अष्टमो बिन्दुः परिशुद्धेन्द्रियाणि १। रागद्वेषमोहैश्चित्तसंप्रयोगो नाम क्लेशः स उच्यते संयोजनं। (तत्-)परिहातुकामस्य (त्रिविधं भवति प्रहाणं)। विष्कंभण(-प्रहाणं)। (तदंग-)प्रहाणं। प्रज्ञया समुच्छेद (-प्रहाणं)च॥
विष्कंभण (-प्रहाणं)कतमत्। अप्राप्तेऽनास्रवचित्ते शीलग्रहणभावनभ्यां स्थापयति रागद्वेषमोहान् चित्तं भवत्यनुपादानमिति विष्कंभण (प्रहाणं)॥
(तदंग)प्रहाणं कतमत्। प्राप्य ध्यानसमाधिं परित्यजति कामदुश्चरितमकुशलधर्मांश्चेति (तदंग)प्रहाणं॥
प्रज्ञया समुच्छेदप्रहाणं कतमत्। प्रबुद्धमते दुःखमालंब्य भावयतः (क्लेश)समुच्छेद इति (प्रज्ञया)समुच्छेद(प्रहाणं)। यथा विष्कंभण(काले)यथा वा (तदंग)प्रहाणकले (चित्तस्य)विशुद्धिर्नापि वा विशुद्धिः (न तथा समुच्छेदप्रहाणकाले)। अनास्रवप्रज्ञया प्रहाणं तु विशुद्धिरेव॥
२। द्वाविंशतिरिन्द्रियाणि। (तत्र)बाह्यायतनानि (षोडश)। पुरुषेन्द्रियं स्त्री जीवित दुःख सुख दौर्मनस्य सौमनस्य उपेक्षा श्रद्धा स्मृति समाधि प्रज्ञा आज्ञास्यामि आज्ञा आज्ञातावीन्द्रियं। अध्यात्मिकानि षडिन्द्रियाणि यथा पूर्वमुक्तानि॥
पुंलक्षणं पुरुषविज्ञानमिति पुरुषेन्द्रियं। स्त्रीलक्षणं स्त्रीविज्ञानमिति स्त्रीन्द्रियं। त्रैधातुकजीवनलक्षणमिति जीवितेन्द्रियं। पंच विज्ञानसंयुक्ता सुखा वेदनेति सुखेन्द्रियं। पंचविज्ञानसंप्रयुक्ता दुःखा वेदनेति दुःखन्द्रियं। मनोविज्ञानसंप्रयुक्ता सुखा वेदनेति सौमनस्येन्द्रियं। मनोविज्ञानसंप्रयुक्ता दुःखा वेदनेति दौर्मनस्येन्द्रियं। षड्विज्ञानसंप्रयुक्ता अदुःखाऽसुखा वेदनेत्युपेक्षेन्द्रियं। सर्वकुशलधर्मेषु श्रद्धानमिति श्रद्धेन्द्रियं। एवं वीर्य-स्मृति-समाधि-प्रज्ञेन्द्रियाणि। दृढश्रद्धादृढधर्ममार्गसंग्राहकाणि अनास्रवाणि नवेन्द्रियाणीत्याज्ञास्यामीन्द्रियं। श्रद्धाविमोक्षदर्शनमार्गसंग्राहकाणि अनास्रवाणि नवेन्द्रियाणीत्याज्ञेन्द्रियं। अशैक्षमार्गसंग्राहकाणि अनास्रवनवेन्द्रियाणि आज्ञातावीन्द्रियं॥
३। इन्द्रियार्थः कतमः। बलवत्त्वं पटुत्वं चेति इन्द्रियार्थः। षडुपलब्धिपुरुषस्त्रीजीवितेन्द्रियाणि नव लोकधातौ बलवन्ति पटूनि च। पंच वेदनेन्द्रियाणि (सुखं सौमनस्यं दुःखं दौर्मनस्यमुपेक्षा चेति)क्लेशोत्पादे बलवन्ति पटूनि च। श्रद्धादिपंचेन्द्रियाणि कुशलधर्मेषु बलवन्ति पटूनि च। त्रीण्यनास्रवाणीन्द्रियाणि (आज्ञास्यामि-आज्ञा-आज्ञातावी चेति)मार्गप्राप्तिहेतुत्वान्मार्गे बलवन्ति पटूनि च। सर्वेन्द्रियाणां पृथक्पृथक् स्वं बलं भवति पाटवं च॥
४। द्वाविंशतीन्द्रियेषु कति कामधातुप्रतिसंयुक्तानि कति रूपारूप्यधातुप्रतिसंयुक्तानि कत्यप्रतिसंयुक्तानि॥
चत्वारीन्द्रियाणि कामधातु प्रतिसंयुक्तानि। पुरुषस्त्रीदुःखदौर्मनस्येन्द्रियाणि॥
