06 षष्ठं कोशस्थानम्

षष्ठं कोशस्थानम् ॐ नमो बुद्धाय॥

क्लेशप्रहाणामाख्यातं सत्यदर्शनभावनात्।
द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः॥१॥

सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा।
निरोधमार्ग इति एषां यथाऽभिसमयं क्रमः॥२॥

दुःखा स्त्रिदूःखतायोगाद्यथायोगमशेषतः।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः॥३॥

यत्र भिन्नेन तद्‍बुद्धिरन्यापोहे धिया च तत्।
घटार्थवत्संवृतिसत् परमार्थसदन्यथा॥४॥

वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते।
नामोभयार्थविषया श्रुतमय्यादिका धियः॥५॥

व्यपकर्षद्वयवतः नासंतुष्टमहेच्छयोः।
लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छता॥६॥

विपर्यासात्तद्विपक्षौ त्रिधात्वाप्तामलौ च तौ।
अलोभः आर्यवंशाश्च तेषां तुष्टयात्मकास्त्रयः॥७॥

कर्मान्तेन त्रिभिर्वृत्तिः तृष्णोत्पादविपक्षतः।
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये॥८॥

तत्रावतारोऽशुभया चानापानस्मृतेन च।
अधिरागवितर्काणाम् शंकला सर्वारागिणाम्॥९॥

आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः।
पादास्थ्न आकपालार्धत्यागात् कृतजयः स्मृतः॥१०॥

अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात्।
अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा॥११॥

आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा।
कामाश्रया न बाह्यानाम् षड् विधा गणनादिभिः॥१२॥

आनापानौ यतः कायः सत्त्वाख्यौ अनुपात्तकौ।
नैःष्यन्दिकौ नाधरेण लक्ष्येते मनसा च तौ॥१३॥

निष्प्रन्नशमथः कुर्यात् स्मृत्युपस्थानभावनाम्।
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात्॥१४॥

प्रज्ञा श्रुतादिमयी अन्ये संसर्गालम्बनाः क्रमः।
यथोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः॥१५॥

स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः।
आनित्यदुःखतः शून्यानात्मतस्तान्विपश्यति॥१६॥

तत ऊष्मगतोत्पत्तिः तच्चतुःसत्यगोचरम्।
षोडशाकारम् ऊष्मभ्यो मूर्धानः तेऽपि तादृशाः॥१७॥

उभयाकरणं धर्मेण अन्यैरपि तु वर्धनम्।
तेभ्यः क्षान्तिः द्विधा तद्वत् क्षान्त्या धर्मेण वर्धनम्॥१८॥

कामाप्तदुःखविषया त्वधिमात्रा क्षणं च सा।
तथाग्रधर्माः सर्वे तु पञ्चस्कन्धाः विनाप्तिभिः॥१९॥

इति निर्वेधभागीयं चतुर्धा भावनामयम्।
अनागम्या न्तरध्यानभूमिकम् द्वे त्वधोऽपि वा॥२०॥

कामाश्रयाणि अग्रधर्मान् द्वयाश्रयान् लभतेऽङ्गना।
भूमित्यागात्त्यजत्यार्यस्तानि अनार्यस्तु मृत्युना॥२१॥

आद्ये द्वे परिहाण्या च मौलेस्तत्रैव सत्यदृक्।
अपूर्वाप्तिर्विहीनेषु हानी द्वे असमन्वितिः॥२२॥

मूर्धलाभी न मूलच्छित् क्षान्तिलाभ्यनपायगः।
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात् त्रीण्यपीतरः॥२३॥

आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः।
प्राक्तेभ्यो मोक्षभागीयं क्षिप्रं मोक्षस्त्रिभिर्भवैः॥२४॥

श्रुतचिन्तामयं त्रीणि कर्माणि आक्षिप्यते नृषु।
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा॥२५॥

कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः।
शेषे दुःखेऽन्वयक्षान्तिज्ञाने सत्यत्रये तथा॥२६॥

इति षोडशचित्तोऽयं सत्याभिसमयः त्रिधा।
दर्शनालम्बकार्याख्यः सोऽग्रधर्मैकभूमिकः॥२७॥

क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम्।
अदृष्टदृष्टेर्दृङ्ग्‍मार्गस्तत्र पञ्चदश क्षणाः॥२८॥

मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ।
अहीनभावनाहेयौ फलाद्युप्रतिपन्नकौ॥२९॥

यावत् पञ्चप्रकारघ्नौ द्वीतीयेऽर्वाङ्‍नवक्षयात्।
कामाद्विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ॥३०॥

षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः।
श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदा॥३१॥

फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यतः।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः॥३२॥

नवप्रकारा दोषा हि भूमौ भूमौ तथा गुणाः।
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः॥३३॥

अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः।
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः॥३४॥

आपञ्चमप्रकारघ्नो द्वितीयप्रतिपन्नकः।
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः॥३५॥

क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः।
तृतीयप्रतिपन्नश्च सोऽनागामि नवक्षयात्॥३६॥

सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः।
ऊर्ध्वस्त्रोताश्च स ध्याने व्यवकीर्णोऽकनिष्ठगः॥३७॥

स प्लुतोऽर्धप्लुतः सर्वच्युतश्च अन्यो भवाग्रगः।
आरूप्यगश्चतुर्धान्यः इह निर्वापकोऽपरः॥३८॥

पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः।
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः॥३९॥

