेण वेष्टयित्वा कटौ वन्धयेत्। शुक्रस्तंभनम्। हरिताल पारद रसाञ्जन पिप्पली सैन्धव कुष्ठ पारावत विष्टां च पिष्ट्वा लिंगोदर्तनात् शुक्र स्तभनम्। उध्वं वलिवर्धश्वगं गृहय निघृष्य लिंग लेपयेत्। उध्र्व लिंगो भवति। कपिकच्छूमूलं दर्पिछाग मूत्रेण पिष्ट्वा लिंगं संलिप्यसंमर्धोत्पादयेत् वारत्रयं लेपयेत्। वारत्रयं स्तब्धलिंगो भवति। तत्पदक क्षालनात् शान्तिर्भवति। कपर्दकाभ्यन्तरे पारद पूरयित्वा मुखे स्वापयेत्। छाग मूत्रेण इन्द्रवारुणीं सप्ताहं भावयेत्। तेन उद्वर्तनात् स्तब्धं भवति लिंगम्। इवणामूल काकमाची मूलं धत्तूर वीजं कर्पुर जलेनपिष्ट्वा लिंग लेपयित्वा स्त्रीयं कामयेत् द्रवति। सैन्धव टङ्ण कर्पुर घोषक चूर्ण मधुना पिष्ट्वालिंग लेपात् तथा। पारावत पुरिषं मधुना पिष्ट्वा लिंगं प्रलिप्य कामयेत् क्षरति। काकमाची मूलं ताम्वूलेन सुरत क्षणे स्त्रीयं भक्षापयेत्। प्लक्ष तिन्तिलसिका सैन्धवेन मिश्री कृत्यस्वतर्जन्यङुलिं प्रलिप्य तस्या भगे प्रक्षिप्यवज्रधात्विस्वरी नाडी चालयेत्। यावत् सा क्षरति। कर्पूर टंकण पारद हस्तिपिप्पली मधुना लेपात् क्षरति स्त्री। रामदूतीमूलं सपत्रं चर्वयित्वा लिंगप्रक्षिप्य कामयेत्। क्षरतीजयन्त्यामूलं पिष्ट्वा तण्डुलोदकमिश्रितंरात्रौ योनी प्रलेपन वन्ध्या नारी नशंसयम्। पिष्ट्वा पलाशवीजं तु लेपयेत् मधु सर्पिवा पानात्च रक्तचित्रस्य वन्ध्या नारी नसंशयेत्। सलभपतंगचूर्ण योनौ दद्यात् गाढा भवति। साधनमालागृहाभिधानपत्राणि शठी यष्ठीमधुतथा। ब्राम्ही च मागधी चैव सक्षैद्रां भक्षयेतकृती॥
कन्ये भक्षयेत्। शयनकाले च पोटलिकां कृत्वा मुखेप्रक्षिप्य सूप्यात्। एतेन महाप्राज्ञो भवति। घृतं तगरमूलं च चक्रांकितं तथैवच। दंष्ट्राघाते प्रलेपेन पापेन च हरेद्विषम्॥
समुद्रजसौवीरस्य पानयोगात्व विषं नस्यति। श्वेतकरवीरकाष्ठं सप्तवारानभिमन्त्र्य भक्षयेत्अप्रार्थितमन्नं अनुलभते। अक्षिशूले सैन्धवं चूर्णयित्वा सप्तवारान्र अभिमन्त्र्यअक्षि भूरयेत् अक्षिशूलं अपनयति। गजविष्टोत्थितगज्र्जनसम्भवांछत्रिकायकिंशुकपत्रेवध्द्वा मृद्वन्गिना पक्त्वा शुष्कलापितां सुखोष्णां सैन्धवचूर्णकृत्वा सप्तवारां अभिमन्त्र्य कर्णौ पूरयेत्। तत्क्षणात् उपशमयेत्। प्रसवकाले स्त्रीयाः मूढ्गर्भायाः