तृतीयो बिन्दुः स्थित्याहारभवाः १। चतस्रो विज्ञानस्थितयः। कतमाश्चतस्रः। रूप (विज्ञानस्थितिः)वेदना (विज्ञानस्थितिः)संज्ञा (विज्ञानस्थितिः)संस्कार(विज्ञानस्थितिश्च)। कामधातौ रूपधातौ च भूयो रूपालम्बना विज्ञानस्थितिः। आकाशानन्त्यायतने विज्ञानानन्त्यायतने च भूयो वेदनालम्बना विज्ञानस्थितिः। आकिंचन्यायतने भूयः संज्ञालम्बना विज्ञानस्थितिः। नैव संज्ञानासंज्ञायतने भूयः संस्कारालम्बना विज्ञानस्थितिः॥
२। सत्त्वस्थितिवृद्धिहेतव आहाराश्चतुर्विधाः। आहाराश्चत्वारः कतमे। कवलीकार आहारः प्रथमः। स्पर्शाहारो द्वितीयः। मनःसंचेतनिकाहारस्तृतीयः। विज्ञानाहारश्चतुर्थः॥
३। कवलीकाराहारस्य त्रिषु गंधरसस्पर्शायतनेषु संग्रहः। कस्माद्रूपायतने न संग्रहः। यस्माच्चक्षुर्दर्शनाहारेण सत्त्वनिकायस्य महाभूतानां नोपचयस्तस्मात्॥
४। कवलीकाराहारो द्विविधः। खरो मृदुश्च। कतमः खरः। सर्वो हि भक्तापूपादिः। कतमो मृदुः। पेयं सुरभिकायानुविलेपनादि॥
५। कतमः स्पर्शाहारः। चक्षुः स्पर्शाहारः श्रोत्र घ्राण जिह्वा कायस्पर्शाहारः। सास्रवमनःस्पर्शाहारश्च। (त इमे)सन्तानानुच्छेदेन परेऽपि लोके प्रवर्तन्ते॥
६। पक्षिणां हंसादीनां भूयः स्पर्शाहारः। जलकीटाण्डजमत्स्यादीनां भूयो मनःसंचेतनिकाहारः। नैवसंज्ञानासंज्ञायतनान्तराभवसत्त्वानां भूयो विज्ञानाहारः॥
७। कामधातौ भूयः कवलोकाराहारः। (अन्ये)त्रय आहारा भूयसा रूपारूपधात्वोः॥
८। आद्यः कवलीकाराहारः खरः। स्पर्शाहारो मृदुः। मनःसंचेतनिकाहारो मृदुतरः। विज्ञानाहारो मृदुतमः॥
९। चतुर्विधाः सत्त्वाः। अंडजा जरायुजाः संस्वेदजा औपपादुकाः। नरका देवा अन्तराभवाश्चेति सर्व औपपादुकाः। प्रेतानामसुराणां च द्विविधं जन्म जरायुजमौपपादुकं च। अन्येषां सत्त्वानां चतुर्विध जन्म॥
औपपादुकाः सत्त्वा युगपल्लभन्ते षडिन्द्रियाणि। अन्यासु तिसृषूपपत्तिषु कायेन्द्रियजीवेन्द्रिययोः प्रथमं लाभः। अन्येषामिन्द्रियाणां क्रमेण लाभः॥
१०। चत्वारो भवाः। उपपत्तिभवः। मृत्युभवः। मूलभवः। अन्तराभवः॥
११। मृत्युपपत्त्योरन्तरे (वर्तमानाः)सूक्ष्माः पंचस्कन्धा अन्तराभवो नाम। अन्तराभव उपपत्तिभवश्च तुल्यमुद्रावर्णौ तथाहि पिता पुत्रश्च॥
१२। अरूपधातुं विहायान्यधातुसत्त्वा लभन्तेऽन्तराभवं॥
अरूपधातुसत्त्वाश्च्यवन्तः कामधातावुत्पत्स्यमाना लभन्तेऽन्तराभवं॥
तथा ह्यनागामिभवेऽन्तराभवः। अन्यासूपपत्तिष्वप्येवमन्तराभवोपपत्तिभवौ॥
[इत्यभिधर्मामृतशास्त्रे स्थित्याहारभवनिर्देशो नाम तृतीयो बिन्दुः॥
]