सप्तमो बिन्दुः प्रतीत्यसमुत्पादः १। द्वादश प्रत्ययाः। अविद्या संस्काराः विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरामरणं॥
२। एते द्वादश प्रत्यया स्त्रिविधा भवन्ति। क्लेशः कर्म दुःखं च॥
क्लेश स्त्रिविधः। अविद्या तृष्णा उपादानं च॥
द्विविधं कर्म। संस्काराः भवश्च॥
सप्तविधं दुःखं। विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणं च॥
द्वौ (प्रत्ययौ)अतीतसंगृहीतौ। द्वौ (प्रत्ययौ)अनागतसंगृहीतौ। अष्टौ (प्रत्ययाः)प्रत्युत्पन्नसंगृहीताः॥
३। क्लेश कर्महेतुः। कर्म दुःखहेतुः। दुःखं क्लेशहेतुः। क्लेशः क्लेशहेतुः। क्लेशः कर्महेतुः। कर्म दुःखहेतुः। दुःखं दुःखहेतुः। इत्येवं क्रमेणोत्पादः॥
४। अतीताविद्यासहकृतसर्वक्लेशसंप्रयुक्ता भवत्यविद्या॥
एतां प्रतीत्य क्रियते कर्म। कर्मकरणाद् भवति लोकफलं। इत्युच्यते संस्कारः॥
एतान् संस्कारान् प्रतीत्य संक्लिष्टं चित्तं लभते कायेन्द्रियविज्ञानानि। तथाहि। वत्सः विजानाति मातरं। इति विज्ञानं॥
एतद्विज्ञानसहजाश्चत्वारोऽरूपिस्कंधाः (तत्-)संतानजं चापि रूपम् - इति नामरूपं॥
चक्षुरादीन्द्रियगोचराश्रयं भवति षडायतनं॥
इन्द्रियविषयविज्ञानानां संनिपाताद् भवति स्पर्शः॥
स्पर्शाज्जायते वेदना - इति वेदना॥
वेदनासंगेन भवति तृष्णा॥
तृष्णायाः क्लेशेणोद्यम इत्युपादानं॥
उद्यमेन करोति कर्मेति भवः॥
अनागतफलमुच्यते जातिः॥
जातिरुत्पादयति दुःखमपरिमेयमिति जरामरणं॥
५। पुनः खलु न जानात्यविद्या चत्वारि सत्यानि। अध्यात्मबहिर्धा धर्मान् अतीतानागतप्रत्युत्पन्नबुद्धधर्मान् सर्वहेतुप्रत्ययान् एवंभूतान् विविधान् सत्यधर्मान् न जानातीत्युच्यतेऽविद्या॥
६। मूढः पुद्गल श्चरति त्रिविधां चर्यां। शुभचर्यां अशुभचर्यां अक्षोभ्यचर्यां॥
कतमा शुभाचर्या। यया प्राप्यते कुशलफलं॥
कतमा अशुभचर्या। यया प्राप्यतेऽकुशलफलं॥
कतमा अक्षोभ्यचर्या। रूपारूपधातूपपत्तिः॥
७। पुनः खलु दानं शीलं ध्यानं (नाम शुभचर्या)॥
दानं कतमत्। दानं द्विविधं। प्रथममामिषदानं द्वितीयं धर्मदानं॥
पंचविधं शीलग्रहणं। गृह्णाति चेच् छीलं यावदन्तं। व्यवदानयत्यकुशलचित्तमलम्। सर्वदा स्मृतः,संप्रजन्यः,न गवेषयन्ति लोकफलम्॥
ध्यानं (नाम)अशुचिभावना आनापानादिस्मृतिः सर्वसास्रवकुशलसमाधिधर्माः॥
इति शुभचर्या॥
८। अशुभचर्या (पुनः)कतमा। त्रीण्यकुशलमूलानि दशकुशलकर्मपथादयो विविधानि पापानीत्युच्यतेऽशुभचर्या॥
अक्षोभ्याचर्या (पुनः)कतमा। प्रथमध्यानाद् यावत् नैव संज्ञानासंज्ञा(यतन)समाधिरित्युच्यतेऽक्षोभ्यचर्या॥
९। त्रैहेतुकसास्रवविज्ञानमुपादाय प्रथमाद् यावत् सप्तमं भवम् - इत्युच्यते विज्ञानं। विज्ञानाद् भवति नामरूपं। वेदनासंज्ञासंस्कारविज्ञानस्कंधा इति नाम। चत्वारि महाभूतानि तत्कृतं रूपं चेति रूपं। नामरूपाज्जायते षडायतनं। षडायतनाज्जायते स्पर्शः। स्पर्शः षड्विधः कायोत्थप्रतिघ-मानसोत्थाधिवचन (-भेदेन)द्विप्रकारः। षड्विज्ञानविकल्पहेतोः षड्विधः स्पर्शः॥