शूलादिभूताया आटरुषमूलंनिष्प्राणोदकेन पिष्ट्वा नाभिदेशे प्रलेपयेत् सुखेनप्रसवति। कष्टशल्यं वा पुरुषं पुराण घृतमष्टशतवारानअभिमन्त्र्य पाययेत् लेपयेच्च तत्प्रदेशंतत्क्षणादेव निःशल्यं भवति। अजीर्ण विसूचिका अतिसारे शूले च सौवर्चलंसैन्धवं वा लवणं सप्तवारं अभिमन्त्र्य भक्षयेत्। तस्मात् व्याधितो मूच्यते। तदहनि स्वस्थो भवति। प्रसवधर्मिण्या प्रसवकाक्षिण्या अश्वगन्धमूलंगव्य क्षीरेण पिष्ट्वा आलोढ्य पञ्चविंशति जपेनऋतुकाले पाययेत् परदारवर्जितेन स्वपत्नीमभिगच्छेत्जनयति सुतम्। अनेनैमन्त्रेण स्त्रीप्रदरादि रोगेषु अलम्बुषमूलक्षीरेण पिष्ट्वा अष्टशताभि मन्त्रितं कृत्वाक्षीरेण आलोढ्य पिवेत् स्वस्था भवति। अजाक्षीराभराभयाव्योषपाढोग्राशिग्रुसैन्धवैः। सिद्वं सारस्वतं सर्पिः पिवेत् सप्ताभिमन्त्रितम्॥
चतुर्गुणे अजाक्षीरे घृतप्रस्थं विपाचयेऔषधैः पलिकामात्रैः शनैमृद्वग्निना सुखीः॥
मासमयं प्रयुञ्जीत वाणीं प्राप्तोत्यनुत्तराम्। घण्मासोपयोगेन साक्षाद् वागीश्वरो भवेत्॥
मत्तकोकिलनिर्घोषो जायते मधुरस्वरः। संशयो नेह कर्त्तव्यो विचित्रा भावशक्तयः॥
व्राम्हीचूर्ण विडालपदमात्रमष्टशताभिमन्त्रितंप्रभाते मण्डलकं कृत्वा यथाविभवं भगवन्तं सम्पूज्यघृतेनारनालेन वा पिवेत्। वचामर्धतोलकप्रमाणंतथैवाभिमन्त्र्यघृतेनक्षीरेणतैलेन वा मासमैक पिवेत्। जडतागंदमूकत्वं विनश्यति। वण्मासेना अश्रुतान्यपिशास्त्राणिप्रत्यक्षीभवन्ति, न जातु विनश्यति। श्रुतिधरो मत्तकोकिल मधुरस्वर स्पष्टवाक्यो भवति। वज्रवाराही कल्पइन्द्रयव वचा कृष्ठं तगरं सर्षपं तथा। सूष्मैला नागपुष्पं च भागं सर्जरस्य च॥
एतेन धूपितं वस्तु शीघ्रं गच्छति विक्रयम्। बुध्दांगिरेष्ठ कालेण्ड निर्गुण्डी चात्रवल्गुजः। धत्तुरपत्रनिर्यास कस्तुरी चन्दनान्वितैः॥
उद्वेर्तयन्ति यः स्वांगे यच वालसमन्वितै। सर्व रोग विनिर्मुक्त निर्विषःस्यात् सकान्तिमान्। त्रिफला चन्दनोत्पत्पलचूर्ण शीतलयासहः। कस्तूर्या यः पिवेत् वर्ष सभवेत् निर्जरारुजःत्रिफला चन्दनं चूर्ण कस्तूर्यासह सेवयेत्। वण्मावमात्रं संसेव्यम् दीर्घायु स्यात् सरुपवान्॥
कस्तूरी त्रिफला युक्तं पाषाण पात्र संस्थितम्। यः पिवेत् सततं शीतं स भवेत् निर्जरारुजम्॥
