तृतीयोऽध्यायः।
चतुर्थपादः।
[150] सत्त्वाख्योपद्रवाभावान्न चतुर्थेऽस्ति सूत्रतः।
विमानस्य सम(स)त्वस्य प्रध्वंसान्नित्यता कुतः॥
[151] सप्त तेजोभिरेकाऽद्भिर्गतेऽद्भिः सप्तके पुनः।
तेजसा सप्तकान्त्यैका वायु[संवर्तनी ततः]॥
[152] आग्नेयात्सप्तकादेक[:] पावनीकिमनन्तरम्।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम्॥
[153] वातादिदोषसाधर्म्या[त्सत्त्वा]णा(नां) [तद्विनाशकाः]।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तणी(नी) मता॥
अभिधर्मदीपे [विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्य च] तुर्थः पादः समाप्तः॥
[तृतीयोऽध्यायः समाप्तः]॥