ऊर्ध्वस्त्रोतुरभेदेन सप्त सद्‍गतयो मताः।
सदसद्‍वृत्त्यवृत्तिभ्यां गताप्रत्यागतेश्च ताः॥४०॥

न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः।
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक्॥४१॥

आकीर्यते चतुर्थ प्राक् निष्पत्ति क्षणमिश्रणात्।
उपपत्तिविहारार्थ क्लेशभीरुतयाऽपि च॥४२॥

तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः।
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः॥४३॥

आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः।
नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः॥४४॥

तत्‍क्षयाप्त्या क्षयज्ञानं आशैक्षोऽर्हन्नसौ तदा।
लोकोत्तरेण वैराग्यं भवाग्रात् अन्यतो द्विधा॥४५॥

लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा।
लोकोत्तरेण चेत्येके त्यक्ते क्लेशासमन्वयात्॥४६॥

भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः।
अनास्रवेण वैराग्यमनागाम्येन सर्वतः॥४७॥

ध्यानात्सामन्तकाद्वाऽन्त्यो मुक्ति मार्गस्त्रिभूजये।
नोर्ध्वं सामन्तकात् आर्यैरष्टाभिः स्वोर्ध्वभूजयः॥४८॥

विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम्।
शान्ताद्युदाराद्याकाराः उत्तराधरगोचराः॥४९॥

यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः न चेत्।
क्षयज्ञानमशैक्षो वा दृष्टिः सर्वस्य साऽर्हतः॥५०॥

श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम्।
एकान्नवतिस्तानि मुक्तिमार्गाः सह क्षयैः॥५१॥

चतुष्फलव्यवस्था तु पञ्चकारणसंभवात्।
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले॥५२॥

ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना।
लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम्॥५३॥

ब्राह्मण्यं ब्रह्मचक्रं च तदेव ब्रह्मवर्तनात्।
धर्मचक्रं तु दृङ्मार्गः आशुगत्वाद्यरादिभिः॥५४॥

कामे त्रयाप्तिः अन्त्यस्य त्रिषु नोर्ध्व हि दृक्पथः।
असंवेगादिह विधा तत्र निष्ठेति चागमात्॥५५॥

षडर्हन्तो मताः तेषां पञ्च श्रद्धाधिमुक्तिजाः।
विमुक्तिः सामयिक्येषाम् अकोप्याकोप्यधर्मणः॥५६॥

अतोऽसमयमुक्तोऽसौ दृष्टिप्राप्तान्वयश्च सः।
तद्‍गोत्रा आदितः केचित्केचिदुत्तापनागताः॥५७॥

गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः न पूर्वकात्।
शैक्षानार्याश्च षड्गोत्राः संचारो नास्ति दर्शने॥५८॥

परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः।
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा॥५९॥

म्रियते न फलभ्रष्टः तदकार्य करोति न।
विमुक्त्यानन्तर्यपथा नवाकोप्ये अतिसेवनात्॥६०॥

दृष्टयाप्ततायामेकैकः अनास्रवाः नृषु वर्धनम्।
अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षट् यतः॥६१॥

सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन्।
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः॥६२॥

प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः।
पुद्‍गलाः सप्त षट् त्वेते द्वौ द्वौ मार्गत्रये यतः॥६३॥

निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः।
समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते॥६४॥

अशैक्षपरिपूर्णत्वं द्वाभ्याम् मार्गः समासतः।
विशेषमुक्त्यानन्तर्यप्रयोगाख्य श्चतुर्विधः॥६५॥

ध्यानेषु मार्गः प्रतिपत्सुखा दुःखाऽन्यभूमिषु।
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु॥६६॥

अनुत्पादक्षयज्ञाने बोधिः तादनुलोम्यतः।
सप्तत्रिंशत्तु तत्पक्ष्याः नामतो द्रव्यतो दश॥६७॥

श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे।
प्रश्रब्धिशीलसंकल्पाः प्रज्ञा हि स्मृत्युपस्थितिः॥६८॥

वीर्यं सम्यक्‍प्रहाणाख्यमृद्धिपादाः समाधयः।
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते॥६९॥

आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम्॥७०॥

अनास्रवाणि बोध्यङ्गमार्गाङ्गानि द्विधेतरे।
सकलाः प्रथमे ध्याने अनागम्ये प्रीतिवर्जिताः॥७१॥

द्वितीयेऽन्यत्र संकल्पात् द्वयोस्तद्‍द्वयवर्जिताः।
ध्यानान्तरे च शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु॥७२॥

कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः।
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः॥७३॥

लाभो मार्गाभिसमये बुद्धतत्संघयोरपि।
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः॥७४॥

मार्गश्च द्रव्यतस्तु द्वे श्रद्धा शीलं च निर्मलाः।
नोक्ता विमुक्तिः शैक्षाङ्गं बद्धत्वात् सा पुनर्द्विधा॥७५॥

असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता।
साङ्गः सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदिता॥७६॥

विमुच्यते जायमानसशैक्षं चित्तमावृतेः।
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम्॥७७॥

असंस्कृतैव धात्वाख्या विरागो रागसंक्षयः।
प्रहाणधातुरन्येषां निरोधाख्यस्तु वस्तुनः॥७८॥

निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः विरज्यते।
सर्वैर्जहाति यैः एवं चतुष्कोटिकसंभवः॥७९॥

अभिधर्मकोशे मार्गपुद्‍गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति॥