कस्तूरी त्रिफला युक्तं पाषाण पात्र संस्थितम्। यः पिवेत् सततं शीतं स भवेत् निर्जरारुजम्॥
द्विकरवीरपुष्पाणी द्वे चन्दने तथाकुष्ठं द्विहरिद्रपुष्पं च पुष्पं दारुहरिद्रयोःउत्पलं च पध्मकेशरमेवच प्रियंगु शतपुष्पा श्वेतसिध्दासिध्दार्षकं तथानिर्गुण्डी भूतकेशी च रोचने त्रिकटुकं वानरवीजमेवचमनःशिला त्रिफला चैव उशीरं निम्वपत्रकंहरकरञ्जवीजं च हिंगु भल्लातकं तथापञ्चविंशति एतानि समभागानि कारयेत्। यवेदं गुटिकां कृत्वा आदित्येव प्रयोजयेत्उपवासपरो भूत्वा कृष्णाष्टम्यां विशेषतःपुष्पादित्यसंयुक्तेन पञ्चगष्येण पेशयेत्स्वेष्टदेवता वाचा जपेत् अष्टसहस्त्रकम्एवंपूर्ण विधानेन् प्रतिष्ठा होमं च पूजयेत्। ग्रहाणां अञ्जनं लेपं मस्तके पञ्च दापयेत्तक्षणात् सर्व दोषेसु मुच्यते नात्र शंसयःवालानां शिरसि लेपं निज्र्वरो भवेत्सभामध्ये विवादे च राजद्वारे ललाटे धारयेत्सजयो भवेत्। कुन्तले लेपयेत् स्त्रीवशो भवेत्। कन्या धारयेत् सुभगा भवति। दुष्ट प्रसवा नारीणां नाभियोनिषु लेपयेत् शीघ्रं प्रसुयति। सर्व कुष्ठ रोगेषु गोमूत्रेण प्रलेपयेत् स्वस्थो भवति। ऋतुकाले जात हारिणीनां पञ्चगव्येन सह पिवेत्गभांतिष्ठन्ति पुत्रवती भवति। रक्तशूलके तण्डुलोदकेन सह पिवेत्। शूलं प्रशाम्यति। चक्षूरोगेषु मस्तके लेपयेत्। चक्षुरोगं नाशयेत्। विषदंशकाले श्लेष्मणा लेपयेत्। चक्षुरोगं नाशयेत्। विषदंशकाले श्लेष्मणा लेपयेत्। निर्विषो भवति। पारावतपुरिषं च इन्द्रगोपः रसाज्जनं गुग्गुलत्वक नखं कुष्ठं कनकवीजं तथैवच एतेषां धूप गुडेनयोजित धूपोयं सर्व भाण्डानां सलाभो विक्रयो भवेत्। बलामूलं सप्तखण्डं कृत्वा हस्ते वध्वा ज्वरं नाशयेत्। अपामार्ग मूलं वध्वा चतुर्थक ज्वरं नाशयति। सप्तपर्ण काष्ठं गृहीत्वा द्वारमूले वामार्गे धारयेत्। मध्यं विनश्यति। उदृते मोक्षःपिशाचमूलं मुखे प्रक्षिप्य यावत् इच्छति तावत्लिंगं कर्मण्यम् भवति। नान्यथा प्रवदाम्यहम्। भूमिलता तिल तैलेन पचेत् पादतले क्षिपेत्। तद् भवति विदूवां सर्व कालं स्तब्धं विदुः। पाठा कटुरोहीणी अश्वगन्धाली चेतानीच समभागानि कारयेत्। विधिचैश्चमहाकृपः। अर्कक्षीरेण पृष्ट्वा तु तेनावर्तित लिंगकम्यत्प्रमाणं इच्छति च तत्प्रमाणं भवेत् इति। शीघ्रं उष्णोदकेन प्रक्षालयेत्। पूर्व प्रमाणं भवति। श्वेत