पंचेन्द्रियाणि कामरूपधातुप्रतिसंयुक्तानि। चक्षुःश्रोत्रघ्राणजिह्वाकायेन्द्रियाणि॥
सास्रवे सुखसौमनस्येन्द्रिये कामरूपधातुप्रतिसंयुक्ते॥
सास्रवाणि उपेक्षामनोजीवितेन्द्रियाणि श्रद्धादीनि च पंचेन्द्रियाणि सकलत्रिधातुप्रतिसंयुक्तानि। अनास्रवाणि मन इन्द्रियमुपेक्षेन्द्रियं सुखसौमनस्येन्द्रिये श्रद्धादीनि पंचेन्द्रियाणि अप्रतिसंयुक्तानि। एतानि नवेन्द्रियाणि त्रिभिरनास्रवेन्द्रियैः आज्ञास्यामीन्द्रियाज्ञेन्द्रियाज्ञातावीन्द्रियैः सहाधिष्ठानानि॥
५। द्वाविंशतीन्द्रियेषु कत्युपात्तानि कत्यनुपात्तानि। सुखादिपंचेन्द्रियाणि श्रद्धादिपंचेन्द्रियाणि मन इन्द्रियं त्रीण्यनास्रवेन्द्रियाणि च भवन्त्यनुपात्तानि। अवशिष्टान्यन्यानीन्द्रियाणि भवन्ति उपात्तानि वा अनुपात्तानि वा॥
६। द्वाविंशतीन्द्रियेषु कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि। अष्टाविन्द्रियाणि कुशलानि श्रद्धादीनि पंच त्रीणि चानास्रवाणि। अष्टावव्याकृतानि चक्षुरादिपंचेन्द्रियाणि पुरुषस्त्रीजीवितेन्द्रियाणि च। षष्ठं (मन इन्द्रियं)विवेक्ष्यमाणं। मन इन्द्रियं सुखादीनि पंच वेदनेन्द्रियाणि भवन्ति कुशलानि वा अकुशलानि वा अव्याकृतानि वा॥
७। द्वाविंशतीन्द्रियेषु कति सास्रवाणि कत्यनास्रवाणि। श्रद्धादीनि पंच सुखं सौमनस्यमुपेक्षा मनश्च भवन्ति सास्रवाणि वा अनास्रवाणि वा। पश्चिमानि त्रीण्येकधानास्रवाण्येव। दशेन्द्रियाणि सास्रवाणि चक्षुः श्रोत्रं घ्राणं जिह्वा कायः पुरुषः स्त्री जीवितं दौर्मनस्यं दुःखं चेति॥
८। त्रियोनिजातिः प्रतिलभते द्वे इन्द्रिये कायेन्द्रियं जीवितेन्द्रियं च। औपपादुकजातेः षट् सप्त अष्टौ वा (इन्द्रियाणि। तथाहि। )अलिंगानां षट्। एकलिंगानां सप्त। द्विलिंगानामष्टौ चक्षुरादीनि पंच जीवितस्त्रीपुरुषेन्द्रियाणि च। अवशिष्टानामिन्द्रियाणां क्रमेण प्रतिलाभः। रूपधातौ प्रथमं षडिन्द्रियाणां प्रतिलाभः पंचानां वेदनेन्द्रियाणां जीवितेन्द्रियस्य च। अरूपधातौ प्रथमं केवलस्य जीवितेन्द्रियस्य प्रतिलाभः॥
कामधातौ अव्याकृतचित्तस्य (पुद्गलस्य)क्रममृत्यौ (इन्द्रियाणि निरुध्यन्ते)चत्वारि। अष्टौ वा। नव वा। दश वा॥
अकुशलचित्तस्य मृत्यौ नव। त्रयोदश वा। चतुर्दश वा। पंचदश वा॥
९। द्वाविंशतीन्द्रियेषु कति सत्यदर्शनहेयानि कति भावनाहेयानि कत्यहेयानि। चत्वारि इन्द्रियाणि सत्यदर्शनहेयानि वा भावनाहेयानि वा अहेयानि वा (कतमानि चत्वारि। )मनःसुखसौमनस्योपेक्षेन्द्रियाणि। दौर्मनस्येन्द्रियं सत्यदर्शनहेयं वा भावनाहेयं वा। श्रद्धादीनि पंचेन्द्रियाणि भावनाहेयानि वा अहेयानि वा। त्रीण्यनास्रवेन्द्रियाणि अहेयानि। अवशिष्टानीन्द्रियाणि भावनाहेयानि॥
[इत्यभिधर्मामृतशास्त्रे परिशुद्धेन्द्रियनिर्देशो नामाष्टमो बिन्दुः॥
]