पध्मकेशरं च श्वेत तिलं तथा परंनवनीतैकरवीरस्य मूल मधुनासह ततलेपं दत्वा तावत् लिंग नपतति। रजनीद्वयं संगृहय गावोगव्यं समा प्रस्वद्वयं क्वथितंयावत् प्रस्थमेकं भवति। एवं पित्वा सप्त दिवसे निष्पादयेत् रसायनम्। एवं योग वरं श्रेष्ठं सम्यक् वीरेण भावितम्। पञ्चरक्षा आर्यमहासहस्र प्रमर्दनीशिरीषपुष्पमपामार्गमगुरुकटकात्फलं। शैलेयमेदमञ्जिठा सुकरी मर्कटी जया॥
परिवेला वला करवीरा सामकं तगराम्बुना। चन्दनावर्तकं कुष्ठं नखपत्रं कंटवरा॥
प्रियंगु लोचनापृक्कां सर्वपाश्च मनःशिला। त्वचंच कुंकुमं हिंगु मन्त्रसंयुक्तवर्णकम्र॥
एवां च संयुतावर्तिः सर्वग्रह प्रमोचनी। सर्वभूताविकारेषु एवा नेत्राञ्जने स्मृता॥
गृहीता येन मुञ्चन्ति भूत वज्रांशान्ति शतैः। महावृक्षेषु लेप्तत्भं महाचैत्ये तथैव च॥
योही पश्यति तत्स्थानं भूतेभ्यो नभयं ततः। स्थानं न तत्र भूतानां नान्येवाअहितैषिणांम्॥
भेरीशंखमृदंगाश्च पणवांश्चापि लेपयेत्। यावच्छ्यतिःशद्वस्य त्रस्यन्ते भूतमण्डलाः॥
पक्षाणि लेपयेद्वापि पक्षिणां ग्रामचारिणाम्। यत्रासौ सज्जते पक्षी दिशंचापि दिगन्तरः॥
स्थानं नतत्र भूतानां नान्येषमहितैषिणाम्। उत्सहुदतडागेषु प्रक्षिपेद्यत्र तत्र वा॥
समन्ताद्याजनशतं स्वस्तिशान्ति भविष्यति। अपि शस्त्रनिपातेषु परचक्रसमागमे॥
सर्व मर्मेषु लेप्तष्यं स्वस्तिना चोत्तरिष्यति। गलगण्डेषु चार्श्र्षु वैशल्यं पिटकेषु च॥
अहिदंष्टे विषपीते क्षिप्रमेव विमुच्यते। एतेन लेपयेत् स्तोत्रं सर्वकारवोर्दछेदनम्॥
विवादो तारणं सिद्धं राजद्वर विमोचनम्। असिद्धः सिद्द्धिमाप्नोति ईश्वरत्वं मुनीश्वरः॥
अपुत्रो लभते पुत्रमधनो लभते धनम्॥
सम्वरोदयसोमः सिल्लक कस्तूरी भैषज्यं पीत चन्दनम्पृषक् पृथक् समस्तं वा जरा मरण वञ्चकम्। व्याधिध्नी मृगनाभि स्यात् भैषज्यं शान्तिकारकम्। चतुस्समो भवेत नित्यं प्रत्युषे सेवयेत् सदा॥
बुद्धांगारेष्ट कारण्ड निर्गुण्डी वातवल्गुजै। धत्तुरपत्र निर्यास कस्तूरी चन्दनान्धितै॥
उद्धर्तयति च स्वांगं चौर वाल समन्वितै। सर्वरोगविनिर्मुक्तो निर्विषः स्यात् सकान्तिमान्॥
त्रिफला चन्दनोत्पलं चूर्ण शीतलयासह। कस्तूर्या यः पिवेत् वर्ष सभवेत् निर्जरारुजः॥
त्रिफला चन्दनं चूर्ण कस्तूर्या सह सेवयेत्। षण्मावमात्रं संसेव्यम् दीर्घायु स्यात् सरुपवान्॥
कस्तूरी त्रिफलायुक्तं पाषाण पात्रसंस्थितं। यत्पिवेद् सततं शीतं सभवेत् निर्जरारुजः॥
चन्दनं त्रिकसायाद्यं षण्मासं भक्षयेत् नर। यत्तस्य जायते सिद्धिरिप्सिता नात्र संशयः॥
संपुदोद्भवसर्वतन्त्र निदान महाकल्पराज दशमःसूतकगन्धकश्चैव शैलेयेन समन्वितः। धृतेन संप्लवं कृत्वा योजयेत् सर्वकर्मषु॥
अथ तैल विधि वक्षे। नलिनी आज्यं वला आज्यंतैलश्चैवचतुसमं एते समसमायुक्तम्। असितहरिद्राकल्कं च वलातोय समन्वितम्। गुडुचिसार समुद्धृत्य गोक्षीरश्चसमन्तत अथविभागं कवयामि मे। चूर्णद्वाभिशत्पल गृह्य तोयंद्विगुणां तथा तावत् क्वाषयेत् यावत् सराव चतुस्तय। वलात्रयं त्रिधा साधयेत्। यथानुक्रमेण तैलात्चतुर्गुणांक्षीरं गुडुचि तद् अर्धस्य च एतत् अर्ध भवेत्कलकं पुर्वोक्तं द्रव्यै सह एकीकृत्य पचेत् मृदुनायदि अत्ययं तदा मध्यमं गुडुची वहिस्थिताम्। शिरोभ्यंगे खरं प्रोक्तं पाकत्रय परंहितः। नस्ये द्विपञ्चकं पलं पानेन शतपलं प्रोक्तम्। अभ्यगे अष्टोतर शतं तथा कुर्यात् योगी सुसमाहितः। सहास्त्रार्ध भवेत् नस्ये पेये पञ्चशतं तथा। शतत्रयं शिरोभ्यंगे मम वाक्यं नशसयम्। दिव्यरुपी भवति सुस्वरश्च प्रियो भवेत्। नित्यं सर्व शास्त्राविशारदः। दीप्तदेहोमहाद्युति सर्वविघ्न निकृन्तकः। वाकुचि उत्पल सारिलौह पुरिषा गन्धादु गुग्गुलसर्जरस कर्पूर मृगजोमद। एभिद्रव्यै पचेत् तैलं दिप्ती आरोग्यवर्द्धनम्। शिरोभ्यंगे वलिपलितहरम्। सर्वरोगा पनयनम्। भवति एव नशंसयम्। अथ उद्धर्तनतैलविधि वक्ष्ययेत्। तदेवतैल किन्तु रक्तापहा कनकदुमा च दृढप्ररोहासिन्धुवारै सह प्राग् उक्तविधिना मन्त्रीप्रसाधयेत् तोयम्। तदनु श्यामा प्रियंगु केशरी वकुल विलाधरी नागचक्रमर्दनी निशा अवनिकनक, शिखी प्रवरभूतानिपरहल्लभा मुक्तक शरमञ्जरी हेमतरु च वाकुचिधनं दारु सर्वरि। मञ्जष्ठा रोगेन्द्र नागवला श्वेत सर्वरोगापनयनकारी चन्दने द्वे मृगमदं कर्पूरं शल्लकी नखधूपगुड समायुक्त सर्वकाम प्रसाधक। कण्डू लुता विचर्चिका अंगजं विषं सर्व नाशयेत्। मम वाक्यं नशंसयम्। रजनीभवरजसिन्धूवारविहारेष्टकरेणुकनकपत्रनिर्याश कस्तूरी चतुसमं मतम्। चोरकोत्सुनासह नाश इति विविध रोगकृमीकुष्ठं विषजोदभवम्। किं पुनर्वाकुचि सह उर्द्धतन विधि।